यमस्मृति · श्लोक 1-20
अथातो ह्य् अस्य धर्मस्य प्रायश्चित्ताभिधायकम् ।
चतुर्णाम् अपि वर्णानां धर्मशास्त्रं प्रवर्तते ॥
जलाग्न्युद्वन्धनभ्रष्टाः प्रब्रज्यानशनच्युताः ।
विषप्रपतनप्राय शस्त्रघातच्युताश्च ये ॥
सर्वे ते प्रत्यवसिताः सर्वलोकवहिष्कृताः ।
चान्द्रायणेन शुद्ध्यन्ति तप्तकृच्छ्रद्वयेन वा ॥
उभयावसिताः पापा ये ऽग्राम्य शरणच्युताः ।
इन्दुद्वयेन शुद्ध्यन्ति दत्त्वा धेनुं तथा वृषम् ॥
गोब्राह्मणहनं दग्धा मृतम् उद्वन्धनेन च ।
पाशं तस्यैव छित्त्वा तु तप्तकृच्छ्रं समाचरेत् ॥
कृमिभिर् व्रणसंभूतैर् मक्षिकाश्वोपघातितः ।
कृच्छ्रार्द्धं संप्रकुर्वीत शक्त्या दद्यात् तु दक्षिणाम् ॥
ब्राह्मणस्य मलद्वारे पूयशोणित सम्भवे ।
कृमिभुक्तब्रणे मौञ्जी होमेन स विशुद्ध्यति ॥
यः क्षत्रियस् तथा वैश्यः शूद्रश्चाप्यनुलोमजः ।
ज्ञात्वा भुङ्क्ते विशेषेण चरेच् चान्द्रायणं व्रतम् ॥
कुक्कुटाण्डप्रमाणन् तु ग्रासञ्च परिकल्पयेत् ।
अन्यथाहारदोषेण न स तत्र विशुद्ध्यति ॥
एकैकं वर्द्धयेच् छुक्ले कृष्णपक्षे च ह्रासयेत् ।
अमावास्यां न भुञ्जीत एष चान्द्रायणो विधिः ॥
सुरान्यमद्यपानेन गोमांसभक्षणे कृते ।
तप्तकृच्छ्रञ् चरेद् विप्रस् तत् पापस् तु प्रणश्यति ॥
प्रायश्चित्ते ह्य् उपक्रान्ते कर्ता यदि विपद्यते ।
पूतस् तद् अहर् एवापि इह लोके परत्र च ॥
यावद् एकः पृथक् द्रव्यः प्रायश्चित्तेन शुद्ध्यति ।
अपरास् ते न च स्पृश्यास् ते ऽपि सर्वे विगर्हिताः ॥
अभोज्याश् चाप्रतिग्राह्या असंपाठ्या विवाहिनः ।
पूयन्ते ऽनुव्रते चीर्णे सर्वे ते ऋक्थभागिनः ॥
ऊनैकादशवर्षस्य पञ्चवर्षात् परस्य च ।
प्रायश्चित्तं चरेद् भ्राता पिता वान्यो ऽपि बान्धवः ॥
अतो बालतरस्यापि नापराधो न पातकम् ।
राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥
अशीतीर्यस्य वर्षाणि बालो वाप्य् ऊनषोडशः ।
प्रायश्चित्तार्द्धम् अर्हन्ति स्त्रियो रोगिण एव च ॥
अस्तं गतो यदा सूर्यश् चाण्डालरजकस्त्रियः ।
संस्पृष्टास् तु तदा कैश्चित् प्रायश्चित्तं कथं भवेत् ॥
जातरूपं सुवर्णञ् च दिवानीतं च यज् जलम् ।
तेन स्नात्वा च पीत्वा च सर्वे ते शुचयः स्मृताः ॥
दासनापितगोपाल कुलमित्रार्धसीरिणः ।
एते शूद्रेषु भोज्यान्ना यश् चात्मनं निवेदयेत् ॥
मूल पाठ: Yamasmṛti (78-verse version) · Edition: Haridatta Sastri The Smriti Sandarbha Calcutta Gurumandal 6 Gurumandal Series 9 · Data entry Jürgen Neuß · GRETIL (Göttingen) · CC BY-NC-SA 4.0