योगशतक · श्लोक 41-60
सर्पिर् गुडूचीवृषकण्टकारीक्वाथेन कल्केन च सिद्धम् एतत् ।
पेयं पुराणज्वरकासशूलश्वासाग्निमान्द्यग्रहणीगदेषु
वृषखदिरपटोलपत्रनिम्बत्वगमृततामलकीकषायकल्कैः ।
घृतम् अभिनवम् एतद् आशु सिद्धं जयति विसर्पमदाश्रकुष्ठगुल्मान्
त्वङ्मांसशोणितगतैर् दोषैः प्रकुपितैर् जनितः
सर्वाङ्गशारीरशोषविशेषो विसर्पः ।
मदो मद्यात्मो मद्यपानजनितविकारः
अमृतापटोलपिचुमर्दधावनीत्रिफलाकरञ्जवृषकल्कवारिभिः ।
घृतम् उत्तमं विधिविपक्वम् आदृतः प्रपिबन्न् इदं जयति कुष्ठम् आतुरः
खण्डान् कुष्माण्डकानाम् अथ पचनविधिस्विन्नशुष्काज्यभृष्टान्
न्यस्येत् खण्डे विपक्वे समरिचमगधाशुण्ठ्यजाजीत्रिगन्धान् ।
लेहो ऽयं बालवृद्धानिलरुधिरकृशस्त्रीप्रसक्तक्षतानां
तृष्णाकासास्रपित्तश्वसनगुदरुजाछर्दितानां च शस्तः
विपाच्य मूत्राम्ब्लमधूनि दन्तीपिण्डीतकृष्णाविडधूमकुष्ठैः ।
वर्तिं कराङ्गुष्ठनिभां घृताक्तां गुदे रुजानाहहरीं विदध्यात्
सशर्करं कुङ्कुमम् आज्यभृष्टं नस्यं विधेयं पवनासृगुत्थे ।
भ्रूकर्णशङ्खाक्षिशिरोऽर्धशूले दिनाभिवृद्धिप्रभवे च रोगे
पथ्याक्षधात्रीफलमध्यबीजैस् त्रिद्व्येकभागैर् विदधीत वर्तिम् ।
तयाञ्जयेद् अश्रुम् अतिप्रवृद्धम् अक्ष्णोर् हरेत् कष्टम् अपि प्रकोपम्
हरीतकीसैन्धवतार्क्ष्यशैलैः सगैरिकैः स्वच्छजलप्रपिष्टैः ।
बहिष्प्रलेपं नयनस्य कुर्यात् सर्वाक्षिरोगोपशमार्थम् एतत्
ससैन्धवं लोध्रम् अथाज्यभृष्टं सौवीरपिष्टं सितवस्त्रबद्धम् ।
आश्च्योतनं तन् नयनस्य कुर्यात् सदाहकण्डूं च रुजं निहन्यात्
हन्त्य् अर्जुनं शर्करयाब्धिफेनो नक्तान्धतां गोशकृता च कृष्णा ।
रसाञ्जनं व्योषयुतं च पिल्लं तापीसमुत्थं मधुना च शुक्रम्
पुष्पाख्यतार्क्ष्यससितोदधिफेनशङ्खसिन्धूत्थगैरिकशिलामरिचैः समांशैः ।
पिष्टैस् तु माक्षिकरसेन रसक्रियेयं हन्त्य् अर्मकाचतिमिरार्जुनवर्त्मरोगान्
मुस्तोशीररजोयवासमरिचाः सिन्धूद्भवं कट्फलं
दार्वीतुत्थकशङ्खफेननलदं कालानुसार्य् अञ्जनम् ।
तुल्यं चूर्णितम् आयसे विनिहितं क्षौद्रान्वितं शस्यते
कण्ड्वर्मामयरक्तराजितिमिरे पिल्लोपदेहेषु च
मञ्जिष्ठामधुकोत्पलोदधिकफत्वक्सेव्यगोरोचना-
मांसीचन्दनशङ्खपत्रगिरिमृत्तालीसपुष्पाञ्जनैः ।
सर्वैर् एव समांशम् अञ्जनम् इदं शस्तं सदा चक्षुषः
कण्डूत्क्लेदमलाश्रुशोणितरुजापिल्लार्मशुक्रापहम्
क्वाथः समुस्तातिविषेन्द्रदारुकलिङ्गपाठाकटुरोहिणीनाम् ।
गोमूत्रसिद्धो मधुना च युक्तः पेयो गलव्याधिषु सर्वजेषु
यवाग्रजं तेजवतीं सपाठां रसाञ्जनं दारुनिशां सकृष्णाम् ।
क्षौद्रेण कुर्याद् गुटिकां मुखेन तां धारयेत् सर्वगलामयेषु
दार्वीगुडूचीसुमनाप्रवालाद्राक्षायवासत्रिफलाकषायः ।
क्षौद्रेण युक्तः कवलग्रहो ऽयं मुखस्य पाकं शमयत्य् उदीर्णम्
कुष्ठं दार्वी लोध्रम् अब्दं समङ्गा पाठा तिक्ता तेजनी पीतिका च ।
चूर्णं शस्तं घर्षणं तद् द्विजानां रक्तस्रावं हन्ति कण्डूरुजं च
सौवीरशुक्तार्द्रकमातुलुङ्गमांसै रसैर् गुग्गुलुसैन्धवश् च ।
पक्त्वा तु तैलं कटुकं निषिञ्चेत् तत् कर्णयोः कर्णरुजोपशान्त्यै
वासानिम्बपटोलपर्पटफलश्रीचव्यदार्व्यम्बुदैः
तिक्तोशिरदुरालभात्रिकटुकत्रायन्तिकाचन्दनैः ।
सर्पिः सिद्धम् अथोर्ध्वजत्रुविकृतिघ्राणाक्षिशूलादिषु
त्वग्दोषज्वरविद्रधिव्रणरुजाशुक्रेषु वै चेष्यते
मूल पाठ: Yogaśataka · Edition: Heinz Helmuth Michael Schmidt: Das Yogaśata : Ein Zeugnis altindischer Medizin, Sanskrit und Tibetisch, Bonn 1978 (Diss.). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0