भाषा

ENहिગુ
ग्रंथ पाठ

व्याकरणमहाभाष्य · भाग 161180

(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {15।17} मम अपि तर्हि उत्त्वम् परार्थम् भविष्यति : उत्परस्य अतः ति च इति .
(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {16।17} इत्त्वम् अपि त्वया वक्तव्यम् यत् समानाश्रयम् तदर्थम् : उत्पिपविषते संयियविषति इति एवमर्थम् .
(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {17।17} तस्मात् स्थानिवत् इति एषः एव पक्षः ज्यायान् .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {1।50} अर्थस्य सञ्ज्ञा कर्तव्या शब्दस्य मा भूत् इति .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {2।50} इतरेतराश्रयम् च भवति .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {3।50} का इतरेतराश्रयता .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {4।50} सतः अदर्शनस्य सञ्ज्ञया भवितव्यम् सञ्ज्ञय च अदर्शनम् भाव्यते .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {5।50} तत् एतत् इतरेतराश्रयम् भवति .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {6।50} इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {7।50} लोपसञ्ज्ञायाम् अर्थसतोः उक्तम् .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {8।50} किम् उक्तम् .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {9।50} अर्थस्य तावत् उक्तम् : इतिकरणः अर्थनिर्देशार्थः इति .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {10।50} सतः अपि उक्तम् : सिद्धम् तु नित्यशब्दत्वात् इति .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {11।50} नित्याः शब्दाः .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {12।50} नित्येषु च शब्देषु सतः अदर्शनस्य सञ्ज्ञा क्रियते .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {13।50} न सञ्ज्ञया अदर्शनम् भाव्यते .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {14।50} सर्वप्रसङ्गः तु सर्वस्य अन्यत्र अदृष्टत्वात् .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {15।50} सर्वप्रसङ्गः तु भवति .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {16।50} सर्वस्य अदर्शनस्य लोपसञ्ज्ञा प्राप्नोति .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {17।50} किम् कारणम् .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {18।50} सर्वस्य अन्यत्र अदृष्टत्वात् .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {19।50} सर्वः हि शब्दः यः यस्य प्रयोगविषयः सः ततः अन्यत्र न दृश्यते .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {20।50} त्रपु जतु इति अत्र अणः अदर्शनम् .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {21।50} तत्र अदर्शनम् लोपः इति लोपसञ्ज्ञा प्राप्नोति .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {22।50} तत्र कः दोषः .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {23।50} तत्र प्रत्ययलक्षणप्रतिषेधः .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {24।50} तत्र प्रत्ययलक्षणम् कार्यम् प्राप्नोति .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {25।50} तस्य प्रतिषेधः वक्तव्यः .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {26।50} अचः ञ्णिति इति वृद्धिः प्राप्नोति .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {27।50} न एषः दोषः .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {28।50} ञ्णिति अङ्गस्य अचः वृद्धिः उच्यते .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {29।50} यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् भवति .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {30।50} यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {31।50} क्विपः तर्हि अदर्शनम् .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {32।50} तत्र अदर्शनम् लोपः इति लोपसञ्ज्ञा प्राप्नोति .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {33।50} तत्र कः दोषः .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {34।50} तत्र प्रत्ययलक्षणप्रतिषेधः .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {35।50} तत्र प्रत्ययलक्षणम् कार्यम् प्राप्नोति .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {36।50} तस्य प्रतिषेधः वक्तव्यः .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {37।50} ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति .

(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {38।50} सिद्धम् तु प्रसक्तादर्शनस्य लोपसञ्ज्ञित्वात् .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {39।50} सिद्धम् एतत् .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {40।50} कथम् .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {41।50} प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति वक्तव्यम् .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {42।50} यदि प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति उच्यते ग्रामणीः , सेनानीः : अत्र वृद्धिः प्राप्नोति .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {43।50} प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति षष्ठीनिर्दिष्टस्य .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {44।50} यदि षष्ठीनिर्दिष्टस्य इति उच्यते चाहलोपे एव इति अवधारणे चादिलोपे विभाषा इति अत्र लोपसञ्ज्ञा न प्राप्नोति .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {45।50} अथ प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति उच्यमाने कथम् इव एतत् सिध्यति .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {46।50} कः शब्दस्य प्रसङ्गः .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {47।50} यत्र गम्यते च अर्थः न च प्रयुज्यते .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {48।50} अस्तु तर्हि प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति एव .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {49।50} कथम् ग्रामणीः , सेनानीः .
(प्_1,1.60) क_इ,158.2-159.4 रो_इ,469-471 {50।50} यः अत्र अणः प्रसङ्गः क्विपा असौ बाध्यते .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {1।56} प्रत्ययग्रहणम् किमर्थम् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {2।56} लुमति प्रत्ययग्रहणम् अप्रत्ययसञ्ज्ञाप्रतिषेधार्थम् . लुमति प्रत्ययग्रहणम् क्रियते अप्रत्ययस्य एताः सञ्ज्ञाः मा भूवन् इति .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {3।56} किम् प्रयोजनम् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {4।56} प्रयोजनम् तद्धितलुकि कंसीयपरशव्ययोः लुकि च गोप्रकृतिनिवृत्त्यर्थम् . तद्धितलुकि गोनिवृत्त्यर्थम् कंसीयपरशव्ययोः च लुकि प्रकृतिनिवृत्त्यर्थम् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {5।56} लुक् तद्धितलुकि इति गोः अपि लुक् प्राप्नोति .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {6।56} प्रत्ययग्रहणात् न भवति .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {7।56} कंसीयपरशव्ययोः यञञौ लुक् च इति प्रकृतेः अपि लुक् प्राप्नोति .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {8।56} प्रत्ययग्रहणात् न भवति .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {9।56} गोनिवृत्त्यर्थेन तावत् न अर्थः .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {10।56} योगविभागात् सिद्धम् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {11।56} योगविभागः करिष्यते : गोः उपसर्जनस्य .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {12।56} गोन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {13।56} ततः स्त्रियाः .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {14।56} स्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {15।56} ततः लुक् तद्धितलुकि इति .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {16।56} स्त्रियाः इति वर्तते .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {17।56} गोः इति निवृत्तम् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {18।56} कंसीयपरशव्ययोः विशिष्टनिर्देशात् सिद्धम् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {19।56} कंसीयपरशव्ययोः अपि विशिष्टनिर्देश्ः कर्तव्यः : कंसीयपरशव्ययोः यञञौ भवतः छयतोः च लुक् भवति इति .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {20।56} सः च अवश्यम् विशिष्टनिर्देशः कर्तव्यः क्रियमाणे अपि वै प्रत्ययग्रहणे उकारसशब्दयोः मा भूत् इति : कमेः सः कंसः .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {21।56} परान् शृणाति इति परशुः इति .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {22।56} न एषः दोषः .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {23।56} उणादयः अव्युत्पन्नानि प्रातिपदिकानि .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {24।56} सः एषः अनन्यार्थः विशिष्टनिर्देशः कर्तव्यः प्रत्ययग्रहणम् वा कर्तव्यम् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {25।56} उक्तम् वा .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {26।56} किम् उक्तम् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {27।56} ङ्याप्प्रातिपदिकग्रहणम् आङ्गभपदसञ्ज्ञार्थम् यच्छयोः च लुगर्थम् इति .

(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {28।56} षष्ठीनिर्देशार्थम् तु .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {29।56} षष्ठीनिर्देशार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {30।56} अनिर्देशे हि षष्ठ्यर्थाप्रसिद्धिः .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {31।56} अक्रियमाणे हि प्रत्ययग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {32।56} कस्य .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {33।56} स्थानेयोगत्वस्य .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {34।56} क्व पुनः इह षष्ठीनिर्देशार्थेन अर्थः प्रत्ययग्रहणेन यावता सर्वत्र एव षष्ठी उच्चार्यते : अणिञोः तद्राजस्य यञञोः शपः इति .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {35।56} इह न का चित् षष्ठी : जनपदे लुप् इति .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {36।56} अत्र अपि प्रकृतम् प्रत्ययग्रहणम् अनुवर्तते .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {37।56} क्व प्रकृतम् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {38।56} प्रत्ययः परः च इति .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {39।56} तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {40।56} ङ्याप्प्रातिपदिकात् इति एषा पञ्चमी प्रत्ययः इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {41।56} प्रत्ययविधिः अयम् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {42।56} न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {43।56} न अयम् प्रत्ययविधिः .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {44।56} विहितः प्रत्ययः प्रकृतः च अनुवर्तते .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {45।56} सर्वादेशार्थम् वा वचनप्रामाण्यात् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {46।56} सर्वादेशार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {47।56} लुक्श्लुलुपः सर्वादेशाः यथा स्युः .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {48।56} अथ क्रियमाणे अपि प्रत्ययग्रहणे कथम् इव लुक्श्लुलुपः सर्वादेशाः लभ्याः .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {49।56} वचनप्रामाण्यात् : प्रत्ययग्रहणसामाऋथ्यात् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {50।56} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {51।56} आचार्यप्रवृत्तिः ज्ञापयति लुक्श्लुलुपः सर्वादेशाः भवन्ति इति यत् अयम् लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति लोपे कृते लुकम् शास्ति .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {52।56} उत्तरार्थम् तु .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {53।56} उत्तरार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {54।56} न कर्तव्यम्. क्रियते तत्र एव : प्रत्ययलोपे प्रत्ययलक्षणम् इति .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {55।56} द्वितीयम् कर्तव्यम् कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणम् यथा स्यात् .
(प्_1,1.61) क_इ,159.6-160.23 रो_इ,471-476 {56।56} एकदेशलोपे मा भूत् इति : आघ्नीत सम् रायस्पोषेण ग्मीय इति .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {1।23} प्रत्ययग्रहणम् किमर्थम्. लोपे प्रत्ययलक्षणम् इति इयति उच्यमाने सौरथी वहती इति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {2।23} न एषः दोषः .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {3।23} न एवम् विज्ञायते : लोपे प्रत्ययलक्षणम् प्रत्ययस्य प्रादुर्भावः इति .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {4।23} कथम् तर्हि .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {5।23} प्रत्ययः लक्षणम् यस्य कार्यस्य तत् लुप्ते अपि भवति इति .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {6।23} इदम् तर्हि प्रयोजनम् : सति प्रत्यये यत् प्राप्नोति तत् प्रत्ययलक्षनेन यथा स्यात् .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {7।23} लोपोत्तरकालम् यत् प्राप्नोति तत् प्रत्ययलक्षणेन मा भूत् इति .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {8।23} किम् प्रयोजनम् .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {9।23} ग्रामणिकुलम् , सेनानिकुलम् : औत्तरपदिके ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {10।23} सः मा भूत् इति .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {11।23} यदि तर्हि यत् सति प्रत्यये प्राप्नोति तत् प्रत्ययलक्षनेन भवति .

(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {12।23} लोपोत्तरकालम् यत् प्राप्नोति तत् न भवति जगत् , जनगत् इति अत्र तुक् न प्राप्नोति .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {13।23} लोपोत्तरकलः हि अत्र तुक् आगमः .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {14।23} तस्मात् न अर्थः एवमर्थेन प्रत्ययग्रहणेन .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {15।23} कस्मात् न भवति ग्रामणिकुलम् , सेनानिकुलम् .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {16।23} बहिरङ्गम् ह्रस्वत्वम् .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {17।23} अन्तरङ्गः तुक् .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {18।23} असिद्धम् बहिरङ्गम् अन्तरङ्गे .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {19।23} इदम् तर्हि प्रयोजनम् : कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणम् यथा स्यात् .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {20।23} एकदेशलोपे मा भूत् इति : आघ्नीत सम् रायस्पोषेण ग्मीय इति .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {21।23} पूर्वस्मिन् अपि योगे प्रत्ययग्रहणस्य एतत् प्रयोजनम् उक्तम्. अन्यतरत् शक्यम् अकर्तुम् .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {22।23} अथ द्वितीयम् प्रत्ययग्रहणम् किमर्थम् .
(प्_1,1.62.1) क_इ,160.25-161.14. रो_इ,476-478 {23।23} प्रत्ययलक्षणम् यथा स्यात् वर्णलक्षणम् मा भूत् इति : गवे हितम् गोहितम् , रायः कुलम् रैकुलम् इति .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {1।48} किमर्थम् पुनः इदम् उच्यते .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {2।48} प्रत्ययलोपे प्रत्ययलक्षणवचनम् सदन्वाख्यानात् शास्त्रस्य .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {3।48} प्रत्ययलोपे प्रत्ययलक्षणम् इति उच्यते सदन्वाख्यानात् शास्त्रस्य .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {4।48} सत् शास्त्रेण अन्वाख्यायते सतः वा शास्त्रम् अन्व्याखायकम् भवति .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {5।48} सदन्वाख्यानात् शास्त्रस्य उगिदचाम् सर्वनामस्थाने अधातोः इति इह : एव स्यात् गोमन्तौ यवमन्तौ .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {6।48} गोमान् यवमान् इति अत्र न स्यात् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {7।48} इष्यते च स्यात् इति .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {8।48} तत् च अन्तरेण यत्नम् न सिध्यति .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {9।48} अतः प्रत्ययलोपे प्रत्ययलक्षणवचनम् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {10।48} एवमर्थम् इदम् उच्यते .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {11।48} अस्ति प्रयोजनम् एतत् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {12।48} किम् तर्हि इति. लुकि उपसङ्ख्यानम् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {13।48} लुकि उपसङ्ख्यानम् कर्तव्यम् : पञ्च सप्त .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {14।48} किम् पुनः कारणम् न सिध्यति .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {15।48} लोपे हि विधानम् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {16।48} लोपे हि प्रत्ययलक्षणम् विधीयते .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {17।48} तेन लुकि न प्राप्नोति .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {18।48} न वा अदर्शनस्य लोपसञ्ज्ञित्वात् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {19।48} न वा कर्तव्यम् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {20।48} किम् कारणम् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {21।48} अदर्शनस्य लोपसञ्ज्ञित्वात् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {22।48} अदर्शनम् लोपसञ्ज्ञम् इति उच्यते .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {23।48} लुमत्सञ्ज्ञाः च अदर्शनस्य क्रियन्ते .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {24।48} तेन लुकि अपि भविष्यति .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {25।48} यदि एवम् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {26।48} प्रत्ययादर्शनम् तु लुमत्सञ्ज्ञम् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {27।48} प्रत्ययादर्शनम् तु लुमत्सञ्ज्ञम् अपि प्राप्नोति .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {28।48} तत्र कः दोषः .

(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {29।48} तत्र लुकि श्लुविधिप्रतिषेधः .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {30।48} तत्र लुकि श्लुविधिः अपि प्राप्नोति .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {31।48} सः प्रतिषेध्यः : अत्ति हन्ति .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {32।48} श्लौ इति द्विर्वचनम् प्राप्नोति .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {33।48} न वा पृथक्सञ्ज्ञाकरणात् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {34।48} न वा एषः दोषः .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {35।48} किम् कारणम् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {36।48} पृथक्सञ्ज्ञाकरणात् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {37।48} पृथक्सञ्ज्ञाकरणसामर्थ्यात् लुकि श्लुविधिः न भविष्यति .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {38।48} तस्मात् अदर्शनसामान्यात् लोपसञ्ज्ञा लुमत्सञ्ज्ञाः अवगाहते .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {39।48} यथा एव तर्हि अदर्शनसामान्यात् लोपसञ्ज्ञा लुमत्सञ्ज्ञाः अवगाहते एवम् लुमत्सञ्ज्ञाः अपि लोपसञ्ज्ञाम् अवगाहेरन् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {40।48} तत्र कः दोषः .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {41।48} अगोमती गोमती सम्पन्ना गोमतीभूता : लुक् तद्धितलुकि इति ङीपः लुक् प्रसज्येत .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {42।48} ननु च अत्र अपि पृथक्सञ्ज्ञाकरणात् इति एव सिद्धम् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {43।48} यथा एव तर्हि पृथक्सञ्ज्ञाकरणसामर्थ्यात् लुमत्सञ्ज्ञाः लोपसञ्ज्ञाम् न अवगाहन्ते एवम् लोपसञ्ज्ञा अपि लुमत्सञ्ज्ञाः न अवगाहेत .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {44।48} तत्र सः एव दोषः : लुकि उपसङ्ख्यानम् इति .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {45।48} अस्ति अन्यत् लोपसञ्ज्ञायाः पृथक्सञ्ज्ञाकरणे प्रयोजनम् .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {46।48} किम्. लुमत्सञ्ज्ञासु यत् उच्यते तत् लोपमात्रे मा भूत् इति .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {47।48} लुमति प्रतिषेधात् वा .
(प्_1,1.62.2) क_इ,161.15-162.21 रो_इ,479-482 {48।48} अथ वा यत् अयम् न लुमता अङ्गस्य इति प्रत्षेधम् शास्ति तत् ज्ञापयति आचार्यः भवति लुकि प्रत्ययलक्षणम् इति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {1।65} सतः निमित्ताभावात् पदसञ्ज्ञाभावः . सन् प्रत्ययः येषाम् कार्याणाम् अनिमित्तम् : राज्ञः पुरुषः इति सः लुप्तः अपि अनिमित्तम् स्यात्: राजपुरुषः इति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {2।65} अस्तु तस्याः अनिमित्तम् या स्वादौ पदम् इति पदसञ्ज्ञा या तु सुबन्तम् पदम् इति पदसञ्ज्ञा सा भविष्यति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {3।65} सति एतत्प्रत्यये आसीत् : अनया भविष्यति अनया न भविष्यति इति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {4।65} लुप्ते इदानीम् प्रत्यये यावतः एव अवधेः स्वादौ पदम् इति पदसञ्ज्ञा तावतः एव अवधेः सुबन्तम् पदम् इति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {5।65} अस्ति च प्रत्ययलक्षणेन यजादिपरता इति कृत्वा भसञ्ज्ञा प्राप्नोति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {6।65} तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात् परिवीः इति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {7।65} तुग्दीर्घत्वयोः च विप्रतिषेधः न उपपद्यते .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {8।65} क्व .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {9।65} परिवीः इति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {10।65} किम् कारणम् .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {11।65} एकयोगलक्षणत्वात् .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {12।65} एकयोगलक्षणे तुग्दीर्घत्वे .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {13।65} इह लुप्ते प्रत्यये सर्वाणि प्रत्ययाश्रयाणि कार्याणि पर्यवपन्नानि भवन्ति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {14।65} तानि एतानि प्रत्युत्थाप्यन्ते .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {15।65} अनेन एव तुक् अनेन एव च दीर्घत्वम् इति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {16।65} तत् एतत् एकयोगलक्षणम् भवति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {17।65} एकयोगलक्षणानि च न प्रकल्पन्ते .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {18।65} सिद्धम् तु स्थानिसञ्ज्ञानुदेशात् आन्यभाव्यस्य .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {19।65} सिद्धम् एतत् .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {20।65} कथम् .

(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {21।65} स्थानिसञ्ज्ञा अन्यभूतस्य भवति इति वक्तव्यम् .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {22।65} किम् कृतम् भवति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {23।65} सत्तामात्रम् अनेन क्रियते .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {24।65} यथाप्राप्ते तुग्दीर्घत्वे भविष्यतः .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {25।65} तत् वक्तव्यम् भवति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {26।65} यदि अपि एतत् उच्यते अथ वा एतर्हि स्थानिवद्भावः न आरभ्यते .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {27।65} स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वक्ष्यामि .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {28।65} यदि एवम् आङः यमहनः आत्मनेपदम् भवति इति हन्तेः एव स्यात् वधेः न स्यात् .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {29।65} न हि का चित् हन्तेः सञ्ज्ञा अस्ति या वधेः अतिदिश्येत .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {30।65} हन्तेः अपि सञ्ज्ञा अस्ति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {31।65} का .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {32।65} हन्तिः एव .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {33।65} कथम् .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {34।65} स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा इति वचनात् स्वम् रूपम् शब्दस्य सञ्ज्ञा भवति इति हन्तेः अपि हन्तिः सञ्ज्ञा भविष्यति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {35।65} भसञ्ज्ञाङीप्ष्फगोरात्वेषु च सिद्धम् .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {36।65} भसञ्ज्ञाङीप्ष्फगोरात्वेषु च सिद्धम् भवति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {37।65} भसञ्ज्ञा : राज्ञः पुरुषः राजपुरुषः .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {38।65} प्रत्ययलक्षणेन यचि भम् इति भासञ्ज्ञा प्राप्नोति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {39।65} स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {40।65} ङीप् : चित्रायाम् जाता चित्रा .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {41।65} प्रत्ययलक्षणेन अणन्तात् ईकारः प्राप्नोति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {42।65} स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {43।65} ष्फ : वतङ्डी .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {44।65} प्रत्ययलक्षणेन यञन्तात् इति ष्फः प्राप्नोति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {45।65} स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {46।65} गोः आत्वम् .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {47।65} गाम् इच्छति गव्यति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {48।65} प्रत्ययलक्षणेन अमि आ ओतः अम्शसोः इति आत्वम् प्राप्नोति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {49।65} स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {50।65} तस्य दोषः ङौनकारलोपेत्त्वेम्विधयः . तस्य एतस्य लक्षणस्य दोषः ङौनकारलोपः .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {51।65} आर्द्रे चर्मन् लोहिते चर्मन् .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {52।65} प्रत्ययलक्षणेन यचि भम् इति भसञ्ज्ञा सिद्धा भवति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {53।65} स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {54।65} इत्त्वम् : आशीः .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {55।65} प्रत्ययलक्षणेन हलि इति इत्वम् सिद्धम् भवति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {56।65} स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {57।65} इम् : अतृणेत् .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {58।65} प्रत्ययलक्षणेन हलि इति इत्त्वम् सिद्धम् भवति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {59।65} स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {60।65} सूत्रम् च भिद्यते .

(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {61।65} यथान्यासम् एव अस्तु .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {62।65} ननु च उक्तम् सतः निमित्ताभावात् पदसञ्ज्ञाभावः तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात् परिवीः इति .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {63।65} न एषः दोषः .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {64।65} वक्ष्यति अत्र परिहारम् .
(प्_1,1.62.3) क_इ,162.22-164.10 रो_इ,482-486 {65।65} इह अपि परिवीः इति शास्त्रपरविप्रतिषेधेन परत्वात् दीर्घत्वम् भविष्यति .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {1।56} कानि पुनः अस्य योगस्य प्रयोजनानि .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {2।56} प्रयोजनम् अपृक्तशिलोपे नुम् अमामौ गुणवृद्धिदीर्घत्वेमडाट्श्नम्विधयः .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {3।56} अपृक्तलोपे शिलोपे च कृते नुम् अमामौ गुणवृद्धी दीर्घत्वम् इमडाटौ श्नम्विधिः इति प्रयोजनानि .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {4।56} नुम् : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {5।56} नुम् .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {6।56} अमामौ : हे अनड्वन् , अनड्वान् .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {7।56} गुणः : अधोक् , अलेट् .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {8।56} वृद्धिः : नि अमार्ट् .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {9।56} दीर्घत्वम् : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {10।56} इम् : अतृणेट् .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {11।56} अडाटौ : अधोक् , अलेट् , ऐयः , औनः .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {12।56} श्नम्विधिः : अभिनः अत्र , अच्छिनः अत्र .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {13।56} अपृक्तशिलोपयोः कृतयोः एते विधयः न प्राप्नुवन्ति .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {14।56} प्रत्ययलक्षणेन भवन्ति .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {15।56} न एतानि सन्ति प्रयोजनानि .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {16।56} स्थानिवद्भावेन अपि एतानि सिद्धानि .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {17।56} न सिध्यन्ति .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {18।56} आदेशः स्थानिवत् इति उच्यते .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {19।56} न च लोपः आदेशः .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {20।56} लोपः अपि आदेशः .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {21।56} कथम् .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {22।56} आदिश्यते यः सः आदेशः .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {23।56} लोपः अपि आदिश्यते .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {24।56} दोषः खलु अपि स्यात् यदि लोपः न आदेशः स्यात् .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {25।56} इह अचः परस्मिन् पूर्वविधौ इति एतस्य भूयिष्ठानि लोपे उदाहरणानि तानि न स्युः .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {26।56} यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {27।56} क्व च स्थानिवद्भावः न अस्ति .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {28।56} यः अल्विधिः .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {29।56} किम् प्रयोजनम् .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {30।56} प्रयोजनम् ङौनकार्लोपेत्त्वेम्विधयः .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {31।56} भसञ्ज्ञाङीप्ष्फ्गोरात्वेषु दोषः .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {32।56} भसञ्ज्ञाङीप्ष्फ्गोरात्वेषु दोषः भवति. भसञ्ज्ञायाम् तावत् न दोषः .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {33।56} आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन भसञ्ज्ञा भवति इति यत् अयम् न ङिसम्बुद्ध्योः इति ङौ प्रतिषेधम् शास्ति .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {34।56} ङीपि अपि : न एवम् विज्ञायते : अणन्तात् अकारान्तात् .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {35।56} कथम् तर्हि .

(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {36।56} अण् यः अकारः इति .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {37।56} ष्फे अपि : न एवम् विज्ञायते : यञन्तात् अकारन्तात् इति .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {38।56} कथम् तर्हि .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {39।56} यञ् यः अकारः इति .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {40।56} गोः आत्वे अपि : न एवम् विज्ञायते : अमि अचि इति .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {41।56} कथम् तर्हि .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {42।56} अचि अमि इति .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {43।56} प्रयोजनानि अपि तर्हि तानि न सन्ति .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {44।56} यत् तावत् उच्यते ङौनकार्लोपः इति क्रियते एतत् न्यासे एव : न ङिसम्बुद्ध्योः इति .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {45।56} इत्त्वम् अपि .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {46।56} वक्ष्यति एतत् : शासः इत्त्वे आशासः क्वौ इति .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {47।56} इम्विधिः अपि : हलि इति निवृत्तम् .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {48।56} यदि हलि इति निवृत्तम् तृणहानि अत्र अपि प्राप्नोति .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {49।56} एवम् तर्हि अचि न इति अपि अनुवर्तिष्यते .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {50।56} न तर्हि इदानीम् अयम् योगः वक्तव्यः .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {51।56} वक्तव्यः च .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {52।56} किम् प्रयोजनम् .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {53।56} प्रत्ययम् गृहीत्वा यत् उच्यते तत् प्रत्ययलक्षणेन यथा स्यात् शब्दम् गृहीत्वा यत् उच्यते तत् प्रत्ययलक्षणेन मा भूत् इति .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {54।56} किम् प्रयोजनम् .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {55।56} शोभनाः दृषदः अस्य सुदृषत् ब्राह्मणः .
(प्_1,1.62.4) क_इ,164.11-165.13 रो_इ,486-490 {56।56} सोः मनसी* अलोमोषसी* इति एषः स्वरः मा भूत् इति .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {1।20} लुमति प्रतिषेधे एकपदस्वरस्य उपसङ्ख्यानम् .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {2।20} लुमति प्रतिषेधे एकपदस्वरस्य उपसङ्ख्यानम् कर्तव्यम्. एकपदस्वरे च लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {3।20} किम् अविशेषेण .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {4।20} न इति आह .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {5।20} सर्वामन्त्रितसिज्लुक्स्वरवर्जम् .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {6।20} सर्वस्वरम् आमन्त्रितस्वरवम् सिज्लुक्स्वरम् च वर्जयित्वा .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {7।20} सर्वस्वर : सर्वस्तोमः , सर्वपृष्ठः : सर्वस्य सुपि इति आद्युदात्तत्वम् यथा स्यात् .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {8।20} आमन्त्रितस्वर : सर्पिः आगच्छ , सप्त आगच्छत : आमन्त्रितस्य च इति आद्युदात्तत्वम् यथा स्यात् .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {9।20} सिज्लुक्स्वर : म हि दताम् , म हि धताम् : आदिः सिचः अन्यतरस्याम् इति एषः स्वरः यथा स्यात् .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {10।20} किम् प्रयोजनम् .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {11।20} प्रयोजनम् ञिनिकिल्लुकि स्वराः .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {12।20} ञिनिकित्स्वराः लुकि प्रयोजयन्ति .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {13।20} गर्गः , वत्सः , बिदः , उर्वः , उष्ट्रग्रीवः , वामरज्जुः : ञ्निति इति आद्युदात्तत्वम् मा भूत् इति .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {14।20} इह च : अत्रयः : कितः इति अन्तोदात्तत्वम् मा भूत् इति .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {15।20} पथिमथोः सर्वनामस्थाने .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {16।20} पथिमथोः सर्वनामस्थाने लुकि प्रयोजनम् .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {17।20} पथिप्रियः , मथिप्रियः : पथिमथोः सर्वनामस्थाने इति एषः स्वरः मा भूत् इति .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {18।20} अह्नः रविधौ .
(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {19।20} अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् .

(प्_1,1.63.1) क_इ,165.15-166.8 रो_इ,490-492 {20।20} अहः ददति , अहः भुङ्क्ते : रः असुपि इति प्रत्ययलक्षणेन प्रतिषेधः मा भूत् इति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {1।75} उत्तरपदत्वे च अपदादिविधौ . उत्तरपदत्वे च अपदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {2।75} परमवाचा परमवाचे परमगोदुहा परमगोदुहे परमश्वलिहा परमश्वलिहे : पदस्य इति प्रत्ययलक्षणेन कुत्वादीनि मा भूवन् इति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {3।75} अपदादिविधौ इति किमर्थम् .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {4।75} दधिसेचौ दधिसेचः : सात्पदाद्योः इति प्रतिषेधः यथा स्यात् .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {5।75} यदि अपदादिविधौ इति उच्यते उत्तरपदाधिकारः न प्रकल्पेत .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {6।75} तत्र कः दोषः .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {7।75} कर्णः वर्णलक्षणात् इति एवमादिः विधिः न सिध्यति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {8।75} यदि पुनः नलोपादिविधौ प्लुत्यन्ते लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति उच्येत .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {9।75} न एवम् शक्यम् .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {10।75} इह हि : राजकुमार्यौ राजकुमार्यः इति शाकलम् प्रसज्येत .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {11।75} न एषः दोषः .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {12।75} यत् एतत् सिति शाकलम् न इति एतत् प्रत्यये शाकलम् न इति वक्ष्यामि .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {13।75} यदि प्रत्यये शाकलम् न इति उच्यते दधि अधुना मधु अधुना : अत्र अपि न प्रसज्येत .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {14।75} प्रत्यये शाकलम् न भवति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {15।75} कस्मिन् .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {16।75} यस्मात् यः प्रत्ययः विहितः इति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {17।75} इह तर्हि परमदिवा परमदिवे : दिव उत् इति उत्त्वम् प्राप्नोति इति. अस्तु तर्हि अविशेषेण .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {18।75} ननु च उक्तम् उत्तरपदाधिकारः न प्रकल्पेत इति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {19।75} वचनात् उत्तरपदाधिकारः भविष्यति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {20।75} तत् तर्हि वक्तव्यम् .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {21।75} न वक्तव्यम् .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {22।75} अनुवृत्तिः करिष्यते .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {23।75} इदम् अस्ति : यस्मात् प्रतययविधिः तदादि प्रत्यये अङ्गम् , सुप्तिङन्तम् पदम् .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {24।75} यस्मात् सुप्तिङ्विधिः तदादि सुबन्तम् च .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {25।75} नः क्ये .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {26।75} नान्तम् क्ये पदसञ्ज्ञम् भवति यस्मात् क्यविधिः सुबन्तम् च .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {27।75} सिति च .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {28।75} सिति च पूर्वम् पदसञ्ज्ञम् भवति यस्मात् सिद्विधिः तदादि सुबन्तम् च .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {29।75} स्वादिषु असर्वनामस्थाने .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {30।75} स्वादिषु असर्वनामस्थाने पूर्वम् पदसञ्ज्ञम् भवति यस्मात् स्वादिविधिः तदादि सुबन्तम् च .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {31।75} यचि भम् .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {32।75} यजादिप्रत्यये पूर्वम् पदसञ्ज्ञम् भवति यस्मात् यजादिविधिः तदादि सुबन्तम् च .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {33।75} इह तर्हि : परमवाक् : असर्वनामस्थाने इति प्रतिषेधः प्राप्नोति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {34।75} अस्तु तस्याः प्रतिषेधः या स्वादौ पदम् इति पदसञ्ज्ञा या तु सुबन्तम् पदम् इति पदसञ्ज्ञा सा भविष्यति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {35।75} सति एतत्प्रत्यये आसीत् अनया भविष्यति अनया न भविष्यति इति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {36।75} लुप्ते इदानीम् प्रत्यये यावतः एव अवधेः स्वादौ पदम् इति पदसञ्ज्ञा तावतः एव अवधेः सुबन्तम् पदम् इति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {37।75} अस्ति च प्रत्ययलक्षणेन सर्वनामस्थानपरता इति कृत्वा प्रतिषेधाः च बलीयांसः भवन्ति इति प्रतिषेधः प्राप्नोति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {38।75} न अप्रतिषेधात् .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {39।75} न अयम् प्रसज्यप्रतिषेधः : सर्वनामस्थाने न इति .

(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {40।75} किम् तर्हि .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {41।75} पर्युदासः अयम् : यत् अन्यत् सर्वनामस्थानात् इति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {42।75} सर्वनामस्थाने अव्यापारः .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {43।75} यदि केन चित् प्राप्नोति तेन भविष्यति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {44।75} पूर्वेण च प्राप्नोति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {45।75} अप्राप्तेः वा .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {46।75} अथ वा अनन्तरा य प्राप्तिः सा प्रतिषिध्यते .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {47।75} कुतः एतत् .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {48।75} अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {49।75} पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {50।75} ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {51।75} न उत्सहते प्रतिषिद्धा सती बाधितुम् .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {52।75} यदि एवम् परमवाचौ परमवाचः इति सुप्तिङन्तम् पदम् इति पदसञ्ज्ञा प्राप्नोति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {53।75} एवम् तर्हि योगविभागः करिष्यते .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {54।75} स्वादिषु पूर्वम् पदसञ्ज्ञम् भवति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {55।75} ततः सर्वनामस्थाने अयचि पूर्वम् पदसञ्ज्ञम् भवति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {56।75} ततः भम् .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {57।75} भसञ्ज्ञम् भवति यजादौ असर्वनामस्थने इति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {58।75} यदि तर्हि सौ अपि पदम् भवति , एचः प्लुताधिकारे पदान्तग्रहणम् चोदयिष्यति इह मा भूत् : भद्रम् करोषि गौः इति , तस्मिन् क्रियमाणे अपि भविष्यति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {59।75} वाक्यपदयोः अन्त्यस्य इति एवम् तत् .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {60।75} इह तर्हि : दधिसेचौ दधिसेचः : सात्पदाद्योः इति पदादिलक्षणः प्रतिषेधः न प्राप्नोति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {61।75} मा भूत् एवम् : पदस्य आदिः पदादिः , पदादेः न इति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {62।75} कथम् तर्हि .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {63।75} पदात् आदिः पदादिः , पदादेः न इति एवम् भविष्यति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {64।75} न एवम् शक्यम् .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {65।75} इह अपि प्रसज्येत : ऋक्षु वाक्षु त्वक्षु कुमारीषु किशोरीषु इति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {66।75} सात्प्रतिषेधः ज्ञापकः स्वादिषु पदत्वेन येषाम् पदसञ्ज्ञा न तेभ्यः प्रतिषेधः भवति इति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {67।75} इह तर्हि : बहुसेचौ , बहुसेचः : बहुच् अयम् प्रत्ययः .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {68।75} अत्र पदात् आदिः पदादिः , पदादेः न इति उच्यमाने अपि न सिध्यति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {69।75} एवम् तर्हि उत्तरपदत्वे च पदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् भवति इति वक्ष्यामि .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {70।75} तत् नियमार्थम् भविष्यति : पदादिविधौ एव न पदान्तविधौ इति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {71।75} कथम् बहुसेचौ बहुसेचः .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {72।75} बहुच्पूर्वस्य च पदादिविधौ न पदान्तविधौ इति .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {73।75} द्वन्द्वे अन्त्यस्य .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {74।75} द्वन्द्वे अन्त्यस्यलुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् .
(प्_1,1.63.2) क_इ,166.9-167.28 रो_इ,493-498 {75।75} वाक्स्रक्त्वचम् .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {1।33} इह अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {2।33} सिचः उसः अप्रसङ्गः आकारप्रकरणात् .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {3।33} सिचः उसः अप्रसङ्गः .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {4।33} किम् कारणम् .

(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {5।33} आकारप्रकरणात् .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {6।33} आतः इति एतत् नियमार्थम् भविष्यति : आतः एव सिज्लुगन्तात् न अन्यस्मात् सिज्लुगन्तात् इति .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {7।33} इह : इति युष्मत्पुत्रः ददाति , इति अस्मत्पुत्रः ददाति इति अत्र युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः वाम्नावौ इति वाम्नावादयः प्राप्नुवन्ति .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {8।33} युष्मदस्मदोः स्थग्रहणात् .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {9।33} स्थग्रहणम् तत्र क्रियते .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {10।33} तत् श्रूयमाणविभक्तिविशेषणम् विज्ञास्यते .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {11।33} अस्ति अन्यत् स्थग्रहणस्य प्रयोजनम् .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {12।33} किम् .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {13।33} सविभक्तिकस्य वाम्नावादयः यथा स्युः इति .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {14।33} न एतत् अस्ति प्रयोजनम् .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {15।33} पदस्य इति वर्तते विभक्त्यन्तम् च पदम् .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {16।33} तत्र अन्तरेण अपि स्थग्रहणम् सविभक्तिकस्य एव ग्रहणम् भविष्यति .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {17।33} भवेत् सिद्धम् यत्र विभक्त्यन्तम् पदम् .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {18।33} यत्र तु खलु विभक्तौ पदम् तत्र न सिध्यति : ग्रामः वाम् दीयते , ग्रामः नौ दीयते जनपदः वाम् दीयते , जनपदः नौ दीयते .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {19।33} सर्वग्रहणम् अपि प्रकृतम् अनुवर्तते .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {20।33} तेन सविभक्तिकस्य एव भविष्यति .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {21।33} इह : चक्षुष्कामम् याजयाम् चकार इति तिङ् अतिङः इति .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {22।33} तस्य च निघातः तस्मात् च अनिघातः प्राप्नोति .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {23।33} आमि लिलोपात् तस्य च अनिघातः तस्मात् च निघातः .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {24।33} आमि लिलोपात् तस्य च अनिघातः तस्मात् च निघातः सिद्धः भविष्यति .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {25।33} अङ्गाधिकारे इटः विधिप्रतिषेधौ .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {26।33} अङ्गाधिकारे इटः विधिप्रतिषेधौ न सिध्यतः : जिगमिष संविवृत्स .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {27।33} अङ्गस्य इति इटः विधिप्रतिषेधौ न प्राप्नुतः .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {28।33} क्रमेः दीर्घत्वम् च .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {29।33} किम् च .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {30।33} इटः च विधिप्रतिषेधौ .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {31।33} न इति आह .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {32।33} अदेशे अयम् चः पठितः .
(प्_1,1.63.3) क_इ,168.1-23 रो_इ,498-500 {33।33} क्रमेः च दीर्घत्वम् : उत्क्राम सङ्क्राम इति .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {1।30} इह किम् चित् अङ्गाधिकारे लुमता लुप्ते प्रत्ययलक्षणेन भवति किम् चित् च अन्यत्र न भवति .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {2।30} यदि पुनः न लुमता तस्मिन् इति उच्येत .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {3।30} अथ न लुमता तस्मिन् इति उच्यमाने किम् सिद्धम् एतत् भवति इटः विधिप्रतिषेधौ क्रमेः दीर्घत्वम् च .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {4।30} बाढम् सिद्धम् .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {5।30} न इटः इविधिप्रतिषेधौ परस्मैपदेषु इति उच्यते .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {6।30} कथम् तर्हि .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {7।30} सकारादौ इति .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {8।30} तद्विशेषणम् परस्मैपदग्रहणम् .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {9।30} न खलु अपि क्रमेः दीर्घत्वम् परस्मैपदेषु इति उच्यते .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {10।30} कथम् तर्हि .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {11।30} शिति इति .

(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {12।30} तद्विशेषणम् परस्मैपदग्रहणम् .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {13।30} न लुमता तस्मिन् इति चेत् हनिणिङादेशाः तलोपे .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {14।30} न लुमता तस्मिन् इति चेत् हनिणिङादेशाः तलोपे न सिध्यन्ति : अवधि भवता दस्युः , अगायि भवता ग्रामः , अध्यगायि भवता अनुवाकः .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {15।30} तलोपे कृते लुङि इति हनिणिङादेशाः न प्राप्नुवन्ति .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {16।30} न एषः दोषः .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {17।30} न लुङि इति हनिणिङादेशाः उच्यन्ते .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {18।30} किम् तर्हि .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {19।30} आर्धधातुके इति .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {20।30} तद्विशेषणम् लुङ्ग्रहणम् .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {21।30} इह च : सर्वस्तोमः , सर्वपृष्ठः सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {22।30} तत् च अपि वक्तव्यम् .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {23।30} न वक्तव्यम् .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {24।30} न लुमता अङ्गस्य इति एव सिद्धम् .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {25।30} कथम् .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {26।30} न लुमता लुप्ते अङ्गाधिकारः प्रतिनिर्दिश्यते .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {27।30} किम् तर्हि .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {28।30} यः असौ लुमता लुप्यते तस्मिन् यत् अङ्गम् तस्य यत् कार्यम् तत् न भवति .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {29।30} एवम् अपि सर्वस्वरः न सिध्यति .
(प्_1,1.63.4) क_इ,168.24-169.14 रो_इ,500-502 {30।30} कर्तव्यः अत्र यत्नः .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {1।21} किम् इदम् अल्ग्रहणम् अन्त्यविशेषणम् .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {2।21} एवम् भवितुम् अर्हति .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {3।21} उपधासञ्ज्ञायाम् अल्ग्रहणम् अन्त्यनिर्देशः चेत् सङ्घातप्रतिषेधः .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {4।21} उपधासञ्ज्ञायाम् अल्ग्रहणम् अन्त्यनिर्देशः चेत् सङ्घातस्य प्रतिषेधः वक्तव्यः .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {5।21} सङ्घातस्य उपधासञ्ज्ञा प्राप्नोति .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {6।21} तत्र कः दोषः .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {7।21} शासः इत् अङ्हलोः : शिष्ट्वा शिष्टः : सङ्घातस्य इत्त्वम् प्राप्नोति .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {8।21} यदि पुनः अल् अन्त्यात् इति उच्येत .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {9।21} एवम् अपि अन्त्यः अविशेषितः भवति .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {10।21} तत्र कः दोषः .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {11।21} सङ्घातात् अपि पूर्वस्य उपधासञ्ज्ञा प्रसज्येत .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {12।21} तत्र कः दोषः .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {13।21} शासः इत् अङ्हलोः : शिष्टः , शिष्टवान् : शकारस्य इत्त्वम् प्रसज्येत .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {14।21} सूत्रम् च भिद्यते .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {15।21} यथान्यासम् एव अस्तु .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {16।21} ननु च उक्तम् उपधासञ्ज्ञायाम् अल्ग्रहणम् अन्त्यनिर्देशः चेत् सङ्घातप्रतिषेधः इति .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {17।21} न एषः दोषः .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {18।21} अन्त्यविज्ञानात् सिद्धम् .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {19।21} सिद्धम् एतत् .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {20।21} कथम् .
(प्_1,1.65.1) क_इ,169.16-25 रो_इ,502-503 {21।21} अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति .

(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {1।62} अन्त्यविज्ञानात् सिद्धम् इति चेत् न अनर्थके अलोन्त्यविधिः अनभ्यासविकारे .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {2।62} अन्त्यविज्ञानात् सिद्धम् इति चेत् तत् न .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {3।62} किम् कारणम् .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {4।62} न अनर्थके अलोन्त्यविधिः अनभ्यासविकारे .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {5।62} अनर्थके अलोन्त्यविधिः न इति एषा परिभाषा कर्तव्या .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {6।62} किम् अविशेषेण .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {7।62} न इति आह .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {8।62} अनभ्यासविकारे .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {9।62} अभ्यासविकारान् वर्जयित्वा .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {10।62} भृञाम् इत् , अर्तिपिपर्त्योः च इति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {11।62} कानि एतस्याः परिभाषायाः प्रयोजनानि .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {12।62} प्रयोजनम् अव्यक्तानुकरणस्य अतः इतौ .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {13।62} अन्त्यस्य प्राप्नोति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {14।62} अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {15।62} न एतत् अस्ति प्रयोजनम् .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {16।62} आचार्यप्रवृत्तिः ज्ञापयति न अन्त्यस्य पररूपम् भवति इति यत् अयम् न आम्रेडितस्य अन्त्यस्य तु वा इति आह .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {17।62} घ्वसोः एत् हौ अभ्यासलोपः च .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {18।62} घ्वसोः एत् हौ अभ्यासलोपः च इति अन्त्यस्य प्राप्नोति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {19।62} अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {20।62} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {21।62} पुनर्लोपवचनसामर्थ्यात् सर्वस्य भविष्यति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {22।62} अथ वा शित् लोपः करिष्यते .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {23।62} सः शित् सर्वस्य इति सर्वादेशः भविष्यति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {24।62} सः तर्हि शकारः कर्तव्यः .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {25।62} न कर्तव्यः .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {26।62} क्रियते न्यासे एव .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {27।62} द्विशकारकः निर्देशः : घ्वसोः एत् हौ अभ्यासलोपश्श्च इति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {28।62} आपि लोपः अकः अनचि .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {29।62} तिष्ठति सूत्रम् .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {30।62} अन्यथा व्याख्यायते : आपि हलि लोपः इति अन्त्यस्य प्राप्नोति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {31।62} अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {32।62} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {33।62} अनः एव लोपम् वक्ष्यामि .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {34।62} तत् अनः ग्रहणम् कर्तव्यम् .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {35।62} न कर्तव्यम् .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {36।62} प्रकृतम् अनुवर्तते .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {37।62} क्व प्रकृतम् .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {38।62} अन् आपि अकः इति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {39।62} तत् वै प्रथमानिर्दिष्टम् .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {40।62} षष्ठीनिर्दिष्तेन च इह अर्थः .

(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {41।62} हलि इति एषा सप्तमी अन् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति : तस्मिन् इति निर्दिष्टे पूर्वस्य इति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {42।62} अत्र लोपः अभ्यासस्य .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {43।62} अत्र लोपः अभ्यासस्य इति अन्त्यस्य प्राप्नोति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {44।62} अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {45।62} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {46।62} अत्रग्रहणसामर्थ्यात् सर्वस्य भविष्यति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {47।62} अस्ति अन्यत् अत्रग्रहणस्य प्रयोजनम् .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {48।62} किम् .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {49।62} सनधिकारः अपेक्ष्यते , इह मा भूत् : दधौ ददौ .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {50।62} अन्तरेण अपि अत्रग्रहणम् सनधिकारम् अपेक्षिष्यामहे .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {51।62} सन् तर्हि सकारादिः अपेक्ष्यते सनि सकारादौ इति , इह मा भूत् : जिज्ञापयिषति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {52।62} अन्तरेण अपि अत्रग्रहणम् सनम् सकारादिम् अपेक्षिष्यामहे .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {53।62} प्रकृतयः तर्हि अपेक्ष्यन्ते .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {54।62} एतासाम् प्रकृतीनाम् लोपः यथा स्यात् , इह मा भूत् : पिपक्षति यियक्षति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {55।62} अन्तरेण अपि अत्रग्रहणम् एताः प्रकृतीः अपेक्षिष्यामहे .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {56।62} विषयः तर्हि अपेक्ष्यते .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {57।62} मुचः अकर्मकस्य गुणः वा इति इह मा भूत् : मुमुक्षति गाम् इति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {58।62} अन्तरेण अपि अत्रग्रहणम् विषयम् अपेक्षिष्यामहे .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {59।62} कथम् .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {60।62} अकर्मकस्य इति उच्यते .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {61।62} तेन यत्र एव अयम् मुचिः अकर्मकः तत्र एव भविष्यति .
(प्_1,1.65.2) क_इ,170.1-171.9 रो_इ,503-506 {62।62} तस्मात् न अर्थः अनया परिभाषया .
(प्_1,1.65.3) क_इ,171.10-16 रो_इ,506 {1।8} अलः अन्त्यात् पूर्वः अल् उपधा इति वा .
(प्_1,1.65.3) क_इ,171.10-16 रो_इ,506 {2।8} अथ वा व्यक्तम् एव पथितव्यम् अलः अन्त्यात् पूर्वः अल् उपधासञ्ज्ञः भवति इति .
(प्_1,1.65.3) क_इ,171.10-16 रो_इ,506 {3।8} तत् तर्हि वक्तव्यम् .
(प्_1,1.65.3) क_इ,171.10-16 रो_इ,506 {4।8} न वक्तव्यम् .
(प्_1,1.65.3) क_इ,171.10-16 रो_इ,506 {5।8} अवचनात् लोकविज्ञानात् सिद्धम् .
(प्_1,1.65.3) क_इ,171.10-16 रो_इ,506 {6।8} अन्तरेण अपि वचनम् लोकविज्ञानात् सिद्धम् एतत् .
(प्_1,1.65.3) क_इ,171.10-16 रो_इ,506 {7।8} कथम् .
(प्_1,1.65.3) क_इ,171.10-16 रो_इ,506 {8।8} लोके अमीषाम् ब्राह्मणानाम् अन्त्यात् पूर्वः आनीयताम् इति उक्ते यथाजातीयकः अन्त्यः तथाजातीयकः अन्त्यात् पूर्वः आनीयते .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {1।42} किम् उदाहरणम् .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {2।42} इह तावत् : तस्मिन् इति निर्दिष्टे पूर्वस्य इति : इकः यण् अचि : दधि अत्र मधु अत्र .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {3।42} इह : तस्मात् इति उत्तरस्य इति : द्वयन्तरुपसर्गेभ्यः अपः ईत् : द्वीपम् अन्तरीपम् समीपम् .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {4।42} अन्यथाजातीयकेन शब्देन निर्देशः क्रियते अन्यथाजातीयकः उदाह्रियते .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {5।42} किम् पुनः उदाहरणम् .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {6।42} इह तावत् : तस्मिन् इति निर्दिष्टे पूर्वस्य इति : तस्मिन् अणि च युष्माकास्माकौ इति .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {7।42} तस्मात् इति उत्तरस्य इति : तस्मात् शसः नः पुंसि इति .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {8।42} इदम् च अपि उदाहरणम् : इकः यण् अचि द्व्यन्तरुपसर्गेभ्यः अपः ईत् इति .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {9।42} कथम् .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {10।42} सर्वनाम्ना अयम् निर्देशः क्रियते सर्वनाम च सामान्यवाचि .

(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {11।42} तत्र सामान्ये निर्दिष्टे विशेषाः अपि उदाहरणानि भवन्ति .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {12।42} किम् पुनः सामान्यम् कः वा विशेषः .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {13।42} गौः सामान्यम् कृष्णः विशेषः .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {14।42} न तर्हि इदानीम् कृष्णः सामान्यम् भवति गौः विशेषः भवति .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {15।42} भवति च .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {16।42} यदि सामान्यम् अपि विशेषः विशेषः अपि सामान्यम् सामान्यविशेषौ न प्रकल्पेते .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {17।42} प्रकल्पेते च .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {18।42} कथम् .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {19।42} विवक्षातः .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {20।42} यदा अस्य गौः सामान्येन विवक्षितः भवति कृष्णः विशेषत्वेन तदा गौः सामान्यम् कृष्णः विशेषः .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {21।42} यदा कृष्णः सामान्येन विवक्षितः भवति गौः विशेषत्वेन तदा कृष्णः सामान्यम् कृष्णः विशेषः .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {22।42} अपरः आह : प्रकल्पेते च .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {23।42} कथम् .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {24।42} पितापुत्रवत् .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {25।42} तत् यथा सः एव कम् चित् प्रति पिता भवति कम् चित् प्रति पुत्रः भवति एवम् इह अपि सः एव कम् चित् प्रति सामान्यम् कम् चित् प्रति विशेषः .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {26।42} एते खलु अपि नैर्देशिकानाम् वार्त्ततरकाः भवन्ति ये सर्वनाम्ना निर्देशाः क्रियन्ते .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {27।42} एतैः हि बहुतरकम् व्याप्यते .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {28।42} अथ किमर्थम् उपसर्गेण निर्देशः क्रियते .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {29।42} शब्दे सप्तम्या निर्दिष्टे पूर्वस्य कार्यम् यथा स्यात् अर्थे मा भूत् : जनपदे अतिशायने इति .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {30।42} किम् गतम् एतत् उपसर्गेण आहोस्वित् शब्दाधिक्यात् अर्थाधिक्यम् .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {31।42} गतम् इति आह .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {32।42} कथम् .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {33।42} निः अयम् बहिर्भावे वर्तते .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {34।42} तत् यथा : निष्क्रान्तः देशात् निर्देशः .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {35।42} बहिर्देशः इति गम्यते .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {36।42} शब्दः च शब्दात् बहिर्भूतः अर्थः अबहिर्भूतः .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {37।42} अथ निर्दिष्टग्रहणम् किमर्थम् .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {38।42} निर्दिष्टग्रहणम् आनन्तर्यार्थम् .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {39।42} निर्दिष्टग्रहणम् क्रियते आनन्तर्यार्थम् .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {40।42} आनन्तर्यमात्रे कार्यम् यथा स्यात् .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {41।42} इकः यण् अचि : दधि अत्र मधु अत्र .
(प्_1,1.66-67.1) क_इ,171.18-172.17 रो_इ,507-511 {42।42} इह मा भूत् :समिधौ समिधः , दृषदौ दृषदः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {1।50} किमर्थम् पुनः इदम् उच्यते .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {2।50} तस्मिन् तस्मात् इति पूर्वोत्तरयोः योगयोः अविशेषात् नियमार्थम् वचनम् दधि उदकम् पचति ओदनम् .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {3।50} तस्मिन् तस्मात् इति पूर्वोत्तरयोः योगयोः अविशेषात् नियमार्थः अयम् आरम्भः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {4।50} ग्रामे देवदत्तः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {5।50} पूर्वः परः इति सन्देहः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {6।50} ग्रामात् देवदत्तः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {7।50} पूर्वः परः इति सन्देहः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {8।50} एवम् इह अपि : इकः यण् अचि .

(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {9।50} दधि उदकम् , पचति ओदनम् .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {10।50} उभौ इकौ उभौ अचौ .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {11।50} अचि पूर्वस्य अचि परस्य इति सन्देहः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {12।50} तिङ् अतिङः इति अतिङः पूर्वस्य अतिङः परस्य इति सन्देहः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {13।50} इष्यते च अत्र अचि पूर्वस्य स्यात् , अतिङः परस्य इति .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {14।50} तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {15।50} अस्ति प्रयोजनम् एतत् .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {16।50} किम् तर्हि इति .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {17।50} अथ यत्र उभयम् निर्दिश्यते किम् तत्र पूर्वस्य कार्यम् भवति आहोस्वित् परस्य इति .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {18।50} उभयनिर्देशे विप्रतिषेधात् पञ्चमीनिर्देशः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {19।50} उभयनिर्देशे विप्रतिषेधात् पञ्चमीनिर्देशः भविष्यति .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {20।50} किम् प्रयोजनम् .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {21।50} प्रयोजनम् अतः लसार्वधातुकनुदात्तत्वे .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {22।50} वक्ष्यति तास्यादिभ्यः अनुदात्तत्वे सप्तमीनिर्देशः अभ्यस्तसिजर्थः इति .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {23।50} तस्मिन् क्रियमाणे तास्यादिभ्यः परस्य लसार्वधातुकस्य लसार्वधातुके परतः तास्यादीनाम् इति सन्देहः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {24।50} तास्यादिभ्यः परस्य लसार्वधातुकस्य .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {25।50} बहोः इष्ठादीनाम् आदिलोपः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {26।50} बहोः उत्तरेषाम् इष्ठेमेयसाम् इष्ठेमयःसु परतः बहोः इति सन्देहः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {27।50} बहोः उत्तरेषाम् इष्ठेमेयसाम् .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {28।50} गोतः णित् .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {29।50} गोतः परस्य सर्वनामस्थानस्य सर्वनामस्थाने परतः गोतः इति सन्देहः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {30।50} गोतः परस्य सर्वनामस्थानस्य .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {31।50} रुदादिभ्यः सार्वधातुके .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {32।50} रुदादिभ्यः परस्य सार्वधातुकस्य सार्वधातुके परतः रुदादीनाम् इति सन्देहः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {33।50} रुदादिभ्यः परस्य सार्वधातुकस्य .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {34।50} आने मुक् ईत् आसः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {35।50} आसः उत्तरस्य आनस्य , आने परतः आसः इति सन्देहः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {36।50} आसः उत्तरस्य आनस्य .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {37।50} आमि सर्वनाम्नः सुट् .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {38।50} सर्वनाम्नः उत्तरस्य आमः आमि परतः सर्वनाम्नः इति सन्देहः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {39।50} सर्वनाम्नः उत्तरस्य .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {40।50} घेः ङिति आट् नद्याः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {41।50} नद्याः उत्तरेषाम् ङिताम् ङित्सु परतः नद्याः इति सन्देहः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {42।50} नद्याः उत्तरेषाम् ङिताम् .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {43।50} याट् आपः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {44।50} आपः उत्तरस्य ङितः ङिति परतः आपः इति सन्देहः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {45।50} आपः उत्तरस्य ङितः . ङमः ह्रस्वात् अचि ङमुट् नित्यम् .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {46।50} ङमः उत्तरस्य अचः अचि परतः ङमः इति सन्देहः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {47।50} ङमः उत्तरस्य अचः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {48।50} विभक्तिविशेषनिर्देशानवकाशत्वात् अविप्रतिषेधः .

(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {49।50} विभक्तिविशेषनिर्देशस्य अनवकाशत्वात् अयुक्तः अयम् विप्रतिषेधः .
(प्_1,1.66-67.2) क_इ,172.19-174.5 रो_इ,511-515 {50।50} सर्वत्र एव अत्र कृतसामर्थ्या सप्तमी अकृतसामार्थ्या पञ्चमी इति कृत्वा पञ्चमीनिर्देशः भविष्यति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {1।62} यथार्थम् वा षष्ठीनिर्देशः .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {2।62} यथार्थम् वा षष्ठीनिर्देशः कर्तव्यः .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {3।62} यत्र पूर्वस्य कार्यम् इष्यते तत्र पूर्वस्य षष्ठी कर्तव्या .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {4।62} यत्र परस्य कार्यम् इष्यते तत्र परस्य षष्ठी कर्तव्या .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {5।62} सः तर्हि तथा निर्देशः कर्तव्यः .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {6।62} न कर्तव्यः .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {7।62} अनेन एव प्रकॢप्तिः भविष्यति : तस्मिन् इति निर्दिष्टे पूर्वस्य षष्ठी .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {8।62} तस्मात् इति निर्दिष्टे परस्य षष्ठी .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {9।62} तत् तर्हि षष्ठीग्रहणम् कर्तव्यम् .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {10।62} न कर्तव्यम् .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {11।62} प्रकृतम् अनुवर्तते .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {12।62} क्व प्रकृतम् .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {13।62} षष्ठी स्थानेयोगा इति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {14।62} प्रकल्पकम् इति चेत् नियमाभावः .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {15।62} प्रकल्पकम् इति चेत् नियमस्य अभावः .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {16।62} उक्तम् च एतत् : नियमार्थः अयम् आरम्भः इति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {17।62} प्रत्ययविधौ खलु अपि पञ्चम्याः प्रकल्पिकाः स्युः .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {18।62} तत्र कः दोषः .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {19।62} गुप्तिज्किभ्यः सन् इति एषा पञ्चमी सन् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {20।62} अस्तु .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {21।62} न कः चित् आदेशः प्रतिनिर्दिश्यते .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {22।62} तत्र आन्तर्यतः सनः सन् एव भविष्यति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {23।62} न एवम् शक्यम् .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {24।62} इत्सञ्ज्ञा न प्रकल्पेत .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {25।62} उपदेशे इति इत्सञ्ज्ञा उच्यते .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {26।62} प्रकृतिविकाराव्यवस्था च .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {27।62} प्रकृतिविकारयोः च व्यवस्था न प्रकल्पेत .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {28।62} इकः यण् अचि : अचि इति एषा सप्तमी यण् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {29।62} सप्तमीपञ्चम्योः च भावात् उभयत्र षष्ठीप्रकॢप्तिः तत्र उभयकार्यप्रसङ्गः .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {30।62} सप्तमीपञ्चम्योः च भावात् उभयत्र एव षष्ठी प्राप्नोति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {31।62} तास्यादिभ्यः इति एषा पञ्चमी लसार्वधातुके इति अस्याः सप्तम्याः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {32।62} तथा लसार्वधातुके इति एषा सप्तमी तास्यादिभ्यः इति पञ्चम्याः षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {33।62} तत्र कः दोषः .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {34।62} उभयोः कार्यम् तत्र प्राप्नोति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {35।62} न एषः दोषः .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {36।62} यत् तावत् उच्यते : प्रकल्पकम् इति चेत् नियमाभावः इति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {37।62} मा भूत् नियमः .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {38।62} सप्तमीनिर्दिष्टे पूर्वस्य षष्ठी प्रकल्प्यते पञ्चमीनिर्दिष्टे परस्य .

(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {39।62} यावता सप्तमीनिर्दिष्टे पूर्वस्य षष्ठी प्रकल्प्यते एवम् पञ्चमीनिर्दिष्टे परस्य .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {40।62} न उत्सहते सप्तमीनिर्दिष्टे परस्य कार्यम् भवितुम् न अपि पञ्चमीनिर्दिष्टे पूर्वस्य .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {41।62} यत् अपि उच्यते : प्रत्ययविधौ खलु अपि पञ्चम्याः प्रकल्पिकाः स्युः इति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {42।62} सन्तु प्रकल्पिकाः .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {43।62} ननु च उक्तम् गुप्तिज्किभ्यः सन् इति एषा पञ्चमी सन् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {44।62} परिहृतम् एतत् : न कः चित् आदेशः प्रतिनिर्दिश्यते .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {45।62} तत्र आन्तर्यतः सनः सन् एव भविष्यति इति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {46।62} ननु च उक्तम् : न एवम् शक्यम् .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {47।62} इत्सञ्ज्ञा न प्रकल्पेत .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {48।62} उपदेशे इति इत्सञ्ज्ञा उच्यते इति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {49।62} स्यात् एषः दोषः यदि इत्सञ्ज्ञा आदेशम् प्रतीक्षेत .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {50।62} तत्र खलु कृतायाम् इत्सञ्ज्ञायाम् लोपे च कृते आदेशः भविष्यति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {51।62} उपदेशे इति हि इत्सञ्ज्ञा उच्यते .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {52।62} अथ वा न अनुत्पन्ने सनि प्रकॢप्त्या भवितव्यम् .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {53।62} यदा च उत्पन्नः सन् तदा कृतसामर्थ्या पञ्चमी इति कृत्वा प्रकॢप्तिः न भविष्यति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {54।62} यत् अपि उच्यते : प्रकृतिविकाराव्यवस्था च इति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {55।62} तत्र अपि कृता प्रकृतौ षष्ठी इकः इति विकृतौ प्रथमा यण् इति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {56।62} यत्र च नाम सौत्री षष्ठी न अस्ति तत्र प्रकॢप्त्या भवितव्यम् .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {57।62} अथ वा अस्तु तावत् इकः यण् अचि इति यत्र नाम सौत्री षष्ठी .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {58।62} यदि च इदानीम् अचि इति एषा सप्तमी यण् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति अस्तु .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {59।62} न कः चित् अन्यः आदेशः प्रतिनिर्दिश्यते .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {60।62} तत्र आन्तर्यतः यणः यण् एव भविष्यति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {61।62} यत् अपि उच्यते : सप्तमीपञ्चम्योः च भावात् उभयत्र षष्ठीप्रकॢप्तिः तत्र उभयकार्यप्रसङ्गः इति .
(प्_1,1.66-67.3) क_इ,174.6-175.18 रो_इ,515-518 {62।62} आचार्यप्रवृत्तिः ज्ञापयति न उभे युगपत् प्रकल्पिके भवतः इति यत् अयम् एकः पूर्वपरयोः इति पूर्वग्रहणम् करोति .
(प्_1,1.68.1) क_इ,175.20-23 रो_इ,519-520 {1।7} रूपग्रहणम् किम् अर्थम् न स्वम् शब्दस्य अशब्दसञ्ज्ञा भवति इति एव रूपम् शबस्य सञ्ज्ञा भविष्यति .
(प्_1,1.68.1) क_इ,175.20-23 रो_इ,519-520 {2।7} न हि अन्यत् स्वम् शब्दस्य अस्ति अन्यत् अतः रूपात् .
(प्_1,1.68.1) क_इ,175.20-23 रो_इ,519-520 {3।7} एवम् तर्हि सिद्धे सति यत् रूपग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति अन्यत् रूपात् स्वम् शब्दस्य इति .
(प्_1,1.68.1) क_इ,175.20-23 रो_इ,519-520 {4।7} किम् पुनः तत् .
(प्_1,1.68.1) क_इ,175.20-23 रो_इ,519-520 {5।7} अर्थः .
(प्_1,1.68.1) क_इ,175.20-23 रो_इ,519-520 {6।7} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_1,1.68.1) क_इ,175.20-23 रो_इ,519-520 {7।7} अर्थवद्ग्रहणे न अनर्थकस्य इति एषा परिभाषा न कर्तव्या भवति .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {1।42} किमर्थम् पुनः इदम् उच्यते .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {2।42} शब्देन अर्थगतेः अर्थस्य असम्भवात् तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थम् स्वंरूपवचनम् . शब्देन उच्चारितेन अर्थः गम्यते .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {3।42} गाम् आनय दधि अशान इति अर्थः आनीयते अर्थः च भुज्यते .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {4।42} अर्थस्य असम्भवात् .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {5।42} इह व्याकरणे अर्थे कार्यस्य असम्भवः .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {6।42} अग्नेः डक् इति : न शक्यते अङ्गारेभ्यः परः ढक् कर्तुम् .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {7।42} शब्देन अर्थगतेः अर्थस्य असम्भवात् यावन्तः तद्वाचिनः शब्दाः तावद्भ्यः सर्वेभ्यः उत्पत्तिः प्राप्नोति .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {8।42} इष्यते च तस्मात् एव स्यात् इति .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {9।42} तत् च अन्तरेण यत्नम् न सिध्यति इति तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थम् स्वंरूपवचनम् .

(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {10।42} एवमर्थम् इदम् उच्यते .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {11।42} न वा शब्दपूर्वकः हि अर्थे सम्प्रत्ययः तस्मात् अर्थनिवृत्तिः .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {12।42} न वा एतत् प्रयोजनम् अस्ति .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {13।42} किम् कारणम् .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {14।42} शब्दपूर्वकः हि अर्थे सम्प्रत्ययः .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {15।42} शब्दपूर्वकः हि अर्थस्य सम्प्रत्ययः .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {16।42} आतः च शब्दपूर्वकः : यः अपि हि असौ आहूयते नाम्ना नाम यदा अनेन न उपलब्धम् भवति तद पृच्छति किम् भवान् आह इति .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {17।42} शब्दपूर्वकः च अर्थस्य सम्प्रत्ययः इह च व्याकरणे शब्दे कार्यस्य सम्भवः अर्थे असम्भवः .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {18।42} तस्मात् अर्थनिवृत्तिः भविष्यति .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {19।42} इदम् तर्हि प्रयोजनम् अशब्दसञ्ज्ञा इति वक्ष्यामि इति .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {20।42} इह मा भूत् : दाधाः घु अदाप् तरप्तमपौ घः इति .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {21।42} सञ्ज्ञाप्रतिषेधानर्थक्यम् वचनप्रामाण्यात् .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {22।42} सञ्ज्ञाप्रतिषेधः च अनर्थकः .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {23।42} शब्दसञ्ज्ञायाम् स्वरूपविधिः कस्मात् न भवति .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {24।42} वचनप्रामाण्यात् .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {25।42} शब्दसञ्ज्ञावचनसामर्थ्यात् .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {26।42} ननु च वचनप्रामाण्यात् सञ्ज्ञिनाम् सम्प्रत्ययः स्यात् स्वरूपग्रहणात् च सञ्ज्ञायाः .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {27।42} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {28।42} आचार्यप्रवृत्तिः ज्ञापयति शब्दसञ्ज्ञायाम् न स्वरूपविधिः भवति इति यत् अयम् ष्णान्ता षट् इति षकारान्तायाः सङ्ख्यायाः षट्सञ्ज्ञाम् शास्ति .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {29।42} इतरथा हि वचनप्रामाण्यात् नकारान्तायाः सङ्ख्यायाः सम्प्रत्ययः स्यात् स्वरूपग्रहणात् च षकारान्तायाः .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {30।42} न एतत् अस्ति प्रयोजनम् .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {31।42} न हि षकारान्ता सञ्ज्ञा .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {32।42} का तर्हि .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {33।42} डकारान्ता .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {34।42} असिद्धम् जश्त्वम् .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {35।42} तस्य असिद्धत्वात् षकारान्ता .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {36।42} मन्त्राद्यर्थम् तर्हि इदम् वक्तव्यम् .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {37।42} मन्त्रे , ऋचि यजुषि इति यत् उच्यते तत् मन्त्रशब्दे ऋक्शब्दे च यजुःशब्दे च मा भूत् .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {38।42} मन्त्राद्यर्थम् इति चेत् शास्त्रसामर्थ्यात् अर्थगतेः सिद्धम् .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {39।42} मन्त्राद्यर्थम् इति चेत् न .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {40।42} किम् कारणम् .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {41।42} शास्त्रसामर्थ्यात् अर्थस्य गतिः भविष्यति .
(प्_1,1.68.2) क_इ,175.24-176.24 रो_इ,520-523 {42।42} मन्त्रे , ऋचि यजुषि इति यत् उच्यते तत् मन्त्रशब्दे ऋक्शब्दे च यजुःशब्दे च तस्य कार्यस्य सम्भवः न अस्ति इति कृत्वा मन्त्रादिसहचरितः यः अर्थः तस्य गतिः भविष्यति साहचर्यात् .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {1।29} सित् तद्विशेषाणाम् वृक्षाद्यर्थम् .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {2।29} सिन्निर्देशः कर्तव्यः .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {3।29} ततः वक्तव्यम् : तद्विशेषाणाम् ग्रहणम् भवति इति .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {4।29} किम् प्रयोजनम् .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {5।29} वृक्षाद्यर्थम् .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {6।29} विभाषा वृक्षमृग इति : प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {7।29} पित् पर्यायवचनस्य च स्वाद्यर्थम् .

(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {8।29} पिन्निर्देशः कर्तव्यः .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {9।29} ततः वक्तव्यम् : पर्यायवचनस्य तद्विशेषाणाम् च ग्रहणम् भवति स्वस्य च रूपस्य इति .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {10।29} किम् प्रयोजनम् .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {11।29} स्वाद्यर्थम् .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {12।29} स्वे पुषः : स्वपोषम् पुष्यति रैपोषम् , विद्यापोषम् , गोपोषम् अश्वपोषम् .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {13।29} जित् पर्यायवचनस्य एव राजाद्यर्थम् .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {14।29} जिन्निर्देशः कर्तव्यः .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {15।29} ततः वक्तव्यम् पर्यायवचनस्य एव ग्रहणम् भवति .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {16।29} किम् प्रयोजनम् .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {17।29} राजाद्यर्थम् .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {18।29} सभा राजामनुष्यपूर्वा : इनसभम् ईश्वरसभम् .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {19।29} तस्य एव न भवति : राजसभा .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {20।29} तद्विशेषाणाम् च न भवति : पुष्यमित्रसभा चन्द्रगुप्तसभा .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {21।29} झित् तस्य च तद्विशेषाणाम् च मत्स्याद्यर्थम् .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {22।29} झिन्निर्देशः कर्तव्यः .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {23।29} ततः वक्तव्यम् : तस्य च ग्रहणम् भवति तद्विशेषाणाम् च इति .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {24।29} किम् प्रयोजनम् .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {25।29} मत्स्याद्यर्थम् .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {26।29} पक्षिमत्स्यमृगान् हन्ति : मात्स्यिकः .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {27।29} तद्विशेषाणाम् : शाफरिकः , शाकुलिकः .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {28।29} पर्यायवचनानाम् न भवति : अजिह्मान् हन्ति इति .
(प्_1,1.68.3) क_इ,176.25-177.16 रो_इ,523-525 {29।29} अस्य एकस्य पर्यायवचनस्य इष्यते : मीनान् हन्ति मैनिकः .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {1।30} अप्रत्ययः इति किमर्थम् .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {2।30} सनाशंसभिक्षः उः , अ साम्प्रतिके .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {3।30} अत्यल्पम् इदम् उच्यते : अप्रत्ययः इति .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {4।30} अप्रत्ययादेशटित्किन्मितः इति वक्तव्यम् .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {5।30} प्रत्यये उदाहृतम् .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {6।30} आदेशे : इदमः इश् : इह , इतः .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {7।30} टिति .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {8।30} लविता लवितुम् .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {9।30} किति .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {10।30} बभूव .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {11।30} मिति .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {12।30} हे अनड्वन् .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {13।30} टितः परिहारः .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {14।30} आचार्यप्रवृत्तिः ज्ञापयति न टितः सवर्णानाम् ग्रहणम् भवति इति यत् अयम् ग्रहः अलिटि दीर्घत्वम् शास्ति .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {15।30} न एतत् अस्ति ज्ञापकम् .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {16।30} नियमार्थम् एतत् स्यात् : ग्रहः अलिटि दीर्घः एव इति .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {17।30} यत् तर्हि वॄतः वा इति विभाषाम् शास्ति .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {18।30} सर्वेषाम् एव परिहारः : भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् भविष्यति .

मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc