भाषा

ENहिગુ
ग्रंथ पाठ

व्याकरणमहाभाष्य · भाग 141160

(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {19।40} ननु च कार्याविपरिणामात् इति भवितव्यम् .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {20।40} सन्ति च एव हि औत्तर्पदिकानि ह्रस्वत्वानि .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {21।40} अपि च बुद्धिः सम्प्रत्ययः इति अनर्थान्तरम् .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {22।40} कार्या बुद्धिः कार्यः सम्प्रत्ययः कार्यस्य सम्प्रत्ययस्य विपरिणामः कार्यविपरिणामः कार्यविपरिणामात् इति .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {23।40} परिहारन्तरम् एव इदम् मत्वा पठितम् .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {24।40} कथम् च इदम् परिहारान्तरम् स्यात् .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {25।40} यदि भूतपूर्वे स्थानशब्दः वर्तते .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {26।40} भूतपूर्वे च अपि स्थानशब्दः वर्तते .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {27।40} कथम् .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {28।40} बुद्ध्या .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {29।40} तत् यथा कः चित् कस्मै चित् उपदिशति प्राचीनम् ग्रामात् आम्राः इति .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {30।40} तस्य सर्वत्र आम्रबुद्धिः प्रसक्ता .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {31।40} ततः पश्चात् अह ये क्षीरिणः अवरोहवन्तः पृथुपर्णाः ते न्यग्रोधाः इति. सः तत्र आम्रबुद्ध्याः न्यग्रोधबुद्धिम् प्रतिपद्यते .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {32।40} सः ततः पश्यति बुद्ध्या आम्रान् च अपकृष्यमाणान् न्यग्रोधान् च आधीयमानान् .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {33।40} नित्याः एव च स्वस्मिन् विषये आम्राः नित्याः च न्यग्रोधाः .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {34।40} बुद्धिः तु अस्य विपरिणम्यते .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {35।40} एवम् इह अपि अस्तिः अस्मै अविशेषेण उपदिष्टः .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {36।40} तस्य सर्वत्र अस्तिबुद्धिः प्रसक्ता .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {37।40} सः अस्तेः भूः इति अस्तिबुद्ध्याः भवतिबुद्धिम् प्रतिपद्यते .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {38।40} सः ततः पश्यति बुद्ध्या अस्तिम् च अपकृष्यमाणम् भवतिम् च आधीयमानम् .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {39।40} नित्यः एव स्वस्मिन् विषये अस्तिः नित्यः भवतिः .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {40।40} बुद्धिः तु अस्य विपरिणम्यते .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {1।19} अपवादप्रसङ्गः तु स्थानिवत्त्वात् .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {2।19} अपवादे उत्सर्गकृतम् च प्राप्नोति .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {3।19} कर्मणि अण् आतः अनुपसर्गे कः इति के अपि अणि कृतम् प्राप्नोति .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {4।19} किम् कारणम् .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {5।19} स्थानिवत्त्वात् .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {6।19} उक्तम् वा .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {7।19} किम् उक्तम् .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {8।19} विषयेण तु नानालिङ्गकरणात् सिद्धम् इति .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {9।19} अथ वा .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {10।19} सिद्धम् तु षष्ठीनिर्दिष्टस्य स्थानिवद्वचनात् .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {11।19} सिद्धम् एतत् .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {12।19} कथम् .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {13।19} षष्ठीनिर्दिष्टस्य आदेशः स्थानिवत् इति वक्तव्यम् .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {14।19} तत् तर्हि षष्ठीनिर्दिष्टग्रहणम् कर्तव्यम् .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {15।19} न कर्तव्यम् .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {16।19} प्रकृतम् अनुवर्तते .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {17।19} क्व प्रकृतम् .
(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {18।19} षष्ठी स्थानेयोगा इति .

(प्_1,1.56.7) क_इ,138.1-10 रो_इ,413-414 {19।19} अथ वा आचार्यप्रवृत्तिः ज्ञापयति न अपवादे उत्सर्गकृतम् भवति इति यत् अयम् श्यनादीनाम् कान् चित् शितः करोति : श्यन् , श्नम् , श्ना , शः , श्नुः इति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {1।137} तस्य दोषः तयादेशे उभयप्रतिषेधः . तस्य एतस्य लक्षणस्य दोषः : तयादेशे उभयप्रतिषेधः वक्तव्यः : उभये देवमनुष्याः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {2।137} तयपः ग्रहणेन ग्रहणात् जसि विभाषा प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {3।137} न एषः दोषः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {4।137} अयच् प्रत्ययान्तरम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {5।137} यदि प्रत्ययान्तरम् उभयी इति ईकारः न प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {6।137} मा भूत् एवम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {7।137} मात्रचः इति एवम् भविष्यति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {8।137} कथम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {9।137} मात्रच् इति न इदम् प्रत्ययग्रहणम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {10।137} किम् तर्हि .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {11।137} प्रत्याहारग्रहणम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {12।137} क्व सन्निविष्टानाम् प्रत्याहारः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {13।137} मात्रशब्दात् प्रभृति आ आयचः चकारात् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {14।137} यदि प्रत्याहारग्रहणम् कति तिष्ठन्ति अत्र अपि प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {15।137} अतः इति वर्तते .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {16।137} एवम् अपि तैलमात्रा घ्र्तमात्रा इति अत्र अपि प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {17।137} सदृशस्य अपि असन्निविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {18।137} जात्यख्यायाम् वचनातिदेशे स्थानिवद्भावप्रतिषेधः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {19।137} जात्यख्यायाम् वचनातिदेशे स्थानिवद्भावस्य प्रतिषेधः वक्तव्यः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {20।137} व्रीहिभ्यः आगतः इति अत्र घेः ङिति इत् गुणः प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {21।137} न एषः दोषः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {22।137} उक्तम् एतत् : अर्थातिदेशात् सिद्धम् इति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {23।137} ङ्याब्ग्रहणे अदीर्घः . ङ्याब्ग्रहणे अदीर्घः आदेशः न स्थानिवत् इति वक्तव्यम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {24।137} किम् प्रयोजनम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {25।137} निष्कौशाम्बिः , अतिखट्वः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {26।137} ङ्याब्ग्रहणेन ग्रहणात् सुलोपः मा भूत् इति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {27।137} ननु च दीर्घात् इति उच्यते .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {28।137} तत् न वक्तव्यम् भवति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {29।137} किम् पुनः अत्र ज्यायः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {30।137} स्थानिवत्प्रतिषेधः एव ज्यायान् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {31।137} इदम् अपि सिद्धम् भवति : अतिखट्वाय अतिमालाय .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {32।137} याट् आपः इति याट् न भवति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {33।137} अथ इदानीम् असति अपि स्थानिवद्भावे दीर्घत्वे कृते पित् च असौ भूतपूर्वः इति कृत्वा याट् आपः इति याट् कस्मात् न भवति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {34।137} लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {35।137} ननु च इदानीम् सति अपि स्थानिवद्भावे एतया परिभाषया शक्यम् इह उपस्थातुम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {36।137} न इति आह .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {37।137} न हि इदानीम् क्व चित् अपि स्थानिवद्भावः स्यात् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {38।137} तत् तर्हि वक्तव्यम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {39।137} न वक्तव्यम्. प्रश्लिष्टनिर्देशात् सिद्धम् .

(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {40।137} प्रश्लिष्टनिर्देशः अयम् : ङी* ई* ईकारान्तात् आ* आप् आकारान्तात् इति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {41।137} आहिभुवोः ईट्प्रतिषेधः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {42।137} आहिभुवोः ईट्प्रतिषेधः वक्तव्यः : आत्थ अभूत् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {43।137} अस्तिब्रूग्रहणेन ग्रहणात् ईट् प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {44।137} आहेः तावत् न वक्तव्यः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {45।137} आचार्यप्रवृत्तिः ज्ञापयति न आहेः ईट् भवति इति यत् अयम् आहः थः इति झलादिप्रकरणे थत्वम् शास्ति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {46।137} न एतत् अस्ति प्रयोजनम्. अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {47।137} किम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {48।137} भूतपूर्वगतिः यथा विज्ञायेत : झलादिः यः भूतपूर्वः इति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {49।137} यदि एवम् थवचनम् अनर्थकम् स्यात् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {50।137} आथिम् एव अयम् उच्चारयेत् : ब्रुवः पञ्चानाम् आदितः आथः ब्रुवः इति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {51।137} भवतेः च अपि न वक्तव्यः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {52।137} अस्तिसिचः अपृक्ते इति द्विसकारकः निर्देशः : अस्तेः सकारान्तात् इति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {53।137} वध्यादेशे वृद्धितत्वप्रतिषेधः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {54।137} वध्यादेशे वृद्धितत्वप्रतिषेधः वक्तव्यः : वधकम् पुष्करम् इति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {55।137} स्थानिवद्भावात् वृद्धितत्वे प्राप्नुतः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {56।137} न एषः दोषः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {57।137} उक्तम् एतत् : न अयम् ण्वुल् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {58।137} अन्यः अयम् अकशब्दः कित् औणादिकः रुचकः इति यथा .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {59।137} इड्विधिः च .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {60।137} इड्विधेयः : आवधिषीष्ट .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {61।137} एकाचः उपदेशे अनुदात्तात् इति प्रतिषेधः प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {62।137} न एषः दोषः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {63।137} आद्युदात्तनिपातनम् करिष्यते .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {64।137} स निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {65।137} एवम् अपि उपदेशिवद्भावः वक्तव्यः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {66।137} यथा एव हि निपातनस्वरः प्रकृतिस्वरम् बाधते एवम् प्रत्ययस्वरम् अपि बाधेत : आवधिषीष्ट इति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {67।137} न एषः दोषः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {68।137} आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {69।137} तत्र आर्धधातुकसामान्ये वधिभावे कृते सति शिष्टत्वात् प्रत्ययस्वरः भविष्यति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {70।137} आकारान्तात् नुक्षुक्प्रतिषेधः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {71।137} आकारान्तात् नुक्षुकोः प्रतिषेधः वक्तव्यः : विलापयति भापयते .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {72।137} लीभीग्रहणेन ग्रहणात् नुक्षुकौ प्राप्नुतः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {73।137} लीभियोः प्रश्लिष्टनिर्देशात् सिद्धम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {74।137} लीभियोः प्रश्लिष्टनिर्देशः अयम् : ली* ई* ईकारान्तस्य भी* ई* ईकारान्तस्य च इति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {75।137} लोडादेशे शाभावजभावधित्वहिलोपैत्त्वप्रतिषेधः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {76।137} लोडादेशे एषाम् प्रतिषेधः वक्तव्यः : शिष्टात् , हतात् , भिन्तात् , कुरुतात् , स्तात् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {77।137} लोडादेशे कृते शाभावः जभावः धित्वम् हिलोपः एत्त्वम् इति एते विधयः प्राप्नुवन्ति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {78।137} न एषः दोषः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {79।137} इदम् इह सम्प्रधार्यम् : लोडादेशः क्रियताम् एते विधयः इति किम् अत्र कर्तव्यम् .

(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {80।137} परत्वात् लोडादेशः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {81।137} अथ इदानीम् लोडादेशे कृते पुनःप्रसङ्गविज्ञानात् कस्मात् एते विधयः न भवन्ति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {82।137} सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति कृत्वा .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {83।137} त्रयादेशे स्रन्तप्रतिषेधः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {84।137} त्रयादेशे स्रन्तस्य प्रतिषेधः वक्तव्यः : तिसृणाम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {85।137} तिसृभावे कृते त्रेः त्रयः इति त्रयादेशः प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {86।137} न एषः दोषः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {87।137} इदम् इह सम्प्रधार्यम् : तिसृभावः क्रियताम् त्रयादेशः इति किम् अत्र कर्तव्यम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {88।137} परत्वात् तिसृभावः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {89।137} अथ इदानीम् तिसृभावे कृते पुनःप्रसङ्गविज्ञानात् त्रयादेशः कस्मात् न भवति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {90।137} सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {91।137} आम्विधौ च .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {92।137} आम्विधौ च स्रन्तस्य प्रतिषेधः वक्तव्यः : चतस्रः तिष्ठन्ति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {93।137} चतसृभावे कृते चतुरनडुहोः आम् उदात्तः इति आम् प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {94।137} न एषः दोषः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {95।137} इदम् इह सम्प्रधार्यम् : चतसृभावः क्रियताम् चतुरनडुहोः आम् उदात्तः इति आम् इति किम् अत्र कर्तव्यम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {96।137} परत्वात् चतसृभावः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {97।137} अथ इदानीम् चतसृभावे कृते पुनःप्रसङ्गविज्ञानात् आम् कस्मात् न भवति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {98।137} सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {99।137} स्वरे वस्वादेशे .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {100।137} स्वरे वस्वादेशे प्रतिषेधः वक्तव्यः : विदुषः पश्य .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {101।137} शतुः अनुमः नद्यजादी अन्तोदात्तात् इति एषः स्वरः प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {102।137} न एषः दोषः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {103।137} अनुमः इति प्रतिषेधः भविष्यति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {104।137} अनुमः इति उच्यते न च अत्र नुमम् पश्यामः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {105।137} अनुमः इति न इदम् आगमग्रहणम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {106।137} किम् तर्हि .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {107।137} प्रत्याहारग्रहणम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {108।137} क्व सन्निविष्टानाम् प्रत्याहारः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {109।137} उकारात् प्रभृति आ नुमः मकारात् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {110।137} यदि प्रत्याहारग्रहणम् लुनत पुनत अत्र अपि प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {111।137} अनुम्ग्रहणेन न शत्रन्तम् विशेष्यते .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {112।137} किम् तर्हि .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {113।137} शता एव विशेष्यते : शता यः अनुम्कः इति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {114।137} अवश्यम् च एतत् एवम् विज्ञेयम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {115।137} आगमग्रहणे हि सति इह प्रसज्येत : मुञ्चता मुञ्चतः इति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {116।137} गोः पूर्वणित्त्वात्वस्वरेषु .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {117।137} गोः पूर्वणित्त्वात्वस्वरेषु प्रतिषेधः वक्तव्यः : चित्रग्वग्रम् , शबलग्वग्रम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {118।137} सर्वत्र विभाषा गोः इति विभाषा पूर्वत्वम् प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {119।137} न एषः दोषः .

(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {120।137} एङः इति वर्तते .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {121।137} तत्र अनल्विधौ इति प्रतिषेधः भविष्यति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {122।137} एवम् अपि हे चित्रगो अग्रम् अत्र प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {123।137} णित्त्वम् : चित्रगुः , चित्रगू चित्रगवः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {124।137} गोतो णित् इति णित्त्वम् प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {125।137} आत्वम् : चित्रगुम् पश्य शबलगुम् पश्य .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {126।137} आ ओतः इति आत्वम् प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {127।137} न एषः दोषः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {128।137} तपरकरणात् सिद्धम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {129।137} तपरकरणसामार्थ्यात् णित्त्वात्वे न भविष्यतः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {130।137} स्वर : बहुगुमान् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {131।137} न गोश्वन्साववर्ण इति प्रतिषेधः प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {132।137} करोतिपिब्योः प्रतिषेधः .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {133।137} करोतिपिब्योः प्रतिषेधः वक्तव्यः : कुरु पिब इति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {134।137} स्थानिवद्भावात् लघूपधगुणः प्राप्नोति .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {135।137} उक्तम् वा .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {136।137} किम् उक्तम् .
(प्_1,1.56.8) क_इ,138.11-141.22 रो_इ,414-421 {137।137} करोतौ तपरकरणनिर्देशात् सिद्धम् , पिबतिः अदन्तः इति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {1।134} अचः इति किमर्थम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {2।134} प्रश्नः , द्यूत्वा , आक्राष्टाम् आगत्य .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {3।134} प्रश्नः , विश्नः इति अत्र छकारस्य शकारः परनिमित्तकः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {4।134} तस्य स्थानिवद्भावात् छे च इति तुक् प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {5।134} अचः इति वचनात् न भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {6।134} न एतत् अस्ति प्रयोजनम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {7।134} क्रियमाणे अपि वै अज्ग्रहणे अवश्यम् अत्र तुगभावे यत्नः कर्तव्यः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {8।134} अन्तरङ्गत्वात् हि तुक् प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {9।134} इदम् तर्हि : द्यूत्वा .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {10।134} वकारस्य ऊठ् परनिमित्तकः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {11।134} तस्य स्थानिवद्भावात् अचि इति यणादेशः न प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {12।134} अचः इति वचनात् भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {13।134} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {14।134} स्वाश्रयम् अत्र अच्त्वम् भविष्यति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {15।134} अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {16।134} इदम् तर्हि प्रयोजनम् : आक्राष्टाम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {17।134} सिचः लोपः परनिमित्तकः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {18।134} तस्य स्थानिवद्भावात् षढोः कः सि इति कत्वम् प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {19।134} अचः इति वचनात् भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {20।134} एतत् अपि न अस्ति प्रयोजनम् .वक्ष्यति एतत् : पूर्वत्रासिद्धे न स्थानिवत् इति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {21।134} इदम् तर्हि प्रयोजनम् : आगत्य , अभिगत्य .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {22।134} अनुनासिकलोपः परनिमित्तकः .

(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {23।134} तस्य स्थानिवद्भावात् ह्रस्वस्य इति तुक् न प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {24।134} अचः इति वचनात् भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {25।134} अथ परस्मिन् इति किमर्थम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {26।134} युवजानिः , द्विपदिका , वैयाघ्रपद्यः , आदीध्ये .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {27।134} युवजानिः , वधूजानिः इति : जायायाः निङ् न परनिमित्तकः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {28।134} तस्य स्थानिवद्भावात् वलि इति यलोपः न प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {29।134} परस्मिन् इति वचनात् भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {30।134} न एतत् अस्ति प्रयोजनम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {31।134} स्वाश्रयम् अत्र वल्तम् भविष्यति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {32।134} अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {33।134} इदम् तर्हि प्रयोजनम् : द्विपदिका त्रिपदिका .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {34।134} पादस्य लोपः न परनिमित्तकः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {35।134} तस्य स्थानिवद्भावात् पद्भावः न प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {36।134} परस्मिन् इति वचनात् भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {37।134} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {38।134} पुनर्लोपवचनसामर्थ्यात् स्थानिवद्भावः न भविष्यति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {39।134} इदम् तर्हि प्रयोजनम् : वैयाघ्रपद्यः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {40।134} ननु च अत्र अपि पुनर्वचनसामर्थ्यात् एव न भविष्यति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {41।134} अस्ति हि अन्यत् पुनर्लोपवचने प्रयोजनम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {42।134} किम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {43।134} यत्र भसञ्ज्ञा न : व्याघ्रपात् , श्येनपात् इति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {44।134} इदम् च अपि उदाहरणम् : आदीध्ये , आवेव्ये .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {45।134} इकारस्य एकारः न परनिमित्तकः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {46।134} तस्य स्थानिवद्भावात् यीवर्णयोः दीधीवेव्योः इति लोपः प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {47।134} परस्मिन् इति वचनात् भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {48।134} अथ पूर्वविधौ इति किम् अर्थम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {49।134} हे गौः , बाभ्रवीयाः , नैधेयः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {50।134} हे गौः इति औकारः परनिमित्तकः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {51।134} तस्य स्थानिवद्भावात् एङ्ह्रस्वात् सम्बुद्धेः इति लोपः प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {52।134} पूर्वविधौ इति वचनात् न भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {53।134} न एतत् अस्ति प्रयोजनम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {54।134} आचार्यप्रवृत्तिः ज्ञापयति न सम्बुद्धिलोपे स्थानिवद्भावः भवति इति यत् अयम् एङ्ह्रस्वात् सम्बुद्धेः इति एङ्ग्रहणम् करोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {55।134} न एतत् अस्ति ज्ञापकम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {56।134} गोर्थम् एतत् स्यात् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {57।134} यत् तर्हि प्रत्याहारग्रहणम् करोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {58।134} इतरथा हि ओह्रस्वात् इति एव ब्रूयात् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {59।134} इदम् तर्हि प्रयोजनम् : बाभ्रवीयाः , माधवीयाः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {60।134} वान्तादेशः परनिमित्तकः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {61।134} तस्य स्थानिवद्भावात् हलः तद्धितस्य इति यलोपः न प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {62।134} पूर्वविधौ इति वचनात् न भवति .

(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {63।134} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {64।134} स्वाश्रयम् अत्र हल्त्वम् भविष्यति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {65।134} अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {66।134} इदम् तर्हि प्रयोजनम् : नैधेयः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {67।134} आकारलोपः परनिमित्तकः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {68।134} तस्य स्थानिवद्भावात् द्व्यज्लक्षणः ढक् न प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {69।134} पूर्वविधौ इति वचनात् न भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {70।134} अथ विधिग्रहणम् किमर्थम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {71।134} सर्वविभक्त्यन्तः समासः यथा विज्ञायेत : पूर्वस्य विधिः पूर्वविधिः , पूर्वस्मात् विधिः पूर्वविधिः इति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {72।134} कानि पुनः पूर्वस्मात् विधौ स्थानिवद्भावस्य प्रयोजनानि .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {73।134} बेभिदिता , माथितिकः , अपीपचन् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {74।134} बेभिदिता , चेच्छिदिता इति अकारलोपे कृते एकाज्लक्षणः इट्प्रतिषेधः प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {75।134} स्थानिवद्भावात् न भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {76।134} माथितिकः इति अकारलोपे कृते तान्तात् कः इति कादेशः प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {77।134} स्थानिवद्भावात् न भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {78।134} अपीपचन् इति एकादेशे कृते अभ्यस्तात् झेः जुस् भवति इति जुस्भावः प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {79।134} स्थानिवद्भावात् न भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {80।134} न एतानि सन्ति प्रयोजनानि .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {81।134} कुतः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {82।134} प्रातिपदिकर्निर्देशः अयम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {83।134} प्रातिपदिकर्निर्देशाः च अर्थतन्त्राः भवन्ति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {84।134} न कां चित् प्राधान्येन विभक्तिम् आश्रयन्ति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {85।134} तत्र प्रातिपदिकार्थे निर्दिष्टे याम् याम् विभक्तिम् आश्रयितुम् बुद्धिः उपजायते सा सा आश्रयितव्या .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {86।134} इदम् तर्हि प्रयोजनम् : विधिमात्रे स्थानिवत् यथा स्यात् अनाश्रीयमाणायाम् अपि प्रकृतौ : वाय्वोः , अध्वर्य्वोः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {87।134} लोपः व्योः वलि इति यलपः मा भूत् इति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {88।134} अस्ति प्रयोजनम् एतत् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {89।134} किम् तर्हि इति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {90।134} अपरविधौ इति तु वक्तव्यम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {91।134} किम् प्रयोजनम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {92।134} स्वविधौ अपि स्थानिवद्भावः यथा स्यात् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {93।134} कानि पुनः स्वविधौ स्थानिवद्भावस्य प्रयोजनानि .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {94।134} आयन् , आसन् , धिन्वन्ति कृण्वन्ति दधि अत्र , मधु अत्र चक्रतुः , चक्रुः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {95।134} इह तावत् : आयन् , आसन् इति इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वात् आट् अजादीनाम् इति आट् न प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {96।134} स्थानिवद्भावात् भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {97।134} धिन्वन्ति कृण्वन्ति इति यणादेशे कृते वलादिलक्षणः इट् प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {98।134} स्थानिवद्भावात् न भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {99।134} दधि अत्र मधु अत्र इति यणादेशे कृते संयोगान्तलोपः प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {100।134} स्थानिवद्भावात् न भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {101।134} चक्रतुः , चक्रुः इति यणादेशे कृते अनच्त्वात् द्विर्वचनम् न प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {102।134} स्थानिवद्भावात् भवति .

(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {103।134} यदि तर्हि स्वविधौ अपि स्थानिवद्भावः भवति द्वाभ्याम् , देयम् , लवनम् अत्र अपि प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {104।134} द्वाभ्याम् इति अत्र अत्वस्य स्थानिवद्भावात् दीर्घत्वम् न प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {105।134} देयम् इति ईत्त्वस्य स्थानिवद्भावात् गुणः न प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {106।134} लवनम् इति गुणस्य स्थानिवद्भावात् अवादेशः न प्राप्नोति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {107।134} न एषः दोषः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {108।134} स्वाश्रयाः अत्र एते विधयः भविष्यन्ति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {109।134} तत् तर्हि वक्तव्यम् अपरविधौ इति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {110।134} न वक्तव्यम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {111।134} पूर्वविधौ इति एव सिद्धम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {112।134} कथम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {113।134} न पूर्व्ग्रहणेन आदेशः अभिसम्बध्यते : अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {114।134} कुतः पूर्वस्य .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {115।134} आदेशात् इति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {116।134} किम् तर्हि .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {117।134} निमित्तम् अभिसम्बध्यते : अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {118।134} कुतः पूर्वस्य .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {119।134} निमित्तात् इति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {120।134} अथ निमित्ते अभिसम्बध्यमाने यत् तत् अस्य योगस्य मूर्धाभिषिक्तम् उदाहरणम् तत् अपि सङ्गृहीतम् भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {121।134} किम् पुनः तत् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {122।134} पट्व्या मृद्व्या इति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {123।134} बाढम् सङ्गृहीतम् .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {124।134} ननु च ईकारयणा व्यवहितत्वात् न असौ निमित्तात् पूर्वः भवति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {125।134} व्यवहिते अपि पूर्वशब्दः वर्तते .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {126।134} तत् यथा : पूर्वम् मथुरायाः पाटलिपुत्रम् इति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {127।134} अथ वा आदेशः एव अभिसम्बध्यते .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {128।134} कथम् यानि स्वविधौ स्थानिवद्भावस्य प्रयोजनानि .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {129।134} न एतानि सन्ति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {130।134} इह तावत् आयन् , आसन् , धिन्वन्ति कृण्वन्ति इति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {131।134} अयम् विधिशब्दः अस्ति एव कर्मसाधनः : विधीयते विधिः .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {132।134} अस्ति भावसाधनः : विधानम् विधिः इति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {133।134} कर्मसाधनस्य विधिशब्दस्य उपादाने न सर्वम् इष्टम् सङ्गृहीतम् इति कृत्वा भावसाधनस्य विधिशब्दस्य उपादानम् विज्ञास्यते : पूर्वस्य विधानम् प्रति पूर्वस्य भावम् प्रति पूर्वः स्यात् इति स्थानिवत् भवति इति एवम् आट् भविष्यति इट् च न भविष्यति .
(प्_1,1.57.1) क_इ,141.24-144.17 रो_इ,421-431 {134।134} दधि अत्र मधु अत्र चक्रतुः चक्रुः इति परिहारम् वक्ष्यति
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {1।64} कानि पुनः अस्य योगस्य प्रयोजनानि .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {2।64} स्तोष्यामि अहम् पादिकम् औदवाहिम् ततः श्वोभूते शातनीम् पातनीम् च .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {3।64} नेतारौ आगच्छतम् धारणिम् रावणिम् च ततः पश्चात् स्रंस्यते ध्वंस्यते च .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {4।64} इह तावत् पादिकम् औदवाहिम् शातनीम् पातनीम् धारणिम् रावणिम् इति अकारलोपे कृते पद्भावः ऊठ् अल्लोपः टिलोपः इति एते विधयः प्राप्नुवन्ति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {5।64} स्थानिवद्भावात् न भवन्ति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {6।64} स्रंस्यते ध्वंस्यते : णिलोपे कृते अनिदिताम् हलः उपधायाः क्ङिति इति नलोपः प्राप्नोति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {7।64} स्थानिवद्भावात् न भवति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {8।64} न एतानि सन्ति प्रयोजनानि .

(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {9।64} असिद्धवत् अत्र आ भात् इति अनेन अपि एतानि सिद्धानि .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {10।64} इदम् तर्हि प्रयोजनम् : याज्यते वाप्यते .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {11।64} णिलोपे कृते यजादीनाम् किति इति सम्प्रसारणम् प्राप्नोति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {12।64} स्थानिवद्भावात् न भवति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {13।64} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {14।64} यजादिभिः अत्र कितम् विशेषयिष्यामः यजादीनाम् यः कित् इति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {15।64} कः च यजादीनाम् कित् .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {16।64} यजादिभ्यः यः विहितः इति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {17।64} इदम् तर्हि प्रयोजनम् : पट्व्या मृद्व्या इति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {18।64} परस्य यणादेशे कृते पूर्वस्य न प्राप्नोति ईकारयणा व्यवहितत्वात् .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {19।64} स्थानिवद्भावात् भवति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {20।64} किम् पुनः कारणम् परस्य तावत् भवति न पुनः पूर्वस्य .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {21।64} नित्यत्वात् .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {22।64} नित्यः परयणादेशः .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {23।64} कृते अपि पूर्वयणादेशे प्राप्नोति अकृते अपि प्राप्नोति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {24।64} नित्यत्वात् परयणादेशे कृते पूर्वस्य न प्राप्नोति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {25।64} स्थानिवद्भावात् भवति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {26।64} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {27।64} असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति असिद्धत्वात् बहिरङ्गलक्षणस्य परयणादेशस्य अन्तरङ्गलक्षणः पूर्वयणादेशः भविष्यति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {28।64} अवश्यम् च एषा परिभाषा आश्रयितव्या स्वरार्थम् कर्त्र्य हर्त्र्य इति उदात्तयणः हल्पूर्वात् इति एषः स्वरः यथा स्यात् .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {29।64} अनेन अपि सिद्धः स्वरः .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {30।64} कथम् .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {31।64} आरभ्यमाणे नित्यः असौ .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {32।64} आरभ्यमाणे तु अस्मिन् योगे नित्यः पूर्वयणादेशः .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {33।64} कृते अपि परयणादेशे प्राप्नोति अकृते अपि .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {34।64} परयणादेशः अपि नित्यः .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {35।64} कृते अपि पूर्वयणादेशे प्राप्नोति अकृते अपि .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {36।64} परः च असौ व्यवस्था .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {37।64} व्यवस्थया च असौ परः .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {38।64} युगपत्सम्भवः न अस्ति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {39।64} न च अस्ति यौगपद्येन सम्भवः .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {40।64} कथम् च सिध्यति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {41।64} बहिरङ्गेण सिध्यति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {42।64} असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति अनेन सिध्यति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {43।64} एवम् तर्हि यः अत्र उदात्तयण् तदाश्रयः स्वरः भविष्यति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {44।64} ईकारयणा व्यवहितत्वात् न प्राप्नोति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {45।64} स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति न अस्ति व्यवधानम् .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {46।64} सा तर्हि एषा परिभाषा कर्तव्या .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {47।64} ननु च इयम् अपि कर्तव्या : असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {48।64} बहुप्रयोजना एषा परिभाषा .

(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {49।64} अवश्यम् एषा कर्तव्या .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {50।64} सा च अपि एषा लोकतः सिद्धा .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {51।64} कथम् .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {52।64} प्रत्यङ्गवर्ती लोकः लक्ष्यते .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {53।64} तत् यथा : पुरुषः अयम् प्रातः उत्थाय यानि अस्य प्रतिशरीरम् कार्याणि तानि तावत् करोति ततः सुहृदाम् ततः सम्बन्धिनाम् .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {54।64} प्रातिपदिकम् च अपि उपदिष्टम् सामान्यभूते अर्थे वर्तते .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {55।64} सामन्ये वर्तमानस्य व्यक्तिः उपजायते .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {56।64} व्यक्तस्य सतः लिङ्गसङ्ख्याभ्याम् अन्वितस्य बाह्येन अर्थेन योगः भवति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {57।64} यया एव आनुपूर्व्या अर्थानाम् प्रादुर्भावः तया एव शब्दानाम् अपि तद्वत् कार्यैः अपि भवितव्यम् .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {58।64} इमानि तर्हि प्रयोजनानि : पटयति , अवधीत् , बहुखट्वकः .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {59।64} पटयति लघयति इति टिलोपे कृते अतः उपधायाः इति वृद्धिः प्राप्नोति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {60।64} स्थानिवद्भावात् न भवति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {61।64} अवधीत् इति अकारलोपे कृते अतः हलादेः लघोः इति विभाषा वृद्धिः प्राप्नोति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {62।64} स्थानिवद्भावात् न भवति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {63।64} बहुखट्वकः इत् आपः अन्यतरस्याम् ह्रस्वत्वे कृते ह्रस्वान्ते अन्त्यात् पूर्वम् इति एषः स्वरः प्राप्नोति .
(प्_1,1.57.2) क_इ,144.18-146.5 रो_इ,431-435 {64।64} स्थानिवद्भावात् न भवति .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {1।22} इह वैयाकरणः , सौवश्वः इति य्वोः स्थानिवद्भावात् आयावौ प्राप्नुतः .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {2।22} तयोः प्रतिषेधः वक्तव्यः .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {3।22} अचः पूर्वविज्ञानात् ऐचोः सिद्धम् .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {4।22} यः अनादिष्टात् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {5।22} आदिष्टात् च एषः अचः पूर्वः .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {6।22} किम् वक्तव्यम् एतत् .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {7।22} न हि .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {8।22} कथम् अनुच्यमानम् गंस्यते .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {9।22} अचः इति पञ्चमी : अचः पूर्वस्य .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {10।22} यदि एवम् आदेशः अविशेषितः भवति .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {11।22} आदेशः च विशेषितः .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {12।22} कथम् .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {13।22} न ब्रूमः यत् षष्ठीनिर्दिष्टम् अज्ग्रहणम् तत् पञ्चमीनिर्दिष्टम् कर्तव्यम् .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {14।22} किम् तर्हि अन्यत् कर्तव्यम् .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {15।22} अन्यत् च न कर्तव्यम् .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {16।22} यत् एव अदः षष्ठीनिर्दिष्टम् अज्ग्रहणम् तस्य दिक्शब्दैः योगे पञ्चमी भवति : अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {17।22} कुतः पूर्वस्य .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {18।22} अचः इति .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {19।22} तत् यथा आदेशः प्रथमानिर्दिष्टः .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {20।22} तस्य दिक्शब्दैः योगे पञ्चमी भवति : अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {21।22} कुतः पूर्वस्य .
(प्_1,1.57.3) क_इ,146.6-16 रो_इ,435-436 {22।22} आदेशात् इति .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {1।41} तत्र आदेशलक्षणप्रतिषेधः .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {2।41} तत्र आदेशलक्षणम् कार्यम् प्राप्नोति .

(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {3।41} तस्य प्रतिषेधः वक्तव्यः : वाय्वोः , अध्वर्य्वोः .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {4।41} लोपः व्योः वलि इति यलोपः प्राप्नोति .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {5।41} असिद्धवचनात् सिद्धम् .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {6।41} अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति असिद्धः भवति इति वक्तव्यम् .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {7।41} असिद्धवचनात् सिद्धम् इति चेत् उत्सर्गलक्षणानाम् अनुदेशः .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {8।41} असिद्धवचनात् सिद्धम् इति चेत् उत्सर्गलक्षणानाम् अनुदेशः कर्तव्यः : पट्व्या म्र्द्व्या इति .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {9।41} ननु च एतत् अपि असिद्धवचनात् सिद्धम् .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {10।41} असिद्धवचनात् सिद्धम् इति चेत् न अन्यस्य असिद्धवचनात् अन्यस्य भावः .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {11।41} असिद्धवचनात् सिद्धम् इति चेत् तत् न .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {12।41} किम् कारणम् .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {13।41} न अन्यस्य असिद्धवचनात् अन्यस्य भावः .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {14।41} न हि अन्यस्य असिद्धवचनात् अन्यस्य प्रादुर्भावः भवति .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {15।41} न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावः भवति .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {16।41} त् अस्मात् स्थानिवद्वचनम् असिद्धत्वम् च .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {17।41} तस्मात् स्थानिवद्भावः वक्तव्यः असिद्धत्वम् च .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {18।41} पट्व्या मृद्व्या इति अत्र स्थानिवद्भावः .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {19।41} वाय्वोः , अध्वर्य्वोः इति असिद्धत्वम् .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {20।41} उक्तम् वा .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {21।41} किम् उक्तम् .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {22।41} स्थानिवद्वचनानर्थक्यम् शास्त्रासिद्धत्वात् इति .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {23।41} विषमः उपन्यासः .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {24।41} युक्तम् तत्र यत् एकादेशशास्त्रम् तुक्शास्त्रे असिद्धम् स्यात् : अन्यत् अन्यस्मिन् .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {25।41} इह पुनः न युक्तम् .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {26।41} कथम् हि तद् एव नाम तस्मिन् असिद्धम् स्यात् .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {27।41} तद् एव च अपि तस्मिन् असिद्धम् भवति .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {28।41} वक्ष्यति हि आचार्यः : चिणः लुकि तग्रहणानर्थक्यम् सङ्घातस्य अप्रत्ययत्वात् तलोपस्य च असिद्धत्वात् इति .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {29।41} चिणः लुक् चिणः लुकि एव असिद्धः भवति .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {30।41} कामम् अतिदिश्यताम् वा सत् च असत् च अपि न इह भारः अस्ति .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {31।41} कल्प्यः हि वाक्यशेषः वाक्यम् वक्तरि अधीनम् हि .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {32।41} अथ वा वतिनिर्देशः अयम् .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {33।41} कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {34।41} तत् यथा .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {35।41} उशीनरवत् मद्रेषु यवाः .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {36।41} सन्ति न सन्ति इति .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {37।41} मातृवत् अस्याः कलाः .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {38।41} सन्ति न सन्ति .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {39।41} एवम् इह अपि स्थानिवत् भवति स्थानिवत् न भवति इति वाक्यशेषम् समर्थयिष्यामहे .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {40।41} इह तावत् पट्व्या मृद्व्या इति यथा स्थानिनि यणादेशः भवति एवम् आदेशे अपि .
(प्_1,1.57.4) क_इ,146.17-147.18 रो_इ,436-438 {41।41} इह इदानीम् वाय्वोः अध्वर्य्वोः इति यथा स्थानिनि यलोपः न भवति एवम् आदेशे अपि न भवति .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {1।40} किम् पुनः अनन्तरस्य विधिम् प्रति स्थानिवद्भावः आहोस्वित् पूर्वमात्रस्य .

(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {2।40} कः च अत्र विशेषः .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {3।40} अनन्तरस्य चेत् एकाननुदात्तद्विगुस्वरगतिनिघातेषु उपसङ्ख्यानम् .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {4।40} अनन्तरस्य चेत् एकाननुदात्तद्विगुस्वरगतिनिघातेषु उपसङ्ख्यानम् कर्तव्यम् .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {5।40} एकाननुदात्त : लुनीहि अत्र पुनीहि अत्र .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {6।40} अनुदात्तम् पदम् एकवर्जम् इति एषः स्वरः न प्राप्नोति .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {7।40} द्विगुस्वर : पञ्चारत्न्यः , दशारत्न्यः .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {8।40} इगन्तकाल इति एषः स्वरः न प्राप्नोति .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {9।40} गतिनिघात : यत् प्रलुनीहि अत्र , यत् प्रपुनीहि अत्र .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {10।40} तिङि चोदात्तवति इति एषः स्वरः न प्राप्नोति .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {11।40} अस्तु तर्हि पूर्वमात्रस्य .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {12।40} पूर्वमात्रस्य इति चेत् उपधाह्रस्वत्वम् . पूर्वमात्रस्य इति चेत् उपधाह्रस्वत्वम् वक्तव्यम् : वादितवन्तम् प्रयोजितवान् : अवीवदत् वीणाम् परिवादकेन .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {13।40} किम् पुनः कारणम् न सिध्यति .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {14।40} यः असौ णौ णिः लुप्यते तस्य स्थानिवद्भावात् ह्रस्वत्वम् न प्राप्नोति .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {15।40} गुरुसञ्ज्ञा च .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {16।40} गुरुसञ्ज्ञा च न सिध्यति : श्लेष्मा3घ्न पित्ता3घ्न दा3ध्यश्व मा3ध्वश्व .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {17।40} हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {18।40} संयोगे गुरु इति गुरुसञ्ज्ञा .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {19।40} गुरोः इति प्लुतः न प्राप्नोति .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {20।40} ननु च यस्य अपि अनन्तरस्य विधिम् प्रति स्थानिवद्भावः तस्य अपि अनन्तरलक्षणः विधिः संयोगसञ्ज्ञा विधेया .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {21।40} न वा संयोगस्य अपूर्वविधित्वात् .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {22।40} न वा एषः दोषः .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {23।40} किम् कारणम् .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {24।40} संयोगस्य अपूर्वविधित्वात् .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {25।40} न पूर्वविधिः संयोगः .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {26।40} किम् तर्हि .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {27।40} पूर्वपरविधिः संयोगः .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {28।40} एकादेशस्य उपसङ्ख्यानम् .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {29।40} एकादेशस्य उपसङ्ख्यानम् कर्तव्यम् : श्रायसौ गौमतौ चातुरौ , आनडुहौ पादे , उदवाहे .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {30।40} एकादेशे कृते नुमामौ पद्भावः ऊठ् इति एते विधयः प्राप्नुवन्ति .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {31।40} किम् पुनः कारणम् न सिध्यति .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {32।40} उभयनिमित्तत्वात् .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {33।40} अजादेशः परनिमित्तकः इति उच्यते उभयनिमित्तः च अयम् .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {34।40} उभयादेशत्वात् च .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {35।40} अचः आदेशः इचि उच्यते अचोः च अयम् आदेशः .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {36।40} न एषः दोषः .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {37।40} यत् तावत् उच्यते उभयनिमित्तत्वात् इति : इह यस्य ग्रामे नगरे वा अनेकम् कार्यम् भवति शक्नोति असौ ततः अन्यतरत् व्यपदेष्टुम् : गुरुनिमित्तम् वसामः .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {38।40} अध्ययननिमित्तम् वसामः इति .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {39।40} यत् अपि उच्यते उभयादेशत्वात् च इति .:इह यः द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति लभते असौ अन्यतरतः व्यपदेशम् .
(प्_1,1.57.5) क_इ,147.19-148.24 रो_इ,438-441 {40।40} तत् यथा देवदत्तस्य पुत्रः , देवदत्तायाः पुत्रः इति. .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {1।19} अथ हलचोः आदेशः स्थानिवत् भवति उताहो न .

(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {2।19} कः च अत्र विशेषः .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {3।19} हलचोः आदेशः स्थानिवत् इति चेत् विंशतेः तिलोपः एकादेशः .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {4।19} हलचोः आदेशः स्थानिवत् इति चेत् विंशतेः तिलोपे एकादेशः वक्तव्यः : विंशकः , विंशम् शतम् , विंशः .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {5।19} स्थूलादीनाम् यणादिलोपे अवादेशः .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {6।19} स्थूलादीनाम् यणादिलोपे कृते अवादेशः वक्तव्यः : स्थवीयान् , दवीयान् .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {7।19} केकयिमित्रय्वोः इयादेशे एत्वम् .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {8।19} केकयिमित्रय्वोः इयादेशे एत्वम् न सिध्यति : कैकेयः , मैत्रेयः .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {9।19} अचि इति एत्वम् न सिध्यति .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {10।19} उत्तरपदलोपे च .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {11।19} उत्तरपदलोपे च दोषः भवति : दध्युपसिक्ताः सक्तवः दधिसक्तवः .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {12।19} अचि इति यणादेशः प्राप्नोति .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {13।19} यङ्लोपे यणियङुवङः .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {14।19} यङ्लोपे यणियङुवङः न सिध्यन्ति : चेच्यः , नेन्यः , चेक्रियः , लोलुवः , पोपुवः .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {15।19} अचि इति यणियङुवङः न सिध्यन्ति .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {16।19} अस्तु तर्हि न स्थानिवत् .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {17।19} अस्थानिवत्त्वे यङ्लोपे गुणवृद्धिप्रतिषेधः . अस्थानिवत्त्वे यङ्लोपे गुणवृद्धिप्रतिषेधः वक्तव्यः : लोलुवः , पोपुवः , सरीसृपः , मरीमृजः इति .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {18।19} न एषः दोषः .
(प्_1,1.57.6) क_इ,149.1-19 रो_इ,441-443 {19।19} न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {1।44} किम् पुनः आश्रीयमाणायाम् प्रकृतौ स्थानिवत् भवति आहोस्वित् अविशेषेण .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {2।44} कः च अत्र विशेषः .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {3।44} अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {4।44} अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः न सिध्यति : श्लेष्मा3घ्न पित्ता3घ्न दा3ध्यश्व मा3ध्वश्व .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {5।44} हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा संयोगे गुरु इति गुरुसञ्ज्ञा गुरोः इति प्लुतः न प्राप्नोति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {6।44} द्विर्वचनादयः च प्रतिषेधे .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {7।44} द्विर्वचनादयः च प्रतिषेधे वक्तव्याः : द्विर्वचनवरेयलोप इति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {8।44} क्सलोपे लुग्वचनम् .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {9।44} क्सलोपे लुक् वक्तव्यः : अदुग्ध , अदुग्धाः : लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {10।44} हन्तेः घत्वम् .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {11।44} हन्तेः च घत्वम् वक्तव्यम् : घ्नन्ति घ्नन्तु , अघ्नन् .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {12।44} अस्तु तर्हि आश्रीयमाणायाम् प्रकृतौ इति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {13।44} ग्रहणेषु स्थानिवत् इति चेत् जग्ध्यादिषु आदेशप्रतिषेधः .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {14।44} ग्रहणेषु स्थानिवत् इति चेत् जग्ध्यादिषु आदेशस्य प्रतिषेधः वक्तव्यः : निराद्य समाद्य .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {15।44} अदः जग्धिः ल्यप् ति किति इति जग्धिभावः प्राप्नोति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {16।44} यणादेशे युलोपेत्वानुनासिकात्त्वप्रतिषेधः .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {17।44} यणादेशे युलोपेत्वानुनासिकात्त्वानाम् प्रतिषेधः वक्तव्यः .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {18।44} यलोप : वाय्वोः , अध्वर्य्वोः .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {19।44} लोपः व्योः वलि इति यलोपः प्राप्नोति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {20।44} उलोप : अकुर्वि* आशाम् अकुर्व्य् आशाम् .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {21।44} नित्यम् करोतेः ये च इति उकारलोपः प्राप्नोति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {22।44} ईत्व : अलुनि* आशाम् अलुन्य् आशाम् .

(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {23।44} ई हलि अघोः इति ईत्वम् प्राप्नोति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {24।44} अनुनासिकात्त्व : अजज्ञि* आशाम् अजज्ञ्य् आशाम् .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {25।44} ये विभाषा इति अनुनासिकात्त्वम् प्राप्नोति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {26।44} रायात्वप्रतिषेधः च .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {27।44} रायः आत्वस्य च प्रतिषेधः वक्तव्यः : रायि* आशाम् राय्य् आशाम् .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {28।44} रायः हलि इति आत्वम् प्राप्नोति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {29।44} दीर्घे यलोपप्रतिषेधः .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {30।44} दीर्घे यलोपस्य प्रतिषेधः वक्तव्यः : सौर्ये नाम हिमवतः श्र्ङ्गे तद्वान् सौर्यी हिमवान् इति सौ इनाश्रये दीर्घत्वे कृते ईति यलोपः प्राप्नोति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {31।44} अतः दीर्घे यलोपवचनम् .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {32।44} अतः दीर्घे यलोपः वक्तव्यः : गार्गाभ्याम् , वात्साभ्याम् .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {33।44} दीर्घे कृते आपत्यस्य च तद्धिते अनाति इति प्रतिषेधः प्राप्नोति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {34।44} न एषः दोषः .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {35।44} आश्रीयते तत्र प्रकृतिः : तद्धिते इति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {36।44} सर्वेषाम् एषाम् परिहारः : उक्तम् विधिग्रहणस्य प्रयोजनम् विधिमात्रे स्थानिवत् यथा स्यात् अनाश्रीयमाणायाम् अपि प्रकृतौ इति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {37।44} अथ वा पुनः अस्तु अविशेषेण स्थानिवत् इति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {38।44} ननु च उक्तम् अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः द्विर्वचनादयः च प्रतिषेधे , क्सलोपे लुग्वचनम् , हन्तेः घत्वम् इति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {39।44} न एषः दोषः .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {40।44} यत् तावत् उच्यते अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः इति : उक्तम् एतत् : न वा संयोगस्य अपूर्वविधित्वात् इति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {41।44} यत् अपि उच्यते द्विर्वचनादयः च प्रतिषेधे वक्तव्याः इति : उच्यन्ते न्यासे एव .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {42।44} क्सलोपे लुग्वचनम् इति : क्रियते न्यासे एव .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {43।44} हन्तेः घत्वम् इति .
(प्_1,1.57.7) क_इ,149.20-151.11 रो_इ,443-447 {44।44} सप्तमे परिहारम् वक्ष्यति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {1।54} पदान्तविधिम् प्रति न स्थानिवत् इति उच्यते .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {2।54} तत्र वेतस्वान् इति रुः प्राप्नोति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {3।54} न एषः दोषः .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {4।54} भसञ्ज्ञा अत्र बाधिका भविष्यति : तसौ मत्वर्थे इति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {5।54} अकारान्तम् एतत् भसञ्ज्ञाम् प्रति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {6।54} पदसञ्ज्ञाम् प्रति सकारान्तम् .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {7।54} ननु च एवम् विज्ञास्यते : यः सम्प्रति पदान्तः इति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {8।54} कर्मसाधनस्य विधिशब्दस्य उपादाने एतत् एवम् स्यात् .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {9।54} अयम् च विधिशब्दः अस्ति एव कर्मसाधनः : विधीयते विधिः .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {10।54} अस्ति भावसाधनः : विधानम् विधिः इति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {11।54} तत्र भावसाधनस्य उपादाने एषः दोषः भवति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {12।54} इह च : ब्रह्मबन्ध्वा ब्रह्मबन्ध्वै : धकारस्य जश्त्वम् प्राप्नोति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {13।54} अस्ति पुनः किम् चित् भावसाधनस्य विधिशब्दस्य उपादाने सति इष्टम् सङ्गृहीतम् आहोस्वित् दोषान्तम् एव .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {14।54} अस्ति इति आह .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {15।54} इह कानि सन्ति यानि सन्ति कौ स्तः , यौ स्तः इति यः असौ पदान्तः यकारः वकारः वा श्रूयेत सः न श्रूयते .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {16।54} षडिकः च अपि सिद्धः भवति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {17।54} वाचिकः तु न सिध्यति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {18।54} अस्तु तर्हि कर्मसाधनः .

(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {19।54} यदि कर्मसाधनः षडिकः न सिध्यति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {20।54} अस्तु तर्हि भावसाधनः .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {21।54} वाचिकः न सिध्यति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {22।54} वाचिकषडिकौ न संवदेते .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {23।54} कर्तव्यः अत्र यत्नः .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {24।54} कथम् ब्रह्मबन्ध्वा ब्रह्मबन्ध्वै. उभयतः आश्रये न अन्तादिवत् इति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {25।54} कथम् वेतस्वान् .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {26।54} न एवम् विज्ञायते : पदस्य अन्तः पदान्तः पदन्तविधिम् प्रति इति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {27।54} कथम् तर्हि .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {28।54} पदे अन्तः पदान्तः पदान्तविधिम् प्रति इति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {29।54} अथ वा यथा एव अन्यानि अपि पदकार्याणि उपप्लवन्ते रुत्वम् जश्त्वम् च एवम् इदम् अपि पदकार्यम् उपप्लोष्यते .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {30।54} किम्. भसञ्ज्ञा नाम .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {31।54} वरे यलोपविधिम् प्रति न स्थानिवत् भवति इति उच्यते .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {32।54} तत्र ते अप्सु यायावरः प्रवपेत पिण्डान् अवर्णलोपविधिम् प्रति स्थानिवत् स्यात् .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {33।54} न एषः दोषः .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {34।54} न एवम् विज्ञायते : वरे यलोपविधिम् प्रति न स्थानिवत् भवति इति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {35।54} कथम् तर्हि .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {36।54} वरे अयलोपविधिम् प्रति इति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {37।54} किम् इदम् अयलोपविधिम् प्रति इति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {38।54} अवर्णलोपविधिम् प्रति यलोपविधिम् च प्रति इति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {39।54} अथ वा योगविभागः करिष्यते : वरे लुप्तम् न स्थानिवत् .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {40।54} ततः यलोपविधिम् च प्रति न स्थानिवत् इति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {41।54} यलोपे किम् उदाहरणम् .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {42।54} कण्डूयतेः अप्रत्ययः कण्डूः इति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {43।54} न एतत् अस्ति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {44।54} क्वौ लुप्तम् न स्थानिवत् .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {45।54} इदम् तर्हि : सौरी बलाका .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {46।54} न एतत् अस्ति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {47।54} उपधात्वविधिम् प्रति न स्थानिवत् .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {48।54} इदम् तर्हि प्रयोजनम् : आदित्यः .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {49।54} न एतत् अस्ति .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {50।54} पूर्वत्रासिद्धे न स्थानिवत् .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {51।54} इदम् तर्हि : कण्डूतिः , वल्गूतिः .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {52।54} न एतत् अस्ति प्रयोजनम् .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {53।54} कण्डूया वल्गूया इति भवितव्यम् .
(प्_1,1.58.1) क_इ,151.14-152.15 रो_इ,447-453 {54।54} इदम् तर्हि : कण्डूयतेः क्तिच् : ब्राह्मणकण्डूतिः , क्षत्रियकण्डूतिः .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {1।21} प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशः न स्थानिवत् .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {2।21} प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशः न स्थानिवत् इति वक्तव्यम् .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {3।21} स्वर : आकर्षिकः , चिकीर्षकः , जिहीर्षकः .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {4।21} यः हि अन्यः आदेशः स्थानिवत् एव असौ भवति : पञ्चारत्न्यः , दशारत्न्यः .

(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {5।21} स्वर .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {6।21} दीर्घ : प्रतिदीव्ना प्रतिदीव्ने .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {7।21} यः हि अन्यः आदेशः स्थानिवत् एव असौ भवति : किर्योः , गिर्योः .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {8।21} दीर्घ .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {9।21} यलोप : ब्राह्मणकण्डूतिः , क्षत्रियकण्डूतिः .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {10।21} यः हि अन्यः आदेशः स्थानिवत् एव असौ भवति : वाय्वोः , अध्वर्य्वोः इति .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {11।21} तत् तर्हि वक्तव्यम् .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {12।21} न वक्तव्यम् .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {13।21} इह हि लोपः अपि प्रकृतः आदेशः अपि .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {14।21} विधिग्रहणम् अपि प्रकृतम् अनुवर्तते .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {15।21} दीर्घादयः अपि निर्दिश्यन्ते .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {16।21} केवलम् अत्र अभिसम्बन्धमात्रम् कर्तव्यम् : स्वरदीर्घयलोपविधिषु लोपाजादेशः न स्थानिवत् इति .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {17।21} आनुपूर्व्येण सन्निविष्टानाम् यथेष्टम् अभिसम्बन्धः शक्यते कर्तुम् .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {18।21} न च एतनि आनुपूर्व्येण सन्निविष्टानि .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {19।21} अनानुपूर्व्येण अपि सन्निविष्टानाम् यथेष्तम् अभिसम्बन्धः भवति .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {20।21} तत् यथा : अनड्वाहम् उदहारि या त्वम् हरसि शिरसा कुम्भम् भगिनि साचीनम् अभिधावन्तम् अद्राक्षीः इति .
(प्_1,1.58.2) क_इ,152.16-153.3 रो_इ,453-454 {21।21} तस्य यथेष्तम् अभिसम्बन्धः भवति : उदहारि भगिनि या त्वम् कुम्भम् हरसि शिरसा अनड्वाहम् साचीनम् अभिधावन्तम् अद्राक्षीः इति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {1।71} क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषु उपसङ्ख्यानम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {2।71} क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषु उपसङ्ख्यानम् कर्तव्यम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {3।71} क्वौ किम् उदाहरणम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {4।71} कण्डूयतेः अप्रत्ययः कण्डूः इति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {5।71} न एतत् अस्ति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {6।71} यलोपविधिम् प्रति न स्थानिवत् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {7।71} इदम् तर्हि : पिपठिषतेः अप्रत्ययः पिपठीः .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {8।71} न एतत् अस्ति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {9।71} दीर्घत्वम् प्रति न स्थानिवत् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {10।71} इदम् तर्हि : लावयतेः लौः , पावयतेः पौः .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {11।71} न एतत् अस्ति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {12।71} अकृत्वा वृद्ध्यावादेशौ णिलोपः .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {13।71} प्रत्ययलक्षणेन वृद्धिः भविष्यति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {14।71} इदम् तर्हि : लवम् आचष्टे लवयति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {15।71} लवयतेः अप्रत्ययः लौः , पौः .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {16।71} स्थानिवद्भावात् णेः ऊठ् न प्राप्नोति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {17।71} क्वौ लुप्तम् न स्थानिवत् इति भवति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {18।71} एवम् अपि न सिध्यति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {19।71} कथम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {20।71} क्वौ णिलोपः णौ अकारलोपः .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {21।71} तस्य स्थानिवद्भावात् ऊठ् न प्राप्नोति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {22।71} न एषः दोषः .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {23।71} न एवम् विज्ञायते : क्वौ लुप्तम् न स्थानिवत् इति .

(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {24।71} कथम् तर्हि .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {25।71} क्वौ विधिम् प्रति न स्थानिवत् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {26।71} लुकि किम् उदाहरणम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {27।71} बिम्बम् , बदरम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {28।71} न एतत् अस्ति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {29।71} पुंवद्भावेन अपि एतत् सिद्धम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {30।71} इदम् तर्हि : आमलकम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {31।71} एतत् अपि न अस्ति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {32।71} वक्ष्यति एतत् : फले लुग्वचनानर्थक्यम् प्रकृत्यन्तरत्वात् इति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {33।71} इदम् तर्हि : पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः , दशपटुः इति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {34।71} ननु च एतत् अपि पुंवद्भावेन एव सिद्धम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {35।71} कथम् पुंवद्भावः .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {36।71} भस्य अढे तद्धिते पुंवत् भवति इति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {37।71} भस्य इति उच्यते .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {38।71} यजादौ च भम् भवति न च अत्र यजादिम् पश्यामः .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {39।71} प्रत्ययलक्षणेन यजादिः .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {40।71} वर्णाश्रये न अस्ति प्रत्ययलक्षणम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {41।71} एवम् तर्हि ठक्छसोः च इति एवम् भविष्यति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {42।71} टक्छसोः च इति उच्यते .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {43।71} न च अत्र टक्छसौ पश्यामः .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {44।71} प्रत्ययलक्षणेन .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {45।71} न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {46।71} न खलु अपि ठक् एव क्रीतप्रत्ययः क्रीताद्यर्थाः एव वा तद्धिताः .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {47।71} किम् तर्हि .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {48।71} अन्ये अपि तद्धिताः ये लुकम् प्रयोजयन्ति : पञ्चेन्द्राण्यः देवताः अस्य इति पञ्चेन्द्रः , दशेन्द्रः , पञ्चाग्निः , दशाग्निः .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {49।71} उपधात्वे किम् उदाहरणम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {50।71} पिपठिषतेः अप्रत्ययः पिपठीः इति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {51।71} न एतत् अस्ति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {52।71} दीर्घविधिम् प्रति न स्थानिवत् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {53।71} इदम् तर्हि: सौरी बलाका .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {54।71} न एतत् अस्ति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {55।71} यलोपविधिम् प्रति न स्थानिवत् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {56।71} इदम् तर्हि : पारिखीयः .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {57।71} चङ्परनिर्ह्रासे च उपसङ्ख्यनम् कर्तव्यम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {58।71} वादितवन्तम् प्रयोजितवान् : अवीवदत् वीणाम् परिवादकेन .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {59।71} किम् पुनः कारणम् न सिध्यति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {60।71} यः असौ णौ णिः लुप्यते तस्य स्थानिवद्भावात् ह्रस्वत्वम् न प्राप्नोति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {61।71} ननु च एतत् अपि उपधात्वविधिम् प्रति न स्थानिवत् इति एव सिद्धम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {62।71} विशेषे एतत् वक्तव्यम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {63।71} क्व .

(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {64।71} प्रत्ययविधौ इति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {65।71} इह मा भूत् : पटयति लघयति इति .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {66।71} कुत्वे च उपसङ्ख्यनम् कर्तव्यम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {67।71} अर्चयतेः अर्कः , मर्चयतेः मर्कः .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {68।71} न एतत् घञन्तम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {69।71} औणादिकः एषः कशब्दः .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {70।71} तस्मिन् आष्टमिकम् कुत्वम् .
(प्_1,1.58.3) क_इ,153.4-154.6 रो_इ,455-459 {71।71} एतत् अपि णिचा व्यवहितत्वात् न प्राप्नोति .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {1।28} पूर्वत्रासिद्धे च .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {2।28} पूर्वत्रासिद्धे च न स्थानिवत् इति वक्तव्यम् .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {3।28} किम् प्रयोजनम् .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {4।28} प्रयोजनम् क्सलोपः सलोपे क्सलोपः सलोपे प्रयोजनम् : अदुग्ध , अदुग्धाः .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {5।28} लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति लुग्ग्रहणम् न कर्तव्यम् .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {6।28} दधः आकारलोपे आदिचतुर्थत्वे .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {7।28} दधः आकारलोपे आदिचतुर्थत्वे प्रयोजनम् : धत्से धद्ध्वे धद्ध्वम् इति .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {8।28} दधः तथोः च इति चकारः न कर्तव्यः भवति .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {9।28} हलः यमाम् यमि लोपे .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {10।28} हलः यमाम् यमि लोपे प्रयोजनम् : आदित्यः .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {11।28} हलः यमाम् यमि लोपः सिद्धः भवति .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {12।28} अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {13।28} अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु प्रयोजनम् : पापच्यतेः पापक्तिः , यायज्यतेः यायष्टिः , पाचयतेः पाक्तिः , याजयतेः याष्टिः .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {14।28} द्विर्वचनादीनि च .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {15।28} द्विर्वचनादीनि च न पठितव्यानि भवन्ति .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {16।28} पूर्वत्रासिद्धेन एव सिद्धानि भवन्ति .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {17।28} किम् अविशेषेण .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {18।28} न इति आह .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {19।28} वरेयलोपस्वरवर्जम् .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {20।28} वरेयलोपम् स्वरम् च वर्जयित्वा .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {21।28} तस्य दोषः संयोगादिलोपलत्वणत्वेषु .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {22।28} तस्य एतस्य लक्षणस्य दोषः संयोगादिलोपलत्वणत्वेषु .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {23।28} संयोगादिलोप : काक्यर्थम् , वास्यर्थम् .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {24।28} स्कोः संयोगाद्योः अन्ते च इति लोपः प्राप्नोति .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {25।28} लत्वम् : निगार्यते निगाल्यते .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {26।28} अचि विभाषा इति लत्वम् न प्राप्नोति .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {27।28} णत्वम् : माषवपनी व्रीहिवापनी .
(प्_1,1.58.4) क_इ,154.7-155.7 रो_इ,459-461 {28।28} प्रातिपदिकान्तस्य इति णत्वम् प्राप्नोति .
(प्_1,1.59.1) क_इ,155.9-18 रो_इ,461-462 {1।14} आदेशे स्थानिवदनुदेशात् तद्वतः द्विर्वचनम् .
(प्_1,1.59.1) क_इ,155.9-18 रो_इ,461-462 {2।14} आदेशे स्थानिवदनुदेशात् तद्वतः .
(प्_1,1.59.1) क_इ,155.9-18 रो_इ,461-462 {3।14} किंवतः .
(प्_1,1.59.1) क_इ,155.9-18 रो_इ,461-462 {4।14} आदेशवतः द्विर्वचनम् प्राप्नोति .

(प्_1,1.59.1) क_इ,155.9-18 रो_इ,461-462 {5।14} तत कः दोषः .
(प्_1,1.59.1) क_इ,155.9-18 रो_इ,461-462 {6।14} तत्र अभ्यासरूपम् .
(प्_1,1.59.1) क_इ,155.9-18 रो_इ,461-462 {7।14} तत्र अभ्यासरूपम् न सिध्यति : चक्रतुः , चक्रुः इति .
(प्_1,1.59.1) क_इ,155.9-18 रो_इ,461-462 {8।14} अज्ग्रहणम् तु ज्ञापकम् रूपस्थानिवद्भावस्य .
(प्_1,1.59.1) क_इ,155.9-18 रो_इ,461-462 {9।14} यत् अयम् अज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः रूपम् स्थानिवत् भवति इति .
(प्_1,1.59.1) क_इ,155.9-18 रो_इ,461-462 {10।14} कथम् कृत्वा ज्ञापकम् .
(प्_1,1.59.1) क_इ,155.9-18 रो_इ,461-462 {11।14} अज्ग्रहणस्य एतत् प्रयोजनम् : इह मा भूत् : जेघ्रीयते , देध्मीयते इति .
(प्_1,1.59.1) क_इ,155.9-18 रो_इ,461-462 {12।14} यदि रूपम् स्थानिवत् भवति ततः अज्ग्रहणम् अर्थवत् भवति .
(प्_1,1.59.1) क_इ,155.9-18 रो_इ,461-462 {13।14} अथ हि कार्यम् न अर्थः अज्ग्रहणेन .
(प्_1,1.59.1) क_इ,155.9-18 रो_इ,461-462 {14।14} भवति एव अत्र द्विर्वचनम् .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {1।56} तत्र गाङ्प्रतिषेधः . तत्र गाङः प्रतिषेधः वक्तव्यः : अधिजगे .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {2।56} इवर्णाभ्यासता प्राप्नोति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {3।56} न वक्तव्यः .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {4।56} गाङ् लिटि इति द्विलकारकः निर्देशः : लिटि लकारादौ इति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {5।56} कॄत्येजन्तदिवादिनामधातुषु अभ्यासरूपम् .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {6।56} कॄत्येजन्तदिवादिनामधातुषु अभ्यासरूपम् न सिध्यति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {7।56} कॄति : अचिकीर्तत् .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {8।56} कॄति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {9।56} एजन्त : जग्ले मम्ले .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {10।56} एजन्त .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {11।56} दिवादि : दुद्यूषति सुस्यूषति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {12।56} दिवादि .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {13।56} नामधातु : भवनम् इच्छति भवनीयति भवनीयतेः सन् : बिभवनीयिषति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {14।56} एवम् तर्हि प्रत्यये इति वक्ष्यामि .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {15।56} प्रत्यये इति चेत् कॄत्येजन्तनमधातुषु अभ्यासरूपम् .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {16।56} प्रत्यये इति चेत् कॄत्येजन्तनमधातुषु अभ्यासरूपम् न सिध्यति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {17।56} दिवादयः एके परिहृताः .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {18।56} एवम् तर्हि द्विर्वचननिमित्ते अचि अजादेशः स्थानिवत् इति वक्ष्यामि .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {19।56} सः तर्हि निमित्तशब्दः उपादेयः .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {20।56} न हि अन्तरेण निमित्तशब्दम् निमित्तार्थः गम्यते .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {21।56} अन्तरेण अपि निमित्तशब्दम् निमित्तार्थः गम्यते .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {22।56} तत् यथा : दधित्रपुसम् प्रत्यक्षः ज्वरः .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {23।56} ज्वरनिमित्तम् इति गम्यते .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {24।56} नड्वलोदकम् पादरोगः .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {25।56} पादरोगनिमित्तम् इति गम्यते .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {26।56} अयुः घृतम् .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {27।56} आयुषः निमित्तम् इति गम्यते .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {28।56} अथ वा अकारः मत्वर्थीयः : द्विर्वचनम् अस्मिन् अस्ति सः अयम् द्विर्वचनः , द्विर्वचने इति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {29।56} एवम् अपि न ज्ञायते कियन्तम् असौ कालम् स्थानिवत् भवति इति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {30।56} यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने स्थानिवत् न भविष्यति .

(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {31।56} एवम् तर्हि प्रतिषेधः प्रकृतः .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {32।56} सः अनुवर्तिष्यते .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {33।56} क्व प्रकृतः .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {34।56} न पदान्तद्विर्वचन इति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {35।56} द्विर्वचननिमित्ते अचि अजादेशः न भवति इति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {36।56} एवम् अपि न ज्ञायते कियन्तम् असौ कालम् न भवति इति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {37।56} यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने अजादेशः भविष्यति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {38।56} एवम् तर्हि उभयम् अनेन क्रियते : प्रत्ययः च विशेष्यते द्विर्वचनम् च .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {39।56} कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {40।56} लभ्यम् इति आह .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {41।56} कथम् .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {42।56} एकशेषनिर्देशात् .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {43।56} एकशेषनिर्देशः अयम् : द्विर्वचनम् च द्विर्वचनम् च द्विर्वचनम् .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {44।56} द्विर्वचने च कर्तव्ये द्विर्वचने अचि प्रत्यये इति द्विर्वचननिमित्ते अचि स्थानिवत् भवति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {45।56} द्विर्वचननिमित्ते अचि स्थानिवत् इति चेत् णौ स्थानिवद्वचनम् . द्विर्वचननिमित्ते अचि स्थानिवत् इति चेत् णौ स्थानिवद्भावः वक्तव्यः : अवनुनावयिषति , अवचुक्षावयिषति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {46।56} न वक्तव्यः .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {47।56} ओः पुयण्जिषु वचनम् ज्ञापकम् णौ स्थानिवद्भावस्य .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {48।56} यत् अयम् पुयण्जि अपरे इति आह तत् ज्ञापयति आचार्यः भवति णौ स्थानिवत् इति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {49।56} यदि एतत् ज्ञाप्यते अचीकीर्तत् अत्र अपि प्राप्नोति .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {50।56} तुल्यजातीयस्य ज्ञापकम् .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {51।56} कः च तुल्यजातीयः .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {52।56} यथाजातीयकाः पुयण्जयः .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {53।56} कथञ्जातीयकाः च एते .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {54।56} अवर्णपराः .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {55।56} कथम् जग्ले मम्ले .
(प्_1,1.59.2) क_इ,155.19-156.27 रो_इ,462-466 {56।56} अनैमित्तिकम् आत्त्वम् शिति तु प्रतिषेधः .
(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {1।17} कानि पुनः अस्य योगस्य प्रयोजनानि .
(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {2।17} पपतुः , पपुः , तस्थतुः , तस्थुः , जग्मतुः , जग्मुः , आटितत् , आशिशत् , चक्रतुः , चक्रुः इति .
(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {3।17} आल्लोपोपधालोपणिलोपयणादेशेषु कृतेषु अनच्कत्वात् द्विर्वचनम् न प्राप्नोति .
(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {4।17} स्थानिवद्भावात् भवति .
(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {5।17} न एतानि सन्ति प्रयोजनानि .
(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {6।17} पूर्वविप्रतिषेधेन अपि एतानि सिद्धानि .
(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {7।17} कथम् .
(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {8।17} वक्ष्यति हि आचार्यः : द्विर्वचनम् यणयवायावादेशाल्लोपोपधालोपकिकिनोरुत्त्वेभ्यः इति .
(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {9।17} सः पूर्वविप्रतिषेधः न पठितव्यः भवति .
(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {10।17} किम् पुनः अत्र ज्यायः .
(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {11।17} स्थानिवद्भावः एव ज्यायान् .
(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {12।17} पूर्वविप्रतिषेधे हि सति इदम् वक्तव्यम् स्यात् : ओदौदादेशस्य उत् भवति चुटुतुशरादेः अभ्यासस्य इति .
(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {13।17} ननु च त्वया अपि इत्त्वम् वक्तव्यम् .
(प्_1,1.59.3) क_इ,157.1-11 रो_इ,466-468 {14।17} परार्थम् मम भविष्यति : सनि अतः इत् भवति इति .

मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc