भाषा

ENहिગુ
ग्रंथ पाठ

यमस्मृति · श्लोक 41-60

41

उच्छिष्टोच्छिष्तसंस्पृष्टः शुना शूद्रेण वा द्विजः ।
उपोष्य रजमीम् एकां पञ्चगव्येन शुद्ध्यति ॥

42

अनुच्छिष्टेन संस्पृष्टे स्नानमात्रं विधीयते ।
तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥

43

यावद् विप्रा न पूज्यन्ते सम्भोजनहिरण्यकैः ।
तावच् चीर्णव्रतस्यापि तत् पापं न प्रणश्यति ॥

44

यद् वेष्टितं काकबलाकचिल्लैर् अमेध्यलिप्तं तु भवेच् छरीरम् ।
गात्रे मुखे च प्रविशेच् च सम्यक् स्नानेन लेपोपहतस्य शुद्धिः ॥

45

ऊर्ध्वं नाभेः करौ मुक्त्वा यद् अङ्गम् उपहन्यते ।
ऊर्ध्वं स्नानम् अधः शौचं तन् मात्रेणैव शुद्ध्यति ॥

46

अभक्ष्याणाम् अपेयानाम् अलेह्यानाञ् च भक्षणे ।
रेतो मूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् ॥

47

पद्मोडुम्बरविल्वाश् च कुशाश्वत्थपलाशकाः ।
एतेषाम् उदकं पीत्वा षड्रात्रेणैव शुद्ध्यति ॥

48

यः प्रत्यवसितो विप्रः प्रव्रज्याग्निर् निरापदि ।
अनाहिताग्निर् वर्तेत गृहित्वञ् च चिकीर्षति ॥

49

आचरेत् त्रीणि कृच्छ्राणि चरेच् चान्द्रायणानि च ।
जातकर्मादिभिः प्रोक्तैः पुनः संस्कारम् अर्हति ॥

50

तूलिका उपधानानि पुष्पं रक्ताम्बराणि च ।
शोषयित्वा प्रतापेन प्रोक्षयित्वा शुचिर् भवेत् ॥

51

देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् ।
उपपत्तिम् अवस्थाञ् च ज्ञात्वा धर्मं समाचरेत् ॥

52

रथ्य् आकर्दमतोयानि नावायस तृणानि च ।
मारुतार्केण शुद्ध्यन्ति पक्वेष्टकचितानि च ॥

53

आतुरे स्नानसम्प्राप्ते दशकृत्वो ह्य् अनातुरः ।
स्नात्वा स्नात्वा स्पृशेत् तन् तु ततः शुद्ध्येत आतुरः ॥

54

रजकश् चर्मकारश् च नटो वुरुड एव च ।
कैवर्तमेदभिल्लाश् च सप्तैते चान्त्यजाः स्मृताः ॥

55

एषां गत्वा तु योषां वै तप्तकृच्छ्रं समाचरेत् ॥

56

स्त्रीणां रजस्वलानान् तु स्पृष्टास्पृष्टि यदा भवेत् ।
प्रायश्चित्तं कथं तासां वर्णे वर्णे विधीयते ॥

57

स्पृष्ट्वा रजस्वलां यान्तु सगोत्राञ् च सभर्त्तृकाम् ।
कामाद् अकामतो वापि स्नात्वा कालेन शुद्ध्यति ॥

58

स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजा तथा ।
कृच्छ्रेण शुध्यते पूर्वा शूद्रा पादेन शुध्यति ॥

59

स्पृष्ट्वा रजस्वलान्योन्यं क्षत्रिया शूद्रजा तथा ।
पादहीनं चरेत् पूर्वा पादार्द्धन् तु तथोत्तरा ॥

60

स्पृष्ट्वा रजस्वलान्योन्यं वैश्यजा शूद्रजा तथा ।
कृच्छ्रपादं चरेत् पूर्वा तदर्द्धन् तु तथोत्तरा ॥

मूल पाठ: Yamasmṛti (78-verse version) · Edition: Haridatta Sastri The Smriti Sandarbha Calcutta Gurumandal 6 Gurumandal Series 9 · Data entry Jürgen Neuß · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc