भाषा

ENहिગુ
ग्रंथ पाठ

व्याकरणमहाभाष्य · भाग 181200

(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {19।30} प्रत्यये भूयान् परिहारः : अनभिधानात् प्रत्ययः सवर्णान् न ग्रहीष्यति .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {20।30} यान् हि प्रत्ययः सवर्णग्रहणेन गृह्णीयात् न तैः अर्थस्य अभिधानम् स्यात् .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {21।30} अनभिधानात् न भविष्यति .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {22।30} इदम् तर्हि प्रयोजनम् : इह के चित् प्रतीयन्ते के चित् प्रत्याय्यन्ते .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {23।30} ह्रस्वाः प्रतीयन्ते डीर्घाः प्रत्याय्यन्ते .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {24।30} यावत् ब्रूयात् प्रत्याय्यमानेन सवर्णानम् ग्रहणम् न इति तावत् अप्रत्ययः इति .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {25।30} कम् पुनः दीर्घः सवर्णग्रहणेन गृह्णीयात् .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {26।30} ह्रस्वम् .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {27।30} यत्नाधिक्यात् न ग्रहीष्यति .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {28।30} प्लुतम् तर्हि गृह्णीयात् .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {29।30} अनण्त्वात् न ग्रहीष्यति .
(प्_1,1.69.1) क_इ,177.18-178.7 रो_इ,525-527 {30।30} एवम् तर्हि सिद्धे सति यत् अप्रत्ययः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा : भाव्यमानेन सवर्णानाम् ग्रहणम् न इति .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {1।46} किमर्थम् पुनः इदम् उच्यते .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {2।46} अण् सवर्णस्य इति स्वरानुनासिक्यकालभेदात् .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {3।46} अण् सवर्णस्य इति उच्यते .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {4।46} स्वरभेदात् आनुनासिक्यभेदात् कालभेदात् च अण् सवर्णान् न गृह्णीयात् .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {5।46} इष्यते च सवर्णग्रहणम् स्यात् इति .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {6।46} तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् इदम् उच्यते .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {7।46} अस्ति प्रयोजनम् एतत् .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {8।46} किम् तर्हि इति .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {9।46} तत्र प्रत्याहारग्रहणे सवर्णाग्रहणम् अनुपदेशात् .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {10।46} तत्र प्रत्याहारग्रहणे सवर्णानाम् ग्रहणम् न प्राप्नोति : अकः सवर्णे दीर्घः इति .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {11।46} किम् कारणम् .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {12।46} अनुपदेशात् .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {13।46} यथाजातीयकानाम् सञ्ज्ञा कृता तथाजातीयकानाम् सम्प्रत्यायिका स्यात् .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {14।46} ह्रस्वानाम् च क्रियते .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {15।46} ह्रस्वानाम् एव सम्प्रत्यायिका स्यात् दीर्घानाम् न स्यात् .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {16।46} ननु च ह्रस्वाः प्रतीयमानाः दीर्घान् सम्प्रत्याययिष्यन्ति .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {17।46} ह्रस्वसम्प्रत्ययात् इति चेत् उच्चार्यमाणसम्प्रत्यायकत्वात् शब्दस्य अवचनम् .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {18।46} ह्रस्वसम्प्रत्ययात् इति चेत् उच्चार्यमाणः शब्दः सम्प्रत्यायकः भवति न सम्प्रतीयमनः .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {19।46} तत् यथा ऋक् इति उक्ते सम्पाठमात्रम् गम्यते न अस्याः अर्थः गम्यते .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {20।46} एवम् तर्हि वर्णपाठे एव उपदेशः करिष्यते .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {21।46} व् अर्णपाठे उपदेशः इति चेत् अवर्कालत्वात् परिभाषायाः अनुपदेशः . वर्णपाठे उपदेशः इति चेत् अवर्कालत्वात् परिभाषायाः अनुपदेशः .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {22।46} किम् परा सूत्रात् क्रियते इति अतः अवरकाला .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {23।46} न इति आह .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {24।46} सर्वथा अवरकाला एव .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {25।46} वर्णानाम् उपदेशः तावत् .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {26।46} उपदेशोत्तरकालः आदिः अन्त्येन सह इता इति प्रत्याहारः .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {27।46} प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {28।46} सवर्णसञ्ज्ञोत्तरकालम् अणुदित् सवर्णस्य च अप्रत्ययः इति .

(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {29।46} सा एषा उपदेशोत्तरकाला अवरकाला सती वर्णानाम् उत्पत्तौ निमित्तत्वाय कल्पयिष्यते इति तत् न .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {30।46} तस्मात् उपदेशः .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {31।46} तस्मात् उपदेशः कर्तव्यः .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {32।46} तत्र अनुवृत्तिनिर्देशे सवर्णाग्रहणम् अनण्त्वात् .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {33।46} तत्र अनुवृत्तिनिर्देशे सवर्णानाम् ग्रहणम् न प्राप्नोति : अस्य च्वौ यस्य ईति च .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {34।46} किम् कारणम् .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {35।46} अनण्त्वात् .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {36।46} न हि एते अणः ये अनुवृत्तिनिर्देशे .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {37।46} के तर्हि .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {38।46} ये अक्षरसमाम्नाये उपदिश्यन्ते .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {39।46} एवम् तर्हि अनण्त्वात् अनुवृत्तौ न अनुपदेशात् च प्रत्याहारे न .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {40।46} उच्यते च इदम् अण् सवर्णान् गृह्णाति इति .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {41।46} तत्र वचनात् भविष्यति .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {42।46} वचनात् यत्र तत् न अस्ति .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {43।46} न इदम् वचनात् लभ्यम् .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {44।46} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {45।46} किम् .
(प्_1,1.69.2) क_इ,178.8-179.12 रो_इ,528-531 {46।46} ये एते प्रत्याहाराणाम् आदितः वर्णाः तैः सवर्णानाम् ग्रहणम् यथा स्यात् .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {1।38} एवम् तर्हि सवर्णे अण्ग्रहणम् अपरिभाष्यम् आकृतिग्रहणात् .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {2।38} सवर्णे अण्ग्रहणम् अपरिभाष्यम् .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {3।38} कुतः .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {4।38} आकृतिग्रहणात् .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {5।38} अवर्णाकृतिः उपदिष्टा सा सर्वम् अवर्णकुलम् ग्रहीष्यति .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {6।38} तथा इवर्णकुलाकृतिः .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {7।38} तथा उवर्णकुलाकृतिः .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {8।38} ननु च अन्या आकृतिः अकारस्य आकारस्य च .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {9।38} अनन्यत्वात् च .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {10।38} अनन्याकृतिः अकारस्य आकारस्य च .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {11।38} अनेकान्तः हि अनन्यत्वकरः .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {12।38} यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {13।38} तत् यथा : न यः गोः च गोः च भेदः सः अन्यत्वम् करोति .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {14।38} यः तु खलु गोः च अश्वस्य च भेदः सः अन्यत्वम् करोति .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {15।38} अपरः आह : सवर्णे अण्ग्रहणम् अपरिभाष्यम् .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {16।38} आकृतिग्रहणात् अनन्यत्वम् .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {17।38} सवर्णे अण्ग्रहणम् अपरिभाष्यम् .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {18।38} आकृतिग्रहणात् अनन्यत्वम् भविष्यति .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {19।38} अनन्याकृतिः अकारस्य आकारस्य च .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {20।38} अनेकान्तः हि अनन्यत्वकरः .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {21।38} यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {22।38} तत् यथा : न यः गोः च गोः च भेदः सः अन्यत्वम् करोति .

(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {23।38} यः तु खलु गोः च अश्वस्य च भेदः सः अन्यत्वम् करोति .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {24।38} तद्वत् च हल्ग्रहणेषु .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {25।38} एवम् च कृत्वा च हल्ग्रहणेषु सिद्धम् भवति .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {26।38} झलः झलि : अवात्ताम् अवात्तम् अवात्त यत्र एतत् न अस्ति अण् सवर्णान् गृह्णाति इति .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {27।38} अनेकान्तः हि अनन्यत्वकरः इति उक्तार्थम् .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {28।38} द्रुतविलम्बितयोः च अनुपदेशात् .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {29।38} द्रुतविलम्बितयोः च अनुपदेशात् मन्यामहे आकृतिग्रहणात् सिद्धम् इति .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {30।38} यत् अयम् कस्याम् चित् वृत्तौ वर्णान् उपदिश्य सर्वत्र कृती भवति .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {31।38} अस्ति प्रयोजनम् एतत् .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {32।38} किम् तर्हि इति .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {33।38} वृत्तिपृथक्त्वम् तु न उपपद्यते .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {34।38} वृत्तेः तु पृथक्त्वम् न उपपद्यते .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {35।38} तस्मात् तत्र तपरनिर्देशात् सिद्धम् .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {36।38} तस्मात् तत्र तपरनिर्देशः कर्तव्यः .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {37।38} न कर्तव्यः .
(प्_1,1.69.3) क_इ,179.12-180.12 रो_इ,531-535 {38।38} क्रियते एतत् न्यासे एव : अतः भिसः ऐस् इति .
(प्_1,1.70.1) क_इ,180.14-20 रो_इ,535-536 {1।14} अयुक्तः अयम् निर्देशः .
(प्_1,1.70.1) क_इ,180.14-20 रो_इ,535-536 {2।14} तत् इति अनेन कालः प्रतिनिर्दिश्यते तत् इति अयम् च वर्णः .
(प्_1,1.70.1) क_इ,180.14-20 रो_इ,535-536 {3।14} तत्र अयुक्तम् वर्णस्य कालेन सह सामनाधिकरण्यम् .
(प्_1,1.70.1) क_इ,180.14-20 रो_इ,535-536 {4।14} कथम् तर्हि निर्देशः कर्तव्यः .
(प्_1,1.70.1) क_इ,180.14-20 रो_इ,535-536 {5।14} तत्कालकालस्य इति .
(प्_1,1.70.1) क_इ,180.14-20 रो_इ,535-536 {6।14} किम् इदम् तत्कालकालस्य इति .
(प्_1,1.70.1) क_इ,180.14-20 रो_इ,535-536 {7।14} तस्य कालः तत्कालः , तत्कालः कालः यस्य सः अयम् तत्कालकालः , तत्कालकालस्य इति .
(प्_1,1.70.1) क_इ,180.14-20 रो_इ,535-536 {8।14} सः तर्हि तथा निर्देशः कर्तव्यः .
(प्_1,1.70.1) क_इ,180.14-20 रो_इ,535-536 {9।14} न कर्तव्यः .
(प्_1,1.70.1) क_इ,180.14-20 रो_इ,535-536 {10।14} उत्तरपदलोपः अत्र द्रष्टव्यः .
(प्_1,1.70.1) क_इ,180.14-20 रो_इ,535-536 {11।14} तत् यथा उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखः .
(प्_1,1.70.1) क_इ,180.14-20 रो_इ,535-536 {12।14} एवम् तत्कालकालः तत्कालः , तत्कालस्य इति .
(प्_1,1.70.1) क_इ,180.14-20 रो_इ,535-536 {13।14} अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति .
(प्_1,1.70.1) क_इ,180.14-20 रो_इ,535-536 {14।14} कालसहचरितः वर्णः अपि कालः एव.
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {1।43} किम् पुनः इदम् नियमार्थम् आहोस्वित् प्रापकम् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {2।43} कथम् च नियमार्थम् स्यात् कथम् वा प्रापकम् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {3।43} यदि अत्र अण्ग्रहणम् अनुवर्तते ततः नियमार्थम् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {4।43} अथ निवृत्तम् ततः प्रापकम् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {5।43} कः च अत्र विशेषः .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {6।43} तपरः तत्कालस्य इति नियमाऋथम् इति चेत् दीर्घग्रहणे स्वरभिन्नाग्रहणम् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {7।43} तपरः तत्कालस्य इति नियमाऋथम् इति चेत् दीर्घग्रहणे स्वरभिन्नानाम् ग्रहणम् न प्राप्नोति .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {8।43} केषाम् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {9।43} उदात्तानुदात्तस्वरितानाम् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {10।43} अस्तु तर्हि प्रापकम् .

(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {11।43} प्रापकम् इति चेत् ह्रस्वग्रहणे दीर्घप्लुतप्रतिषेधः .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {12।43} प्रापकम् इति चेत् ह्रस्वग्रहणे दीर्घप्लुतयोः तु प्रतिषेधः वक्तव्यः .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {13।43} विप्रतिषेधात् सिद्धम् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {14।43} अण् सवर्णान् गृह्णाति इति एतत् अस्तु तपरः तत्कालस्य इति वा .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {15।43} तपरः तत्कालस्य इति एतत् भवति विप्रतिषेधेन .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {16।43} अण् सवर्णान् गृह्णाति इति अस्य अवकाशः ह्रस्वाः अतपराः अणः .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {17।43} तपरः तत्कालस्य इति अस्य अवकाशः दीर्घाः तपराः .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {18।43} ह्रस्वेषु तपरेषु उभयम् प्राप्नोति .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {19।43} तपरः तत्कालस्य इति एतत् भवति विप्रतिषेधेन .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {20।43} यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपसङ्ख्यानम् कालभेदात् . द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपसङ्ख्यानम् कर्तव्यम् तथा मध्यमायाम् द्रुतविलम्बितयोः तथा विलम्बितायाम् द्रुतमध्यमयोः .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {21।43} किम् पुनः कारणम् न सिध्यति .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {22।43} कालभेदात् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {23।43} ये हि द्रुतायाम् वृत्तौ वर्णाः त्रिभागाधिकाः ते मध्यमायाम् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {24।43} ये मध्यमायाम् वर्णाः त्रिभागाधिकाः ते विलम्बितायाम् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {25।43} सिद्धम् तु अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते . सिद्धम् एतत् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {26।43} कथम् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {27।43} अवस्थिताः वर्णाः द्रुतमध्यमविलम्बितासु .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {28।43} किङ्कृतः तु वृत्तिविशेषः .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {29।43} वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {30।43} वक्ता कः चित् आश्वभिधायी भवति , आशु वर्णान् अभिधत्ते .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {31।43} कः चित् चिरेण कः चित् चिरतरेण .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {32।43} तत् यथा : तम् एव अध्वानम् कः चित् आशु गच्छति कः चित् चिरेण गच्छति कः चित् चिरतरेण गच्छति .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {33।43} रथिकः आशु गच्छति आश्विकः चिरेण पदातिः चिरतरेण .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {34।43} विषमः उपन्यासः .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {35।43} अधिकरणम् अत्र अध्वा व्रजिक्रियायाः .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {36।43} तत्र अयुक्तम् यत् अधिकरणस्य वृद्धिह्रासौ स्याताम् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {37।43} एवम् तर्हि स्फोटः शब्दः ध्वनिः शब्दगुणः .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {38।43} कथम् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {39।43} भेर्याघातवत् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {40।43} तत् यथा भेर्याघातः भेरीम् आहत्य कः चित् विंशति पदानि गच्छति कः चित् त्रिंशत् कः चित् चत्वारिंशत् .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {41।43} स्फोटः च तावान् एव भवति .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {42।43} ध्वनिकृता वृद्धिः .
(प्_1,1.70.2) क_इ,180.21-181.24 रो_इ,537-540 {43।43} ध्वनिः स्फोटः च शब्दानाम् ध्वनिः तु खलु लक्ष्यते । अल्पः महान् च केषाम् चित् उभयम् तत् स्वभावतः .
(प्_1,1.71) क_इ,182.2-13 रो_इ,541-542 {1।15} आदिः अन्त्येन सह इति असम्प्रत्ययः सञ्ज्ञिनः अनिर्देशात् .
(प्_1,1.71) क_इ,182.2-13 रो_इ,541-542 {2।15} आदिः अन्त्येन सह इति असम्प्रत्ययः .
(प्_1,1.71) क_इ,182.2-13 रो_इ,541-542 {3।15} किम् कारणम् .
(प्_1,1.71) क_इ,182.2-13 रो_इ,541-542 {4।15} सञ्ज्ञिनः अनिर्देशात् .
(प्_1,1.71) क_इ,182.2-13 रो_इ,541-542 {5।15} न हि सञ्ज्ञिनः निर्दिश्यन्ते .
(प्_1,1.71) क_इ,182.2-13 रो_इ,541-542 {6।15} सिद्धम् तु आदिः इता सह तन्मध्यस्य इति वचनात् .
(प्_1,1.71) क_इ,182.2-13 रो_इ,541-542 {7।15} सिद्धम् एतत् .

(प्_1,1.71) क_इ,182.2-13 रो_इ,541-542 {8।15} कथम् .
(प्_1,1.71) क_इ,182.2-13 रो_इ,541-542 {9।15} आदिः अन्त्येन सह इता गृह्यमाणः स्वस्य च रूपस्य ग्राहकः तन्मध्यानाम् च इति वक्तव्यम् .
(प्_1,1.71) क_इ,182.2-13 रो_इ,541-542 {10।15} सम्बन्धिशब्दैः वा तुल्यम् .
(प्_1,1.71) क_इ,182.2-13 रो_इ,541-542 {11।15} सम्बन्धिशब्दैः वा तुल्यम् एतत् .
(प्_1,1.71) क_इ,182.2-13 रो_इ,541-542 {12।15} तत् यथा सम्बन्धिशब्दाः : मातरि वर्तितव्यम् , पितरि शुश्रूषितव्यम् इति .
(प्_1,1.71) क_इ,182.2-13 रो_इ,541-542 {13।15} न च उच्यते स्वस्याम् मातरि स्वस्मिन् पितरि इति सम्बन्धात् च गम्यते या यस्य माता यः च यस्य पिता इति .
(प्_1,1.71) क_इ,182.2-13 रो_इ,541-542 {14।15} एवम् इह अपि आदिः अन्त्यः इति सम्बन्धिशब्दौ एतौ .
(प्_1,1.71) क_इ,182.2-13 रो_इ,541-542 {15।15} तत्र सम्बन्धात् एतत् गन्तव्यम् : यम् प्रति आदिः अन्त्यः इति च भवति तस्य ग्रहणम् भवति स्वस्य च रूपस्य इति .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {1।20} इह कस्मात् न भवति : इकः यण् अचि : दधि अत्र मधु अत्र .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {2।20} अस्तु .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {3।20} अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {4।20} न एवम् शक्यम् .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {5।20} ये अनेकालः आदेशाः तेषु दोषः स्यात् : एचः अयवायावः इति .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {6।20} न एषः दोषः .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {7।20} यथा एव प्रकृतितः तदन्तविधिः भवति एवम् आदेशतः अपि भविष्यति .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {8।20} तत्र एजन्तस्य अयाद्यन्ता आदेशाः भविष्यन्ति .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {9।20} यदि च एवम् क्व चित् वैरूप्यम् तत्र दोषः स्यात् .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {10।20} अपि च अन्तरङ्गबहिरङ्गे न प्रकल्प्येयाताम् .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {11।20} तत्र कः दोषः .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {12।20} स्योनः , स्योना : अन्तरङ्गलक्षणस्य यणादेशस्य बहिरङ्गलक्षणः गुणः बाधकः प्रसज्येत .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {13।20} ऊनशब्दम् हि आश्रित्य यणादेशः नशब्दम् आश्रित्य गुणः .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {14।20} अल्विधिः च न प्रकल्पेत : द्यौः , पन्थाः , सः इति .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {15।20} तस्मात् प्रकृते तदन्तविधिः इति वक्तव्यम् .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {16।20} न वक्तव्यम् .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {17।20} येन इति करणे एषा तृतीया अन्येन च अन्यस्य विधिः भवति .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {18।20} तत् यथा : देवदत्तस्य समाशम् शरावैः ओदनेन च यज्ञदत्तः प्रतिविधत्ते , तथा सङ्ग्रामम् हस्त्यश्वरथपदातिभिः .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {19।20} एवम् इह अपि अचा धातोः यतम् विधत्ते .
(प्_1,1.72.1) क_इ,182.15-183.2 रो_इ,542-544 {20।20} अकारेण प्रातिपदिकस्य इञम् विधत्ते .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {1।22} येन विधिः तदन्तस्य इति चेत् ग्रहणोपाधीनाम् तदन्तोपाधिप्रसङ्गः .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {2।22} येन विधिः तदन्तस्य इति चेत् ग्रहणोपाधीनाम् तदन्तोपाधिताप्रसङ्गः .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {3।22} ये ग्रहणोपाधयः ते अपि तदन्तोपाधयः स्युः .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {4।22} तत्र कः दोषः .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {5।22} उतः च प्रत्ययात् असंयोगपूर्वात् इति असंयोगपूर्वग्रहणम् उकारान्त्विशेषणम् स्यात् .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {6।22} तत्र कः दोषः .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {7।22} असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यात्:: अक्ष्णुहि तक्ष्णुहि इति .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {8।22} इह न स्यात् : आप्नुहि शक्नुहि इति .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {9।22} तथा उत् ओष्थ्यपूर्वस्य इति ओष्ठ्यपूर्वग्रहणम् ॠकारान्तविशेषणम् स्यात् .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {10।22} तत्र कः दोषः .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {11।22} ओष्ठ्यपूर्वग्रहणेन इह च प्रसज्येत : सङ्कीर्णम् इति .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {12।22} इह च न स्यात् : निपूर्ताः पिण्डाः इति .

(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {13।22} सिद्धम् तु विशेषणविशेष्ययोः यथेष्टत्वात् .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {14।22} सिद्धम् एतत् .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {15।22} कथम् .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {16।22} यथेष्टम् विशेषणविशेष्ययोः योगः भवति .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {17।22} यावता यथेष्टम् इह तावत् : उतः च प्रत्ययात् असंयोगपूर्वात् इति न असंयोगपूर्वग्रहणेन उकारान्तम् विशेष्यते .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {18।22} किम् तर्हि .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {19।22} उकारः एव विशेष्यते : उकारः यः असंयोगपूर्वः तदन्तात् प्रत्ययात् इति .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {20।22} तथा उत् ओष्थ्यपूर्वस्य इति न ओष्ठपूर्वग्रहणेन ॠकारान्तम् विशेष्यते .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {21।22} किम् तर्हि .
(प्_1,1.72.2) क_इ,183.3-16 रो_इ,544-546 {22।22} ॠकारः एव विशेष्यते : ॠकारः यः ओष्ठ्यपूर्वः तदन्तस्य धातोः इति .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {1।53} समासप्रत्ययविधौ प्रतिषेधः .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {2।53} समासविधौ प्रत्ययविधौ च प्रतिषेधः वक्तव्यः .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {3।53} समासविधौ तावत् : द्वितीया श्रितादिभिः समस्यते : कष्टश्रितः , नरकश्रितः .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {4।53} कष्टम् परमश्रित इति अत्र मा भूत् .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {5।53} प्रत्ययविधौ : नडस्य अपत्यम् नाडायनः .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {6।53} इह न भवति : सूत्रनडस्य अपत्यम् सौत्रनाडिः .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {7।53} किम् अविशेषेण .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {8।53} न इति आह .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {9।53} उगिद्वर्णग्रहणवर्जम् .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {10।53} उगिद्ग्रहणम् वर्णग्रहणम् च वर्जयित्वा .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {11।53} उगिद्ग्रहणम् : भवती , अतिभवती महती , अतिमहती .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {12।53} वर्णग्रहणम् : अतः इञ् : दाक्षिः , प्लाक्षिः .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {13।53} अस्ति च इदानीम् कः चित् केवलः अकारः प्रातिपदिकम् यदर्थः विधिः स्यात् .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {14।53} अस्ति इति आह .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {15।53} अततेः डः : अः , तस्य अपत्यम् : अतः इञ् इः .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {16।53} अकच्श्नम्वतः सर्वनामाव्ययधातुविधौ उपसङ्ख्यानम् . अकच्वतः सर्वनामाव्ययविधौ श्नम्वतः धातुविधौ उपसङ्ख्यानम् कर्तव्यम् .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {17।53} अकच्वतः : सर्वके विश्वके .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {18।53} अव्ययविधौ : उच्चकैः नीचकैः .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {19।53} श्नम्वतः : भिनत्ति छिनत्ति .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {20।53} किम् पुनः कारणम् न सिध्यति .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {21।53} इह तस्य वा ग्रहणम् भवति तदन्तस्य वा .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {22।53} न च इदम् तत् न अपि तदन्तम् .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {23।53} सिद्धम् तु तदन्तान्तवचनात् .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {24।53} सिद्धम् एतत् .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {25।53} कथम् .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {26।53} तदन्तान्तवचनात् .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {27।53} तदन्तान्तस्य इति वक्तव्यम् .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {28।53} किम् इदम् तदन्तान्तस्य इति .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {29।53} तस्य अन्तः तदन्तः , तदन्तः अन्तः यस्य तत् इदम् तदन्तान्तम् , तदन्तान्तस्य इति .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {30।53} सः तर्हि तथा निर्देशः कर्तव्यः .

(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {31।53} न कर्तव्यः .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {32।53} उत्तरपदलोपः अत्र द्रष्टव्यः .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {33।53} तत् यथा : उष्ट्रमुखम् इव मुखम् अस्य : उष्ट्रमुखः , खरमुखः .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {34।53} एवम् इह अपि तदन्तः अन्तः यस्य तदन्तस्य इति .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {35।53} तदेकदेशविज्ञानात् वा सिद्धम् . तदेकदेशविज्ञानात् वा पुनः सिद्धम् एतत् .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {36।53} तदेकदेशभूतः तद्ग्रहणेन गृह्यते .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {37।53} तत् यथा गङ्गा यमुना देवदत्ता इति .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {38।53} अनेका नदी गङ्गाम् यमुनाम् च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {39।53} तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {40।53} विषमः उपन्यासः .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {41।53} इह के चित् शब्दाः अक्तपरिमाणानाम् अर्थानाम् वाचकाः भवन्ति ये एते सङ्ख्याशब्दाः परिमाणशब्दाः च .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {42।53} पञ्च सप्त इति : एकेन अपि अपाये न भवन्ति .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {43।53} द्रोणः खारी आढकम् इति : न एव अधिके भवन्ति न न्यूने .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {44।53} के चित् यावत् एव तत् भवति तावत् एव आहुः ये एते जातिशब्दाः गुणशब्दाः च .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {45।53} तैलम् घृतम् इति : खार्याम् अपि भवन्ति द्रोणे अपि .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {46।53} शुक्लः नीलः कृष्णः इति : हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {47।53} इमाः च अपि सञ्ज्ञाः अक्तपरिमाणानाम् अर्थानाम् क्रियन्ते .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {48।53} ताः केन अधिकस्य स्युः .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {49।53} एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति यत् अयम् न इदमदसोः अकोः इति सककारयोः इदमदसोः प्रतिषेधम् शास्ति .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {50।53} कथम् कृत्वा ज्ञापकम् .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {51।53} इदमदसोः कार्यम् उच्यमानम् कः प्रसङ्गः यत् सककारयोः स्यात् .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {52।53} पश्यति तु आचार्यः तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति .
(प्_1,1.72.3) क_इ,183.17-184.25 रो_इ,546-550 {53।53} ततः सककारयोः प्रतिषेधम् शास्ति .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {1।59} कानि पुनः अस्य योगस्य प्रयोजनानि .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {2।59} प्रयोजनम् सर्वनामाव्ययसञ्ज्ञायाम् .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {3।59} सर्वनामाव्ययसञ्ज्ञायाम् प्रयोजनम् : सर्वे परमसर्वे विश्वे परमविश्वे , उच्चैः , परमोच्चैः , नीचैः , परमनीचैः इति .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {4।59} उपपदविधौ भयाढ्यादिग्रहणम् .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {5।59} उपपदविधौ भयाढ्यादिग्रहणम् प्रयोजनम् : भयङ्करः , अभयङ्करः , आढ्यङ्करणम् , खाड्यङ्करणम् .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {6।59} ङीब्विधौ उगिद्ग्रहणम् .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {7।59} ङीब्विधौ उगिद्ग्रहणम् प्रयोजनम् : भवती , अतिभवती महती , अतिमहती .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {8।59} प्रतिषेधे स्वस्रादिग्रहणम् .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {9।59} प्रतिषेधे स्वस्रादिग्रहणम् प्रयोजनम् : स्वसा परमस्वसा दुहिता परमदुहिता .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {10।59} अपरिमाणबिस्तादिग्रहणम् च प्रतिषेधे .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {11।59} अपरिमाणबिस्तादिग्रहणम् च प्रतिषेधे प्रयोजनम् .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {12।59} अपरिमाणबिस्ताचितकम्बलेभ्यः न तद्धितलुकि : द्विबिस्ता द्विपरमबिस्ता त्रिबिस्ता त्रिपरमबिस्ता द्व्याचिता द्विपरमाचिता .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {13।59} दिति .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {14।59} दितिग्रहणम् च प्रयोजनम् .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {15।59} दितेः अपत्यम् दैत्यः , अदितेः अपत्यम् आदित्यः .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {16।59} दित्यदित्यादित्य इति अदितिग्रहणम् न कर्तव्यम् भवति .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {17।59} रोण्याः अण् .

(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {18।59} रोण्याः अण्ग्रहणम् च प्रयोजनम् : आजकरोणः , सैंहकरोणः .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {19।59} तस्य च .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {20।59} तस्य च इति वक्तव्यम् : रौणः .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {21।59} किम् पुनः कारणम् न सिध्यति .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {22।59} तदन्तात् च तदन्तविधिना सिद्धम् केवलात् च व्यप्देशिवद्भावेन .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {23।59} व्यप्देशिवद्भावः अप्रातिपदिकेन .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {24।59} किम् पुनः कारणम् व्यप्देशिवद्भावः अप्रातिपदिकेन .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {25।59} इह : सूत्रान्तात् ठक् भवति दशान्तात् डः भवति इति : केवलात् उत्पत्तिः मा भूत् इति .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {26।59} न एतत् अस्ति प्रयोजनम् .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {27।59} सिद्धम् अत्र तदन्तात् च तदन्तविधिना केवलात् च व्यप्देशिवद्भावेन .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {28।59} सः अयम् एवम् सिद्धे सति यत् अन्तग्रहणम् करोति तत् ज्ञापयति आचार्यः सूत्रान्तात् एव दशान्तात् एव इति .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {29।59} न अत्र तदन्तात् उत्पत्तिः प्राप्नोति .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {30।59} इदानीम् एव हि उक्तम् : समासप्रत्ययविधौ प्रतिषेधः इति .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {31।59} सा तर्हि एषा परिभाषा कर्तव्या .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {32।59} न कर्तव्या .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {33।59} आचार्यप्रवृत्तिः ज्ञापयति व्यप्देशिवद्भावः अप्रातिपदिकेन इति यत् अयम् पूर्वात् इनिः सपूर्वात् च इति आह .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {34।59} न एतत् अस्ति प्रयोजनम् .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {35।59} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {36।59} किम् .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {37।59} सपूर्वात् पूर्वात् इनिम् वक्ष्यामि इति .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {38।59} यत् तर्हि योगविभागम् करोति .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {39।59} इतरथा हि पूर्वात् सपूर्वात् इति एव ब्रूयात् .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {40।59} किम् पुनः अयम् अस्य एव शेषः : तस्य च इति .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {41।59} न इति आह .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {42।59} यत् च अनुक्रान्तम् यत् च अनुक्रंसय्ते सर्वस्य एव शेषः तस्य च इति .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {43।59} रथसीताहलेभ्यः यद्विधौ .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {44।59} रथसीताहलेभ्यः यद्विधौ प्रयोजनम् : रथ्यः , परमरथ्यः , सीत्यम् , परमसीत्यम् , हल्या परमहल्या .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {45।59} सुसर्वार्धदिक्शब्देभ्यः जनपदस्य .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {46।59} सुसर्वार्धदिक्शब्देभ्यः जनपदस्य प्रयोजनम् : सुपाञ्चालकः , सुमागधकः .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {47।59} सु .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {48।59} सर्व : सर्वपाञ्चालकः , सर्वमागधकः .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {49।59} सर्व .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {50।59} अर्ध : अर्धपाञ्चालकः , अर्धमागधकः .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {51।59} अर्ध .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {52।59} दिक्शब्द : पूर्वपाञ्चालकः , पूर्वमागधकः .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {53।59} ऋतोः वृद्धिमद्विधौ अवयवानाम् .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {54।59} ऋतोः वृद्धिमद्विधौ अवयवानाम् प्रयोजनम् : पूर्वशारदम् , अपरशारदम् , पूर्वनैदाघम् , अपरनैदाघम् .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {55।59} ठञ्विधौ सङ्ख्यायाः .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {56।59} ठञ्विधौ सङ्ख्यायाः प्रयोजनम् : द्विषाष्टिकम् , पञ्चषाष्टिकम् .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {57।59} धर्मात् नञः .

(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {58।59} धर्मात् नञः प्रयोजनम् : धर्मम् चरति धार्मिकः , अधर्मम् चरति आधर्मिकः .
(प्_1,1.72.4) क_इ,184.26-186.24 रो_इ,550-554 {59।59} अधर्मात् च इति न वक्तव्यम् भवति
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {1।64} पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {2।64} पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति वक्तव्यम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {3।64} पदाधिकारे किम् प्रयोजनम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {4।64} प्रयोजनम् इष्टिकेषीकामालानाम् चिततूलभारिषु : इष्टकचितम् चिन्वीत , पक्वेष्टिक्चितम् चिन्वीत , इषीकतूलेन मुञ्जेषीकतूलेन मालभारिणी कन्या , उत्पलमालभारिणी कन्या .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {5।64} अङ्गाधिकारे किम् प्रयोजनम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {6।64} महदप्स्वसृतॄणाम् दीर्घविधौ .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {7।64} महदप्स्वसृतॄणाम् दीर्घविधौ प्रयोजनम् : महान् , परममहान् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {8।64} महत् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {9।64} अप् : आपः तिष्ठन्ति , स्वापः तिष्ठन्ति .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {10।64} अप् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {11।64} स्वसृ : स्वसा स्वसारौ स्वसारः , परमस्वसा परमस्वसारौ परमस्वसारः .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {12।64} स्वसृ .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {13।64} नप्तृ : नप्ता नप्तारौ नप्तारः .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {14।64} एवम् परमनप्ता परमनप्तारौ परमनप्तारः .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {15।64} पद्युष्मदस्मदस्थ्याद्यन्डुहः नुम् . पद्भावः प्रयोजनम् : दिव्पदः पश्य .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {16।64} अस्ति च इदानीम् कः चित् केवलः पाच्छभ्दः यदर्थः विधिः स्यात् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {17।64} न अस्ति इति आह .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {18।64} एवम् तर्हि अङ्गाधिकारे प्रयोजनम् न अस्ति इति कृत्वा पदाधिकारस्य इदम् प्रयोजनम् उक्तम् : हिमकाषिहतिषु च : यथा पत्काषिणौ पत्काषिणः एवम् परमपत्काषिणौ परमपत्काषिणः .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {19।64} यदि तर्हि पदाधिकारे पादस्य तदन्तविधिः भवति पादस्य पद आज्यतिगोपहतेषु : यथा इह भवति : पादेन उपहतम् पदोपहतम् अत्र अपि स्यात् : दिग्धपादेन उपहतम् दिग्धपादोपहतम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {20।64} एवम् तर्हि अङ्गाधिकारे एव प्रयोजनम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {21।64} ननु च उक्तम् न अस्ति केवलः पाच्छब्दः इति .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {22।64} अयम् अस्ति पादयतेः अप्रत्ययः पात् : पदा पदे .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {23।64} पद् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {24।64} युष्मत् अस्मत् : यूयम् , वयम् अतियूयम् अतिवयम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {25।64} अस्थ्यादि : अस्थ्ना दध्ना सक्थ्ना पर्मास्थ्ना परमदध्ना परमसक्थ्ना .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {26।64} अनडुहः नुम् : अनड्वान् , परमानड्वान् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {27।64} द्युपथिमथिपुङ्गोसखिचतुरनडुत्त्रिग्रहणम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {28।64} द्युपथिमथिपुङ्गोसखिचतुरनडुत्त्रिग्रहणम् प्रयोजनम् : द्यौः , सुद्यौः , पन्थाः , सुपन्थाः , मन्थाः , सुमन्थाः , परममन्थाः , पुमान् परमपुमान् , गौः , सुगौः , सखा सखायौ सखायः , सुसखा सुसखायौ सुसखायः , परमसखा परमसखायौ परमसखायः , चत्वारः परमचत्वारः , अनड्वाहः , पर्मानड्वाहः , त्रयाणाम् , परमत्रयाणाम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {29।64} त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {30।64} त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च प्रयोजनम् : सः , अतिसः , भस्त्रका भस्त्रिका निर्भस्त्रका निर्भस्त्रिका बहुभस्त्रका बहुभस्त्रिका .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {31।64} स्त्रीग्रहणम् च प्रयोजनम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {32।64} स्त्रियौ स्त्रियः राजस्त्रियौ राजस्त्रियः .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {33।64} वर्णग्रहणम् च सर्वत्र .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {34।64} वर्णग्रहणम् च सर्वत्र प्रयोजनम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {35।64} क्व सर्वत्र .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {36।64} अङ्गाधिकारे च अन्यत्र च .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {37।64} अन्यत्र उदाहृतम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {38।64} आन्गाधिकारे : अतः दीर्घः यञि सुपि च : इह एव स्यात् : आभ्याम् .

(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {39।64} घटाभ्याम् इति अत्र न स्यात् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {40।64} प्रत्ययग्रहणम् च अपञ्चम्याः . प्रत्ययग्रहणम् च अपञ्चम्याः प्रयोजनम् : यञिञोः फक् भवति .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {41।64} गार्ग्यायणः वात्स्यायनः परमगार्ग्यायणः परमवात्स्यायनः .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {42।64} अपञ्चम्याः इति किमर्थम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {43।64} दृषत्तीर्णा परिषत्तीर्णा .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {44।64} अला एव अनर्थकेन न अन्येन अनर्थकेन इति वक्तव्यम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {45।64} किम् प्रयोजनम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {46।64} हन्ग्रहणे प्लीहन्ग्रहणम् मा भूत् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {47।64} उद्ग्रहणे गर्मुद्ग्रहणम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {48।64} स्त्रीग्रहणे शस्त्रीग्रहणम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {49।64} सङ्ग्रहणे पायसम् करोति इति मा भूत् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {50।64} किमर्थम् इदम् उच्यते न पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति एव सिद्धम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {51।64} न च इदम् तत् न अपि तदुत्तरपदम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {52।64} तत् न वक्तव्यम् भवति .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {53।64} किम् पुनः अत्र ज्यायः .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {54।64} तदन्तविधिः एव ज्यायान् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {55।64} इदम् अपि सिद्धम् भवति : परमातिमहान् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {56।64} एतत् हि न एव तत् न अपि तदुत्तरपदम् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {57।64} अनिनस्मन्ग्रहणानि च अर्थवता च अनर्थकेन च तदन्तविधिम् प्रयोजयन्ति .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {58।64} अन् : राज्ञा इति अर्थवता साम्ना इति अनर्थकेन .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {59।64} अन् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {60।64} इन् : दण्डी* इति अर्थवता वाग्मी* इति अनर्थकेन .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {61।64} इन् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {62।64} अस् : सुपयाः इति अर्थवता सुस्रोताः इति अनर्थकेन .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {63।64} अस् .
(प्_1,1.72.5) क_इ,187.1-188.23 रो_इ,555-561 {64।64} मन् : सुशर्मा इति अर्थवता सुप्रथिमा इति अनर्थकेन .
(प्_1,1.72.6) क_इ,188.24-189.2 रो_इ,561 {1।5} यस्मिन् विधिः तदादौ अल्ग्रहणे .
(प्_1,1.72.6) क_इ,188.24-189.2 रो_इ,561 {2।5} अल्ग्रहणेषु यस्मिन् विधिः तदादौ इति वक्तव्यम् .
(प्_1,1.72.6) क_इ,188.24-189.2 रो_इ,561 {3।5} किम् प्रयोजनम् .
(प्_1,1.72.6) क_इ,188.24-189.2 रो_इ,561 {4।5} अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति इह एव स्यात् : श्रियौ भ्रुवौ .
(प्_1,1.72.6) क_इ,188.24-189.2 रो_इ,561 {5।5} श्रियः , भ्रुवः इति अत्र न स्यात् .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {1।30} वृद्धिग्रहणम् किमर्थम्. यस्य अचाम् आदिः तत् वृद्धम् इति इयति उच्यमाने दात्ताः , राक्षिताः अत्र अपि प्रसज्येत .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {2।30} वृद्धिग्रहणे पुनः क्रियमाणे न दोषः भवति .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {3।30} अथ यस्यग्रहणम् किमर्थम् .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {4।30} यस्य इति व्यपदेशाय .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {5।30} अथ अज्ग्रहणम् किमर्थम् .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {6।30} वृद्धिः यस्य आदिः तत् वृद्धम् इति इयति उच्यमाने इह एव स्यात् : ऐतिकायनीयाः , औपगवीयाः .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {7।30} इह न स्यात् : गार्गीयाः , वात्सीयाः इति .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {8।30} अज्ग्रहणे पुनः क्रियमाणे न दोषः भवति .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {9।30} अथ आदिग्रहणम् किमर्थम् .

(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {10।30} वृद्धिः यस्य अचाम् तत् वृद्धम् इति इयति उच्यमाने सभासन्नयने भवः साभसन्नयनः इति अत्र प्रसज्येत .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {11।30} आदिग्रहणे पुनः क्रियमाणे न दोषः भवति .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {12।30} वृद्धसञ्ज्ञायाम् अजसन्निवेशात् अनादित्वम् .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {13।30} वृद्धसञ्ज्ञायाम् अजसन्निवेशात् आदिः इति एतत् न उपपद्यते .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {14।30} न हि अचाम् सन्निवेशः अस्ति .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {15।30} ननु च एवम् विज्ञायते : अच् एव आदिः अजादिः .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {16।30} न एवम् शक्यम् .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {17।30} इह एव प्रसज्येत : औपगवीयाः .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {18।30} इह न स्यात् : गार्गीयाः इति .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {19।30} एकान्तादित्वम् तर्हि विज्ञायते .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {20।30} एकान्तादित्वे च सर्वप्रसङ्गः .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {21।30} इह अपि प्रसज्येत : सभासन्नयने भवः साभसन्नयनः इति .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {22।30} सिद्धम् अजाकृतिनिर्देशात् .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {23।30} सिद्धम् एतत् .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {24।30} कथम् .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {25।30} अजाकृतिः निर्दिश्यते .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {26।30} एवम् अपि व्यञ्जनैः व्यवहितत्वात् न प्राप्नोति .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {27।30} व्यञ्जनस्य अविद्यमानत्वम् यथा अन्यत्र .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {28।30} व्यञ्जनस्य अविद्यमानवद्भावः वक्तव्यः यथा अन्यत्र अपि भवति व्यञ्जनस्य अविद्यमानवद्भावः .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {29।30} क्व अन्यत्र .
(प्_1,1.73.1) क_इ,189.4-22 रो_इ,562-565 {30।30} स्वरे .
(प्_1,1.73.2) क_इ,189.23-190.10 रो_इ,565-566 {1।13} वा नामधेयस्य .
(प्_1,1.73.2) क_इ,189.23-190.10 रो_इ,565-566 {2।13} वा नामधेयस्य वृद्धसञ्ज्ञा वक्तव्या : देवदत्तीयाः , दैवदत्ताः , यज्ञदत्तीयाः , याज्ञदत्ताः .
(प्_1,1.73.2) क_इ,189.23-190.10 रो_इ,565-566 {3।13} गोत्रोत्तरपदस्य च .
(प्_1,1.73.2) क_इ,189.23-190.10 रो_इ,565-566 {4।13} गोत्रोत्तरपदस्य च वृद्धसञ्ज्ञा वक्तव्या : कम्बलचारायणीयाः , ओदनपाणिनीयाः , घृतरौढीयाः .
(प्_1,1.73.2) क_इ,189.23-190.10 रो_इ,565-566 {5।13} गोत्रान्तात् वा असमस्तवत् .
(प्_1,1.73.2) क_इ,189.23-190.10 रो_इ,565-566 {6।13} गोत्रान्तात् वा असमस्तवत् प्रत्ययः भवति इति वक्तव्यम् : एतानि एव उदाहरणानि .
(प्_1,1.73.2) क_इ,189.23-190.10 रो_इ,565-566 {7।13} किम् अविशेषेण .
(प्_1,1.73.2) क_इ,189.23-190.10 रो_इ,565-566 {8।13} न इति आह .
(प्_1,1.73.2) क_इ,189.23-190.10 रो_इ,565-566 {9।13} जिह्वाकात्यहरितकात्यवर्जम् .
(प्_1,1.73.2) क_इ,189.23-190.10 रो_इ,565-566 {10।13} जिह्वाकात्यम् हरितकात्यम् च वर्जयित्वा : जैहवाकाताः , हारितकाताः .
(प्_1,1.73.2) क_इ,189.23-190.10 रो_इ,565-566 {11।13} किम् पुनः अत्र ज्यायः .
(प्_1,1.73.2) क_इ,189.23-190.10 रो_इ,565-566 {12।13} गोत्रान्तात् वा असमस्तवत् इति एव ज्यायः .
(प्_1,1.73.2) क_इ,189.23-190.10 रो_इ,565-566 {13।13} इदम् अपि सिद्धम् भवति : पिङ्गलकाण्वस्य छात्त्राः पैङ्गलकाण्वाः .
(प्_1,1.74) क_इ,190.12-18 रो_इ,566-567 {1।15} यस्याचामादिग्रहणम् अनुवर्तते उताहो न .
(प्_1,1.74) क_इ,190.12-18 रो_इ,566-567 {2।15} किम् च अतः .
(प्_1,1.74) क_इ,190.12-18 रो_इ,566-567 {3।15} यदि अनुवर्तते इह च प्रसज्येत : त्वत्पुत्रस्य छात्त्राः त्वात्पुत्राः , मात्पुत्राः इह च न स्यात् : त्वदीयः , मदीयः इति .
(प्_1,1.74) क_इ,190.12-18 रो_इ,566-567 {4।15} अथ निवृत्तम् एङ् प्राचाम् देशे यस्याचामादिग्रहणम् कर्तव्यम् .
(प्_1,1.74) क_इ,190.12-18 रो_इ,566-567 {5।15} एवम् तर्हि अनुवर्तते .
(प्_1,1.74) क_इ,190.12-18 रो_इ,566-567 {6।15} कथम् त्वापुत्राः , मात्पुत्राः इति .

(प्_1,1.74) क_इ,190.12-18 रो_इ,566-567 {7।15} सम्बन्धम् अनुवर्तिष्यते .
(प्_1,1.74) क_इ,190.12-18 रो_इ,566-567 {8।15} वृद्धिः यस्य अचाम् आदिः तत् वृद्धम् .
(प्_1,1.74) क_इ,190.12-18 रो_इ,566-567 {9।15} त्यदादीनि च वृद्धसञ्ज्ञानि भवन्ति .
(प्_1,1.74) क_इ,190.12-18 रो_इ,566-567 {10।15} वृद्धिः यस्य अचाम् आदिः तत् वृद्धम् .
(प्_1,1.74) क_इ,190.12-18 रो_इ,566-567 {11।15} एङ् प्राचाम् देशे .
(प्_1,1.74) क_इ,190.12-18 रो_इ,566-567 {12।15} यस्याचामादिग्रहणम् अनुवर्तते .
(प्_1,1.74) क_इ,190.12-18 रो_इ,566-567 {13।15} वृद्धिग्रहणम् निवृत्तम् .
(प्_1,1.74) क_इ,190.12-18 रो_इ,566-567 {14।15} तत् यथा कः चित् कान्तारे समुपस्थिते सार्थम् उपादत्ते .
(प्_1,1.74) क_इ,190.12-18 रो_इ,566-567 {15।15} सः यदा निष्कान्तारीभूतः भवति तदा सार्थम् जहाति
(प्_1,1.75) क_इ,190.20-21 रो_इ,567-568 {1।1} एङ् प्राचाम् देशे शैषिकेषु इति वक्तव्यम् : सैपुरिकी सैपुरिका स्कौनगरिकी स्कौनगरिका इति .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {1।54} ङित्किद्वचने तयोः अभावात् अप्रसिद्धिः .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {2।54} ङित्किद्वचने तयोः अभावात् , ङकारककारयोः अभावात् , ङित्त्वकित्त्वयोः अप्रसिद्धिः .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {3।54} सता हि अभिसम्बन्धः शक्यते कर्तुम् न च अत्र ङकारककारौ इतौ पश्यामः .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {4।54} तत् यथा चित्रगुः देवदत्तः इति : यस्य ताः गावः सन्ति सः एव ताभ्याम् शब्दाभ्याम् शक्यते अभिसम्बन्धुम् .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {5।54} भाव्येते तर्हि अनेन .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {6।54} गाङ्कुटादिभ्यः अञ्णित् ङित् भवति इति .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {7।54} असंयोगात् लिट् कित् भवति इति .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {8।54} भवति इति चेत् आदेशप्रतिषेधः .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {9।54} भवति इति चेत् आदेशस्य प्रतिषेधः वक्तव्यः .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {10।54} ङकारककारौ इतौ आदेशौ प्राप्नुतः .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {11।54} कथम् पुनः इत्सञ्ज्ञः नाम आदेशः स्यात् .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {12।54} किम् हि वचनात् न भवति .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {13।54} एवम् तर्हि षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {14।54} गाङ्कुटादिभ्यः इति एषा पञ्चमी अञ्णित् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {15।54} सञ्ज्ञाकरणम् तर्हि इदम् .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {16।54} गाङ्कुटादिभ्यः अञ्णित् ङित्सञ्ज्ञः भवति इति .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {17।54} असंयोगात् लिट् कित्सञ्ज्ञः भवति इति .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {18।54} सञ्ज्ञाकरणे क्ङिद्ग्रहणे असम्प्रत्ययः शब्दभेदात् .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {19।54} सञ्ज्ञाकरणे क्ङिद्ग्रहणे असम्प्रत्ययः स्यात् .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {20।54} किम् कारणम् .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {21।54} शब्दभेदात् .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {22।54} अन्यः हि शब्दः क्ङिति इति अन्यः किति इति ङिति इति च .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {23।54} तथा किद्ग्रहणेषु ङिद्ग्रहणेषु च अनयोः एव सम्प्रत्ययः स्यात् .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {24।54} तद्वदतिदेशः तर्हि अयम् : गाङ्कुटादिभ्यः अञ्णित् ङिद्वत् भवति इति .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {25।54} असंयोगात् लिट् किद्वत् भवति इति .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {26।54} सः तर्हि वतिनिर्देशः कर्तव्यः .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {27।54} न हि अन्तरेण वतिम् अतिदेशः गम्यते .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {28।54} अन्तरेण अपि वतिम् अतिदेशः गम्यते .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {29।54} तत् यथा : एषः ब्रह्मदत्तः .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {30।54} अब्रह्मदत्तम् ब्रह्मदत्तः इति आह .

(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {31।54} ते मन्यामहे ब्रह्मदत्तवत् अयम् भवति इति .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {32।54} एवम् इह अपि अङितम् ङित् इति आह .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {33।54} ङिद्वत् इति गम्यते .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {34।54} अकितम् कित् इति आह .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {35।54} किद्वत् इति गम्यते .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {36।54} तद्वदतिदेशे अकिद्विधिप्रसङ्गः . तद्वदतिदेशे अकिद्विधिः अपि प्राप्नोति .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {37।54} सृजिदृशोः झलि अम् अकिति : सिसृक्षति दिदृक्षते : अकिल्लक्षणः अमागमः प्राप्नोति .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {38।54} सिद्धम् तु प्रसज्यप्रतिषेधात् .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {39।54} सिद्धम् एतत् .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {40।54} कथम् .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {41।54} प्रसज्य अयम् प्रतिषेधः क्रियते : किति न इति .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {42।54} सर्वत्र सनन्तात् आत्मनेपदप्रतिषेधः .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {43।54} सर्वेषु पक्षेषु सनन्तात् आत्मनेपदम् प्राप्नोति .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {44।54} उच्चुकुटिषति निचुकुटिषति : ङिति इति आत्मनेपदम् प्राप्नोति .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {45।54} तस्य प्रतिषेधः वक्तव्यः .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {46।54} सिद्धम् तु पूर्वस्य कार्यातिदेशात् .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {47।54} सिद्धम् एतत् .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {48।54} कथम् .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {49।54} पूर्वस्य यत् कार्यम् तत् अतिदिश्यते .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {50।54} किम् वक्तव्यम् एतत् .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {51।54} न हि .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {52।54} कथम् अनुच्यमानम् गंस्यते .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {53।54} सप्तम्यर्थे अपि वतिः भवति .
(प्_1,2.1.1) क_इ,191.2-192.12 रो_इइ,3-7 {54।54} तत् यथा : मथुरायाम् इव मथुरावत् पाटलिपुत्रे इव पाटलिपुत्रवत् एवम् ङिति इव ङिद्वत् .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {1।35} अथ किमर्थम् पृथक् ङित्कितौ क्रियेते न सर्वम् कित् एव वा स्यात् ङित् एव वा .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {2।35} पृथगनुबन्धत्वे प्रयोजनम् वचिस्वपियजादीनाम् असम्प्रसारणम् सार्वधातुकचङादिषु .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {3।35} पृथगनुबन्धत्वे प्रयोजनम् वचिस्वपियजादीनाम् असम्प्रसारणम् सार्वधातुके चङादिषु च. सार्वधातुके प्रयोजनम् : यथा इह भवति सुप्तः , सुप्तवान् इति एवम् स्वपितः , स्वपिथः : अत्र अपि प्राप्नोति .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {4।35} चङादिषु प्रयोजनम् .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {5।35} के पुनः चङादयः .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {6।35} चङङ्नजिङ्ङ्वनिबथङ्नङः .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {7।35} चङ् : यथा इह भवति शूनः , शूनवान् इति एवम् अशिश्वियत् : अत्र अपि प्राप्नोति .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {8।35} अङ् : यथा इह भवति शूनः , उक्तः इति एवम् अश्वत् , अवोचत् : अत्र अपि प्राप्नोति .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {9।35} नजिङ् : यथा इह भवति सुप्तः इति एवम् स्वप्नक् : अत्र अपि प्राप्नोति .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {10।35} ङ्वनिप् : यथा इह भवति इष्टः इति एवम् यज्वा : अत्र अपि प्राप्नोति .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {11।35} अथङ् : यथा इह भवति उषितः इति एवम् आवसथः : अत्र अपि प्राप्नोति .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {12।35} नङ् : यथा इह भवति इष्टम् एवम् यज्ञः : अत्र अपि प्राप्नोति .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {13।35} जाग्रः अगुणविधिः .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {14।35} जागर्तेः अगुणविधिः प्रयोजनम् .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {15।35} यथा इह भवति जागृतः , जागृथः इति अङिति इति पर्युदासः एवम् जागरितः, जागरितवान् इति अत्र अपि प्राप्नोति .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {16।35} अपरः आह : जाग्रः गुणविधिः .

(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {17।35} जागर्तेः गुणविधिः प्रयोजनम् .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {18।35} यथा इह भवति जागरितः , जागरितवान् एवम् जागृतः जागृथः इति अत्र अपि प्राप्नोति .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {19।35} कुटादीनाम् इट्प्रतिषेधः .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {20।35} कुटादीनाम् इट्प्रतिषेधः प्रयोजनम् .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {21।35} यथा इह भवति लूत्वा पूत्वा श्र्युकः किति इति इट्प्रतिषेधः एवम् नुविता धुविता : अत्र अपि प्राप्नोति .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {22।35} क्त्वायाम् कित्प्रतिषेधः च .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {23।35} क्त्वायाम् कित्प्रतिषेधः च प्रयोजनम् .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {24।35} किम् च .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {25।35} इट्प्रतिषेधः च .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {26।35} न इति आह .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {27।35} अदेशे अयम् चः पठितः .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {28।35} क्त्वायाम् च कित्प्रतिषेधः इति .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {29।35} यथा इह भवति देवित्वा सेवित्वा न क्त्वा सेट् इति प्रतिषेधः एवम् कुटित्वा पुटित्वा : अत्र अपि प्राप्नोति .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {30।35} अथ वा देशे एव अयम् चः पठितः .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {31।35} क्त्वायाम् कित्प्रतिषेधः च इट्प्रतिषेधः च .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {32।35} इट्प्रतिषेधः : यथा इह भवति लूत्वा पूत्वा श्र्युकः किति इति इट्प्रतिषेधः एवम् नुवित्वा धुवित्वा : अत्र अपि प्राप्नोति .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {33।35} स्यात् एतत् प्रयोजनम् यदि अत्र नियोगतः आतिदेशिकेन ङित्त्वेन औपदेशिकम् कित्त्वम् बाध्येत .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {34।35} सति अपि तु ङित्त्वे कित् एव एषः .
(प्_1,2.1.2) क_इ,192.13-193.13 रो_इइ,7-10 {35।35} तस्मात् नूत्वा धूत्वा इति एव भवितव्यम् .
(प्_1,2.4.1) क_इ,193.15-22 रो_इइ,10-11 {1।13} सार्वधातुकग्रहणम् किमर्थम् .
(प्_1,2.4.1) क_इ,193.15-22 रो_इइ,10-11 {2।13} अपित् इति इयति उच्यमाने आर्धधातुकस्य अपि अपितः ङित्त्वम् प्रसज्येत : कर्ता हर्ता .
(प्_1,2.4.1) क_इ,193.15-22 रो_इइ,10-11 {3।13} न एषः दोषः .
(प्_1,2.4.1) क_इ,193.15-22 रो_इइ,10-11 {4।13} आचार्यप्रवृत्तिः ज्ञापयति न अनेन आर्धधातुकस्य ङित्त्वम् भवति इति यत् अयम् आर्धधातुकीयान् कान् चित् ङितः करोति : चङङ्नजिङ्ङ्वनिबथङ्नङः .
(प्_1,2.4.1) क_इ,193.15-22 रो_इइ,10-11 {5।13} सार्वधातुके अपि एतत् ज्ञापकम् स्यात् .
(प्_1,2.4.1) क_इ,193.15-22 रो_इइ,10-11 {6।13} न इति आह .
(प्_1,2.4.1) क_इ,193.15-22 रो_इइ,10-11 {7।13} तुल्यजातीयस्य ज्ञापकम् .
(प्_1,2.4.1) क_इ,193.15-22 रो_इइ,10-11 {8।13} कः च तुल्यजातीयः .
(प्_1,2.4.1) क_इ,193.15-22 रो_इइ,10-11 {9।13} यथाजातीयकाः चङङ्नजिङ्ङ्वनिबथङ्नङः .
(प्_1,2.4.1) क_इ,193.15-22 रो_इइ,10-11 {10।13} कथञ्जातीयकाः च एते .
(प्_1,2.4.1) क_इ,193.15-22 रो_इइ,10-11 {11।13} आर्धधातुकाः .
(प्_1,2.4.1) क_इ,193.15-22 रो_इइ,10-11 {12।13} यदि एतत् अस्ति तुल्यजातीयस्य ज्ञापकम् इति चङङौ लुङ्विकरणानम् ज्ञापकौ स्याताम् नजिङ् वर्तमानकालानाम् ङ्वनिप् भूतकालानाम् अथङ्शब्दः औणादिकानाम् नङ्शब्दः घञर्थानाम् .
(प्_1,2.4.1) क_इ,193.15-22 रो_इइ,10-11 {13।13} तस्मात् सार्वधातुकग्रहणम् कर्तव्यम् .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {1।19} किम् पुनः अयम् पर्युदासः : यत् अन्यत् पितः , आहोस्वित् प्रसज्य अयम् प्रतिषेधः : पित् न इति .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {2।19} कः च अत्र विशेषः .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {3।19} अपित् ङित् इति चेत् शब्देकादेशप्रतिषेधः आदिवत्त्वात् .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {4।19} अपित् ङित् इति चेत् शब्देकादेशे प्रतिषेधः वक्तव्यः : च्यवन्ते प्लवन्ते .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {5।19} किम् कारणम् .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {6।19} आदिवत्त्वात् .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {7।19} पिदपितोः एकादेशः अपितः आदिवत् स्यात् .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {8।19} अस्ति अन्यत् पितः इति कृत्वा ङित्त्वम् प्राप्नोति .

(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {9।19} अस्तु तर्हि प्रसज्यप्रतिषेधः : पित् न इति .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {10।19} न पित् ङित् इति चेत् उत्तमैकादेशप्रतिषेधः .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {11।19} पित् न इति चेत् उत्तमैकादेशे प्रतिषेधः प्राप्नोति : तुदानि लिखानि .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {12।19} किम् कारणम् .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {13।19} आदिवत्त्वात् एव .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {14।19} पिदपितोः एकादेशः पितः आदिवत् स्यात् .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {15।19} तत्र पित् न इति प्रतिषेधः प्राप्नोति .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {16।19} यथा इच्छसि तथा अस्तु .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {17।19} ननु च उक्तम् उभयथा अपि दोषः इति .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {18।19} उभयथा अपि न दोषः .
(प्_1,2.4.2) क_इ,193.23-194.7 रो_इइ,11-12 {19।19} एकादेशः पूर्वविधौ स्थानिवत् इति स्थानिवद्भावात् व्यवधानम् .
(प्_1,2.5) क_इ,194.9-16 रो_इइ,12-13 {1।14} ऋदुपधेभ्यः लिटः कित्त्वम् गुणात् विप्रतिषेधेन .
(प्_1,2.5) क_इ,194.9-16 रो_इइ,12-13 {2।14} ऋदुपधेभ्यः लिटः कित्त्वम् गुणात् भवति विप्रतिषेधेन : ववृते ववृधे .
(प्_1,2.5) क_इ,194.9-16 रो_इइ,12-13 {3।14} उक्तम् वा .
(प्_1,2.5) क_इ,194.9-16 रो_इइ,12-13 {4।14} किम् उक्तम् .
(प्_1,2.5) क_इ,194.9-16 रो_इइ,12-13 {5।14} न वा क्सस्य अनवकाशत्वात् अपवादः गुणस्य इति .
(प्_1,2.5) क_इ,194.9-16 रो_इइ,12-13 {6।14} विषमः उपन्यासः .
(प्_1,2.5) क_इ,194.9-16 रो_इइ,12-13 {7।14} युक्तम् तत्र यत् अनवकाशम् कित्करणम् गुणम् बाधते .
(प्_1,2.5) क_इ,194.9-16 रो_इइ,12-13 {8।14} इह पुनः उभयम् सावकाशम् .
(प्_1,2.5) क_इ,194.9-16 रो_इइ,12-13 {9।14} कित्करणस्य अवकाशः: ईजतुः ईजुः .
(प्_1,2.5) क_इ,194.9-16 रो_इइ,12-13 {10।14} गुणस्य अवकाशः : वर्तित्वा वर्धित्वा .
(प्_1,2.5) क_इ,194.9-16 रो_इइ,12-13 {11।14} इह उभयम् प्राप्नोति : ववृते ववृधे .
(प्_1,2.5) क_इ,194.9-16 रो_इइ,12-13 {12।14} परत्वात् गुणः प्राप्नोति .
(प्_1,2.5) क_इ,194.9-16 रो_इइ,12-13 {13।14} इदम् तर्हि उक्तम् : इष्टवाची परशब्दः .
(प्_1,2.5) क_इ,194.9-16 रो_इइ,12-13 {14।14} विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति .
(प्_1,2.6) क_इ,194.18-195.2 रो_इइ,14 {1।13} किमर्थम् इदम् उच्यते .
(प्_1,2.6) क_इ,194.18-195.2 रो_इइ,14 {2।13} इन्धेः सम्योगार्थम् वचनम् भवतेः पिदर्थम् .
(प्_1,2.6) क_इ,194.18-195.2 रो_इइ,14 {3।13} अयम् योगः शक्यः अवक्तुम् .
(प्_1,2.6) क_इ,194.18-195.2 रो_इइ,14 {4।13} कथम् .
(प्_1,2.6) क_इ,194.18-195.2 रो_इइ,14 {5।13} इन्धेः छन्दोविषयत्वात् भुवः वुकः नित्यत्वात् ताभ्याम् किद्वचनानर्थक्यम् .
(प्_1,2.6) क_इ,194.18-195.2 रो_इइ,14 {6।13} इन्धेः छन्दोविषयः लिट् .
(प्_1,2.6) क_इ,194.18-195.2 रो_इइ,14 {7।13} न हि अन्तरेण छन्दः इन्धेः अनन्तरः लिट् लभ्यः .
(प्_1,2.6) क_इ,194.18-195.2 रो_इइ,14 {8।13} आमा भाषायाम् भवितव्यम् .
(प्_1,2.6) क_इ,194.18-195.2 रो_इइ,14 {9।13} भुवः वुकः नित्यत्वात् .
(प्_1,2.6) क_इ,194.18-195.2 रो_इइ,14 {10।13} भवतेः अपि नित्यः वुक् .
(प्_1,2.6) क_इ,194.18-195.2 रो_इइ,14 {11।13} कृते अपि प्राप्नोति अकृते अपि .
(प्_1,2.6) क_इ,194.18-195.2 रो_इइ,14 {12।13} ताभ्याम् किद्वचनानर्थक्यम् .
(प्_1,2.6) क_इ,194.18-195.2 रो_इइ,14 {13।13} ताभ्याम् इन्धिभवितिभ्याम् किद्वचनम् अनर्थकम् .
(प्_1,2.7) क_इ,195.4-12 रो_इइ,15 {1।16} किमर्थम् मृडादिभ्यः परस्य क्त्वः कित्त्वम् उच्यते .
(प्_1,2.7) क_इ,195.4-12 रो_इइ,15 {2।16} कित् एव हि क्त्वा .

(प्_1,2.7) क_इ,195.4-12 रो_इइ,15 {3।16} न क्त्वा सेट् इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् .
(प्_1,2.7) क_इ,195.4-12 रो_इइ,15 {4।16} यदि तर्हि मृडादिभ्यः परस्य क्त्वः कित्त्वम् उच्यते न अर्थः न क्त्वा सेट् इति अनेन कित्त्वप्रतिषेधेन .
(प्_1,2.7) क_इ,195.4-12 रो_इइ,15 {5।16} इदम् नियमार्थम् भविष्यति : मृडादिभ्यः एव परस्य क्त्वः कित्त्वम् भवति न अन्येभ्यः इति .
(प्_1,2.7) क_इ,195.4-12 रो_इइ,15 {6।16} यदि नियमः क्रियते इह अपि तर्हि नियमान् न प्राप्नोति : लूत्वा पूत्वा .
(प्_1,2.7) क_इ,195.4-12 रो_इइ,15 {7।16} अत्र अपि अकित्त्वम् प्राप्नोति .
(प्_1,2.7) क_इ,195.4-12 रो_इइ,15 {8।16} तुल्यजातीयस्य नियमः .
(प्_1,2.7) क_इ,195.4-12 रो_इइ,15 {9।16} कः च तुल्यजातीयः .
(प्_1,2.7) क_इ,195.4-12 रो_इइ,15 {10।16} यथाजातीयकः मृडादिभ्यः परः क्त्वा .
(प्_1,2.7) क_इ,195.4-12 रो_इइ,15 {11।16} कथञ्जातीयकः मृडादिभ्यः परः क्त्वा .
(प्_1,2.7) क_इ,195.4-12 रो_इइ,15 {12।16} सेट् .
(प्_1,2.7) क_इ,195.4-12 रो_इइ,15 {13।16} एवम् अपि अस्ति अत्र कः चित् विभाषितेट् .
(प्_1,2.7) क_इ,195.4-12 रो_इइ,15 {14।16} सः अनिटाम् नियामकः स्यात् .
(प्_1,2.7) क_इ,195.4-12 रो_इइ,15 {15।16} अस्तु तावत् ये सेटः तेषाम् ग्रहणम् नियमाऋथम् .
(प्_1,2.7) क_इ,195.4-12 रो_इइ,15 {16।16} यः इदानीम् विभाषितेट् तस्य ग्रहणम् विध्यर्थम् भविष्यति .
(प्_1,2.8) क_इ,195.14 रो_इइ,16 {1।1} स्वपिप्रच्छ्योः सनर्थम् ग्रहणम् कित् एव हि क्त्वा .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {1।56} किमर्थम् इकः परस्य सनः कित्त्वम् उच्यते .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {2।56} इकः कित्त्वम् गुणः मा भूत् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {3।56} इकः कित्त्वम् उच्यते गुणः मा भूत् इति : चिचीषति तुष्टूषति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {4।56} न एतत् अस्ति प्रयोजनम् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {5।56} दीर्घारम्भात् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {6।56} दीर्घत्वम् अत्र बाधकम् भविष्यति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {7।56} कृते भवेत् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {8।56} कृते खलु दीर्घत्वे गुणः प्राप्नोति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {9।56} अनर्थकम् तु .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {10।56} अनर्थकम् एवम् सति दीर्घत्वम् स्यात् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {11।56} न अनर्थकम् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {12।56} ह्रस्वार्थम् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {13।56} ह्रस्वानाम् दीर्घवचनसामर्थ्यात् गुणः न भविष्यति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {14।56} भवेत् ह्रस्वानाम् दीर्घवचनसामर्थ्यात् गुणः न स्यात् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {15।56} दीर्घाणाम् तु प्रसज्यते .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {16।56} दीर्घाणाम् तु खलु गुणः प्राप्नोति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {17।56} ननु च दीर्घाणाम् अपि दीर्घवचनसामर्थ्यात् गुणः न भविष्यति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {18।56} न दीर्घाणाम् दीर्घाः प्राप्नुवन्ति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {19।56} किम् कारणम् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {20।56} न हि भुक्तवान् पुनः भुङ्क्ते न च कृतश्मश्रुः पुनः श्मश्रूनि कारयति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {21।56} ननु च पुनः प्रवृत्तिः अपि दृष्टा .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {22।56} भुक्तवान् च पुनः भुङ्क्ते कृतश्मश्रुः च पुनः श्मश्रूनि कारयति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {23।56} सामर्थ्यात् हि पुनः भाव्यम् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {24।56} सामर्थ्यात् तत्र पुनः प्रवृत्तिः भवति भोजनविशेषात् शिल्पिविशेषात् वा .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {25।56} दीर्घाणाम् पुनः दीर्घत्ववचने न किम् चित् प्रयोजनम् अस्ति .

(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {26।56} अकृतकारि खलु अपि शास्त्रम् अग्निवत् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {27।56} तत् यथा अग्निः यद् अदग्धम् तत् दहति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {28।56} दीर्घाणाम् अपि दीर्घवचने एतत् प्रयोजनम् गुणः मा भूत् इति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {29।56} कृतकारि खलु अपि शास्त्रम् पर्जन्यवत् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {30।56} तत् यथा पर्जन्यः यावत् ऊनम् पूर्णम् च सर्वम् अभिवर्षति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {31।56} यथा एव तर्हि दीर्घवचनसामर्थ्यात् गुणः न भवति एवम् ॠदित्त्वम् अपि न प्राप्नोति : चिकीर्षति जिहीर्षति इति. ॠदित्त्वम् दीर्घसंश्रयम् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {32।56} न अकृते दीर्घे ॠदित्त्वम् प्राप्नोति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {33।56} किम् कारणम् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {34।56} ॠतः इति उच्यते .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {35।56} भवेत् ह्रस्वानाम् न अकृते दीर्घे ॠदित्त्वम् स्यात् दीर्घाणाम् तु खलु अकृते अपि दीर्घत्वे ॠदित्त्वम् प्राप्नोति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {36।56} दीर्घाणाम् न अकृते दीर्घे .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {37।56} दीर्घाणाम् अपि न अकृते दीर्घे ॠदित्त्वम् प्राप्नोति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {38।56} यदा दीर्घत्वेन गुणः बाधितः ततः उत्तरकालम् ॠदित्त्वम् भवति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {39।56} णिलोपः तु प्रयोजनम् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {40।56} इदम् तर्हि प्रयोजनम् : णिलोपः यथा स्यात् इति : ज्ञीप्सति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {41।56} क्व अस्ताः क्व निपतिताः क्व कित्त्वम् क्व णिलोपः .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {42।56} कः वा अभिसम्बन्धः यत् सति कित्त्वे णिलोपः स्यात् असति न स्यात् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {43।56} एषः अभिसम्बन्धः यत् सति कित्त्वे सावकाशम् दीर्घत्वम् परत्वात् णिलोपः बाधते .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {44।56} असति पुनः कित्त्वे अनवकाशम् दीर्घत्वम् यथा एव गुणम् बाधते एवम् णिलोपम् अपि बाधेत .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {45।56} तत्र णिलोपस्य अवकाशः : कारणा हारणा .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {46।56} दीर्घत्वस्य अवकाशः : चिचीषति तुष्टूषति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {47।56} इह उभयम् प्राप्नोति : ज्ञीप्सति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {48।56} परत्वात् णिलोपः .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {49।56} असति अपि कित्त्वे सावकाशम् दीर्घत्वम् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {50।56} कः अवकाशः .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {51।56} इस्भावः .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {52।56} निमित्सति प्रमित्सति .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {53।56} मीनातिमिनोत्योः दीर्घत्वे कृते मीग्रहणेन ग्रहणम् यथा स्यात् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {54।56} यथा एव तर्हि असति कित्त्वे सावकाशम् दीर्घत्वम् परत्वात् णिलोपः बाधते एवम् गुणः अपि बाधेत .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {55।56} तस्मात् कित्त्वम् वक्तव्यम् .
(प्_1,2.9) क_इ,195.16-197.11 रो_इइ,16-21 {56।56} इकः कित्त्वम् गुणः मा भूत् दीर्घारम्भात् कृते भवेत् । अनर्थकम् तु ह्रस्वार्थम् दीर्घाणाम् तु प्रसज्यते ॥ सामर्थ्यात् हि पुनः भाव्यम् ॠदित्त्वम् दीर्घसंश्रयम् दीर्घाणाम् न अकृते दीर्घे णिलोपः तु प्रयोजनम् .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {1।22} अयुक्तः अयम् निर्देशः .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {2।22} कथम् हि इकः नाम हल् अन्तः स्यात् अन्यस्य अन्यः .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {3।22} कथम् तर्हि निर्देशः कर्तव्यः .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {4।22} इग्वतः हलः इति .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {5।22} यदि एवम् यियक्षति अत्र अपि प्राप्नोति .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {6।22} एवम् तर्हि इगुपधात् हलन्तात् इति वक्ष्यामि .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {7।22} एवम् अपि दम्भेः न प्राप्नोति .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {8।22} सूत्रम् च भिद्यते .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {9।22} यथान्यासम् एव अस्तु .

(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {10।22} ननु च उक्तम् अयुक्तः अयम् निर्देशः इति .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {11।22} न अयुक्तः .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {12।22} अन्तशब्दः अयम् अस्ति एव अवयववाची .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {13।22} तत् यथा वस्त्रान्तः , वसनान्तः : वस्त्रावयवः , वसनावयवः इति गम्यते .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {14।22} अस्ति सामीप्ये वर्तते .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {15।22} तत् यथा उदकान्तम् गतः इति .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {16।22} उदकसमीपम् गतः इति गम्यते .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {17।22} तत् यः सामीप्ये वर्तते तस्य इदम् ग्रहणम् .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {18।22} एवम् अपि दम्भेः न सिध्यति .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {19।22} यः अत्र इक्समीपे हल् न तस्मात् उत्तरः सन् .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {20।22} यस्मात् उत्तरः सन् न असौ इक्समीपे हल् .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {21।22} एवम् तर्हि दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् .
(प्_1,2.10) क_इ,197.13-22 रो_इइ,22-23 {22।22} हल्जातिः निर्दिश्यते : इकः उत्तरा या हल्जातिः इति .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {1।36} कथम् इदम् विज्ञायते : आत्मनेपदम् यौ लिङ्सिचौ इति आहोस्वित् आत्मनेपदेषु परतः यौ लिङ्सिचौ इति .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {2।36} किम् च अतः. यदि विज्ञायते आत्मनेपदम् यौ लिङ्सिचौ इति लिङ् विशेषितः सिच् अविशेषितः .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {3।36} अथ विज्ञायते आत्मनेपदेषु परतः यौ लिङ्सिचौ इति सिच् विशेषितः लिङ् अविशेषितः .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {4।36} यथा इच्छसि तथा अस्तु .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {5।36} अस्तु तावत् आत्मनेपदम् यौ लिङ्सिचौ इति .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {6।36} ननु च उक्तम् .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {7।36} लिङ् विशेषितः सिच् अविशेषितः इति .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {8।36} सिच् च विशेषितः .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {9।36} कथम् .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {10।36} आत्मनेपदम् सिच् न अस्ति इति कृत्वा आत्मनेपदपरे सिचि कार्यम् विज्ञास्यते .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {11।36} अथ वा पुनः अस्तु आत्मनेपदेषु परतः यौ लिङ्सिचौ इति .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {12।36} ननु च उक्तम् सिच् विशेषितः लिङ् अविशेषितः इति .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {13।36} लिङ् च विशेषितः .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {14।36} कथम् .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {15।36} आत्मनेपदेषु परतः लिङ् न अस्ति इति कृत्वा आत्मनेपदे लिङि कार्यम् विज्ञास्यते .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {16।36} न एव वा पुनः अर्थः लिङ्विशेषणेन आत्मनेपदग्रहणेन .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {17।36} किम् कारणम् .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {18।36} झल् इति वर्तते .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {19।36} आत्मनेपदेषु च एव लिङ् झलादिः न परस्मैपदेषु .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {20।36} तत् एतत् सिज्विशेषणम् आत्मनेपदग्रहणम् .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {21।36} अथ सिज्विशेषणे आत्मनेपदग्रहणे सति किम् प्रयोजनम् .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {22।36} इह मा भूत् : अयाक्षीत् , अवात्सीत् .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {23।36} न एतत् अस्ति .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {24।36} इकः इति वर्तते .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {25।36} एवम् अपि अनैषीत् , अचैषीत् : अत्र अपि प्राप्नोति .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {26।36} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {27।36} हलन्तात् इति वर्तते .

(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {28।36} एवम् अपि अकोषीत् , अमोषीत् : अत्र अपि प्राप्नोति .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {29।36} न एतत् अस्ति प्रयोजनम् .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {30।36} झल् इति वर्तते .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {31।36} एवम् अपि अभैत्सीत् , अच्छैत्सीत् : अत्र अपि प्राप्नोति .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {32।36} न एतत् अस्ति .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {33।36} इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {34।36} इदम् तर्हि प्रयोजनम् : इह मा भूत् : अद्राक्षीत् , अस्राक्षीत् .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {35।36} किम् च स्यात् .
(प्_1,2.11) क_इ,197.24-198.16 रो_इइ,24-25 {36।36} अकिल्लक्षणः अमागमः न स्यात् .
(प्_1,2.17) क_इ,198.18-199.4 रो_इइ,25-27 {1।13} इत् च कस्य तकारेत्त्वम् .
(प्_1,2.17) क_इ,198.18-199.4 रो_इइ,25-27 {2।13} कस्य हेतोः इकारः तपरः क्रियते .
(प्_1,2.17) क_इ,198.18-199.4 रो_इइ,25-27 {3।13} दीर्घः मा भूत् .
(प्_1,2.17) क_इ,198.18-199.4 रो_इइ,25-27 {4।13} दीर्घः मा भूत् इति .
(प्_1,2.17) क_इ,198.18-199.4 रो_इइ,25-27 {5।13} ऋते अपि सः .
(प्_1,2.17) क_इ,198.18-199.4 रो_इइ,25-27 {6।13} अन्तरेण अपि आरम्भम् सिद्धः अत्र दीर्घः : घुमास्थागापाजहाति इति .
(प्_1,2.17) क_इ,198.18-199.4 रो_इइ,25-27 {7।13} अनन्तरे प्लुतः मा भूत् .
(प्_1,2.17) क_इ,198.18-199.4 रो_इइ,25-27 {8।13} इदम् तर्हि प्रयोजनम् : अनन्तरे प्लुतः मा भूत् इति .
(प्_1,2.17) क_इ,198.18-199.4 रो_इइ,25-27 {9।13} कुतः नु खलु एतत् अनन्तरार्थे आरम्भे ह्रस्वः भविष्यति न पुनः प्लुतः इति .
(प्_1,2.17) क_इ,198.18-199.4 रो_इइ,25-27 {10।13} प्लुतः च विषये स्मृतः .
(प्_1,2.17) क_इ,198.18-199.4 रो_इइ,25-27 {11।13} विषये खलु प्लुतः उच्यते .
(प्_1,2.17) क_इ,198.18-199.4 रो_इइ,25-27 {12।13} यदा च सः विषयः भवितव्यम् एव तदा प्लुतेन .
(प्_1,2.17) क_इ,198.18-199.4 रो_इइ,25-27 {13।13} इत् च कस्य तकारेत्त्वम् दीर्घः मा भूत् ऋते अपि सः । अनन्तरे प्लुतः मा भूत् प्लुतः च विषये स्मृतः
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {1।68} न सेट् इति कृते अकित्त्वे .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {2।68} न सेट् इति एव सिद्धम् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {3।68} न अर्थः क्त्वाग्रहणेन .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {4।68} निष्ठायम् अपि तर्हि प्राप्नोति : गुधितः गुधितवान् इति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {5।68} निष्ठायाम् अवधारणात् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {6।68} निष्ठायाम् अवधारणात् न भविष्यति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {7।68} किम् अवधारणम् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {8।68} निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः इति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {9।68} परोक्षायाम् तर्हि प्राप्नोति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {10।68} किम् च स्यात् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {11।68} पपिव पपिम : क्ङिति इति आकारलोपः न स्यात् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {12।68} मा भूत् एवम् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {13।68} इटि इति एवम् भविष्यति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {14।68} इदम् तर्हि : जग्मिव जघ्निव .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {15।68} क्ङिति इति उपधालोपः न स्यात् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {16।68} ज्ञापकात् न परोक्षायाम् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {17।68} ज्ञापकात् परोक्षायाम् न भविष्यति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {18।68} किम् ज्ञापकम् .

(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {19।68} सनि झल्ग्रहणम् विदुः .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {20।68} यत् अयम् इकः झल् इति झल्ग्रहणम् करोति तत् ज्ञापयति आचार्यः औपदेशिकस्य कित्त्वस्य प्रतिषेधः न आतिदेशिकस्य इति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {21।68} कथम् कृत्वा ज्ञापकम् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {22।68} झल्ग्रहणस्य एतत् प्रयोजनम् : इह मा भूत् : शिशयिषते इति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {23।68} यदि च अत्र आतिदेशिकस्य कित्त्वस्य प्रतिषेधः स्यात् झल्ग्रहणम् अनर्थकम् स्यात् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {24।68} अस्तु अत्र कित्त्वम् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {25।68} न सेट् इति प्रतिषेधः भविष्यति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {26।68} पश्यति तु आचार्यः औपदेशिकस्य कित्त्वस्य प्रतिषेधः न आतिदेशिकस्य इति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {27।68} ततः झल्ग्रहणम् करोति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {28।68} न एतत् अस्ति प्रयोजनम् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {29।68} उत्तरार्थम् एतत् स्यात् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {30।68} स्थाघ्वोः इत् च झलादौ यथा स्यात् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {31।68} इह मा भूत् : उपास्थायिषाताम् उपास्थायिषत .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {32।68} इत्त्वम् कित्सन्नियोगेन .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {33।68} कित्सन्नियोगेन इत्त्वम् उच्यते .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {34।68} तेन असति कित्त्वे इत्त्वम् न भविष्यति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {35।68} रेण तुल्यम् सुधीवनि .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {36।68} तत् यथा सुधीवा सुपीवा : ङीप्सन्नियोगेन रः उच्यमानः असति ङीपि न भवति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {37।68} अथ वा अस्तु अत्र इत्त्वम् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {38।68} का रूपसिद्धिः .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {39।68} वृद्धौ कृतायाम् आयादेशः भविष्यति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {40।68} वस्वर्थम् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {41।68} वस्वर्थम् तर्हि क्त्वाग्रहणम् कर्तव्यम् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {42।68} वसौ हि औपदेशिकम् कित्त्वम् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {43।68} किम् च स्यात् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {44।68} पपिवान् पपिमान् : क्ङिति इति आकारलोपः न स्यात् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {45।68} मा भूत् एवम् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {46।68} इटि इति एवम् भविष्यति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {47।68} इदम् तर्हि : जग्मिवान् , जघ्निवान् : क्ङिति इति उपधालोपः न स्यात् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {48।68} किदतीदेशात् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {49।68} अस्तु अत्र औपदेशिकस्य कित्त्वस्य प्रतिषेधः .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {50।68} आतिदेशिकस्य कित्त्वम् भविष्यति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {51।68} यत्र तर्हि तत् प्रतिषिध्यते : अञ्जेः आजिवान् इति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {52।68} एवम् तर्हि छान्दस्ः क्वसुः लिट् च छन्दसि सार्वधातुकम् अपि भवति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {53।68} तत्र सार्वधातुकम् अपित् ङित् भवति इति ङिति उपधालोपः भविष्यति .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {54।68} निगृहीतिः .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {55।68} निगृहीतिः प्रयोजनम् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {56।68} इदम् तर्हि प्रयोजनम् : इह मा भूत् : निगृहीतिः , उपसन्निहितिः , निकुचितिः .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {57।68} तत् तर्हि क्त्वाग्रहणम् कर्तव्यम् .
(प्_1,2.18) क_इ,199.6-200.24 रो_इइ,27-31 {58।68} न कर्तव्यम् .

मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc