भाषा

ENहिગુ
ग्रंथ पाठ

योगशतक · श्लोक 1-20

1

ओं नमः सर्वज्ञाय ॥
ओं नमो धन्वन्तराये ॥
कृत्स्नस्य तन्त्रस्य गृहीतधाम्नश् चिकित्सिताद् विप्रसृतस्य दूरम् ।
विदग्धवैद्यप्रतिपूजितस्य करिष्यते योगशतस्य बन्धः

2

परीक्ष्य हेत्वामयलक्षणानि चिकित्सितज्ञेन चिकित्सिकेन ।
निरामदेहस्य हि भैषजानि भवन्ति युक्तान्य् अमृतोपमानि

3

छिन्नोद्भवाम्बुधरधन्वयवासविश्वैर् दुःस्पर्शपर्पटकमेघकिराततिक्तैः ।
मुस्ताटरूषकमहौषधधन्वयासैः क्वाथं पिबेद् अनिलपित्तकफज्वरेषु

4

क्षुद्रामृतानागरपुष्कराह्वयैः कृतः कषायः कफमारुतोत्तरे ।
सश्वासकासारुचिपार्श्वरुक्करे ज्वरे त्रिदोषप्रभवे ऽपि शस्यते

5

आरग्वधग्रन्थिकमुस्ततिक्ताहरीतकीभिः क्वथितः कषायः ।
सामे सशूले कफवातयुक्ते ज्वरे हितो दीपनपाचनश् च

6

द्राक्षाभयापर्पटकाब्दतिक्ताक्वाथं सशम्याकफलं विदध्यात् ।
प्रलापमूर्छाभ्रमदाहमोहतृष्णान्विते पित्तभवे ज्वरे तु

7

निदिग्धिकानागरकामृतानां क्वाथं पिबेन् मिश्रितपिप्पलीकम् ।
जीर्णज्वरारोचककासशूलश्वासाग्निमान्द्यार्दितपीनसेषु

8

दुरालभापर्पटकप्रियङ्गुभूनिम्बवासाकटुरोहिणीनाम् ।
क्वाथं पिबेच् छर्करयावगाढं तृष्णाश्रपित्तज्वरदाहयुक्तः

9

फलत्रिकं दारुनिशाविशालामुस्तं च निष्क्वाथ्य निशांशकल्कम् ।
पिबेत् कषायं मधुसंप्रयुक्तं सर्वप्रमेहेषु समुत्थितेषु

10

सवत्सकः सातिविषः सबिल्वः सोदीच्यमुस्तश् च कृतः कषायः ।
सामे सशूले च सशोणिते च चिरप्रवृत्ते ऽपि हितो ऽतिसारे

11

शुण्ठीं समुस्तातिविषागुडूचीं पिबेज् जलेन क्वथितां समांशाम् ।
मन्दानलत्वे सततामयानाम् आमानुबन्धे ग्रहणीगदे च

12

पुनर्नवादार्व्यभयागुडूचीः पिबेत् समूत्रा महिषाक्षयुक्ताः ।
त्वग्दोषशोफोदरपाण्डुरोगस्थौल्यप्रसेकोर्ध्वकफामयेषु

13

मुस्ताखुपर्णीफलदारुशिग्रुक्वाथः सकृष्णाकृमिशत्रुकल्कः ।
मार्गद्वयेनापि चिरप्रवृत्तान् कृमीन् निहन्यात् कृमिजांश् च रोगान्

14

एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुबूकैः ।
शृतं पिबेद् अश्मजतुप्रधानं सशर्करे साश्मरिमूत्रकृच्छ्रे

15

एलाश्मभेदकशिलाजतुपिप्पलीनां चूर्णानि तण्डुलजलैर् लुलितानि पीत्वा ।
यद् वा गुडेन सहितान्य् अवलेह्यमानान्य् आसन्नमृत्युर् अपि जीवति मूत्रकृच्छ्री

16

हरीतकीगोक्षुरराजवृक्षपाषाणभिद्धन्वयवासकानाम् ।
क्वाथं पिबेन् माक्षिकसंप्रयुक्तं कृच्छ्रे सदाहे सरुजे विबन्धे

17

वासागुडूचीचतुरङ्गुलानाम् एरण्डतैलेन पिबेत् कषायम् ।
क्रमेण सर्वाङ्गजम् अप्य् अशेषं जयेद् असृग्वातभवं विकारम्

18

रसाञ्जनं तण्डुलकस्य मूलं क्षौद्रान्वितं तण्डुलतोयपीतम् ।
असृग्दरं सर्वभवं निहन्ति श्वासं च भार्गी सह नागरेण

19

एरण्डबिल्वबृहतीद्वयमातुलुङ्गपाषाणभित्त्रिकटमूलकृतं कषायः ।
सक्षारहिङ्गुलवणोरुहुतैलमिश्रः श्रोण्यंसमेढ्रहृदयस्तनरुक्षु पेयः

20

हिङ्गूग्रगन्धाविडशुण्ठ्यजाजीहरीतकीपुष्करमूलकुष्ठम् ।
भागोत्तरं चूर्णितम् एतद् इष्टं गुल्मोदराजीर्णविसूचिकासु

मूल पाठ: Yogaśataka · Edition: Heinz Helmuth Michael Schmidt: Das Yogaśata : Ein Zeugnis altindischer Medizin, Sanskrit und Tibetisch, Bonn 1978 (Diss.). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc