भाषा

ENहिગુ
ग्रंथ पाठ

योगशतक · श्लोक 101-111

101

एतानि लिङ्गानि च तत्कृतानां सर्वामयानाम् अपि नैकनाम्नाम् ।
कश्चिद् भवेत् प्राप्तिविशेष एषां संज्ञान्तरं येन तु संप्रयान्ति

102

आलस्यतन्द्राहृदयाविशुद्धिदोषाप्रवृत्तिक्षुदभावमूत्रैः ।
गुरूदरत्वारुचिसुप्तताभिर् आमान्वितं व्याधिम् उदाहरन्ति

103

स्निग्धोष्णस्थिरवृष्यबल्यलवणस्वाद्वम्लतैलातप-
स्नानाभ्यञ्जनवस्तिमांसमदिरासंवाहनोन्मर्दनैः ।
स्नेहस्वेदनिरूहनस्यशमनस्नेहोपनाहादिकं
पानाहारविहारभेषजम् इदं वातप्रशान्तिम् नयेत्

104

तिक्तस्वादुकषायशीतपवनच्छायानिशावीजनं
ज्योत्स्नाभूगृहयन्त्रवारिजलदस्त्रीगात्रसंस्पर्शनम् ।
सर्पिःक्षीरविरेकसेकरुधिरस्रावप्रदेहादिकं
पानाहारविहारभेषजम् इदं पित्तं प्रशान्तिं नयेत्

105

रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्टीवनं
स्त्रीसेवाध्वनियुद्धजागरजलक्रीडापदाघातनम् ।
धूमात्युष्णशिरोविरेकवमनस्वेदोपवासादिकं
पानाहारविहारभैषजम् इदं श्लेष्मानम् उग्रं जयेत्

106

आमं जयेल् लङ्घनकोलपेयालघ्वन्नसूपोदकतिक्तयूषैः ।
विरूक्षणस्वेदनपाचनैश् च संशोधनैर् ऊर्ध्वम् अधस् तथा च

107

हेमन्तवर्षाशिशिरेषु वायोः पित्तस्य तोयान्तनिदाघयोश् च ।
कफस्य कोपः कुसुमागमे च कुर्वन्ति तद् वै विहितं यथैषाम्

108

कफस्य कोपे वमनं सनस्यं विरेचनं पित्तभवे विकारे ।
वातात्मके वस्तिम् उदाहरन्ति संसर्गजे ऽपि व्यतिमिश्रम् एतत्

109

वातो ऽम्लतैललवणैर् मधुरान्नपानैः पित्तं तथा मधुरतिक्तकषायशीतैः ।
श्लेष्मापि तिक्तकटुरूक्षकषायतीक्ष्णैर् आमं प्रशान्तिम् उपयान्त्य् अपतर्पणेन

110

बुद्ध्वैतद् अन्यद् अपि यत् तद् अनुक्तम् अत्र युक्त्या स्वयं समधिगम्य यथानुरूपम् ।
रोगेषु भेषजम् अनल्पमतिर् विदध्याच् छास्त्रं हि किंचिद् उपदेशलवं करोति

111

गुणाधिकं योगशतं निबध्य प्राप्तं मया पुण्यम् अनुत्तरं यत् ।
नानाप्रकारामयनीडभूतं कृत्स्नं जगत् तेन भवत्व् अरोगम्

मूल पाठ: Yogaśataka · Edition: Heinz Helmuth Michael Schmidt: Das Yogaśata : Ein Zeugnis altindischer Medizin, Sanskrit und Tibetisch, Bonn 1978 (Diss.). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc