भाषा

ENहिગુ
ग्रंथ पाठ

यमस्मृति · श्लोक 21-40

21

अन्नं शूद्रस्य भोज्यं वा ये भुञ्जन्त्य् अबुधा नराः ।
प्रयश्चित्तं तथा प्राप्तं चरेच् चान्द्रायणं व्रतम् ॥

22

प्राप्ते द्वादशमे वर्षे यः कन्यां न प्रयच्छति ।
मासि मासि रजस् तस्याः पिता पिबति शोणितम् ॥

23

माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ।
त्रयस् ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥

24

यस् तां विवाहयेत् कन्यां ब्राह्मणो मदमोहितः ।
असंभाष्यो ह्य् अपाङ्क्तेयः स विप्रो वृषलीपतिः ॥

25

वन्ध्या तु वृषली ज्ञेया वृषली तु मृतप्रजाः ।
शूद्री तु वृषली ज्ञेया कुमारी तु रजस्वला ॥

26

यत् करोत्य् एकरात्रेण वृषलीसेवनाद् द्विजः ।
तद् भैक्षभुग् जपेन् नित्यं त्रिभिर् वर्षैर् व्यपोहति ॥

27

स्ववृषं या परित्यज्यान्य् अवृषेण बृहस्पतिः ।
वृषली सा तु विज्ञेया न शूद्री वृषली भवेत् ॥

28

वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।
तस्याञ् चैव प्रसूतस्य निष्कृतिर् नैव विद्यते ॥

29

श्वित्रकुष्ठी तथा चैव कुनखी श्यावदन्तकः ।
रोगी हीनातिरिक्ताङ्गः पिशुनो मत्सरस् तथा ॥

30

दुर्भगो हि तथा षण्डः पाषण्डी वेदनिन्दकः ।
हैतुकः शूद्रयाजी च अयाज्यानाञ् च याजकः ॥

31

नित्यं प्रतिग्रहे लुब्धो याचको विषयात्मकः ।
श्यावदन्तो ऽथ वैद्यश् च असदालापकस् तथा ॥

32

एते श्राद्धे च दाने च वर्जनीयाः प्रयत्नतः ॥

33

ततो देवलकश् चैव भृतको वेदविक्रयी ।
एते वर्ज्याः प्रयत्नेन एतद् भास्वतिर् अब्रवीत् ॥

34

एतान् नियोजयेद् यस् तु हव्ये कव्ये च कर्मणि ।
निराशाः पितरस् तस्य यान्ति देवामहर्षिभिः ॥

35

अग्रे माहिषिकं दृष्ट्वा मध्ये तु वृषलीपतिम् ।
अन्ते वार्धुषिकं दृष्ट्वा निराशाः पितरो गताः ॥

36

महिषीत्य् उच्यते भार्या या चैव व्यभिचारिणी ।
तान् दोषान् क्षमते यस् तु स वै माहिषिकः स्मृतः ॥

37

समार्घन् तु समुद्धृत्य महार्घं यह् प्रयच्छति ।
स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥

38

यावद् उष्णं भवत्य् अन्नं यावद् भुञ्जन्ति वाग्यताः ।
अश्नन्ति पितरस् तावद् यावन् नोक्ता हविर्गुणाः ॥

39

हविर्गुणा न वक्तव्याः पितरो यत्र तर्पिताः ।
पितृभिस् तर्पितैः पश्चाद् वक्तव्यं शोभनं हविः ॥

40

यावतो ग्रसते ग्रासान् हव्यकव्येषु मन्त्रवित् ।
तावतो ग्रसते पिण्डान् शरीरे ब्रह्मणः पिता ॥

मूल पाठ: Yamasmṛti (78-verse version) · Edition: Haridatta Sastri The Smriti Sandarbha Calcutta Gurumandal 6 Gurumandal Series 9 · Data entry Jürgen Neuß · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc