भाषा

ENहिગુ
ग्रंथ पाठ

व्याकरणमहाभाष्य · भाग 241260

(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {26।95} अवश्यम् कः चित् स्वकृतान्तः आस्थेयः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {27।95} कः असौ स्वकृतान्तः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {28।95} संस्त्यानप्रसवौ लिङ्गम् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {29।95} संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {30।95} किम् इदम् संस्त्यानप्रसवौ इति .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {31।95} संस्त्याने स्त्यायतेः ड्रट् : स्त्री . सूतेः सप् प्रसवे पुमान् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {32।95} ननु च लोके अपि स्त्यायतेः एव स्त्री सूतेः च पुमान् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {33।95} अधिकरणसाधना लोके स्त्री : स्त्यायति अस्याम् गर्भः इति .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {34।95} कर्तृसाधनः च पुमान् : सूते पुमान् इति .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {35।95} इह पुनः उभयम् भावसाधनम् : स्त्यानम् प्रवृत्तिः च .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {36।95} कस्य पुनः स्त्यानम् स्त्री प्रवृत्तिः वा पुमान् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {37।95} गुणानाम् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {38।95} केषाम् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {39।95} शब्दस्पर्शरूपरसगन्धानाम् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {40।95} सर्वाः च पुनः मूर्तयः एवमात्मिकाः संस्त्यानप्रसवगुणाः शब्दस्पर्शरूपरसगन्धवत्यः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {41।95} यत्र अल्पीयांसः गुणाः तत्र अवरतः त्रयः : शब्दः स्पर्शः रूपम् इति .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {42।95} रसगन्धौ न सर्वत्र .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {43।95} प्रवृत्तिः खलु अपि नित्या .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {44।95} न हि इह कः चित् अपि स्वस्मिन् आत्मनि मुहूर्तम् अपि अवतिष्ठते .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {45।95} वर्धते यावत् अनेन वर्धितव्यम् अपचयेन वा युज्यते .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {46।95} तत् च उभयम् सर्वत्र .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {47।95} यदि उभयम् सर्वत्र कुतः व्यवस्था .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {48।95} विवक्षातः. संस्त्यानविवक्षायाम् स्त्री प्रसवविवक्षायाम् पुमान् उभयोः अपि अविवक्षायाम् नपुंसकम् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {49।95} तत्र लिङ्गवचनसिद्धिः गुणविवक्षानित्यत्वात् इति लिङ्गपरिहारः उपपन्नः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {50।95} वचनपरिहारः तु न उपपद्यते .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {51।95} वचनपरिहारः च अपि उपपन्नः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {52।95} इदम् तावत् अयम् प्रष्टव्यः : अथ यस्य द्रव्यम् पदार्थः कथम् तस्य एकवचनद्विवचनबहुवचनानि भवन्ति इति .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {53।95} एवम् सः वक्ष्यति : एकस्मिन् एकवचनम् द्वयोः द्विवचनम् बहुषु बहुवचनम् इति .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {54।95} यदि तस्य अपि वाचनिकानि न स्वाभाविकानि अहम् अपि एवम् वक्ष्यामि : एकस्मिन् एकवचनम् द्वयोः द्विवचनम् बहुषु बहुवचनम् इति .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {55।95} न हि आकृतिपदार्थिकस्य द्रव्यम् न पदार्थः द्वव्यपदार्थिकस्य वा आकृतिः न पदार्थः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {56।95} उभयोः उभयम् पदार्थः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {57।95} कस्य चित् तु किम् चित् प्रधानभूतम् किम् चित् गुणभूतम् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {58।95} आकृतिपदार्थिकस्य आकृतिः प्रधानभूता द्रव्यम् गुणभूतम् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {59।95} द्रव्यपदार्थिकस्य द्रव्यम् प्रधानभूतम् आकृतिः गुणभूता .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {60।95} गुणवचनवत् वा .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {61।95} गुणवचनवत् वा लिङ्गवचनानि भविष्यन्ति .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {62।95} तत् यथा गुणवचनानाम् शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति : शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {63।95} यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {64।95} एवम् इह अपि यत् असौ द्रव्यम् श्रिता आकृतिः तस्य यत् लिङ्गम् वचनम् च तत् आकृतेः अपि भविष्यति .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {65।95} अधिकरणगतिः साहचर्यात् .

(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {66।95} आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि भविष्यन्ति .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {67।95} न च एकम् अनेकाधिकरणस्थम् युगपत् इति आदित्यवत् विषयः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {68।95} न खलु अपि एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते इति आदित्यवत् विषयः भविष्यति .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {69।95} तत् यथा एकः आदित्यः अनेकाधिकरणस्थः युगपत् उपलभ्यते .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {70।95} विषमः उपन्यासः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {71।95} न एकः द्रष्टा अनेकाधिकरणस्थम् आदित्यम् युगपत् उपलभते .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {72।95} एवम् तर्हि इतीन्द्रवत् विषयः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {73।95} तद् यथा एकः इन्द्रः अनेकस्मिन् क्रतुशते आहूतः युगपत् सर्वत्र भवति एवम् आकृतिः युगपत् सर्वत्र भविष्यति .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {74।95} अविनाशः अनाश्रितत्वात् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {75।95} द्रव्यविनाशे आकृतेः अविनाशः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {76।95} कुतः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {77।95} अनाश्रितत्वात् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {78।95} अनाश्रिता आकृतिः द्रव्यम् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {79।95} किम् उच्यते अनाश्रितत्वात् इति यत् इदानीम् एव उक्तम् अधिकरणगतिः साहचर्यात् इति .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {80।95} एवम् तर्हि अविनाशः अनैकात्म्यात् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {81।95} द्रव्यविनाशे आकृतेः अविनाशः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {82।95} कुतः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {83।95} अनैकात्म्यात् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {84।95} अनेकः आत्मा आकृतेः द्रव्यस्य च .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {85।95} तत् यथा वृक्षस्थः अवतानः वृक्षे छिन्ने अपि न विनश्यति .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {86।95} वैरूप्यविग्रहौ द्रव्यभेदात् . वैरूप्यविग्रहौ अपि द्रव्यभेदात् भविष्यतः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {87।95} व्यर्थेषु च सामान्यात् सिद्धम् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {88।95} विभिन्नार्थेषु च सामान्यात् सिद्धम् सर्वम् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {89।95} अश्नोतेः अक्षः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {90।95} पद्यतेः पादः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {91।95} मिमीतेः माषः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {92।95} तत्र क्रियासामान्यात् सिद्धम् .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {93।95} अपरः तु आह .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {94।95} पुराकल्पे एतत् आसीत् षोडश माषाः कार्षापणम् षोडशफलाःच माषशम्बट्यः .
(प्_1,2.64.10) क_इ,245.6-247.16 रो_इइ,153-159 {95।95} तत्र संख्यासामान्यात् सिद्धम् .
(प्_1,2.65) क_इ,247.18-20 रो_इइ,160 {1।3} इह कस्मात् न भवति : अजः च बर्करः च , अश्वः च किशोरः च , उष्ट्रः च करभः च इति .
(प्_1,2.65) क_इ,247.18-20 रो_इइ,160 {2।3} तल्लक्षणः चेत् एव विशेषः इति उच्यते न च अत्र तल्लक्षणः एव विशेषः .
(प्_1,2.65) क_इ,247.18-20 रो_इइ,160 {3।3} तल्लक्षणः एव विशेषः यत् समानायाम् आकृतौ शब्दभेदः .
(प्_1,2.66.1) क_इ,247.22-248.3 रो_इइ,161 {1।7} इदम् सर्वेषु स्त्रीग्रहणेषु विचार्यते : स्त्रीग्रहणे स्त्रीप्रत्ययग्रहणम् वा स्यात् स्त्र्यर्थग्रहणम् वा स्त्रीशब्दग्रहणम् वा इति .
(प्_1,2.66.1) क_इ,247.22-248.3 रो_इइ,161 {2।7} किम् च अतः .
(प्_1,2.66.1) क_इ,247.22-248.3 रो_इइ,161 {3।7} यदि प्रत्ययग्रहणम् वा शब्दग्रहणम् वा गार्गी च गार्ग्यायणौ च गर्गाः : केन यशब्दः न श्रूयेत .
(प्_1,2.66.1) क_इ,247.22-248.3 रो_इइ,161 {4।7} अस्त्रियाम् इति हि लुक् उच्यते .
(प्_1,2.66.1) क_इ,247.22-248.3 रो_इइ,161 {5।7} इह च गार्गी च गार्ग्यायणौ च गर्गान् पश्य : तस्मात् शसः नः पुंसि इति नत्वम् न प्राप्नोति .
(प्_1,2.66.1) क_इ,247.22-248.3 रो_इइ,161 {6।7} अथ अर्थग्रहणम् न दोषः भवति .
(प्_1,2.66.1) क_इ,247.22-248.3 रो_इइ,161 {7।7} यथा न दोषः तथा अस्तु

(प्_1,2.66.2) क_इ,248.4-6 रो_इइ,161 {1।4} इह कस्मात् न भवति : अजा च बर्करः च , वडवा च किशोरः च , उष्ट्री च करभः च इति .
(प्_1,2.66.2) क_इ,248.4-6 रो_इइ,161 {2।4} तल्लक्षणः चेत् एव विशेषः इति उच्यते .
(प्_1,2.66.2) क_इ,248.4-6 रो_इइ,161 {3।4} न च अत्र तल्लक्षणः एव विशेषः .
(प्_1,2.66.2) क_इ,248.4-6 रो_इइ,161 {4।4} तल्लक्षणः एव विशेषः यत् समानायाम् आकृतौ शब्दभेदः .
(प्_1,2.67) क_इ,248.8-10 रो_इइ,162 {1।4} इह कस्मात् न भवति : हंसः च वरटा च कच्छपः च डुली च , र्श्यः च रोहित् च इति .
(प्_1,2.67) क_इ,248.8-10 रो_इइ,162 {2।4} तल्लक्षणः चेत् एव विशेषः इति उच्यते .
(प्_1,2.67) क_इ,248.8-10 रो_इइ,162 {3।4} न च अत्र तल्लक्षणः एव विशेषः .
(प्_1,2.67) क_इ,248.8-10 रो_इइ,162 {4।4} तल्लक्षणः एव विशेषः यत् समानायाम् आकृतौ शब्दभेदः .
(प्_1,2.68.1) क_इ,248.12-18 रो_इइ,162 {1।11} किमर्थम् इदम् उच्यते न पुमान् स्त्रिया इति एव सिद्धम् .
(प्_1,2.68.1) क_इ,248.12-18 रो_इइ,162 {2।11} न सिध्यति .
(प्_1,2.68.1) क_इ,248.12-18 रो_इइ,162 {3।11} तल्लक्षणः चेत् एव विशेषः इति उच्यते .
(प्_1,2.68.1) क_इ,248.12-18 रो_इइ,162 {4।11} न च अत्र तल्लक्षणः एव विशेषः .
(प्_1,2.68.1) क_इ,248.12-18 रो_इइ,162 {5।11} तल्लक्षणः एव विशेषः यत् समानायाम् आकृतौ शब्दभेदः .
(प्_1,2.68.1) क_इ,248.12-18 रो_इइ,162 {6।11} एवम् तर्हि सिद्धे सति यत् इमम् योगम् शास्ति तत् ज्ञापयति आचार्यः : यत्र ऊर्ध्वम् प्रकृतेः तल्लक्षणः एव विशेषः तत्र एकशेषः भवति इति .
(प्_1,2.68.1) क_इ,248.12-18 रो_इइ,162 {7।11} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_1,2.68.1) क_इ,248.12-18 रो_इइ,162 {8।11} हंसः च वरटा च , कच्छपः च डुली च , र्श्यः च रोहित् च इति अत्र एकशेषः न भवति .
(प्_1,2.68.1) क_इ,248.12-18 रो_इइ,162 {9।11} पूर्वयोः योगयोः भूयान् परिहारः .
(प्_1,2.68.1) क_इ,248.12-18 रो_इइ,162 {10।11} यावत् ब्रूयात् गोत्रम् यूना इति तावत् वृद्धः यूना इति .
(प्_1,2.68.1) क_इ,248.12-18 रो_इइ,162 {11।11} पूर्वसूत्रे गोत्रस्य वृद्धम् इति सञ्ज्ञा क्रियते .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {1।27} असरूपाणाम् युवस्थविरस्त्रीपुंसानाम् विशेषस्य अविवक्षितत्वात् सामान्यस्य च विवक्षितत्वात् सिद्धम् . असरूपाणाम् युवस्थविरस्त्रीपुंसानाम् विशेषः च अविवक्षितः सामान्यम् च विवक्षितम् .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {2।27} विशेषस्य अविवक्षितत्वात् सामान्यस्य च विवक्षितत्वात् सरूपाणाम् एकशेषः एकविभक्तौ इति एव सिद्धम् .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {3।27} पुमान् स्त्रिया इह कस्मात् न भवति : ब्राह्मणवत्सा च ब्राह्मणीवत्सः च इति .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {4।27} ब्राह्मणवत्साब्राह्मणीवत्सयोः विभक्तिपरस्य विशेषवाचकत्वात् अनेकशेषः .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {5।27} ब्राह्मणवत्साब्राह्मणीवत्सयोः लिङ्गस्य विभक्तिपरस्य विशेषवाचकत्वात् एकशेषः न भविष्यति .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {6।27} यत्र लिङ्गम् विभक्तिपरम् एव विशेषवाचकम् तत्र एकशेषः भवति .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {7।27} न अत्र लिङ्गम् विभक्तिपरम् एव विशेषवाचकम् .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {8।27} यदि तर्हि यत्र लिङ्गम् विभक्तिपरम् एव विशेषवाचकम् तत्र एकशेषः भवति इह न प्राप्नोति : कारकः च कारिका च कारकौ .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {9।27} न हि अत्र लिङ्गम् विभक्तिपरम् एव विशेषवाचकम् .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {10।27} कथम् पुनः इदम् विज्ञायते : शब्दः या स्त्री तल्लक्षणः चेत् एव विशेषः इति आहोस्वित् अर्थः या स्त्री तल्लक्षणः चेत् एव विशेषः इति .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {11।27} किम् च अतः .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {12।27} यदि विज्ञायते शब्दः या स्त्री तल्लक्षणः चेत् एव विशेषः इति सिद्धम् कारकः च कारिका च कारकौ .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {13।27} इदम् तु न सिध्यति : गोमान् च गोमती च गोमन्तौ .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {14।27} अथ विज्ञायते अर्थः या स्त्री तल्लक्षणः चेत् एव विशेषः इति सिद्धम् गोमान् च गोमती च गोमन्तौ .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {15।27} इदम् तु न सिध्यति : कारकः च कारिका च कारकौ .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {16।27} उभयथा अपि पटुः च पट्वी च पटू* इति एतत् न सिध्यति .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {17।27} एवम् तर्हि न एवम् विज्ञायते शब्दः या स्त्री तल्लक्षणः चेत् एव विशेषः इति न अपि अर्थः या स्त्री तल्लक्षणः चेत् एव विशेषः इति .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {18।27} कथम् तर्हि .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {19।27} शब्दार्थौ या स्त्री तत्सद्भावेन च तल्लक्षणः विशेषः आश्रीयते .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {20।27} एवम् च कृत्वा इह अपि प्राप्तिः : ब्राह्मणवत्सा च ब्राह्मणीवत्सः च इति .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {21।27} एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति .

(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {22।27} किम् .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {23।27} तत् इति अनुवर्तते .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {24।27} तत् इति अनेन प्रकृतौ स्त्रीपुंसौ प्रतिनिर्दिश्येते .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {25।27} कौ च प्रकृतौ .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {26।27} प्रधाने .
(प्_1,2.68.2) क_इ,248.19-249.20 रो_इइ,163-165 {27।27} प्रधानम् या शब्दस्त्री प्रधानम् या अर्थस्त्री इति .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {1।17} अयम् योगः शक्यः अवक्तुम् .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {2।17} कथम् शुक्लः च कम्बलः शुक्लम् च वस्त्रम् तत् इदम् शुक्लम् , ते* इमे शुक्ले , शुक्लः च कम्बलः शुक्ला च बृहतिका शुक्लम् च वस्त्रम् तत् इदम् शुक्लम् , तानि इमनि शुक्लानि .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {3।17} प्रधाने कार्यसम्प्रत्ययात् शेषः .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {4।17} प्रधाने कार्यसम्प्रत्ययात् शेषः भविष्यति .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {5।17} किम् च प्रधानम् .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {6।17} नपुंसकम् .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {7।17} कथम् पुनः ज्ञायते नपुंसकम् प्रधानम् इति .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {8।17} एवम् हि दृश्यते लोके : अनिर्ज्ञाते अर्थे गुणसन्देहे च नपुंसकलिङ्गम् प्रयुज्यते .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {9।17} किम् जातम् इति उच्यते .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {10।17} द्वयम् च एव हि जायते स्त्री वा पुमान् वा .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {11।17} तथा विदूरे अव्यक्तम् आरूपम् दृष्ट्वा वक्तारः भवन्ति महिषीरूपम् इव ब्राह्मणीरूपम् इव .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {12।17} प्रधाने कार्यसम्प्रत्ययात् नपुंसकस्य शेषः भविष्यति .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {13।17} इदम् तर्हि प्रयोजनम् : एकवत् च अस्य अन्यतरस्याम् इति वक्ष्यामि इति .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {14।17} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {15।17} आकृतिवाचित्वात् एकवचनम् .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {16।17} आकृतिवाचित्वात् एकवचनम् भविष्यति .
(प्_1,2.69) क_इ,249.22-250.10 रो_इइ,166-167 {17।17} यदा द्रव्याभिधानम् तदा द्विवचनबहुवचने भविष्यतः .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {1।27} किमर्थम् इदम् उच्यते न पुमान् स्त्रिया इति एव सिद्धम् .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {2।27} भ्रातृपुत्रपितृश्वशुराणाम् कारणात् द्रव्ये शब्दनिवेशः .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {3।27} भ्रातृपुत्रपितृश्वशुराणाम् कारणात् द्रव्ये शब्दनिवेशः भवति .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {4।27} भ्रातृपुत्रपितृश्वशुराणाम् कारणाद् द्रव्ये शब्दनिवेशः इति चेत् तुल्यकारणत्वात् सिद्धम् .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {5।27} यदि तावत् बिभर्ति इति भ्राता स्वसरि अपि एतत् भवति .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {6।27} तथा यदि पुनाति प्रीणाति इति वा पुत्रः दुहितरि अपि एतत् भवति .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {7।27} तथा यदि पाति पालयति इति वा पिता मातरि अपि एतत् भवति .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {8।27} तथा यदि आशु आप्तव्यः श्वशुरः श्वश्र्वाम् अपि एतत् भवति .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {9।27} दर्शनम् वै हेतुः .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {10।27} न हि स्वसरि भ्रातृशब्दः दृश्यते .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {11।27} दर्शनम् हेतुः इति चेत् तुल्यम् .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {12।27} दर्शनम् हेतुः इति चेत् तुल्यम् एतत् भवति .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {13।27} स्वसरि अपि भ्रातृशब्दः दृश्यताम् .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {14।27} तुल्यम् हि कारणम् .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {15।27} न वै एषः लोके सम्प्रत्ययः .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {16।27} न हि लोके भ्राता आनीयताम् इति उक्ते स्वसा आनीयते .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {17।27} तद्विषयम् च .

(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {18।27} तद्विषयम् च एतत् द्रष्टव्यम् भवति : स्वसरि भ्रातृत्वम् .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {19।27} किंविषयम् .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {20।27} एकशेषविषयम् .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {21।27} युक्तम् पुनः यत् नियतविषयाः शब्दाः स्युः .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {22।27} बाढम् युक्तम् .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {23।27} अन्यत्र अपि तद्विषयदर्शनात् .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {24।27} अन्यत्र अपि तद्विषयाः शब्दाः दृश्यन्ते .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {25।27} तत् यथा : समाने रक्ते वर्णे गौः लोहितः इति भवति अश्वः शोणः इति .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {26।27} समाने च काले वर्णे गौः कृष्णः इति भवति अश्वः हेमः इति .
(प्_1,2.68, 70-71) क_इ,250.13-251.7 रो_इइ,168-169 {27।27} समाने च शुक्ले वर्णे गौः श्वेतः इति भवति अश्वः कर्कः इति .
(प्_1,2.72.1) क_इ,251.9-14 रो_इइ,169-170 {1।8} त्यदादितः शेषे पुन्नपुंसकतः लिङ्गवचनानि .
(प्_1,2.72.1) क_इ,251.9-14 रो_इइ,169-170 {2।8} त्यदादितः शेषे पुन्नपुंसकतः लिङ्गवचनानि भवन्ति .
(प्_1,2.72.1) क_इ,251.9-14 रो_इइ,169-170 {3।8} सा च देवदत्तः च तौ सा च कुण्डे च तानि .
(प्_1,2.72.1) क_इ,251.9-14 रो_इइ,169-170 {4।8} अद्वन्द्वतत्पुरुषविशेषणानाम् .
(प्_1,2.72.1) क_इ,251.9-14 रो_इइ,169-170 {5।8} अद्वन्द्वतत्पुरुषविशेषणानाम् इति वक्तव्यम् .
(प्_1,2.72.1) क_इ,251.9-14 रो_इइ,169-170 {6।8} इह मा भूत् .
(प्_1,2.72.1) क_इ,251.9-14 रो_इइ,169-170 {7।8} सः च कुक्कुटः सा च मयूरी कुक्कुटमयूर्यौ ते .
(प्_1,2.72.1) क_इ,251.9-14 रो_इइ,169-170 {8।8} अर्धम् पिप्पल्याः तत् अर्धपिप्पली च सा अर्धपिप्पल्यौ ते .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {1।31} अयम् अपि योगः शक्यः अवक्तुम् .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {2।31} कथम् .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {3।31} त्यदादीनाम् सामान्यार्थत्वात् .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {4।31} त्यदादीनाम् सामान्यम् अर्थः .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {5।31} आतः च सामान्यम् .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {6।31} देवदत्ते अपि हि सः इति एतत् भवति यज्ञदत्ते अपि .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {7।31} त्यदादीनाम् सामान्यार्थत्वात् शेषः भविष्यति .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {8।31} इदम् तर्हि प्रयोजनम् : परस्य शेषम् वक्ष्यामि इति .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {9।31} परस्य च उभयवाचित्वात् .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {10।31} उभयवाचि परम् .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {11।31} पूर्वशेषदर्शनात् च .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {12।31} पूर्वस्य खलु अपि शेषः दृश्यते : सः च यः च तौ आनय , यौ आनय इति .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {13।31} इदम् तर्हि प्रयोजनम् :द्वन्द्वः मा भूत् इति .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {14।31} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {15।31} सामान्यविशेषवाचिनोः च द्वन्द्वाभावात् सिद्धम् . सामान्यविशेषवाचिनोः च द्वन्द्वः न भवति इति वक्तव्यम् .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {16।31} यदि सामान्यविशेषवाचिनोः द्वन्द्वः न भवति इति उच्यते शूद्राभीरम् , गोबलीवर्दम् , तृणोलपम् इति न सिध्यति .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {17।31} न एषः दोषः .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {18।31} इह तावत् शूद्राभीरम् इति : आभीराः जात्यन्तराणि .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {19।31} गोबलीवर्दम् इति : गावः उत्कालितपुंस्काः वाहाय च विक्रयाय च .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {20।31} स्त्रियः एव अवशिष्यन्ते .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {21।31} तृणोलपम् इति : अपाम् उलपम् इति नामधेयम् .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {22।31} तत् तर्हि वक्तव्यम् .

(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {23।31} न वक्तव्यम् .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {24।31} सामान्येन उक्तत्वात् विशेषस्य प्रयोगः न भविष्यति .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {25।31} सामान्येन उक्तत्वात् तस्य अर्थस्य विशेषस्य प्रयोगेण न भवितव्यम् .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {26।31} किम् कारणम् .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {27।31} उक्तार्थानाम् अप्रयोगः इति .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {28।31} न तर्हि इदानीम् इदम् भवति : तम् ब्राह्मणम् आनय गार्ग्यम् इति .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {29।31} भवति यदा नियोगतः तस्य एव आनयनम् भवति .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {30।31} एवम् तर्हि येन एव खलु अपि हेतुना एतत् वाक्यम् भवति तम् ब्राह्मणम् आनय गार्ग्यम् इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति .
(प्_1,2.72.2) क_इ,251.15-252.11 रो_इइ,170-171 {31।31} तस्मात् सामान्यविशेषवाचिनोः द्वन्द्वः न भवति इति वक्तव्यम् .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {1।19} अयम् अपि योगः शक्यः अवक्तुम् .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {2।19} कथम् गावः इमाः चरन्ति , अजाः इमाः चरन्ति .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {3।19} गावः उत्कालितपुंस्काः वाहाय च विक्रयाय च .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {4।19} स्त्रियः एव अवशिष्यन्ते .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {5।19} इदम् तर्हि प्रयोजनम् : ग्राम्येषु इति वक्ष्यामि इति .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {6।19} इह मा भूत् : न्यङ्कवः इमे , शूकराः इमे इति .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {7।19} कः पुनः अर्हति अग्राम्याणाम् पुंसः उत्कालयितुम् ये ग्रहीतुम् अशक्याः .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {8।19} कुतः एव वाहाय च विक्रयाय च .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {9।19} इदम् तर्हि प्रयोजनम् : पशुषु इति वक्ष्यामि इति .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {10।19} इह मा भूत् : ब्राह्मणाः इमे , वृषलाः इमे .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {11।19} कः पुनः अर्हति अपशूनाम् पुंसः उत्कालयितुम् ये अशक्याः वाहाय च विक्रयाय च .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {12।19} इदम् तर्हि प्रयोजनम् : सङ्घेषु इति वक्ष्यामि इति .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {13।19} इह मा भूत् : एतौ गावः चरतः .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {14।19} कः पुनः अर्हति निर्ज्ञाते अर्थे अन्यथा प्रयोक्तुम् .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {15।19} इदम् तर्हि प्रयोजनम् : अतरुणेषु इति वक्ष्यामि इति .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {16।19} इह मा भूत् : उरणकाः इमे , बर्कराः इमे इति .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {17।19} कः पुनः अर्हति तरुणानाम् पुंसः उत्कालयितुम् ये अशक्याः वाहाय च विक्रयाय च .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {18।19} अनेकशफेषु इति वक्तव्यम् इह मा भूत् : अश्वाः चरन्ति .
(प्_1,2.73) क_इ,252.13-23 रो_इइ,172 {19।19} गर्दभाः चरन्ति इति .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {1।55} कुतः अयम् वकारः .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {2।55} यदि तावत् संहितया निर्देशः क्रियते भ्वादयः इति भवितव्यम् .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {3।55} अथ असंहितया भू-आदयः इति भवितव्यम् .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {4।55} अतः उत्तरम् पठति : भूवादीनाम् वकारः अयम् मङ्गलार्थः प्रयुज्यते .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {5।55} माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थम् वकारम् आगमम् प्रयुङ्क्ते .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {6।55} मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति आयुष्मत्पुरुषाणि च .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {7।55} अध्येतारः च सिद्धार्थाः यथा स्युः इति .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {8।55} अथ आदिग्रहणम् किमर्थम् .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {9।55} यदि तावत् पठ्यन्ते न अर्थः आदिग्रहणेन .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {10।55} अन्यत्र अपि हि अयम् पठन् आदिग्रहणम् न करोति .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {11।55} क्व अन्यत्र .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {12।55} मृडमृदगुधकुषक्लिशवदवसः क्त्वा इति .

(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {13।55} अथ न पठ्यन्ते नतराम् अर्थः आदिग्रहणेन .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {14।55} न हि अपठिताः शक्याः आदिग्रहणेन विशेषयितुम् .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {15।55} एवम् तर्हि सिद्धे सति यत् आदिग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति च पाठः बाह्यः च सूत्रात् इति .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {16।55} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {17।55} पाठेन धातुसञ्ज्ञा इति एतत् उपपन्नम् भवति .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {18।55} पाठेन धातुसञ्ज्ञायाम् समानशब्दप्रतिषेधः .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {19।55} पाठेन धातुसञ्ज्ञायाम् समानशब्दानाम् प्रतिषेधः वक्तव्यः .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {20।55} या इति धातुः या इति आबन्तः .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {21।55} वा इति धातुः वा इति निपातः .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {22।55} नु इति धातुः नु इति प्रत्ययः च निपातः च .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {23।55} दिव् इति धातुः दिव् इति प्रातिपदिकम् .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {24।55} किम् च स्यात् यदि एतेषाम् अपि धातुसञ्ज्ञा स्यात् .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {25।55} धातोः इति तव्यादीनाम् उत्पत्तिः प्रसज्येत .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {26।55} न एषः दोषः .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {27।55} साधने तव्यादयः विधीयन्ते साधनम् च क्रियायाः .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {28।55} क्रियाभावात् साधनाभावः .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {29।55} साधनाभावात् सत्याम् अपि धातुसञ्ज्ञायाम् तव्यादयः न भविष्यन्ति .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {30।55} इह तर्हि : याः पश्य : आतः धातोः इति लोपः प्रसज्येत .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {31।55} न एषः दोषः .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {32।55} अनापः इति एवम् सः .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {33।55} अस्य तर्हि वाशब्दस्य निपातस्य अधातुः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्रसज्येत .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {34।55} अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न स्यात् .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {35।55} न एषः दोषः .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {36।55} निपातस्य अनर्थकस्य प्रातिपदिकत्वम् चोदितम् .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {37।55} तत्र अनर्थकग्रहणम् न करिष्यते : निपातः प्रातिपदिकम् इति एव .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {38।55} इह तर्हि : त्रस्नू इति : अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति उवङादेशः प्रसज्येत .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {39।55} न एषः दोषः .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {40।55} आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययस्य उवङादेशः भवति इति यत् अयम् तत्र श्नुग्रहणम् करोति .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {41।55} अस्य तर्हि दिव्शब्दस्य अधातुः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्रसज्येत .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {42।55} अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न स्यात् .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {43।55} न एषः दोषः .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {44।55} आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते दिव्शब्दात् स्वादयः इति यत् अयम् दिवः सौ औत्त्वम् शास्ति .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {45।55} न एतत् अस्ति ज्ञापकम् .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {46।55} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {47।55} किम् .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {48।55} दिव्शब्दः यत् प्रातिपदिकम् तदर्थम् एतत् स्यात् : अक्षद्यूः इति .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {49।55} न वै अत्र इष्यते .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {50।55} अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {51।55} एवम् तर्हि अननुबन्धकग्रहणे न सानुबन्धकस्य इति एवम् एतस्य न भविष्यति .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {52।55} एवम् अपि अननुबन्धकः दिव्शब्दः न अस्ति इति कृत्वा सानुबन्धकस्य ग्रहणम् विज्ञास्यते .

(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {53।55} परिमाणग्रहणम् च .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {54।55} परिमाणग्रहणम् च कर्तव्यम् .
(प्_1,3.1.1) क_इ,253.2-254.12 रो_इइ,173-178 {55।55} इयान् अवधिः धातुसञ्ज्ञः भवति इति वक्तव्यम् कुतः हि एतत् भूशब्दः धातुसञ्ज्ञः भविष्यति न पुनः भ्वेध्शब्दः इति
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {1।84} यदि पुनः क्रियावचनः धातुः इति एतत् लक्षणम् क्रियेत .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {2।84} का पुनः क्रिया .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {3।84} ईहा .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {4।84} का पुनः ईहा .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {5।84} चेष्टा .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {6।84} का पुनः चेष्टा .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {7।84} व्यापारः .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {8।84} सर्वथा भवान् शब्देन एव शब्दान् आचष्टे .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {9।84} न किम् चिद् अर्थजातम् निदर्शयति : एवञ्जातीयिका क्रिया इति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {10।84} क्रिया नाम इयम् अत्यन्तापरिदृष्टा .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {11।84} अशक्या क्रिया पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {12।84} सा असौ अनुमानगम्या .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {13।84} कः असौ अनुमानः .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {14।84} इह सर्वेषु साधनेषु सन्निहितेषु कदा चित् पचति इति एतत् भवति कदाचित् न भवति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {15।84} यस्मिन् साधने सन्निहिते पचति इति एतत् भवति सा नूनम् क्रिया .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {16।84} अथ वा यया देवदत्तः इह भूत्वा पाटलिपुत्रे भवति सा नूनम् क्रिया .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {17।84} कथम् पुनः ज्ञायते क्रियावचनाः पचादयः इति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {18।84} यत् एषाम् करोतिना सामानाधिकरण्यम् : किम् करोति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {19।84} पचति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {20।84} किम् करिष्यति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {21।84} पक्ष्यति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {22।84} किम् अकार्षीत् .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {23।84} अपाक्षीत् इति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {24।84} तत्र क्रियावचने उपसर्गप्रत्ययप्रतिषेधः .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {25।84} क्रियावचने धातौ उपसर्गप्रत्यययोः प्रतिषेधः वक्तव्यः .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {26।84} पचति प्रपचति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {27।84} किम् पुनः कारणम् प्राप्नोति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {28।84} सङ्घातेन अर्थगतेः .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {29।84} सङ्घातेन हि अर्थः गम्यते सप्रकृतिकेन सप्रत्ययकेन सोपसर्गेण च .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {30।84} अस्तिभवतिविद्यतीनाम् धातुत्वम् .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {31।84} अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा वक्तव्या .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {32।84} यथा हि भवता करोतिना पचादीनाम् सामानाधिकरण्यम् निदर्शितम् न तथा अस्त्यादीनाम् निदर्श्यते .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {33।84} न हि भवति किम् करोति अस्ति इति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {34।84} प्रत्ययार्थस्य अव्यतिरेकात् प्रकृत्यन्तरेषु .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {35।84} प्रत्ययार्थस्य अव्यतिरेकात् प्रकृत्यन्तरेषु मन्यामहे धातुः एव क्रियाम् आह इति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {36।84} पचति पठति : प्रकृत्यर्थः अन्यः च अन्यः च .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {37।84} प्रत्ययार्थः सः एव .

(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {38।84} धातोः च अर्थाभेदात् प्रत्ययान्तरेषु .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {39।84} धातोः च अर्थाभेदात् प्रत्ययान्तरेषु मन्यामहे धातुः एव क्रियाम् आह इति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {40।84} पक्ता पचनम् पाकः इति : प्रत्ययार्थः अन्यः च अन्यः च भवति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {41।84} प्रकृत्यर्थः सः एव. कथम् पुनः ज्ञायते अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {42।84} सिद्धम् तु अन्वयव्यतिरेकाभ्याम् .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {43।84} अन्वयात् व्यतिरेकात् च .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {44।84} कः असौ अन्वयः व्यतिरेकः वा .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {45।84} इह पचति इति उक्ते कः चित् शब्दः श्रूयते : पच्शब्दः चकारान्तः अतिशब्दः च प्रत्ययः .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {46।84} अर्थः अपि कः चित् गम्यते : विक्लित्तिः कर्तृत्वम् एकत्वम् च .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {47।84} पठति इति उक्ते कः चित् शब्दः हीयते कः चित् उपजायते कः चित् अन्वयी : पच्शब्दः हीयते पठ्शब्दः उपजायते अतिशब्दः अन्वयी .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {48।84} अर्थः अपि कः चित् हीयते कः चित् उपजायते कः चित् अन्वयी : विक्लित्तिः हीयते पठिक्रिया उपजायते कर्तृत्वम् च एकत्वम् च अन्वयी .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {49।84} ते मन्यामहे : यः शब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {50।84} यः शब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {51।84} यः शब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {52।84} विषमः उपन्यासः .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {53।84} बहवः हि शब्दाः एकार्थाः भवन्ति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {54।84} तत् यथा : इन्द्रः शक्रः पुरुहूतः पुरन्दरः , कन्दुः कोष्ठः कुशूलः इति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {55।84} एकः च शब्दः बह्वर्थः .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {56।84} तत् यथा : अक्षाः पादाः माषाः इति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {57।84} अतः किम् न साधीयः अर्थवत्ता सिद्धा भवति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {58।84} न अपि ब्रूमः अर्थवत्ता न सिध्यति इति .वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्याम् एव .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {59।84} तत्र कुतः एतत् : अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात् प्रत्ययः एव वा .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {60।84} सामान्यशब्दाः एते एवम् स्युः .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {61।84} सामान्यशब्दाः च न अन्तरेण प्रकरणम् विशेषम् वा विशेषेषु अवतिष्ठन्ते .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {62।84} यतः तु खलु नियोगतः पचति इति उक्ते स्वभावतः कस्मिन् चित् विशेषे पचतिशब्दः वर्तते अतः मन्यामहे न इमे सामान्यशब्दाः इति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {63।84} न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {64।84} क्रियाविशेषकः उपसर्गः .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {65।84} पचति इति क्रिया गम्यते .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {66।84} ताम् प्रः विशिनष्टि .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {67।84} यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र धातुः उपसर्गम् व्यभिचरति यत्र न खलु तम् व्यभिचरति तत्र कथम् : अध्येति , अधीते इति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {68।84} यदि अपि अत्र धातुः उपसर्गम् न व्यभिचरति उपसर्गः तु धातुम् व्यभिचरति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {69।84} ते मन्यामहे : यः एव अस्य अधेः अन्यत्र अर्थः स इह अपि इति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {70।84} कः पुनः अन्यत्र अधेः अर्थः .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {71।84} अधिः उपरिभावे वर्तते .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {72।84} इह तर्हि व्यक्तम् अर्थान्तरम् गम्यते : तिष्ठति प्रतिष्ठते इति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {73।84} तिष्ठति इति व्रजिक्रियायाः निवृत्तिः प्रतिष्ठते इति व्रजिक्रिया गम्यते .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {74।84} ते मन्यामहे उपसर्गकृतम् एतत् येन अत्र व्रजिक्रिया गम्यते .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {75।84} प्रः अयम् दृष्टापचारः आदिकर्मणि वर्तते .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {76।84} न च इदम् न अस्ति बह्वर्थाः अपि धातवः भवन्ति इति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {77।84} तत् यथा : वपिः प्रकिरणे डृष्टः छेदने अपि वर्तते : केशश्मश्रु वपति इति .

(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {78।84} ईडिः स्तुतिचोदनायाच्ञासु दृष्टः प्रेरणे अपि वर्तते : अग्निः वै इतः वृष्टिम् ईट्टे मरुतः अमुतः च्यावयन्ति इति .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {79।84} करोतिः अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे अपि वर्तते : पृष्ठम् कुरु पाचौ , कुरु .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {80।84} उन्मृदान इति गम्यते .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {81।84} निक्षेपणे च अपि वर्तते : कटे कुरु , घटे कुरु , अश्मानम् इतः कुरु .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {82।84} स्थापय इति गम्यते .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {83।84} एवम् इह अपि तिष्ठतिः एव व्रजिक्रियाम् आह तिष्ठतिः एव व्रजिक्रियायाः निवृत्तिम् .
(प्_1,3.1.2) क_इ,254.13-256.17 रो_इइ,179-185 {84।84} अयम् तर्हि दोषः : अस्तिभवतिविद्यतीनाम् धातुत्वम् इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {1।70} यदि पुनः भाववचनः धातुः इति एवम् लक्षणम् क्रियेत .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {2।70} कथम् पुनः ज्ञायते भाववचनाः पचादयः इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {3।70} यत् एषाम् भवतिना सामानाधिकरण्यम् : भवति पचति , भवति पक्ष्यति , भवति अपाक्षीत् इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {4।70} कः पुनः भावः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {5।70} भवतेः स्वपदार्थः भवनम् भावः इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {6।70} यदि भवतेः स्वपदार्थः भवनम् भावः विप्रतिषिद्धानाम् धातुसञ्ज्ञा न प्राप्नोति : भेदः , छेदः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {7।70} अन्यः हि भावः अन्यः हि अभावः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {8।70} आतः च अन्यः भावः अन्यः अभावः इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {9।70} यः हि यस्य भावम् इच्छति सः न तस्य अभावम् यस्य च अभावम् न तस्य भावम् .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {10।70} पचादीनाम् च धातुसञ्ज्ञा न प्राप्नोति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {11।70} यथा हि भवता क्रियावचने धातौ करोतिना पचादीनाम् सामानाधिकरण्यम् निदर्शितम् न तथा भाववचने धातौ निदर्श्यते .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {12।70} करोतिः पचाचीनाम् सर्वान् कालान् सर्वान् पुरुषान् सर्वाणि च वचनानि अनुवर्तते .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {13।70} भवतिः पुनः वर्तमानकालम् च एव एकत्वम् च .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {14।70} का तर्हि इयम् वाचोयुक्तिः : भवति पचति , भवति पक्ष्यति , भवति अपाक्षीत् इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {15।70} एषा एषा वाचोयुक्तिः : पचादयः क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {16।70} यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्या च अन्या च क्रिया यत्र खलु सा एव क्रिया तत्र कथम् : भवेत् अपि भवेत् , स्यात् अपि स्यात् इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {17।70} अत्र अपि अन्यत्वम् अस्ति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {18।70} कुतः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {19।70} कालभेदात् साधनभेदात् च .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {20।70} एकस्य अत्र भवतेः भवतिः साधनम् सर्वकालः च प्रत्ययः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {21।70} अपरस्य बाह्यम् साधनम् वर्तमानकालः च प्रत्ययः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {22।70} यावता अत्र अपि अन्यत्वम् अस्ति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयम् कर्तृसाधनः : भवति इति भावः इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {23।70} किम् कृतम् भवति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {24।70} विप्रतिषिद्धानाम् धातुसञ्ज्ञा सिद्धा भवति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {25।70} भवेत् विप्रतिषिद्धानाम् धातुसञ्ज्ञा सिद्धा स्यात् प्रातिपदिकानाम् अपि प्राप्नोति : वृक्षः , प्लक्षः इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {26।70} किम् कारणम् .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {27।70} एतानि अपि हि भवन्ति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {28।70} एवम् तर्हि कर्मसाधनः भविष्यति : भाव्यते यः सः भावः इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {29।70} क्रिया च एव हि भाव्यते स्वभावसिद्धम् तु द्रव्यम् .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {30।70} एवम् अपि भवेत् केषाम् चित् न स्यात् यानि न भाव्यन्ते .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {31।70} ये तु एते सम्बन्धिशब्दाः तेषाम् प्राप्नोति : माता पिता भ्राता इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {32।70} सर्वथा वयम् प्रातिपदिकपर्युदासात् न मुच्यामहे .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {33।70} पठिष्यति हि आचार्यः : भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः इति .

(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {34।70} यावता पठिष्यति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयम् कर्तृसाधनः : भवति इति भावः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {35।70} किम् वक्तव्यम् एतत् .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {36।70} न हि .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {37।70} कथम् अनुच्यमानम् गंस्यते .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {38।70} एतेन एव अभिहितम् सूत्रेण भूवादयः धातवः इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {39।70} कथम् .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {40।70} न इदम् आदिग्रहणम् .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {41।70} वदेः अयम् औणादिकः इञ् कर्तृसाधनः : भुवम् वदन्ति इति भूवादयः इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {42।70} भाववचने तदर्थप्रत्ययप्रतिषेधः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {43।70} भाववचने धातौ तदर्थस्य प्रत्ययस्य प्रतिषेधः वक्तव्यः : शिश्ये इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {44।70} किम् च स्यात् .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {45।70} अशिति इति आत्त्वम् प्रसज्येत .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {46।70} तत् हि धातोः विहितम् .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {47।70} इतरेतराश्रयम् च प्रत्यये भाववचनत्वम् तस्मात् च प्रत्ययः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {48।70} इतरेतराश्रयम् च भवति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {49।70} का इतरेतराश्रयता .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {50।70} प्रत्यये भाववचनत्वम् तस्मात् च प्रत्ययः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {51।70} उत्पन्ने हि प्रत्यये भाववचनत्वम् गम्यते सः च तावत् भाववचनात् उत्पन्नः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {52।70} तत् एतत् इतरेतराश्रयम् भवति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {53।70} इतरेतराश्रयाणि च न प्रकल्पन्ते .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {54।70} सिद्धम् तु नित्यशब्दत्वात् अनाश्रित्य भाववचनत्वम् प्रत्ययः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {55।70} सिद्धम् एतत् .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {56।70} कथम् .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {57।70} नित्याः शब्दाः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {58।70} नित्येषु च शब्देषु अनाश्रित्य भाववचनत्वम् प्रत्ययः उत्पद्यते .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {59।70} प्रथमभावग्रहणम् च .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {60।70} प्रथमभावग्रहणम् च कर्तव्यम् .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {61।70} प्रथमम् यः भावम् आह इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {62।70} कुतः पुनः प्राथम्यम् .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {63।70} किम् शब्दतः आहोस्वित् अर्थतः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {64।70} किम् च अतः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {65।70} यदि शब्दतः सनादीनाम् धातुसञ्ज्ञा न प्राप्नोति : पुत्रीयति वस्त्रीयति इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {66।70} अथ अर्थतः सिद्धा सनादीनाम् धातुसञ्ज्ञा सः एव तु दोषः भवति : भाववचने तदर्थप्रत्ययप्रतिषेधः इति .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {67।70} एवम् तर्हि न एव अर्थतः न एव शब्दतः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {68।70} किम् तर्हि .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {69।70} अभिधानतः .
(प्_1,3.1.3) क_इ,256.18-258.6 रो_इइ,185-192 {70।70} सुमध्यमे अभिधाने यः प्रथमम् भावम् आह.
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {1।26} इह ये एव भाववचने धातौ दोषाः ते एव क्रियावचने अपि .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {2।26} तत्र ते एव परिहाराः .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {3।26} तत्र इदम् अपरिहृतम् : अस्तिभवतिविद्यतीनाम् धातुत्वम् इति .

(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {4।26} तस्य परिहारः .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {5।26} काम् पुनः क्रियाम् भवान् मत्वा आह अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा न प्राप्नोति इति .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {6।26} किम् यत् तत् देवदत्तः कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {7।26} न ब्रूमः कारकाणि क्रिया इति .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {8।26} किम् तर्हि .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {9।26} कारकाणाम् प्रवृत्तिविशेषः क्रिया .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {10।26} अन्यथा च कारकाणि शुष्कौदने प्रवर्तन्ते अन्यथा च मांसौदने .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {11।26} यदि एवम् सिद्धा अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {12।26} अन्यथा हि कारकाणि अस्तौ प्रवर्तन्ते अन्यथा हि म्रियतौ .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {13।26} षट् भावविकाराः इति ह स्म आह भगवान् वार्ष्यायणिः : जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यति इति .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {14।26} सर्वथा स्थितः इति अत्र धातुसञ्ज्ञा न प्राप्नोति .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {15।26} बाह्यः हि एभ्यः तिष्ठतिः .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {16।26} एवम् तर्हि क्रियायाः क्रिया निवर्तिका भवति द्रव्यम् द्रव्यस्य निवर्तकम् .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {17।26} एवम् हि कः चित् कम् चित् पृच्छति .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {18।26} किमवस्थः देवदत्तस्य व्याधिः इति .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {19।26} सः आह : वर्धते इति .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {20।26} अपरः आह : अपक्षीयते इति .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {21।26} अपरः आह : स्थितः इति .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {22।26} स्थितः इति उक्ते वर्धतेः च अपक्षीयतेः च निवृत्तिः भवति .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {23।26} अथ वा न अन्तरेण क्रियाम् भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {24।26} अस्त्यादिभिः च अपि भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {25।26} अथ वा न अन्यत् प्र्ष्टेन अन्यत् आख्येयम् .
(प्_1,3.1.4) क_इ,258.7-21 रो_इइ,193-196 {26।26} तेन न भविष्यति किम् करोति अस्ति इति .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {1।34} अथ यदि एव क्रियावचनः धातुः इति एषः पक्षः अथ अपि भाववचनः धातुः किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {2।34} गतम् इति आह .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {3।34} कथम् .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {4।34} अयम् आदिशब्दः अस्ति एव व्यवस्थायाम् वर्तते .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {5।34} तत् यथा : देवदत्तादीन् समुपविष्टान् आह : देवदत्तादयः आनीयन्ताम् इति .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {6।34} ते उत्थाप्य आनीयन्ते .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {7।34} अस्ति प्रकारे वर्तते .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {8।34} तत् यथा : देवदत्तादयः आढ्याः अभिरूपाः दर्शनीयाः पक्षवन्तः .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {9।34} देवदत्तप्रकाराः इति गम्यते .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {10।34} प्रत्येकम् च आदिशब्दः परिसमाप्यते .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {11।34} भ्वादयः इति च वादयः इति च .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {12।34} तत् यदा तावत् क्रियावचनः धातुः इति एषः पक्षः तदा भू इति अत्र यः आदिशब्दः सः व्यवस्थायाम् वर्तते वा इति अत्र यः आदिशब्दः सः प्रकारे .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {13।34} भू इति एवमादयः वा इति एवम्प्रकाराः इति .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {14।34} यदा तु भाववचनः धातुः इति एषः पक्षः तदा वा इति अत्र यः आदिशब्दः सः व्यवस्थायाम् भू इति अत्र यः आदिशब्दः सः प्रकारे .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {15।34} वा इति एवमादयः भू इति एवम्प्रकाराः इति .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {16।34} यदि तर्हि लक्षणम् क्रियते न इदानीम् पाठः कर्तव्यः .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {17।34} कर्तव्यः च .

(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {18।34} किम् प्रयोजनम् .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {19।34} भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {20।34} भूवादिपाठः कर्तव्यः .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {21।34} किम् प्रयोजनम् .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {22।34} प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {23।34} प्रातिपदिकनिवृत्त्यर्थः आणपयत्यादिनिवृत्त्यर्थः च .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {24।34} के पुनः आणपयत्यादयः .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {25।34} आणपयति वट्टति वड्ढति इति .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {26।34} स्वरानुबन्धज्ञापनाय च .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {27।34} स्वरानुबन्धज्ञापनाय च पाठः कर्तव्यः : स्वरान् अनुबन्धान् च ज्ञास्यामि इति .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {28।34} न हि अन्तरेण पाथम् स्वराः अनुबन्धाः वा शक्याः विज्ञातुम् .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {29।34} ये तु एते न्याय्यविकरणाः उदात्ताः अननुबन्धकाः पठ्यन्ते एतेषाम् पाठः शक्यः अकर्तुम् .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {30।34} एतेषाम् अपि अवश्यम् आणपयत्यादिनिवृत्त्यर्थः पाठः कर्तव्यः .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {31।34} न कर्तव्यः .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {32।34} शिष्टप्रयोगात् आणपयत्यादीनाम् निवृत्तिः भविष्यति .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {33।34} सः च अवश्यम् शिष्टप्रयोगः उपास्यः ये अपि पठ्यन्ते तेषाम् अपि विपर्यासनिवृत्त्यर्थः .
(प्_1,3.1.5) क_इ,258.22-259.14 रो_इइ,196-198 {34।34} लोके हि कृष्यर्थे कसिम् प्रयुञ्जते दृश्यर्थे च दिशिम् .
(प्_1,3.2.1) क_इ,259.16-23 रो_इइ,198-199 {1।11} उपदेशे इति किमर्थम् .
(प्_1,3.2.1) क_इ,259.16-23 रो_इइ,198-199 {2।11} अभ्रे आश् अपः : उद्देशे यः अनुनासिकः तस्य मा भूत् इति .
(प्_1,3.2.1) क_इ,259.16-23 रो_इइ,198-199 {3।11} कः पुनः उद्देशोपदेशयोः विशेषः .
(प्_1,3.2.1) क_इ,259.16-23 रो_इइ,198-199 {4।11} प्रत्यक्षम् आख्यानम् उपदेशः , गुणैः प्रापणम् उद्देशः .
(प्_1,3.2.1) क_इ,259.16-23 रो_इइ,198-199 {5।11} प्रत्यक्षम् तावत् आख्यानम् उपदेशः .
(प्_1,3.2.1) क_इ,259.16-23 रो_इइ,198-199 {6।11} तत् यथा : अगोज्ञाय कः चित् गाम् सख्थनि कर्णे वा गृहीत्वा उपदिशति : अयम् गौः इति .
(प्_1,3.2.1) क_इ,259.16-23 रो_इइ,198-199 {7।11} सः प्रत्यक्षम् आख्यातम् आह : उपदिष्टः मे गौः इति .
(प्_1,3.2.1) क_इ,259.16-23 रो_इइ,198-199 {8।11} गुणैः प्रापणम् उद्देशः .
(प्_1,3.2.1) क_इ,259.16-23 रो_इइ,198-199 {9।11} तत् यथा : कः चित् कम् चित् आह : देवदत्तम् मे भवान् उद्दिशतु इति .
(प्_1,3.2.1) क_इ,259.16-23 रो_इइ,198-199 {10।11} सः इहस्थः पाटलिपुत्रस्थम् देवदत्तम् उद्दिशति : अङ्गदी कुण्डली किरीटी व्यूढोरस्कः वृत्तबाहुः लोहिताक्षः तुङ्गनासः चित्राभरणः ईदृशः देवदत्तः इति .
(प्_1,3.2.1) क_इ,259.16-23 रो_इइ,198-199 {11।11} सः गुणैः प्राप्यमाणम् आह : उद्दिष्टः मे देवदत्तः इति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {1।63} इत्सञ्ज्ञायाम् सर्वप्रसङ्गः अविशेषात् .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {2।63} इत्सञ्ज्ञायाम् सर्वप्रसङ्गः .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {3।63} सर्वस्य अनुनासिकस्य इत्सञ्ज्ञा प्राप्नोति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {4।63} अस्य अपि प्राप्नोति : अभ्रे आश् अपः .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {5।63} किम् कारणम् .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {6।63} अविशेषात् .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {7।63} न हि कः चित् विशेषः : उपादीयते एवञ्जातीयकस्य अनुनासिकस्य इत्सञ्ज्ञा भवति इति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {8।63} अनुपादीयमाने विशेषे सर्वप्रसङ्गः .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {9।63} किम् उच्यते अनुपादीयमाने विशेषे इति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {10।63} कथम् न नाम उपादीयते यदा उपदेशे इति उच्यते .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {11।63} लक्षणेन हि उपदेशः .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {12।63} सङ्कीर्णौ उद्देशोपदेशौ .

(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {13।63} प्रत्यक्षम् आख्यानम् उद्देशः गुणैः च प्रापणम् उपदेशः .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {14।63} प्रत्यक्षम् तावत् आख्यानम् उद्देशः .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {15।63} तत् यथा : कः चित् कम् चित् आह : अनुवाकम् मे भवान् उद्दिशतु इति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {16।63} सः तस्मै आचष्टे : इषेत्वकम् अधीष्व .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {17।63} शन्नोदेवीयम् अधीष्व इति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {18।63} सः प्रत्यक्षम् आख्यातम् आह : उद्दिष्टः मे अनुवाकः .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {19।63} तम् अध्येष्ये इति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {20।63} गुणैः च प्रापणम् उपदेशः .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {21।63} तत् यथा : कः चित् कम् चित् आह : ग्रामन्तरम् गमिष्यामि .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {22।63} पन्थानम् मे भवान् उपदिशतु इति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {23।63} सः तस्मै आचष्टे : अमुष्मिन् अवकाशे हस्तदक्षिणः ग्रहीतव्यः , अमुष्मिन् हस्तवामः इति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {24।63} सः गुणैः प्राप्यमाणम् आह : उपदिष्टः मे पन्थाः इति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {25।63} एवम् एतौ सङ्कीर्णौ उद्देशोपदेशौ .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {26।63} एवम् तर्हि इत्कार्याभावात् इत्सञ्ज्ञा न भविष्यति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {27।63} ननु च लोपः एव इत्कार्यम् स्यात् .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {28।63} अकार्यम् लोपः .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {29।63} इह हि शब्दस्य द्व्यर्थः उपदेशः .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {30।63} कार्यार्थः वा भवति उपदेशः श्रवणार्थः वा .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {31।63} कार्यम् च इह न अस्ति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {32।63} कार्ये च असति यदि श्रवणम् अपि न स्यात् उपदेशः अनर्थकः स्यात् .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {33।63} इदम् अस्ति इत्कार्यम् : अभ्रे आश् अटितः : अनन्तरलक्षणायाम् इत्सञ्ज्ञायाम् सत्याम् आदितः च इति इट्प्रतिषेधः प्रसज्येत .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {34।63} सिद्धम् तु उपदेशने अनुनासिकवचनात् .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {35।63} सिद्धम् एतत् कथम् .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {36।63} उपदेशने यः अनुनासिकः सः इत्सञ्ज्ञः भवति इति वक्तव्यम् .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {37।63} किम् पुनः उपदेशनम् .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {38।63} शास्त्रम् .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {39।63} सिध्यति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {40।63} सूत्रम् तर्हि भिद्यते .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {41।63} यथान्यासम् एव अस्तु .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {42।63} ननु च उक्तम् इत्सञ्ज्ञायाम् सर्वप्रसङ्गः अविशेषात् इति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {43।63} न एषः दोषः .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {44।63} उपदेशः इति घञ् अयम् करणसाधनः .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {45।63} न सिध्यति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {46।63} परत्वात् ल्युट् प्राप्नोति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {47।63} न ब्रूमः अकर्तरि च कारके सञ्ज्ञायाम् इति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {48।63} किम् तर्हि .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {49।63} हलः च इति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {50।63} तत्र अपि सञ्ज्ञायाम् इति वर्तते .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {51।63} न च एषा सञ्ज्ञा .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {52।63} प्रायवचनात् असञ्ज्ञायाम् अपि भविष्यति .

(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {53।63} प्रायवचनात् सञ्ज्ञायाम् एव स्यात् वा न वा .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {54।63} न हि उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {55।63} यदि न उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् कल्याण्यादीनाम् इनङ् कुलटायाः वा इनङ् विभाषा न प्राप्नोति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {56।63} इनङ् एव अत्र प्रधानम् .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {57।63} विहितः प्रत्ययः प्रकृतः च अनुवर्तते .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {58।63} इह तर्हि : वाकिनादीनाम् कुक् च पुत्रात् अन्यतरस्याम् इति कुक् विभाषा न प्राप्नोति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {59।63} अत्र अपि कुक् एव प्रधानम् .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {60।63} विहितः प्रत्ययः प्रकृतः च अनुवर्तते .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {61।63} एवम् न च इदम् अकृतम् भवति न उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् इति न च कः चित् दोषः भवति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {62।63} एवम् च कृत्वा घञ् न प्राप्नोति .
(प्_1,3.2.2) क_इ,259.24-261.3 रो_इइ,199-202 {63।63} एवम् तर्हि कृत्यल्युटः बहुलम् इति एवम् अत्र घञ् भविष्यति .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {1।26} हलन्त्ये सर्व्प्रसङ्गः सर्वान्त्यत्वात् .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {2।26} हलन्त्ये सर्व्प्रसङ्गः .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {3।26} सर्वस्य हलः इत्सञ्ज्ञा प्राप्नोति .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {4।26} किम् कारणम् .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {5।26} सर्वान्त्यत्वात् .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {6।26} सर्वः हि हल् तम् तम् अवधिम् प्रति अन्त्यः भवति .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {7।26} सिद्धम् तु व्यवसितान्त्यत्वात् .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {8।26} सिद्धम् एतत् .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {9।26} कथम् .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {10।26} व्यवसितान्त्यत्वात् .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {11।26} व्यवसितान्त्यः हल् इत्सञ्ज्ञः भवति इति वक्तव्यम् .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {12।26} के पुनः व्यवसिताः .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {13।26} धातुप्रातिपदिकप्रत्ययनिपातागमादेशाः .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {14।26} सिध्यति .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {15।26} सूत्रम् तर्हि भिद्यते .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {16।26} यथान्यासम् एव अस्तु .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {17।26} ननु च उक्तम् हलन्त्ये सर्व्प्रसङ्गः सर्वान्त्यत्वात् इति .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {18।26} न एषः दोषः .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {19।26} आह अयम् हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {20।26} सर्वः च हल् तम् तम् अवधिम् प्रति अन्त्यः भवति .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {21।26} तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः अन्त्यः इति .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {22।26} कः च साधीयः .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {23।26} यः व्यवसितान्त्यः .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {24।26} अथ वा सापेक्षः अयम् निर्देशः क्रियते .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {25।26} न च अन्यत् किम् चित् अपेक्ष्यम् अस्ति .
(प्_1,3.3.1) क_इ,261.5-15 रो_इइ,202-203 {26।26} ते व्यवसितम् एव अपेक्षिष्यामहे .
(प्_1,3.3.2) क_इ,261.16-262.3 रो_इइ,203-205 {1।16} लकारस्य अनुबन्धाज्ञापितत्वात् हल्ग्रहणाप्रसिद्धिः .
(प्_1,3.3.2) क_इ,261.16-262.3 रो_इइ,203-205 {2।16} लकारस्य अनुबन्धत्वेन अज्ञापितत्वात् हल्ग्रहणाप्रसिद्धिः .
(प्_1,3.3.2) क_इ,261.16-262.3 रो_इइ,203-205 {3।16} हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति उच्यते .

(प्_1,3.3.2) क_इ,261.16-262.3 रो_इइ,203-205 {4।16} लकारस्य एव तावत् इत्सञ्ज्ञा न प्राप्नोति .
(प्_1,3.3.2) क_इ,261.16-262.3 रो_इइ,203-205 {5।16} सिद्धम् तु लकारनिर्देशात् .
(प्_1,3.3.2) क_इ,261.16-262.3 रो_इइ,203-205 {6।16} सिद्धम् एतत् .
(प्_1,3.3.2) क_इ,261.16-262.3 रो_इइ,203-205 {7।16} कथम् .
(प्_1,3.3.2) क_इ,261.16-262.3 रो_इइ,203-205 {8।16} लकारनिर्देशः कर्तव्यः .
(प्_1,3.3.2) क_इ,261.16-262.3 रो_इइ,203-205 {9।16} हल् अन्त्यम् इत्सञ्ज्ञम् भवति लकारः च इति वक्तव्यम् .
(प्_1,3.3.2) क_इ,261.16-262.3 रो_इइ,203-205 {10।16} एकशेषनिर्देशात् वा .
(प्_1,3.3.2) क_इ,261.16-262.3 रो_इइ,203-205 {11।16} अथ वा एकशेषनिर्देशः अयम् .
(प्_1,3.3.2) क_इ,261.16-262.3 रो_इइ,203-205 {12।16} हल् च हल् च हल् .
(प्_1,3.3.2) क_इ,261.16-262.3 रो_इइ,203-205 {13।16} हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति .
(प्_1,3.3.2) क_इ,261.16-262.3 रो_इइ,203-205 {14।16} अथ वा ऌकारस्य एव इदम् गुणभूतस्य ग्रहणम् .
(प्_1,3.3.2) क_इ,261.16-262.3 रो_इइ,203-205 {15।16} तत्र उपदेशे अच् अनुनासिक इत् इति इत्सञ्ज्ञा भविष्यति .
(प्_1,3.3.2) क_इ,261.16-262.3 रो_इइ,203-205 {16।16} अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति लकारस्य इत्सञ्ज्ञा इति यत् अयम् णलम् लितम् करोति .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {1।28} प्रातिपदिकप्रतिषेधः अकृत्तद्धिते .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {2।28} अकृत्तद्धितान्तस्य प्रातिपदिकस्य प्रतिषेधः वक्तव्यः .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {3।28} उदश्वित् शक्र्ट् इति .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {4।28} अकृत्तद्धितान्तस्य इति किमर्थम् .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {5।28} कुम्भकारः नगरकारः औपगवः कापटवः .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {6।28} इदर्थाभावात् सिद्धम् .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {7।28} इत्कार्याभावात् अत्र इत्सञ्ज्ञ न भविष्यति .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {8।28} इदम् अस्ति इत्कार्यम् तित्स्वरितम् इति स्वरितत्वम् यथा स्यात् .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {9।28} न एतत् अस्ति .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {10।28} प्रत्ययग्रहणम् तत्र चोदयिष्यति .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {11।28} इदम् तर्हि : राजा तक्षा .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {12।28} ञ्निति आद्युदात्तत्वम् यथा स्यात् .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {13।28} ञ्निति इति उच्यते .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {14।28} तत्र व्यपवर्गाभावात् न भविष्यति .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {15।28} इदम् तर्हि स्वः .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {16।28} उपोत्तमम् रिति एषः स्वरः यथा स्यात् .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {17।28} स्वरितकरणसामर्थ्यात् न भविष्यति .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {18।28} न्यङ्स्वरौ स्व्रितौ इति .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {19।28} इह तर्हि अन्तः .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {20।28} उत्तमशब्दः त्रिप्रभृतिषु वर्तते .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {21।28} न च अत्र त्रिप्रभृतयः सन्ति .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {22।28} इह तर्हि सनुतः .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {23।28} उपोत्तमम् रिति इति एषः स्वरः यथा स्यात् .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {24।28} अन्तोदात्तनिपातनम् करिष्यते .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {25।28} सः च निपातस्वरः रित्स्वरस्य बाधकः भविष्यति .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {26।28} एतत् च अत्र युक्तम् यत् इत्कार्याभावात् इत्सञ्ज्ञा न स्यात् .
(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {27।28} यत्र इत्कार्यम् भवति भवति तत्र इत्सञ्ज्ञा .

(प्_1,3.3.3) क_इ,262.4-17 रो_इइ,205-207 {28।28} तत् यथा आगस्त्यकौण्डिन्ययोः अगस्तिकुण्डिनच् .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {1।26} विभक्तौ तवर्गप्रतिषेधः अतद्धिते .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {2।26} विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति वक्तव्यम् .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {3।26} इह मा भूत् .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {4।26} किमः अत् क्वे प्रेप्सन् दीप्यसे क्व अर्धमासाः इति .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {5।26} सः तर्हि प्रतिषेधः वक्तव्यः .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {6।26} न वक्तव्यः .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {7।26} आचार्यप्रवृत्तिः ज्ञापायति न विभक्तौ तद्धिते प्रतिषेधः भवति इति यत् अयम् इदमः थमुः इति मकारस्ये इत्सञ्ज्ञापरित्राणार्थम् उकारम् अनुबन्धम् करोति .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {8।26} यदि एतत् ज्ञाप्यते इदानीम् इति अत्र अपि प्राप्नोति .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {9।26} इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {10।26} इदम् अस्ति इत्कार्यम् मित् अचः अन्त्यात् परः इति अचाम् अन्त्यात् परः यथा स्यात् .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {11।26} इश्भावे कृते न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {12।26} सः एव तावत् इश्भावः न प्राप्नोति .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {13।26} किम् कारणम् .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {14।26} प्राक् दिशः प्रत्ययेषु इति उच्यते .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {15।26} कः पुनः अर्हति इश्भावम् प्राग् दिशः प्रत्ययेषु वक्तुम् .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {16।26} किम् तर्हि .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {17।26} प्राक् दिशः अर्थेषु इश्भावः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः प्रत्ययोत्पत्तिः .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {18।26} एवम् तर्हि तदः अपि अयम् वक्तव्यः .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {19।26} तदः च मित् अचः अन्त्यात् परत्वेन न सिध्यति .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {20।26} ननु च अत्र अपि अत्वे कृते न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {21।26} तत् हि अत्त्वम् न प्राप्नोति .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {22।26} किम् कारणम् .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {23।26} विभक्तौ इति उच्यते .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {24।26} एवम् तर्हि यकारान्तः दानीम् करिष्यते .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {25।26} किम् यकारः न श्रूयते .
(प्_1,3.4) क_इ,262.19-263.9 रो_इइ,207-209 {26।26} लुप्तनिर्दिष्टः यकारः .
(प्_1,3.7.1) क_इ,263.11-18 रो_इइ,209 {1।12} चुञ्चुप्चणपोः चकारप्रतिषेधः .
(प्_1,3.7.1) क_इ,263.11-18 रो_इइ,209 {2।12} चुञ्चुप्चणपोः चकारस्य प्रतिषेधः वक्तव्यः .
(प्_1,3.7.1) क_इ,263.11-18 रो_इइ,209 {3।12} केशचुञ्चुः केशचणः .
(प्_1,3.7.1) क_इ,263.11-18 रो_इइ,209 {4।12} इत्कार्याभावात् सिद्धम् .
(प्_1,3.7.1) क_इ,263.11-18 रो_इइ,209 {5।12} इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति .
(प्_1,3.7.1) क_इ,263.11-18 रो_इइ,209 {6।12} इदम् अस्ति इत्कार्यम् चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् .
(प्_1,3.7.1) क_इ,263.11-18 रो_इइ,209 {7।12} पित्करणम् इदानीम् किमर्थम् स्यात् .
(प्_1,3.7.1) क_इ,263.11-18 रो_इइ,209 {8।12} पित्करणम् किमर्थम् इति चेत् पर्यायार्थम् .
(प्_1,3.7.1) क_इ,263.11-18 रो_इइ,209 {9।12} पित्करणम् किमर्थम् इति चेत् पर्यायार्थम् एतत् स्यात् .
(प्_1,3.7.1) क_इ,263.11-18 रो_इइ,209 {10।12} एवम् तर्हि यकारादी चुञ्चुप्चणपौ .
(प्_1,3.7.1) क_इ,263.11-18 रो_इइ,209 {11।12} किम् यकारः न श्रूयते .
(प्_1,3.7.1) क_इ,263.11-18 रो_इइ,209 {12।12} लुप्तनिर्दिष्टः यकारः .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {1।26} इरः उपसङ्ख्यानम् .

(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {2।26} इरः उपसङ्ख्यानम् कर्तव्यम् : रुधिर् : अरुधत् , अरौत्सीत् .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {3।26} अवयवग्रहणात् सिद्धम् .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {4।26} रेफस्य अत्र हलन्त्यम् इति इत्सञ्ज्ञा भविष्यति इकारस्य उपदेशे अच् अनुनासिकः इति .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {5।26} अवयवग्रहणात् इति चेत् इदिद्विधिप्रसङ्गः .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {6।26} अवयवग्रहणात् इति चेत् इदिद्विधिप्रसङ्गः प्राप्नोति .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {7।26} भेत्ता छेत्ता .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {8।26} इदितः नुम् धातोः इति नुम् प्राप्नोति .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {9।26} यदि पुनः अयम् इदिद्विधिः कुम्भीधान्यन्यायेन विज्ञायेत .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {10।26} तत् यथा .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {11।26} कुम्भीधान्यः श्रोत्रियः इति उच्यते .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {12।26} यस्य कुम्भ्याम् एव धान्यम् सः कुम्भीधान्यः .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {13।26} यस्य पुनः कुम्भ्याम् च अन्यत्र च न असौ कुम्भीधान्यः .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {14।26} न अयम् इदिद्विधिः कुम्भीधान्यन्यायेन शक्यः विज्ञातुम् .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {15।26} इह हि दोषः स्यात् .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {16।26} टुनदि नन्दथुः इति .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {17।26} एवम् तर्हि न एवम् विज्ञायते इकारः इत् यस्य सः अयम् इदित् तस्य इदितः इति .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {18।26} कथम् तर्हि .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {19।26} इकारः एव इत् इदित् इदिदन्तस्य इति .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {20।26} अथ वा ॠकारस्य एव इदम् इर्त्वभूतस्य ग्रहणम् .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {21।26} तत्र उपदेशे अच् अनुनासिकः इत् इति इत्सञ्ज्ञा भविष्यति .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {22।26} अथ वा आचार्यप्रवृत्तिः ज्ञापयति न एवञ्जातीयकानाम् इदिद्विधिः भवति इति यत् अयम् इरितः कान् चित् नुमनुषक्तान् पठति .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {23।26} उबुन्दिर् निशामने .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {24।26} स्कन्दिर् गतिशोषणयोः .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {25।26} अथ वा आचार्यप्रवृत्तिः ज्ञापयति इर्शब्दस्य इत्सञ्ज्ञा भवति इति यत् अयम् इरितः वा इति आह .
(प्_1,3.7.2) क_इ,263.19-264.10 रो_इइ,210-211 {26।26} अथ वा अन्ते इति वर्तते .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {1।24} तस्यग्रहणम् किमर्थम् .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {2।24} इत्सञ्ज्ञकः प्रतिनिर्दिश्यते .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {3।24} न एतत् अस्ति प्रयोजनम् .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {4।24} प्रकृतम् इत् इति वर्तते .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {5।24} क्व प्रकृतम् .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {6।24} उपदेशे अच् अनुनासिकः इत् इति .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {7।24} तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {8।24} अर्थात् विभक्तिविपरिणामः भविष्यति .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {9।24} तत् यथा .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {10।24} उच्चानि देवदत्तस्य गृहाणि .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {11।24} आमन्त्रयस्व एनम् .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {12।24} देवदत्तम् इति गम्यते .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {13।24} देवदत्तस्य गावः अश्वाः हिरण्यम् इति .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {14।24} आढ्यः वैधवेयः .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {15।24} देवदत्तः इति गम्यते .

(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {16।24} पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {17।24} एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {18।24} इदम् तर्हि प्रयोजनम् .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {19।24} ये अनेकालः इत्सञ्ज्ञाः तेषाम् लोपः सर्वादेशः यथा स्यात् .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {20।24} अथ क्रियमाणे अपि च तस्यग्रहणे कथम् इव लोपः सर्वादेशः लभ्यः .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {21।24} लभ्यः इति आह .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {22।24} कुतः .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {23।24} वचनप्रामाण्यात् .
(प्_1,3.9.1) क_इ,264.12-20 रो_इइ,211-212 {24।24} तस्यग्रहणसामर्थ्यात् .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {1।40} इतः लोपे णल्क्त्वानिष्ठासु उपसङ्ख्यानम् इत्प्रतिषेधात् .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {2।40} इतः लोपे णल्क्त्वानिष्ठासु उपसङ्ख्यानम् कर्तव्यम् .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {3।40} णल् .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {4।40} अहम् पपच .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {5।40} क्त्वा .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {6।40} देवित्वा सेवित्वा .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {7।40} निष्ठा .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {8।40} शयितः शयितवान् .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {9।40} किम् पुनः कारणम् न सिध्यति .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {10।40} इत्प्रतिषेधात् .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {11।40} प्रतिषिध्यते अत्र इत्सञ्ज्ञा .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {12।40} णल् उत्तमः णित् वा भवति .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {13।40} क्त्वा सेट् न कित् भवति .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {14।40} निष्ठा सेट् न कित् भवति इति .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {15।40} सिद्धम् तु णलादीनाम् ग्रहणप्रतिषेधात् . सिद्धम् एतत् .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {16।40} कथम् .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {17।40} णलादीनाम् ग्रहणानि प्रतिषिधन्ते .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {18।40} णल् उत्तमः वा णिद्ग्रहणेन गृह्यते .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {19।40} क्त्वा सेट् न किद्ग्रहणेन गृह्यते .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {20।40} निष्ठा सेट् न किद्ग्रहणेन गृह्यते इति .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {21।40} निर्दिष्टलोपात् वा .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {22।40} निर्दिष्टलोपात् वा सिद्धम् एव .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {23।40} अथ वा निर्दिष्टस्य अयम् लोपः क्रियते .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {24।40} तस्मात् सिद्धम् एतत् .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {25।40} तत्र तुस्मानाम् प्रतिषेधः .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {26।40} तत्र तुस्मानाम् प्रतिषेधः वक्तव्यः .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {27।40} तस्मात् तस्मिन् यस्मात् यस्मिन् वृक्षाः प्लक्षाः अचिनवम् असुनवम् अकरवम् .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {28।40} न वा उच्चारणसामर्थ्यात् .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {29।40} न वा वक्तव्यः .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {30।40} किम् कारणम् .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {31।40} उच्चारणसामर्थ्यात् अत्र लोपः न भविष्यति .

(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {32।40} अनुबन्धलोपे भावाभावयोः विप्रतिषेधात् अप्रसिद्धिः . अनुबन्धलोपे भावाभावयोः विरोधात् अप्रसिद्धिः .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {33।40} न ज्ञायते केन अभिप्रायेण प्रसजति केन निवृत्तिम् करोति इति .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {34।40} सिद्धम् तु अपवादन्यायेन .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {35।40} सिद्धम् एतत् .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {36।40} कथम् .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {37।40} अपवादन्यायेन .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {38।40} किम् पुनः इह तथा यथा उत्सर्गापवादौ .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {39।40} भावः हि कार्याऋथः नन्यार्थः लोपः .
(प्_1,3.9.2) क_इ,264.21-265.17 रो_इइ,212-214 {40।40} कार्यम् करिष्यामि इति अनुबन्धः आसज्यते कार्याद् अन्यन् मा भूत् इति लोपः .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {1।63} अथ यस्य अनुबन्धः आसज्यते किम् सः तस्य एकान्तः भवति आहोस्वित् अनेकान्तः .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {2।63} एकान्तः तत्र उपलब्धेः .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {3।63} एकान्तः इति आह .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {4।63} कुतः .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {5।63} तत्र उपलब्धेः .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {6।63} तत्रस्थः हि असौ उपलभ्यते .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {7।63} तत् यथा वृक्षस्था शाखा वृक्षैकान्ता उपलभ्यते .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {8।63} तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वात् .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {9।63} तत्र असरूपविधौ दोषः भवति .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {10।63} कर्मणि अण् आतः अनुपसर्गे कः इति .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {11।63} कण्विषये अण् अपि प्राप्नोति .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {12।63} सर्वादेशे च दोषः भवति .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {13।63} दिवः औत् सर्वादेशः प्राप्नोति .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {14।63} दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {15।63} अदाब्दैपौ इति वक्तव्यम् .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {16।63} किम् पुनः कारणम् न सिध्यति .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {17।63} अनाकारान्तत्वात् .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {18।63} ननु च आत्त्वे कृते भविष्यति .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {19।63} तत् हि आत्त्वम् न प्राप्नोति .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {20।63} किम् कारणम् .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {21।63} अनेजन्तत्वात् .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {22।63} अस्तु तर्हि अनेकान्तः .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {23।63} अनेकान्ते वृत्तिविशेषः .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {24।63} यदि अनेकान्तः वृत्तिविशेषः न सिध्यति .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {25।63} किति णिति इति कार्याणि न सिध्यन्ति .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {26।63} किम् हि सः तस्य इत् भवति येन इत्कृतम् स्यात् .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {27।63} एवम् तर्हि अनन्तरः .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {28।63} अनन्तरः इति चेत् पूर्वपरयोः इत्कृतप्रसङ्गः .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {29।63} अनन्तरः इति चेत् पूर्वपरयोः इत्कृतम् प्राप्नोति .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {30।63} वुञ्छण् .
(प्_1,3.9.3) क_इ,265.18-267.6 रो_इइ,214-217 {31।63} सिद्धम् तु व्यवसितपाठात् .

मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc