योगशतक · श्लोक 21-40
चूर्णं समं रुचकहिङ्गुमहौषधानाम् शुण्ठ्यम्बुना कफसमीरणसंभवासु ।
हृत्पार्श्वपृष्ठजठरार्तिविसूचिकासु पेयं तथा यवरसेन च विड्विबन्धे
पूतीकपत्रगजचिर्भिटचव्यवह्नि व्योषं च संस्तरचितं लवणोपधानम् ।
दग्ध्वा विचूर्ण्य दधिमस्तुयुतं प्रयोज्यं गुल्मोदरश्वयथुपाण्डुगुदोद्भवेषु
द्विरुत्तरा हिङ्गु वचा सकुष्ठा सुवर्चिका चेति विडं च चूर्णम् ।
उष्णाम्बुनानाहविसूचिकार्तिहृद्रोगगुल्मोर्ध्वसमीरणघ्नम्
शृङ्गीकटुत्रिकफलत्रयकण्टकारीभार्गीसपुष्करजटा लवणानि पञ्च ।
चूर्णं पिबेद् अशिशिरेण जलेन हिक्काश्वासोर्ध्ववातकसनारुचिपीनसेषु
नादेयीकुटजार्कशिग्रुबृहतीस्नुग्बिल्वभल्लातक-
व्याघ्रीकिंशुकपारिभद्रकजटापामार्गनीपाग्निकान् ।
वासामुष्ककपाटलाः सलवणा दग्ध्वा रसं पाचितं
हिङ्ग्वादिप्रतिवापम् एतद् उचितं गुल्मोदरप्लीहिषु
चव्यम्लवेतसकटुत्रिकतित्तिडीकतालीसजीरकतुगादहनैः समांशैः ।
चूर्णं गुडप्रमृदितं त्रिसुगन्धियुक्तं वैस्वर्यपीनसकफारुचिषु प्रशस्तम्
तालीसचव्यमरिचं सदृशं द्विरंशं मूलं तुगां मगधजां त्रिगुणां च शुण्ठीम् ।
कृत्वा गुडत्रिगुणितां गुडिकां सुगन्धां कासाग्निमान्द्यगुदजज्वररुक्षु दद्यात्
सुण्ठीकणामरिचनागदलत्वगेलं चूर्णीकृतं क्रमविवर्धितम् ऊर्ध्वम् अन्त्यात् ।
खादेद् इदं समसितं गुदजाग्निमान्द्यगुल्मारुचिश्वसनकण्ठहृदामयेषु
सिन्धूत्थहिङ्गुत्रिफलायवानीव्योषैर् गुडांशैर् गुडिकां प्रकुर्यात् ।
तैर् भक्षितैस् तृप्तिम् अवाप्नुवन् न भुञ्जीत मन्दाग्निर् अपि प्रभूतम्
अयस्तिलत्र्यूषणकोलभागैः सर्वैः समं माक्षिकधातुचूर्णम् ।
तैर् मोदकः क्षौद्रयुतो ऽनुतक्रः पाण्ड्वामये दूरगते ऽपि शस्तः
गुडेन शुण्ठीम् अथवोपकुल्यां पथ्यातृतीयाम् अथ दाडिमं च ।
आमेष्व् अजीर्णेषु गुदामयेषु वर्चोविबन्धेषु च नित्यम् अद्यात्
हरीतकीनागरमुस्तचूर्णं गुडेन सार्धं गुटिका विधेया ।
निवारयत्य् आस्यविधारितेयं श्वासं प्रवृद्धं प्रबलं च कासम्
वटप्ररोहं मधु कुष्ठम् उत्पलं सलाजचूर्णं गुडिकां प्रकल्पयेत् ।
सुसंहिता सा वदनेन धारिता तृष्णां प्रवृद्धाम् अपि हन्ति सत्वरम्
मनःशिलामागधिकोषणानां चूर्णं कपित्थाम्लरसेन युक्तम् ।
लाजैः समांशैर् मधुनावलीढं छर्दिं प्रसक्ताम् असकृन् निहन्ति
दूर्वारसो दाडिमपुष्पजो वा घ्राणप्रवृत्ते ऽसृजि नस्यम् उक्तम् ।
स्तन्येन वालक्तरसेन वापि विण् मक्षिकानां च निहन्ति हिक्काम्
धात्रीरसः सर्जरसः सपाक्यः सौवीरपिष्टश् च तदासुतश् च ।
भवन्ति सिध्मानि यथा न भूयस् तथैवम् उद्वर्तनकं करोति
दूर्वाभयासैन्धवचक्रमर्दकुठेरकाः काञ्जिकतक्रपिष्टाः ।
त्रिभिः प्रलेपैर् अपि बद्धमूलां दद्रुं च कण्डुं च विनाशयन्ति
गण्डीरिकचित्रकमार्कवार्ककुष्ठद्रुमत्वग्लवणैः समूत्रैः ।
तैलं पचेन् मण्डलकुष्ठदद्रुदुष्टव्रणारुक् किटिमापहारि
सिन्दूरगुग्गुलुरसाञ्जनसिक्थतुत्थैस् तुल्यांशकैः कटुकतैलम् इदं विपक्वम् ।
कच्छूं स्रवत्पिटकिकाम् अथवापि शुष्काम् अभ्यञ्जनेन सकृद् उद्धरति प्रसह्य
सुवर्चिकानागरकुष्ठमूर्वालाक्षानिशालोहितयष्टिकाभिः ।
तैलं ज्वरे षड्गुणतक्रसिद्धम् अभ्यञ्जनाच् छीतविदाहनुत् स्यात्
मूल पाठ: Yogaśataka · Edition: Heinz Helmuth Michael Schmidt: Das Yogaśata : Ein Zeugnis altindischer Medizin, Sanskrit und Tibetisch, Bonn 1978 (Diss.). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0