भाषा

ENहिગુ
ग्रंथ पाठ

व्याकरणमहाभाष्य · भाग 121140

(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {71।76} न वा एषः दोषः .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {72।76} किम् कारणम् .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {73।76} बहिरङ्गलक्षणत्वात् .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {74।76} बहिरङ्गः नुम् , अन्तरङ्गाः एते विधयः .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {75।76} असिद्धम् बहिरङ्गम् अन्तरङ्गे .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {76।76} द्विगुस्वरे भूयान् परिहारः : सङ्घातभक्तः असौ न उत्सहते अवयवस्य इगन्तताम् विहन्तुम् इति कृत्वा द्विगुस्वरः भविष्यति .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {1।46} किमर्थम् इदम् उच्यते .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {2।46} एचः इक् सवर्णाकारनिवृत्त्यर्थम् .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {3।46} एचः इक् भवति इति उच्यते सवर्णनिवृत्त्यर्थम् अकारनिवृत्त्यर्थम् च .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {4।46} सवर्ण्निवृत्त्यर्थम् तावत् : एङः ह्रस्वशासनेषु अर्धः एकारः अर्धः ओकारः वा मा भूत् इति .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {5।46} अकारनिवृत्त्यर्थम् च .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {6।46} इमौ ऐचौ समाहारवर्णौ .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {7।46} मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {8।46} तयोः ह्रस्वशासनेषु कदा चित् अवर्णः स्यात् कदा चित् इवर्णोवर्णौ .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {9।46} मा कदा चित् अवर्णम् भूत् इति एवमर्थम् इदम् उच्यते .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {10।46} अस्ति प्रयोजनम् एतत् .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {11।46} किम् तर्हि इति .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {12।46} दीर्घप्रसङ्गः .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {13।46} दीर्घाः तु इकः प्राप्नुवन्ति .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {14।46} किम् कारणम् .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {15।46} स्थाने अन्तरतमः भवति इति .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {16।46} ननु च ह्रस्वादेशे इति उच्यते .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {17।46} तेन दीर्घाः न भविष्यन्ति .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {18।46} विष्यार्थम् एतत् स्यात् .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {19।46} एचः ह्रस्वप्रसङ्गे इक् भवति इति .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {20।46} दीर्घाप्रसङ्गः तु निवर्तकत्वात् .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {21।46} दीर्घाणाम् तु इकाम् अप्रसङ्गः .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {22।46} किम् कारणम् .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {23।46} निवर्तकत्वात् .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {24।46} न अनेन इकः निर्वर्त्यन्ते .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {25।46} किम् तर्हि .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {26।46} अनिकः निवर्त्यन्ते .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {27।46} सिद्धाः एव ह्रस्वाः इकः च अनिकः च .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {28।46} तत्र अनेन अनिकः निवर्त्यन्ते .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {29।46} सवर्णनिवृत्त्यर्थेन तावत् न अर्थः .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {30।46} सिद्धम् एङः सस्थानत्वात् .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {31।46} सिद्धम् एतत् .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {32।46} कथम् .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {33।46} एङः सस्थानत्वात् इकारोकारौ भविष्यतः .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {34।46} अर्धः एकारः अरधः ओकारः वा न भविष्यति .

(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {35।46} ननु च एङः सस्थानतरौ अर्धः एकारौकारौ .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {36।46} न तौ स्तः .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {37।46} यदि हि तौ स्याताम् तौ एव अयम् उपदिशेत् .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {38।46} ननु च भोः छन्दोगानाम् सात्यमुग्रिराणायनीयाः अर्धम् एकारम् अर्धम् ओकारम् च अधीयते : सुजाते एश्वसूनृते , अध्वर्यो ओद्रिभिः सुतम् , शुक्रम् ते एन्यत् यजतम् ते एन्यत् इति .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {39।46} पार्षदकृतिः एषा तत्रभवताम् .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {40।46} न एव लोके न अन्यस्मिन् वेदे अर्धः एकारः अर्धः ओकारः वा अस्ति .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {41।46} अकारनिवृत्त्यर्थेन अपि न अर्थः .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {42।46} ऐचोः च उत्तरभूयस्त्वात् .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {43।46} ऐचोः च उत्तरभूयस्त्वात् अवर्णः न भविष्यति .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {44।46} भूयसी मात्रा इवर्णोवर्णयोः अल्पीयसी अवर्णस्य .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {45।46} भूयसः एव ग्रहणानि भविष्यन्ति .
(प्_1,1.48) क_इ,117.4-118.4 रो_इ,357-359 {46।46} तत् यथा ब्राह्मणग्रामः आनीयताम् इति उच्यते तत्र च अवरतः पञ्चकारुकी भवति .
(प्_1,1.49.1) क_इ,118.6-7 रो_इ,360 {1।4} किम् इदम् स्थानेयोगा इति .
(प्_1,1.49.1) क_इ,118.6-7 रो_इ,360 {2।4} स्थाने योगः अस्याः सा इयम् स्थानेयोगा .
(प्_1,1.49.1) क_इ,118.6-7 रो_इ,360 {3।4} सप्तम्यलोपः निपातनात् .
(प्_1,1.49.1) क_इ,118.6-7 रो_इ,360 {4।4} तृतियाया वा एत्वम् : स्थानेन योगः अस्याः सा इयम् स्थानेयोगा .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {1।69} किमर्थम् पुनः इदम् उच्यते .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {2।69} षष्ठ्याः स्थानेयोगवचनम् नियमार्थम् .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {3।69} नियमाऋथः अयम् आरम्भः .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {4।69} एकशतम् षष्ठ्यर्थाः यावन्तः वा ते सर्वे षष्ठ्याम् उच्चारितायाम् प्राप्नुवन्ति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {5।69} इष्यते च व्याकरणे या षष्ठी सा स्थानेयोगा एव स्यात् इति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {6।69} तत् च अन्तरेण यत्नम् न सिध्यति इति षष्ठ्याः स्थानेयोगवचनम् नियमार्थम् .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {7।69} एवमर्थम् इदम् उच्यते .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {8।69} अस्ति प्रयोजनम् एतत् .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {9।69} किम् तर्हि इति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {10।69} अवयवषष्ठ्यादिषु अतिप्रसङ्गः शासः गोहः इति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {11।69} अवयवषष्ठ्यादयः तु न सिध्यन्ति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {12।69} तत्र कः दोषः .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {13।69} शासः इत् अङ्हलोः इति शासेः च अन्त्यस्य स्यात् उपधामात्रस्य च .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {14।69} ऊत् उपधायाः गोहः इति गोहः च अन्त्यस्य स्यात् उपधामात्रस्य च .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {15।69} अवयवषष्ठ्यादीनाम् च अप्राप्तिः योगस्य असन्दिग्धत्वात् .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {16।69} अवयवषष्ठ्यादीनाम् च नियमस्य अप्राप्तिः .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {17।69} किम् कारणम् .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {18।69} योगस्य असन्दिग्धत्वात् .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {19।69} सन्देहे नियमः न च अवयवषष्ठ्यादिषु सन्देहः .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {20।69} किम् वक्तव्यम् एतत् .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {21।69} न हि .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {22।69} कथम् अनुच्यमानम् गंस्यते. लौकिकः अयम् दृष्टाण्तः .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {23।69} तत् यथा लोके : कम् चित् कः चित् पृच्छति : ग्रामान्तरम् गमिष्यामि पन्थानम् मे भवान् उपदिशतु इति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {24।69} सः तस्मै आचष्टे .

(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {25।69} अमुष्मिन् अवकाशे हस्तदक्षिणः ग्रहीतव्यः अमुष्मिन् अवकाशे हस्तवामः इति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {26।69} यः तु अत्र तिर्यक्पथः भवति न तस्मिन् सन्देहः इति कृत्वा न असौ उपदिश्यते .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {27।69} एवम् इह अपि सन्देहे नियमः न च अवयवषष्ठ्यादिषु सन्देहः .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {28।69} अथ वा स्थाने अयोगा स्थानेयोगा किम् इदम् अयोगा इति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {29।69} अव्यक्तयोगा अयोगा .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {30।69} अथ वा योगवती योगा .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {31।69} का पुनः योगवती .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {32।69} यस्याः बहवः योगाः .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {33।69} कुतः एतत् .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {34।69} भूम्नि हि मतुप् भवति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {35।69} विशिष्टा वा षष्ठी स्थानेयोगा .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {36।69} अथ वा किम् चिद् लिङ्गम् आसज्य वक्ष्यामि : इत्थंलिङ्गा षष्ठी स्थानेयोगा भवति इति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {37।69} न तत् लिङ्गम् अवयवषष्ठ्यादिषु करिष्यते .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {38।69} यदि एवम् शासः इत् अङ्हलोः शा हौ शासिग्रहणम् कर्तव्यम् स्थानेयोगार्थम् लिङ्गम् आसङ्क्ष्यामि इति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {39।69} न कर्तव्यम् .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {40।69} यत् एव अदः पुरस्तात् अवयवषष्ठ्यर्थम् प्रकृतम् एतत् उत्तरत्र अनुवृत्तम् सत् स्थानेयोगार्थम् भविष्यति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {41।69} कथम् .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {42।69} अधिकारः नाम त्रिप्रकारः .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {43।69} कः चित् एकदेशस्थः सर्वम् शास्त्रम् अभिज्वलयति यथा प्रदीपः सुप्रविज्वलितः सर्वम् वेश्म अभिज्वलयति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {44।69} अपरः अधिकारः यथा रज्ज्वा अयसा वा बद्धम् काष्ठम् अनुकृष्यते तद्वत् अनुकृष्यते चकारेण .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {45।69} अपरः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {46।69} तत् यदा एषः पक्षः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति तदा हि यत् एव अदः पुरस्तात् अवयवषष्ठ्यर्थम् प्रकऋतम् एतत् उत्तरत्र अनुवृत्तम् सत् स्थानेयोगार्थम् भविष्यति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {47।69} सम्प्रत्ययमात्रम् एतत् भवति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {48।69} न हि अनुच्चार्य शब्दम् लिङ्गम् शक्यम् आसङ्क्तुम् .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {49।69} एवम् तर्हि आदेशे तत् लिङ्गम् करिष्यते तत् प्रकृतिम् आस्कन्त्स्यति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {50।69} यदि नियमः क्रियते यत्र एका षष्ठी अनेकम् च विशेष्यम् तत्र न सिध्यति : अङ्गस्य , हलः , अणः , सम्प्रसारणस्य इति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {51।69} हल् अपि विशेष्यः अण् अपि विशेष्यः सम्प्रसारणम् अपि विशेष्यम् .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {52।69} असति पुनः नियमे कामचारः एकया षष्थ्या अनेकम् विशेषयितुम् .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {53।69} तत् यथा .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {54।69} देवदत्तस्य पुत्रः पाणिः कम्बलः इति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {55।69} तस्मात् न अर्थः नियमेन .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {56।69} ननु च उक्तम् एकशतम् षष्ठ्यर्थाः यावन्तः वा ते सर्वे षष्ठ्याम् उच्चारितायाम् प्राप्नुवन्ति इति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {57।69} न एषः दोषः .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {58।69} यदि अपि लोके बहवः अभिसम्बन्धाः आर्थाः यौनाः मौखाः स्रौवाः च शब्दस्य तु शब्देन कः अन्यः अभिसम्बन्धः भवितुम् अर्हति अन्यत् अतः स्थानात् .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {59।69} शब्दस्य अपि शब्देन अनन्तरादयः अभिसम्बन्धाः .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {60।69} अस्तेः भूः भवति इति सन्देहः : स्थाने अनन्तरे समीपे इति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {61।69} सन्देहमात्रम् एतत् भवति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {62।69} सर्वसन्देहेषु च इदम् उपतिष्ठते : व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {63।69} स्थाने इति व्याख्यास्यामः .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {64।69} न तर्हि इदानीम् अयम् योगः वक्तव्यः .

(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {65।69} वक्तव्यः च .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {66।69} किम् प्रयोजनम् .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {67।69} षष्ठ्यन्तम् स्थानेन यथा युज्येत यतः षष्ठी उच्चारिता .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {68।69} किम् कृतम् भवति .
(प्_1,1.49.2) क_इ,118.8-119.28 रो_इ,360-364 {69।69} निर्दिश्यमानस्य आदेशाः भवन्ति इति एषा परिभाषा न कर्तव्या भवति .
(प्_1,1.50.1) क_इ,120.2-13 रो_इ,364-366 {1।15} किम् उदाहरणम् .
(प्_1,1.50.1) क_इ,120.2-13 रो_इ,364-366 {2।15} इकः यण् अचि : दधि अत्र मधु अत्र : तालुस्थानस्य तालुस्थानः ओष्ठस्थानस्य ओष्ठस्थानः यथा स्यात् .
(प्_1,1.50.1) क_इ,120.2-13 रो_इ,364-366 {3।15} न एतत् अस्ति .
(प्_1,1.50.1) क_इ,120.2-13 रो_इ,364-366 {4।15} सङ्ख्यातानुदेशेन अपि एतत् सिद्धम् .
(प्_1,1.50.1) क_इ,120.2-13 रो_इ,364-366 {5।15} इदम् तर्हि : तस्थस्थमिपाम् ताम्तम्तामः इति एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बहुवर्थः यथा स्यात् .
(प्_1,1.50.1) क_इ,120.2-13 रो_इ,364-366 {6।15} ननु च एतत् अपि सङ्ख्यातानुदेशेन एव सिद्धम् .
(प्_1,1.50.1) क_इ,120.2-13 रो_इ,364-366 {7।15} इदम् तर्हि : अकः सवर्णे दीर्घः इति : दण्डाग्रम् , क्षुपाग्रम् , दधि इन्द्रः , मधु उष्ट्रः इति : कण्ठस्थानयोः कण्ठस्थानः तालुस्थानयोः तालुस्थानः ओष्ठस्थानयोः ओष्ठस्थानः यथा स्यात् इति .
(प्_1,1.50.1) क_इ,120.2-13 रो_इ,364-366 {8।15} अथ स्थाने इति वर्तमाने पुनः स्थानग्रहणम् किमर्थम् .
(प्_1,1.50.1) क_इ,120.2-13 रो_इ,364-366 {9।15} यत्र अनेकविधम् आन्तर्यम् तत्र स्थानतः एव आन्तर्यम् बलीयः यथा स्यात् .
(प्_1,1.50.1) क_इ,120.2-13 रो_इ,364-366 {10।15} किम् पुनः तत् .
(प्_1,1.50.1) क_इ,120.2-13 रो_इ,364-366 {11।15} चेता स्तोता : प्रमाणतः अकारः गुणः प्राप्नोति स्थानतः एकारौकारौ .
(प्_1,1.50.1) क_इ,120.2-13 रो_इ,364-366 {12।15} पुनः स्थानग्रहणात् एकारौकारौ भवतः .
(प्_1,1.50.1) क_इ,120.2-13 रो_इ,364-366 {13।15} अथ तमब्ग्रहणम् किमर्थम् .
(प्_1,1.50.1) क_इ,120.2-13 रो_इ,364-366 {14।15} झयः हः अन्यतरस्याम् इति अत्र सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः नादवतः नादवन्तः इति तृतीयाः .
(प्_1,1.50.1) क_इ,120.2-13 रो_इ,364-366 {15।15} तमप्ग्रहणेन सोष्माणः नादवन्तः च ते भवन्ति चतुर्थाः : वाग् घसति त्रिष्टुब् भसति इति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {1।50} किमर्थम् पुनः इदम् उच्यते .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {2।50} स्थानिनः एकत्वनिर्देशात् अनेकादेशनिर्देशात् च सर्वप्रसङ्गः तस्मात् स्थानेन्तरतमवचनम् . स्थानी एकत्वेन निर्दिश्यते : अकः इति , अनेकः च पुनः आदेशः प्रतिनिर्दिश्यते : दीर्घः इति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {3।50} स्थानिनः एकत्वनिर्देशात् अनेकादेशनिर्देशात् च सर्वप्रसङ्गः .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {4।50} सर्वे सर्वत्र प्राप्नुवन्ति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {5।50} इष्यते च अन्तरतमाः एव स्युः इति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {6।50} तत् च अन्तरेण यत्नम् न सिध्यति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {7।50} तस्मात् स्थाने अन्तरतमः इति वचनम् नियमार्थम् .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {8।50} एवमर्थम् इदम् उच्यते .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {9।50} अस्ति प्रयोजनम् एतत् .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {10।50} किम् तर्हि इति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {11।50} यथा पुनः इयम् अन्तरतमनिर्वृत्त्तिः सा किम् प्रकृतितः भवति : स्थानिनि अन्तरतमे षष्ठी , आहोस्वित् आदेशतः : स्थाने प्राप्यमाणानाम् अन्तरतमः आदेशः भवति इति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {12।50} कुतः पुनः इयम् विचारणा .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {13।50} उभयथा अपि तुल्या संहिता : स्थानेन्तरतम , उरण् रपरः इति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {14।50} किम् च अतः .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {15।50} यदि प्रकृतितः : इकः यण् अचि : यणाम् ये अन्तरतमाः इकः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यात् : दधि अत्र मधु अत्र .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {16।50} कुमारी अत्र ब्रह्मबन्ध्वर्थम् इति अत्र न स्यात् .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {17।50} आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धम् भवति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {18।50} तथा इकः गुणवृद्धी : गुणवृद्ध्योः ये अन्तरतमाः इकः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यात् : नेता लविता नायकः लावकः .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {19।50} चेता स्तोता चायकः स्तावकः इति अत्र न स्यात् .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {20।50} आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धम् भवति .

(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {21।50} तथा ऋवर्णस्य गुणवृद्धिप्रसङ्गे गुणवृद्ध्योः यत् अन्तरतमम् ऋवर्णम् तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यात् : कर्ता हर्ता , आस्तारकः , निपारकः .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {22।50} आस्तरिता निपरिता कारकः , हारकः इति अत्र न स्यात् .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {23।50} आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धम् भवति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {24।50} अथ आदेशतः अन्तरतमनिर्वृत्तौ सत्याम् अयम् दोषः : वान्तः यि प्रत्यये : स्थानिनिर्देशः कर्तव्यः .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {25।50} ओकारौकारयोः इति वक्तव्यम् एकारैकारयोः मा भूत् इति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {26।50} प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् वान्तादेशस्य या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण स्थानिनिर्देशम् सिद्धम् भवति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {27।50} आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {28।50} कथम् .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {29।50} वान्तग्रहणम् न करिष्यते .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {30।50} यि प्रत्यये एचः अयादयः भवन्ति इति एव. यदि न क्रियते चेयम् , जेयम् इति अत्र अपि प्राप्नोति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {31।50} क्षय्यजय्यौ शक्यार्थे इति एतत् नियमार्थम् भविष्यति : क्षिज्योः एव एचः इति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {32।50} तयोः तर्हि शक्यार्थात् अन्यत्र अपि प्राप्नोति : क्षेयम् पापम् जेयः वृषलः इति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {33।50} उभयतः नियमः विज्ञास्यते : क्षिज्योः एव एचः अनयोः च शक्याऋथे एव इति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {34।50} इह अपि तर्हि नियमात् न प्राप्नोति : लव्यम् , पव्यम् अवश्यलाव्यम् अवश्यपाव्यम् इति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {35।50} तुल्यजातीयस्य नियमः .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {36।50} कः च तुल्यजातीयः .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {37।50} यथाजातीयकः क्षिज्योः एच् .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {38।50} कथञ्जातीयकः क्षिज्योः एच् .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {39।50} एकारः .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {40।50} एवम् अपि रायम् इच्छति रैयति अत्र अपि प्राप्नोति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {41।50} रायिः छान्दसः .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {42।50} दृष्टानुविधिः छन्दसि भवति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {43।50} ऊदुपधयाः गोहः : आदेशतः अन्तरतमनिर्वृत्तौ सत्याम् उपधाग्रहणम् कर्तव्यम् .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {44।50} प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् ऊकारस्य गोहः या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण उपधाग्रहणम् सिद्धम् भवति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {45।50} आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {46।50} क्रियते एतत् न्यासे एव .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {47।50} रदाभ्याम् निष्ठातः नः पूर्वस्य च दः : आदेशतः अन्तरतमनिर्वृत्तौ सत्याम् तकारग्रहणम् कर्तव्यम् .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {48।50} प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् नकारस्य निष्ठायाम् या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण तकारग्रहणम् सिद्धम् भवति .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {49।50} आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः .
(प्_1,1.50.2) क_इ,120.14-121.29 रो_इ,366-370 {50।50} क्रियते एतत् न्यासे एव .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {1।30} किम् पुनः इदम् निर्वर्तकम् : अन्तरतमाः अनेन निर्वर्त्यन्ते , आहोस्वित् प्रतिपादकम् : अन्येन निर्वृत्तानाम् अनेन प्रतिपत्तिः .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {2।30} कः च अत्र विशेषः .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {3।30} स्थाने अन्तरतमनिर्वतके स्थानिनिवृत्तिः .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {4।30} स्थाने अन्तरतमनिर्वतके सर्वस्थानिनाम् निवृत्तिः प्राप्नोति .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {5।30} अस्य अपि प्राप्नोति : दधि मधु .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {6।30} अस्तु .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {7।30} न कः चित् अन्यः आदेशः प्रतिनिर्दिश्यते .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {8।30} तत्र आन्तर्यतः दधिशब्दस्य दधिशब्दः एव मधुशब्दस्य मधुशब्दः एव आदेशः भविष्यति .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {9।30} यदि च एवम् क्व चित् वैरूप्यम् तत्र दोषः स्यात् : बिसम् बिसम् , मुसलम् मुसलम् .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {10।30} इण्कोः इति षत्वम् प्राप्नोति .

(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {11।30} अपि च इष्टा व्यवस्था न प्रकल्पेत .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {12।30} तत् यथा तप्ते भ्राष्ट्रे तिलाः क्षिप्ताः मुहूर्तम् अपि न अवतिष्ठन्ते एवम् इमे वर्णाः मुहूर्तम् अपि न अवतिष्ठेरन् .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {13।30} अस्तु तर्हि प्रतिपादकम् : अन्येन निर्वृत्तानाम् अनेन प्रतिपत्तिः .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {14।30} निर्वृत्तप्रतिपत्तौ निर्वृत्तिः .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {15।30} निर्वृत्तप्रतिपत्तौ निर्वृत्तिः न सिध्यति .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {16।30} सर्वे सर्वत्र प्राप्नुवन्ति .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {17।30} किम् तर्हि उच्यते निर्वृत्तिः न सिध्यति इति .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {18।30} न साधीयः निर्वृत्तिः सिद्धा भवति .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {19।30} न ब्रूमः निर्वृत्तिः न सिध्यति इति .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {20।30} किम् तर्हि .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {21।30} इष्टा व्यवस्था न प्रकल्पेत .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {22।30} न सर्वे सर्वत्र इष्यन्ते .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {23।30} इदम् इदानीम् किमर्थम् स्यात् .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {24।30} अनर्थकम् च .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {25।30} अनर्थकम् एतत् स्यात् .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {26।30} यः हि भुक्तवन्तम् ब्रूयात् मा भुक्थाः इति किम् तेन कृतम् स्यात् .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {27।30} उक्तम् वा .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {28।30} किम् उक्तम् .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {29।30} सिद्धम् तु षष्ठ्यधिकारे वचनात् इति .
(प्_1,1.50.3) क_इ,122.1-20 रो_इ,370-372 {30।30} षष्ठ्यधिकारे अयम् योगः कर्त्व्यः : स्थाने अन्तरतमः षष्ठीनिर्दिष्टस्य .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {1।25} प्रत्यात्मवचनम् च .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {2।25} प्रत्यात्मम् इति च वक्तव्यम् .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {3।25} किम् प्रयोजनम् .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {4।25} यः यस्य अन्तरतमः स तस्य स्थाने यथा स्यात् अन्यस्य अन्तरतमः अन्यस्य स्थाने मा भूत् इति .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {5।25} प्रत्यात्मवचनम् अशिष्यम् स्वभावसिद्धत्वात् .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {6।25} प्रत्यात्मवचनम् अशिष्यम् .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {7।25} किम् कारणम् .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {8।25} स्वभावसिद्धत्वात् .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {9।25} स्वभावतः एतत् सिद्धम् .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {10।25} तत् यथा : समाजेषु समाशेषु समवायेषु च आस्यताम् इति उच्यते .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {11।25} न च उच्यते प्रत्यात्मम् इति प्रत्यात्मम् च आसते .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {12।25} अन्तरतमवचनम् च .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {13।25} अन्तरतमवचनम् च अशिष्यम् .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {14।25} योगः च अपि अयम् अशिष्यः .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {15।25} कुतः .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {16।25} स्वभावसिद्धत्वात् एव .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {17।25} तत् यथा : समाजेषु समाशेषु समवायेषु च आस्यताम् इति उक्ते न एव कृशाः कृशैः सह आसत न पाण्डवः पाण्डुभिः .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {18।25} येषाम् एव किम् चित् अर्थकृतम् आन्तर्यम् तैः एव सः आसते .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {19।25} तथा गावः दिवसम् चरितवत्यः यः यस्याः प्रसवः भवति तेन सह शेरते .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {20।25} तथा यानि एतानि गोयुक्तकानि सङ्घुष्टकानि भवन्ति तानि अन्योन्यम् पश्यन्ति सब्दम् कुर्वन्ति .

(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {21।25} एवम् तावत् चेतनावत्सु .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {22।25} अचेतनेषु अपि .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {23।25} लोष्टः क्षिप्तः बाहुवेगम् गत्वा न एव तिर्यक् गच्छति न ऊर्ध्वम् आरोहति पृथिवीविकारः पृथिवीम् गच्छति आन्तर्यतः .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {24।25} तथा या एताः आन्तरिक्ष्यः सूक्ष्माः आपः तासाम् विकारः धूमः सः आकाशदेशे निवाते न एव तिर्यक् गच्छति न अवाक् अवरोहति अब्विकारः अपः एव गच्छति आन्तर्यतः .
(प्_1,1.50.4) क_इ,122.21-123.16 रो_इ,372-373 {25।25} तथा ज्योतिषः विकारः अर्चिः आकाशदेशे निवाते सुप्रज्वलितः न एव तिर्यक् गच्छति न अवाक् अवरोहति ज्योतिषः विकारः ज्योतिः एव गच्छति आन्तर्यतः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {1।86} व्यञ्जनस्वरव्यतिक्रमे च तत्कालप्रसङ्गः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {2।86} व्यञ्जनव्यतिक्रमे स्वरव्यतिक्रमे च तत्कालता प्राप्नोति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {3।86} व्यञ्जनव्यतिक्रमे : इष्टम् उप्तम् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {4।86} आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य अर्धमात्रिकः इक् प्राप्नोति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {5।86} न एव लोके न च वेदे अर्धमात्रिकः इक् अस्ति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {6।86} कः तर्हि .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {7।86} मात्रिकः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {8।86} यः अस्ति सः भविष्यति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {9।86} स्वरव्यतिक्रमे : दधि अत्र मधु अत्र कुमारी अत्र ब्रह्मबन्ध्वर्थम् इति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {10।86} आन्तर्यतः मात्रिकस्य द्विमात्रिकस्य इकः मात्रिकः द्विमात्रिकः वा यण् प्राप्नोति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {11।86} न एव लोके न च वेदे मात्रिकः द्विमात्रिकः वा यण् अस्ति .कः तर्हि .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {12।86} अर्धमात्रिकः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {13।86} यः अस्ति सः भविष्यति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {14।86} अक्षु च अनेकवर्णादेशेषु .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {15।86} अक्षु च अनेकवर्णादेशेषु तत्कालता प्राप्नोति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {16।86} इदमः इश् : आन्तर्यतः अर्ध्तृतीयमात्रस्य इदमः स्थाने अर्ध्तृतीयमात्रम् इवर्णम् प्राप्नोति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {17।86} न एषः दोषः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {18।86} भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् न भविष्यति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {19।86} गुणवृद्ध्येज्भावेषु च .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {20।86} गुणवृद्ध्येज्भावेषु च तत्कालता प्राप्नोति : खट्वा इन्द्रः खट्वेन्द्रः खट्वा उदकम् खट्वोदकम् खट्वा ईषा खट्वेषा खट्वा ऊढा खट्वोढा खट्वा एलका खट्वैलका खट्वा ओदनः खट्वौदनः , खट्वा ऐतिकयनः खट्वैतिकायनः , खट्वा औपगवः खट्वौपगवः इति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {21।86} आन्तर्यतः त्रिमात्र्चतुर्मात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः आदेशाः प्राप्नुवन्ति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {22।86} न एषः दोषाः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {23।86} तपरे गुणवृद्धी .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {24।86} ननु च तः परः यस्मात् सः अयम् तपरः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {25।86} न इति आह .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {26।86} तात् अपि परः तपरः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {27।86} यदि तात् अपि परः तपरः ॠदोः अप् इति इह एव स्यात् : यवः , स्तवः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {28।86} लवः , पवः इति अत्र न स्यात् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {29।86} न एषः तकारः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {30।86} कः तर्हि .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {31।86} दकारः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {32।86} किम् दकारे प्रयोजनम् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {33।86} अथ किम् तकारे प्रयोजनम् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {34।86} यदि असन्देहार्थः तकारः दकारः अपि .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {35।86} अथ मुखसुखार्थः तकारः दकारः अपि .

(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {36।86} एज्भावे : कुर्वाते कुर्वाथे .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {37।86} आन्तर्यतः अर्धतृतीयमात्रस्य टिसञ्ज्ञकस्य अर्धतृतीयमात्रः एः प्राप्नोति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {38।86} न एव लोके न च वेदे अर्धतृतीयमात्रः एः अस्ति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {39।86} ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गः अविशेषात् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {40।86} ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {41।86} सर्वे गुणवृद्धिसञ्ज्ञकाः ऋवर्णस्य स्थाने प्राप्नुवन्ति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {42।86} किम् कारणम् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {43।86} अविशेषात् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {44।86} न हि कः चित् विशेषः उपादीयते एवञ्जातीयकः गुणवृद्धिसञ्ज्ञकः ऋवर्णस्य स्थाने भवति इति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {45।86} अनुपादीयमाने विशेषे सर्वप्रसङ्गः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {46।86} न वा ऋवर्णस्य स्थाने रपरप्रसङ्गात् अवर्णस्य आन्तर्यम् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {47।86} न वा एषः दोषः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {48।86} किम् कारणम् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {49।86} ऋवर्णस्य स्थाने रपरप्रसङ्गात् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {50।86} उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति उच्यते .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {51।86} तत्र ऋवर्णस्य आन्तर्यतः रेफवतः रेफवान् अकारः एव अन्तरतमः भवति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {52।86} सर्वादेशप्रसङ्गः तु अनेकाल्त्वात् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {53।86} सर्वादेशप्रसङ्गः तु गुणवृद्धिसञ्ज्ञकः ऋवर्णस्य प्राप्नोति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {54।86} किम् कारणम् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {55।86} अनेकाल्त्वात् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {56।86} अनेकाल् शित् सर्वस्य इति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {57।86} न वा अनेकाल्त्वस्य तदाश्रयत्वात् ऋवर्णादेशस्य अविघातः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {58।86} न वा एषः दोषः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {59।86} किम् कारणम् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {60।86} अनेकाल्त्वस्य तदाश्रयत्वात् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {61।86} यदा अयम् उः स्थाने तदा अनेकाल् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {62।86} अनेकाल्त्वस्य तदाश्रयत्वात् ऋवर्णादेशस्य विघातः न भविष्यति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {63।86} अथवा अनान्तर्यम् एव एतयोः आन्तर्यम् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {64।86} एकस्य अपि अन्तरतमा प्रकृतिः न अस्ति अपरस्य अपि अन्तरतमः आदेशः न अस्ति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {65।86} एतत् एव एतयोः आन्तर्यम् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {66।86} सम्प्रयोगः वा नष्टाश्वदग्धरथवत् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {67।86} अथ वा नष्टाश्वदग्धरथवत् सम्प्रयोगः भवति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {68।86} तत् यथा : तव अश्वः नष्टः मम अपि रथः दग्धः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {69।86} उभौ सम्प्रयुज्यावहै इति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {70।86} एवम् इह अपि : तव अपि अन्तरतमा प्रकृतिः न अस्ति मम अपि अन्तरतमः आदेशः न अस्ति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {71।86} अस्तु नौ सम्प्रयोगः इति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {72।86} विषमः उपन्यासः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {73।86} चेतनावत्सु अर्थात् प्रकरणात् वा लोके सम्प्रयोगः भवति .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {74।86} वर्णाः च पुनः अचेतनाः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {75।86} तत्र किङ्कृतः सम्प्रयोगः .

(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {76।86} यदि अपि वर्णाः अचेतनाः यः तु असौ प्रयुङ्क्ते सः चेतनावान् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {77।86} एजवर्णयोः आदेशे अवर्णम् स्थानिनः अवर्णप्रधानत्वात् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {78।86} एजवर्णयोः आदेशे अवर्णम् प्राप्नोति :खट्वा एलका , माला औपगवः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {79।86} किम् कारणम् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {80।86} स्थानिनः अवर्णप्रधानत्वात् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {81।86} स्थानी हि अत्र अवर्णप्रधानः .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {82।86} सिद्धम् तु उभयान्तर्यात् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {83।86} सिद्धम् एतत् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {84।86} कथम् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {85।86} उभयोः यः अन्तरतमः तेन भवितव्यम् .
(प्_1,1.50.5) क_इ,123.17-125.15 रो_इ, 373-377 {86।86} न च अवर्णम् उभयोः अन्तरतमम् .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {1।41} किम् इदम् उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् : उः स्थाने अण् एव भवति रपरः च इति , आहोस्वित् रपरत्वम् अनेन विधीयते : उः स्थाने अण् च अनण् च अण् तु रपरः एव .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {2।41} कः च अत्र विशेषः .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {3।41} उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् चेत् उदात्तादिषु दोषः .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {4।41} उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् चेत् उदात्तादिषु दोषः भवति .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {5।41} के पुनः उदात्तादयः .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {6।41} उदात्तानुदात्तस्वरितानुनासिकाः .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {7।41} कृतिः , हृतिः , कृतम् , हृतम् , प्रकृतम् , प्रहृतम् नॄश्ः पाहि .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {8।41} अस्तु तर्हि उः स्थाने अण् च अनण् च अण् तु रपरः इति .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {9।41} यः उः स्थाने सः रपरः इति चेत् गुणवृद्ध्योः अवर्णाप्रतिपत्तिः .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {10।41} यः उः स्थाने सः रपरः इति चेत् गुणवृद्ध्योः अवर्णाप्रतिपत्तिः .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {11।41} कर्ता हर्ता वार्षगण्यः .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {12।41} किम् हि साधीयः ऋवर्णस्य असवर्णे यत् अवर्णम् स्यात् न पुनः एङैचौ .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {13।41} पूर्वस्मिन् अपि पक्षे एषः दोषः .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {14।41} किम् हि साधीयः तत्र अपि ऋवर्णस्य असवर्णे यत् अवर्णम् स्यात् न पुनः इवर्णोवर्णौ .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {15।41} अथ मतम् एतत् उः स्थाने अणः च अनणः च प्रसङ्गे अण् एव भवति रपरः च इति सिद्धा पूर्वस्मिन् पक्षे अवर्णस्य प्रतिपत्तिः .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {16।41} यत् तु तत् उक्तम् उदात्तादिषु दोषः भवति इति इह सः दोषः जायते .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {17।41} न जायते .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {18।41} जायते सः दोषः .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {19।41} कथम् .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {20।41} उदात्तः इति अनेन अणः अपि प्रतिनिर्दिश्यन्ते अनणः अपि .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {21।41} यदि अपि प्रतिनिर्दिश्यन्ते न तु प्राप्नुवन्ति .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {22।41} किम् कारणम् .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {23।41} स्थाने अन्तरतमः भवति .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {24।41} कुतः नु खलु द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः स्थाने अन्तरतमः उः अण् रपरः इति च स्थाने अन्तरतमः इति अनया परिभाषया व्यवस्था भविष्यति न पुनः उः अण् रपरः इति .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {25।41} अतः किम् .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {26।41} अतः एषः दोषः जायते : उदात्तादिषु दोषः इति .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {27।41} ये च अपि एते ऋवर्णस्य स्थाने प्रतिपदम् आदेशाः उच्यन्ते तेषु रपरत्वम् न प्राप्नोति : ॠतः इत् धातोः उत् ओष्ठ्यपूर्वस्य इति .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {28।41} सिद्धम् तु प्रसङ्गे रपरत्वात् .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {29।41} सिद्धम् एतत् .

(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {30।41} कथम् .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {31।41} प्रसङ्गे रपरत्वात् .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {32।41} उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {33।41} किम् वक्तव्यम् एतत् .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {34।41} न हि .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {35।41} कथम् अनुच्यमानम् गंस्यते .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {36।41} स्थाने इति वर्तते स्थानशब्दः च प्रसङ्गवाची .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {37।41} यदि एवम् आदेशः अविशेषितः भवति .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {38।41} आदेशः च विशेषितः .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {39।41} कथम् .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {40।41} द्वितीयम् स्थानग्रहणम् प्रकृतम् अनुवर्तते. तत्र एवम् अभिसम्बन्धः करिष्यते : उः स्थाने अण् स्थाने इति .
(प्_1,1.51.1) क_इ,125.17-126.19 रो_इ,378-381 {41।41} उः प्रसङ्गे अण् प्रसज्यमानः एव रपरः भवति .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {1।20} अथ अण्ग्रहणम् किमर्थम् न उः रपरः इति एव उच्येत .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {2।20} उः रपरः इति इयति उच्यमाने कः इदानीम् रपरः स्यात् .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {3।20} यः उः स्थाने भवति .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {4।20} कः च उः स्थाने भवति .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {5।20} आदेशः .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {6।20} आदेशः रपरः इति चेत् रीरिविधिषु रपरप्रतिषेधः .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {7।20} आदेशः रपरः इति चेत् रीरिविधिषु रपरत्वस्य प्रतिषेधः वक्तव्यः .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {8।20} के पुनः रीरिविधयः .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {9।20} अकङ्लोपानङनङ्रीङ्रिङादेशाः .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {10।20} अकङ्: सौधातकिः .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {11।20} लोपः : पैतृष्वसेयः .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {12।20} आनङ् : होतापोतारौ .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {13।20} अनङ् : कर्ता हर्ता .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {14।20} रीङ् : मात्रीयति पित्रीयति .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {15।20} रिङ् : क्रियते ह्रियते .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {16।20} उदात्तादिषु च .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {17।20} किम् .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {18।20} रपरत्वस्य प्रतिषेधः वक्तव्यः .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {19।20} कृतिः , हृतिः , कृतम् , हृतम् , प्रकृतम् , प्रहृतम् नॄश्ः पाहि .
(प्_1,1.51.2) क_इ,126.20-127.3 रो_इ,382 {20।20} तस्मात् अण्ग्रहणम् कर्तव्यम् .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {1।37} एकादेशस्य उपसङ्ख्यानम् .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {2।37} एकादेशस्य उपसङ्ख्यानम् कर्तव्यम् : खट्वर्श्यः , मालर्श्यः .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {3।37} किम् पुनः कारणम् न सिध्यति .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {4।37} उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति उच्यते न च अयम् उः एव स्थाने अण् शिष्यते .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {5।37} किम् तर्हि .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {6।37} उः च अन्यस्य च .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {7।37} अवयवग्रहणात् सिद्धम् .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {8।37} यत् अत्र ऋवर्णम् तदाश्रयम् रपरत्वम् भविष्यति .

(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {9।37} तत् यथा माषाः न भोक्तव्याः इति मिश्राः अपि न भुज्यन्ते .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {10।37} अवयवग्रहणात् सिद्धम् इति चेत् आदेशे रान्तप्रतिषेधः .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {11।37} अव्ययवग्रहणात् सिद्धम् इति चेत् आदेशे रान्तस्य प्रतिषेधः वक्तव्यः : होतापोतारौ .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {12।37} यथा एव उः च अन्यस्य च स्थाने अण् रपरः भवति एवम् यः उः स्थाने अण् च अनण् च सः अपि रपरः स्यात् .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {13।37} यदि पुनः ऋवर्णान्तस्य स्थानिनः रपरत्वम् उच्येत : खट्वर्श्यः , मालर्श्यः .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {14।37} न एवम् शक्यम् .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {15।37} इह हि दोषः स्यात् : कर्ता हर्ता किरति गिरति .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {16।37} ऋवर्णान्तस्य इति उच्यते .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {17।37} न च एतत् ऋवर्णान्तम् .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {18।37} ननु च एतत् अपि व्यपदेशिवद्भावेन ऋवर्णान्तम् .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {19।37} अर्थवता व्यपदेशिवद्भावः न च एषः अर्थवान् .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {20।37} तस्मात् न एवम् शक्यम् .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {21।37} न चेत् एवम् उपसङ्ख्यानम् कर्तव्यम् .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {22।37} इह च रपरत्वप्रतिषेधः वक्तव्यः : मातुः , पितुः इति .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {23।37} उभयम् न वक्तव्यम् .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {24।37} कथम् .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {25।37} इह यः द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति लभते असौ अन्यतरतः व्यपदेशम् .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {26।37} तत् यथा देवदत्तस्य पुत्रः , देवदत्तायाः पुत्रः इति .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {27।37} कथम् मातुः पितुः इति .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {28।37} अस्तु अत्र रपरत्वम् .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {29।37} का रूपसिद्दिः .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {30।37} रात् सस्य इति सकारस्य लोपः रेफस्य विसर्जनीयः .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {31।37} न एवम् शक्यम् .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {32।37} इह हि मातुः करोति , पितुः करोति इति अप्रत्ययविसर्जनीयस्य इति षत्वम् प्रसज्येत .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {33।37} अप्रत्ययस्विसर्जनीयस्य इति उच्यते .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {34।37} प्रत्ययविसर्जनीयः च अयम् .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {35।37} लुप्यते अत्र प्रत्ययः रात् सस्य इति .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {36।37} एवम् तर्हि भ्रातुष्पुत्रग्रहणम् ज्ञापकम् एकादेशनिमित्तात् षत्वप्रतिषेधस्य .
(प्_1,1.51.3) क_इ,127.4-24 रो_इ,382-385 {37।37} यत् अयम् कस्कादिषु भ्रातुष्पुत्रशब्दम् पठति तत् ज्ञापयति आचार्यः न एकादेशनिमित्त्तात् षत्वम् भवति इति.
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {1।100} किम् पुनः अयम् पूर्वान्तः आहोस्वित् परादिः आहोस्वित् अभक्तः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {2।100} कथम् च अयम् पूर्वान्तः स्यात् कथम् वा परादिः कथम् वा अभक्तः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {3।100} यदि अन्तः इति वर्तते ततः पूर्वान्तः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {4।100} अथ आदिः इति वर्तते ततः परादिः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {5।100} अथ उभयम् निवृत्तम् ततः अभक्तः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {6।100} कः च अत्र विशेषः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {7।100} अभक्ते दीर्घलत्वयगभ्यस्तस्वरहलादिशेषविसर्जनीयप्रतिषेधः प्रत्ययाव्यवस्था च .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {8।100} यदि अभक्तः दीर्घत्वम् न प्राप्नोति : गीः , पूः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {9।100} रेफवकारान्तस्य धातोः इति दीर्घत्वम् न प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {10।100} किम् पुनः कारणम् रेफवकाराभ्याम् धातुः विशेष्यते न पुनः पदम् विशेष्यते रेफवकारान्तस्य पदस्य इति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {11।100} न एवम् शक्यम् .

(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {12।100} इह अपि प्रसज्येत : अग्निः , वायुः इति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {13।100} एवम् तर्हि रेफवकाराभ्याम् पदम् विशेषयिष्यामः धातुना इकम् : रेफवकारान्तस्य पदस्य इकः धातोः इति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {14।100} एवम् अपि प्रियम् ग्रामणि कुलम् अस्य प्रियग्रामणिः , प्रियसेनानिः अत्र अपि प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {15।100} तस्मात् धातुः एव विशेष्यते .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {16।100} धातौ च विशेष्यमाणे इह दीर्घत्वम् न प्राप्नोति : गीः , पूः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {17।100} दीर्घ .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {18।100} लत्व : लत्वम् च न सिध्यति : निजेगिल्यते .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {19।100} ग्रः यङि इति लत्वम् न प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {20।100} न एषः दोषः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {21।100} ग्रः इति अनन्तरयोगा एषा षष्ठी .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {22।100} एवम् अपि स्वः जेगिल्यते इति अत्र अपि प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {23।100} एवम् तर्हि यङा आनन्तर्यम् विशेषयिष्यामः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {24।100} अथ वा ग्रः इति पञ्चमी .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {25।100} लत्व .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {26।100} यक्स्वर : यक्स्वरः च न सिध्यति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {27।100} गीर्यते स्वयम् एव , पुर्यते स्वयम् एव .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {28।100} अचः कर्तृयकि इति एषः स्वरः न प्राप्नोति रेफेण व्यवहितत्वात् .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {29।100} न एषः दोषः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {30।100} स्वरविधौ व्यञ्जनम् अविद्यमानवत् इति न अस्ति व्यवधानम् .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {31।100} यक्स्वर .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {32।100} अभ्यस्तस्वर : अभ्यस्तस्वरः च न सिध्यति : म हि स्म ते पिपरुः , म हि स्म ते बिभरुः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {33।100} अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति रेफेण व्यवहितत्वात् .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {34।100} न एषः दोषः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {35।100} स्वरविधौ व्यञ्जमम् अविद्यमानवत् इति न अस्ति व्यवधानम् .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {36।100} अभ्यस्तस्वर .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {37।100} हलादिशेष : हलादिशेषः च न सिध्यति : ववृते ववृधे .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {38।100} अभ्यासस्य इति हलादिशेषः न प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {39।100} हलादिशेष .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {40।100} विसर्जनीय : विसर्जनीयस्य च प्रतिषेधः वक्तव्यः : नार्कुटः , नार्पत्यः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {41।100} खरवसानयोः विसर्जनीयः इति विसर्जनीयः प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {42।100} विसर्जनीय .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {43।100} प्रत्ययाव्यवस्था : प्रत्यये व्यवस्था न प्रकल्पते : किरतः , गिरतः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {44।100} रेफः अपि अभक्तः प्रत्ययः अपि .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {45।100} तत्र व्यवस्था न प्रकल्पते .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {46।100} एवम् तर्हि पूर्वान्तः करिष्यते .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {47।100} पूर्वान्ते र्ववधारणम् विसर्जनीयप्रतिषेधः यक्स्वरः च .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {48।100} यदि पूर्वान्तः रोः अवधारणम् कर्तव्यम् : रोः सुपि .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {49।100} रोः एव सुपि न अन्यस्य रेफस्य : सर्पिष्षु धनुष्षु .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {50।100} इह मा भूत् : गीर्षु पूर्षु .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {51।100} परादौ अपि सति अवधारणम् कर्तव्यम् चतुर्षु इति एवम् अर्थम् .

(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {52।100} विसर्जनीयप्रतिषेधः : विसर्जनीयस्य च प्रतिषेधः वक्तव्यः : नार्कुटः , नार्पत्यः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {53।100} खरवसानयोः विसर्जनीयः इति विसर्जनीयः प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {54।100} परादौ अपि विसर्जनीयस्य प्रतिषेधः वक्तव्यः नार्कल्पिः इति एवमर्थम् .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {55।100} कल्पिपदसङ्घातभक्तः असौ न उत्सहते अवयवस्य पदान्तताम् विहन्तुम् इति कृत्वा विसर्जनीयः प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {56।100} यक्स्वरः : यक्स्वरः च न सिध्यति : गीर्यते स्वयम् एव , पुर्यते स्वयम् एव .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {57।100} अचः कर्तृयकि इति एषः स्वरः न प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {58।100} न एषः दोषः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {59।100} उपदेशे इति वर्तते .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {60।100} अथ वा पुनः अस्तु परादिः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {61।100} परादौ अकारलोपौत्वपुक्प्रतिषेधः चङि उपधाह्रस्वत्वम् इटः अव्यवस्था अभ्यासलोपः अभ्यस्ततादिस्वरः दीर्घत्वम् च .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {62।100} यदि परादिः अकारलोपः प्रतिषेध्यः : कर्ता हर्ता : अतः लोपः आर्धधातुके इति अकारलोपः प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {63।100} न एषः दोषः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {64।100} उपदेशे इति वर्तते .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {65।100} यदि उपदेशे इति वर्तते धिनुतः , कृणुतः अत्र लोपः न प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {66।100} न उपदेशग्रहणेन प्रकृतिः अभिसम्बध्यते .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {67।100} किम् तर्हि .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {68।100} आर्धधातुकम् अभिसम्बध्यते .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {69।100} आर्धधातुकोपदेशे यत् अकारान्तम् इति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {70।100} अकारलोप .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {71।100} औत्व : औत्वम् च प्रतिषेध्यम् : चकार जहार .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {72।100} आतः औ णलः इति औत्वम् प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {73।100} न एषः दोषः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {74।100} निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {75।100} यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {76।100} रेफेन व्यवहितत्वात् .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {77।100} औत्व .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {78।100} पुक्प्रतिषेधः : पुक् च प्रतिषेध्यः : कारयति हारयति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {79।100} आताम् पुक् इति पुक् प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {80।100} पुक्प्रतिषेधः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {81।100} चङि उपधाह्रस्वत्वम् च न सिध्यति : अचीकरत् अजीहरत् .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {82।100} णौ चङि उपधायाः ह्रस्वः इति ह्रस्वत्वम् न प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {83।100} चङि उपधाह्रस्वत्वम् .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {84।100} इटः अव्यवस्था : इटः च व्यवस्था न प्रकल्पते : आस्तरिता निपरिता .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {85।100} इट् अपि परादिः रेफः अपि .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {86।100} तत्र व्यवस्था न प्रकल्पते .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {87।100} इटः अव्यवस्था .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {88।100} अभ्यासलोपः : अभ्यासलोपः च वक्तव्यः : ववृते ववृधे .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {89।100} अभ्यासस्य इति हलादिशेषः न प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {90।100} अभ्यासलोपः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {91।100} अभ्यस्तस्वर : अभ्यस्तस्वरः च न सिध्यति : म हि स्म ते पिपरुः , म हि स्म ते बिभरुः .

(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {92।100} अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {93।100} अभ्यस्तस्वर .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {94।100} तादिस्वरः : तादिस्वरः च न सिध्यति : प्रकर्ता प्रकर्तुम् , प्रहर्ता प्रहर्तुम् .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {95।100} तादौ च निति कृति अतौ इति एषः स्वरः न प्राप्नोति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {96।100} न एषः दोषः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {97।100} उक्तम् एतत् : कृदुपदेशे वा ताद्यर्थम् इडर्थम् इति .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {98।100} तादिस्वरः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {99।100} दीर्घत्वम् : दीर्घत्वम् च न सिध्यति : गीः , पूः .
(प्_1,1.51.4) क_इ,127.25-130.2 रो_इ,385-391 {100।100} रेफवकारान्तस्य धातोः इति दीर्घत्वम् न प्राप्नोति .
(प्_1,1.52.1) क_इ,130.4-11 रो_इ,391-392 {1।14} किम् इदम् अल्ग्रहणम् अन्त्यविशेषणम् आहोस्वित् आदेशविशेषणम् .
(प्_1,1.52.1) क_इ,130.4-11 रो_इ,391-392 {2।14} किम् च अतः .
(प्_1,1.52.1) क_इ,130.4-11 रो_इ,391-392 {3।14} यदि अन्त्यविशेषणम् आदेशः अविशेषितः भवति .
(प्_1,1.52.1) क_इ,130.4-11 रो_इ,391-392 {4।14} तत्र कः दोषः .
(प्_1,1.52.1) क_इ,130.4-11 रो_इ,391-392 {5।14} अनेकाल् अपि आदेशः अन्त्यस्य प्रसज्येत .
(प्_1,1.52.1) क_इ,130.4-11 रो_इ,391-392 {6।14} यदि पुनः अल् अन्त्यस्य इति उच्येत .
(प्_1,1.52.1) क_इ,130.4-11 रो_इ,391-392 {7।14} तत्र अयम् अपि अर्थः अनेकाल् शित् सर्वस्य इति एतत् न वक्तव्यम् भवति .
(प्_1,1.52.1) क_इ,130.4-11 रो_इ,391-392 {8।14} इदम् नियमार्थम् भविष्यति : अल् एव अन्त्यस्य भवति न अन्यः इति .
(प्_1,1.52.1) क_इ,130.4-11 रो_इ,391-392 {9।14} एवम् अपि अन्त्यः अविशेषितः भवति .
(प्_1,1.52.1) क_इ,130.4-11 रो_इ,391-392 {10।14} तत्र कः दोषः .
(प्_1,1.52.1) क_इ,130.4-11 रो_इ,391-392 {11।14} वाक्यस्य अपि पदस्य अपि अन्त्यस्य प्रसज्येत .
(प्_1,1.52.1) क_इ,130.4-11 रो_इ,391-392 {12।14} यदि खलु अपि एषः अभिप्रायः तत् न क्रियेत इति अन्त्यविशेषणे अपि सति तत् न करिष्यते .
(प्_1,1.52.1) क_इ,130.4-11 रो_इ,391-392 {13।14} कथम् .
(प्_1,1.52.1) क_इ,130.4-11 रो_इ,391-392 {14।14} ङित् च अलः अन्त्यस्य इति एतत् नियमार्थम् भविष्यति : ङित् एव अनेकाल् अन्त्यस्य भवति न अन्यः इति .
(प्_1,1.52.2) क_इ,130.12-20 रि.392-394 {1।12} किमर्थम् पुनः इदम् उच्यते .
(प्_1,1.52.2) क_इ,130.12-20 रि.392-394 {2।12} अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः .
(प्_1,1.52.2) क_इ,130.12-20 रि.392-394 {3।12} अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः क्रियते स्थाने प्रसक्तस्य .
(प्_1,1.52.2) क_इ,130.12-20 रि.392-394 {4।12} इतरथा हि अनिष्टप्रसङ्गः .
(प्_1,1.52.2) क_इ,130.12-20 रि.392-394 {5।12} इतरथा हि अनिष्टप्रसङ्गः प्रसज्येत .
(प्_1,1.52.2) क_इ,130.12-20 रि.392-394 {6।12} टित्किन्मितः अपि अन्त्यस्य स्युः .
(प्_1,1.52.2) क_इ,130.12-20 रि.392-394 {7।12} यदि पुनः अयम् योगशेषः विज्ञायेत .
(प्_1,1.52.2) क_इ,130.12-20 रि.392-394 {8।12} योगशेषे च .
(प्_1,1.52.2) क_इ,130.12-20 रि.392-394 {9।12} किम् .
(प्_1,1.52.2) क_इ,130.12-20 रि.392-394 {10।12} अनिष्टम् प्रसज्येते .
(प्_1,1.52.2) क_इ,130.12-20 रि.392-394 {11।12} टित्किन्मितः अपि अन्त्यस्य स्युः .
(प्_1,1.52.2) क_इ,130.12-20 रि.392-394 {12।12} तस्मात् सुष्ठु उच्यते : अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः इतरथा हि अनिष्टप्रसङ्गः इति .
(प्_1,1.53) क_इ,130.21-131.7 रो_इ,394-395 {1।12} तातङ् अन्त्यस्य कस्मात् न भवति .
(प्_1,1.53) क_इ,130.21-131.7 रो_इ,394-395 {2।12} ङित् च अलः अन्त्यस्य इति प्राप्नोति .
(प्_1,1.53) क_इ,130.21-131.7 रो_इ,394-395 {3।12} तातङि ङित्करणस्य सावकाशत्वात् विप्रतिषेधात् सर्वादेशः .
(प्_1,1.53) क_इ,130.21-131.7 रो_इ,394-395 {4।12} तातङि ङित्करणस्य सावकाशम् .
(प्_1,1.53) क_इ,130.21-131.7 रो_इ,394-395 {5।12} कः अवकाशः .

(प्_1,1.53) क_इ,130.21-131.7 रो_इ,394-395 {6।12} गुणवृद्धिप्रतिषेधार्थः ङकारः .
(प्_1,1.53) क_इ,130.21-131.7 रो_इ,394-395 {7।12} तातङि ङित्करणस्य सावकाशत्वात् विप्रतिषेधात् सर्वादेशः भविष्यति .
(प्_1,1.53) क_इ,130.21-131.7 रो_इ,394-395 {8।12} प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् .
(प्_1,1.53) क_इ,130.21-131.7 रो_इ,394-395 {9।12} यदि च अयम् नियोगतः सर्वादेशः स्यात् ततः एतत् प्रयोजनम् स्यात् .
(प्_1,1.53) क_इ,130.21-131.7 रो_इ,394-395 {10।12} कुतः नु खलु एतत् ङित्करणात् अयम् सर्वादेशः भविष्यति न पुनः अन्त्यस्य स्यात् इति .
(प्_1,1.53) क_इ,130.21-131.7 रो_इ,394-395 {11।12} एवम् तर्हि एतत् एव ज्ञापयति न तातङ् अन्त्यस्य स्थाने भवति इति यत् एतम् ङितम् करोति .
(प्_1,1.53) क_इ,130.21-131.7 रो_इ,394-395 {12।12} इतरथा हि लोटः एरुप्रकरणे एव ब्रूयात् तिह्योः तात् आशिषि अन्यतरस्याम् इति .
(प्_1,1.54) क_इ,131.9-17 रो_इ,395-396 {1।12} अलः अन्त्यस्य अदेः परस्य अनेकाल् शित् सर्वस्य इति अपवादविप्रतिषेधात् सर्वादेशः .
(प्_1,1.54) क_इ,131.9-17 रो_इ,395-396 {2।12} अलः अन्त्यस्य इति उत्सर्गः .
(प्_1,1.54) क_इ,131.9-17 रो_इ,395-396 {3।12} तस्य आदेः परस्य अनेकाल्शित् सर्वस्य इति अपवादौ .
(प्_1,1.54) क_इ,131.9-17 रो_इ,395-396 {4।12} अपवादविप्रतिषेधात् तु सर्वादेशः भविष्यति .
(प्_1,1.54) क_इ,131.9-17 रो_इ,395-396 {5।12} आदेः परस्य इति अस्य अवकाशः द्व्यन्तरुपसर्गेभ्यः अपः ईत् : द्वीपम् अन्वीपम् .
(प्_1,1.54) क_इ,131.9-17 रो_इ,395-396 {6।12} अनेकाल्शित् सर्वस्य इति अस्य अवकाशः अस्तेः भूः : भविता भवितुम् .
(प्_1,1.54) क_इ,131.9-17 रो_इ,395-396 {7।12} इह उभयम् प्राप्नोति : अतः भिसः ऐस् .
(प्_1,1.54) क_इ,131.9-17 रो_इ,395-396 {8।12} अनेकाल्शित् सर्वस्य इति एतत् भवति विप्रतिषेधेन .
(प्_1,1.54) क_इ,131.9-17 रो_इ,395-396 {9।12} शित् सर्वस्य इति अस्य अवकाशः इदमः इश् : इतः , इह .
(प्_1,1.54) क_इ,131.9-17 रो_इ,395-396 {10।12} आदेः परस्य इति अस्य अवकाशः सः एव .
(प्_1,1.54) क_इ,131.9-17 रो_इ,395-396 {11।12} इह उभयम् प्राप्नोति : अष्टाभ्यः औश् .
(प्_1,1.54) क_इ,131.9-17 रो_इ,395-396 {12।12} शित् सर्वस्य इति एतत् भवति विप्रतिषेधेन .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {1।27} शित् सर्वस्य इति किम् उदाहरणम् .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {2।27} इदमः इश् : इतः , इह .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {3।27} न एतत् अस्ति प्रयोजनम् .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {4।27} शित्करणात् एव अत्र सर्वादेशः भविष्यति .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {5।27} इदम् तर्हि : अष्टाभ्यः औश् .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {6।27} ननु च अत्र अपि शित्करणात् एव सर्वादेशः भविष्यति .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {7।27} इदम् तर्हि : जसः शी जश्शसोः शिः .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {8।27} ननु च अत्र अपि शित्करणात् एव सर्वादेशः भविष्यति .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {9।27} अस्ति अन्यत् शित्करणे प्रयोजनम् .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {10।27} किम् .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {11।27} विशेषणार्थः .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {12।27} क्व विशेषणार्थेन अर्थः .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {13।27} शि सर्वनामस्थानम् विभाषा ङिश्योः इति .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {14।27} शित् सर्वस्य इति शक्यम् अकर्तुम् .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {15।27} कथम् .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {16।27} अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {17।27} असत्याम् प्रत्ययसञ्ज्ञायाम् इत्सञ्ज्ञा न स्यात् .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {18।27} असत्याम् इत्सञ्ज्ञायाम् लोपः न स्यात् .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {19।27} असति लोपे अनेकाल् .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {20।27} यदा अनेकाल् तदा सर्वादेशः .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {21।27} यदा सर्वादेशः तद प्रत्ययः .

(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {22।27} यदा प्रत्ययः तदा इत्सञ्ज्ञा .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {23।27} यदा इत्सञ्ज्ञा तदा लोपः .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {24।27} एवम् तर्हि सिद्धे सति यत् शित् सर्वस्य इति आह तत् ज्ञापयति आचार्यः अस्ति एषा परिभाषा : न अनुबन्धकृतम् अनेकाल्त्वम् भवति इति .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {25।27} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {26।27} तत्र असरूपसर्वादेशाप्प्रतिषेधेषु पृथक्त्वनिर्देशः अनाकारान्तत्वात् इति उक्तम् .
(प्_1,1.55) क_इ,131.19-132.7 रो_इ,396-397 {27।27} तत् न वक्तव्यम् भवति इति .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {1।26} वत्करणम् किमर्थम् .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {2।26} स्थानी आदेशः अनल्विधौ इति इयति उच्यमाने सञ्ज्ञाधिकरः अयम् तत्र स्थानी आदेशस्य सञ्ज्ञा स्यात् .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {3।26} तत्र कः दोषः .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {4।26} आङः यमहनः आत्मनेपदम् भवति इति वधेः एव स्यात् .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {5।26} हन्तेः न स्यात् .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {6।26} वत्करणे पुनः क्रियमाणे न दोषः भवति .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {7।26} स्थानिकार्यम् आदेशे अतिदिश्यते गुरुवत् गुरुपुत्रः इति यथा .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {8।26} अथ आदेशग्रहणम् किमर्थम् .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {9।26} स्थानिवत् अनल्विधौ इति इयति उच्यमाने कः इदानीम् स्थानिवत् स्यात् .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {10।26} यः स्थाने भवति .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {11।26} कः च स्थाने भवति .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {12।26} आदेशः .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {13।26} इदम् तर्हि प्रयोजनम् आदेशमात्रम् स्थानिवत् यथा स्यात् .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {14।26} एकदेशविकृतस्य उपसङ्ख्यानम् चोदयिष्यति .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {15।26} तत् न वक्तव्यम् भवति .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {16।26} अथ विधिग्रहणम् किमर्थम्. सर्वविभक्त्यन्तः समासः यथा विज्ञायेत : अलः परस्य विधिः अल्विधिः , अलः विधिः अल्विधिः , अलि विधिः अल्विधिः , अला विधिः अल्विधिः इति .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {17।26} न एतत् अस्ति प्रयोजनम् .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {18।26} प्रातिपदिकर्निर्देशः अयम् .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {19।26} प्रातिपदिकर्निर्देशाः च अर्थतन्त्राः भवन्ति .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {20।26} न कां चित् प्राधान्येन विभक्तिम् आश्रयन्ति .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {21।26} तत्र प्रातिपदिकार्थे निर्दिष्टे याम् याम् विभक्तिम् आश्रयितुम् बुद्धिः उपजायते सा सा आश्रयितव्या .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {22।26} इदम् तर्हि प्रयोजनम् : उत्तरपदलोपः यथा विज्ञायेत : अलम् आश्रयते अलाशृअयः , अलाश्रयः विधिः अल्विधिः इति .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {23।26} यत्र प्राधान्येन अल् आश्रीयते तत्र एव प्रतिषेधः स्यात् .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {24।26} यत्र विशेषणत्वेन अल् आश्रीयते तत्र प्रतिषेधः न स्यात् .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {25।26} किम् प्रयोजनम् .
(प्_1,1.56.1) क_इ,133.2-16 रो_इ,398-401 {26।26} प्रदीव्य प्रसीव्य इति वलादिलक्षणः इट् मा भूत् इति .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {1।32} किमर्थम् पुनः इदम् उच्यते .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {2।32} स्थान्यादेशपृथक्त्वात् आदेशे स्थानिवदनुदेशः गुरुवत् गुरुपुत्रे इति यथा .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {3।32} अन्यः स्थानी अन्यः आदेशः .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {4।32} स्थान्यादेशपृथक्त्वात् एतस्मात् कारणात् स्थानिकार्यम् आदेशे न प्राप्नोति .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {5।32} तत्र कः दोषः .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {6।32} आङः यमहनः आत्मनेपदम् भवति इति हन्तेः एव स्यात् वधेः न स्यात् .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {7।32} इष्यते च वधेः अपि स्यात् इति .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {8।32} तत् च अन्तरेण यत्नम् न सिध्यति .

(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {9।32} तस्मात् .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {10।32} स्थानिवदनुदेशः .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {11।32} एवमर्थम् इदम् उच्यते .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {12।32} गुरुवत् गुरुपुत्रः इति यथा .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {13।32} तत् यथा गुरुवत् अस्मिन् गुरुपुत्रे वर्तितव्यम् इति गुरौ यत् कार्यम् तत् गुरुपुत्रे अतिदिश्यते , एवम् इह अपि स्थानिकार्यम् आदेशे अतिदिश्यते .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {14।32} न एतत् अस्ति प्रयोजनम् .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {15।32} लोकतः एतत् सिद्धम् .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {16।32} तत् यथा लोके यः यस्य प्रसङ्गे भवति लभते असौ तत्कार्याणि .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {17।32} तत् यथा उपाध्यायस्य शिष्यः याज्यकुलानि गत्वा अग्रासनादीनि लभते .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {18।32} यदि अपि तावत् लोके एषः दृष्टान्तः दृष्टान्तस्य अपि तु पुरुषारम्भः निवर्तकः भवति .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {19।32} अस्ति च इह कः चित् पुरुषारम्भः .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {20।32} अस्ति इति आह .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {21।32} कः .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {22।32} स्वरूपविधिः .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {23।32} हन्तेः आत्मनेपदम् उच्यमानम् हन्तेः एव स्यात् वधेः न स्यात् .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {24।32} एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति स्थानिवत् आदेशः भवति इति यत् अयम् युष्मदस्मदोः अनादेशे इति आदेशप्रतिषेधम् शास्ति .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {25।32} कथम् कृत्वा ज्ञापकम् .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {26।32} युष्मदस्मदोः विभक्तौ कार्यम् उच्यमानम् कः प्रसङ्गः यत् आदेशे स्यात् .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {27।32} पश्यति तु आचार्यः स्थानिवत् आदेशः भवति इति .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {28।32} अतः आदेशे प्रतिषेधम् शास्ति .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {29।32} इदम् तर्हि प्रयोजनम् : अनल्विधौ इति प्रतिषेधम् वक्ष्यामि इति , इह मा भूत् : द्यौः , पन्थाः , सः इति .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {30।32} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {31।32} आचार्यप्रवृत्तिः ज्ञापयति अल्विधौ स्थानिवद्भावः न भवति इति यत् अयम् अदः जग्धिः ल्यप् ति किति इति ति किति इति एव सिद्धे ल्यब्ग्रहणम् करोति .
(प्_1,1.56.2) क_इ,133.17-134.9 रो_इ,401-402 {32।32} तस्मात् न अर्थः अनेन योगेन .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {1।36} आरभ्यमाणे अपि एतस्मिन् योगे अल्विधौ प्रतिषेधे अविशेषणे अप्राप्तिः तस्य अदर्शनात् .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {2।36} अल्विधौ प्रतिषेधे असति अपि विशेषणे समाश्रीयमणे असति तस्मिन् विशेषणे अप्राप्तिः विधेः : प्रदीव्य प्रसीव्य .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {3।36} किम् कारणम् .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {4।36} तस्य अदर्शनात् .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {5।36} वलादेः इति उच्यते न च अत्र वलादिम् पश्यामः .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {6।36} ननु च एवमर्थः एव अयम् यत्नः क्रियते : अन्यस्य कार्यम् उच्यमानम् अन्यस्य यथा स्यात् इति .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {7।36} सत्यम् एवमर्थः न तु प्राप्नोति .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {8।36} किम् कारणम् .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {9।36} सामान्यातिदेशे विशेषानतिदेशः . सामन्ये हि अतिदिश्यमाने विशेषः न अतिदिष्टः भवति .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {10।36} तत् यथा : ब्रह्मणवत् अस्मिन् क्षत्रिये वर्तितव्यम् इति सामान्यम् यत् ब्राह्मणकार्यम् तत् क्षत्रिये अतिदिश्यते .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {11।36} यत् विशिष्टम् माठरे कौण्डिन्ये वा न तत् अतिदिश्यते .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {12।36} एवम् इह अपि सामान्यम् यत् प्रत्ययकार्यम् तत् अतिदिश्यते यत् विशिष्टम् वलादेः इति न तत् अतिदिश्यते .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {13।36} यदि एवम् अग्रहीत् इति इटः ईटि इति सिचः लोपः न प्राप्नोति .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {14।36} अनल्विधौ इति पुनः उच्यमाने इह अपि प्रतिषेधः भविष्यति : प्रदीव्य प्रसीव्य इति .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {15।36} विशिष्टम् हि एषः अलम् आश्रयते वलम् नाम .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {16।36} इह च प्रतिषेधः न भविष्यति : अग्रहीत् इति .

(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {17।36} विशिष्टम् हि एषः अनलम् आश्रयति इटम् नाम .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {18।36} यदि तर्हि सामान्यम् अपि अतिदिश्यते विशेषः च सति आश्रये विधिः इष्टः .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {19।36} सति च वलादित्वे इटा भवितव्यम् : अरुदिताम् अरुदितम् अरुदित .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {20।36} किम् अतः यत् सति भवितव्यम् .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {21।36} प्रतिषेधः तु प्राप्नोति अल्विधित्वात् .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {22।36} प्रतिषेधः तु प्राप्नोति .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {23।36} किम् कारणम् .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {24।36} अल्विधित्वात् .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {25।36} अल्विधिः अयम् भवति .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {26।36} तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {27।36} न वा आनुदेशिकस्य प्रतिषेधात् इतरेण भावः .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {28।36} न वा एषः दोषः .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {29।36} किम् कारणम् .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {30।36} आनुदेशिकस्य प्रतिषेधात् .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {31।36} अस्तु अत्र आनुदेशिकस्य वलादित्वस्य प्रतिषेधः .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {32।36} स्वाश्रयम् अत्र वलादित्वम् भविष्यति .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {33।36} न एतत् विवदामहे वलादिः न वलादिः इति .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {34।36} किम् तर्हि .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {35।36} स्थानिवद्भावात् सार्वधातुकत्वम् एषितव्यम् .
(प्_1,1.56.3) क_इ,134.10-135.8 रो_इ,403-406 {36।36} तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {1।37} किम् पुनः आदेशिनि अलि आश्रीयमाणे प्रतिषेधः भवति आहोस्वित् अविशेषेण आदेशे आदेशिनि च .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {2।37} कः च अत्र विशेषः .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {3।37} आदेश्यल्विधिप्रतिषेधे कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {4।37} आदेश्यल्विधिप्रतिषेधे कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः वक्तव्यः .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {5।37} कुरु इति अत्र स्थानिवद्भावात् अङ्गसञ्ज्ञा श्वाश्रयम् च लघूपधत्वम् .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {6।37} तत्र लघूपधगुणः प्राप्नोति .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {7।37} वधकम् इति अत्र स्थानिवद्भावात् अङ्गसञ्ज्ञा श्वाश्रयम् च अदुपधत्वम् .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {8।37} तत्र वृद्धिः प्राप्नोति .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {9।37} पिब इति अत्र स्थानिवद्भावात् अङ्गसञ्ज्ञा श्वाश्रयम् च लघूपधत्वम् .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {10।37} तत्र गुणः प्राप्नोति .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {11।37} अस्तु तर्हि अविशेषेण आदेशे आदेशिनि च .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {12।37} आदेश्यादेशे इति चेत् सुप्तिङ्कृदतिदिष्टेषु उपसङ्ख्यानम् .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {13।37} आदेश्यादेशे इति चेत् सुप्तिङ्कृदतिदिष्टेषु उपसङ्ख्यानम् कर्तव्यम् .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {14।37} सुप् : वृक्षाय प्लक्षाय .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {15।37} स्थानिवद्भावात् सुप्सञ्ज्ञा स्वाश्रयम् च यञादित्वम् .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {16।37} तत्र प्रतिषेधः प्राप्नोति .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {17।37} सुप् .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {18।37} तिङ् : अरुदिताम् अरुदितम् अरुदित .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {19।37} स्थानिवद्भावात् सार्वधातुकसञ्ज्ञा स्वाश्रयम् च वलादित्वम् .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {20।37} तत्र प्रतिषेधः प्राप्नोति .

(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {21।37} तिङ् .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {22।37} कृदतिदिष्टम् : भुवनम् , सुवनम् , धुवनम् .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {23।37} स्थानिवद्भावात् प्रत्ययसञ्ज्ञा स्वाश्रयम् च अजादित्वम् .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {24।37} तत्र प्रतिषेधः प्राप्नोति .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {25।37} किम् पुनः अत्र ज्यायः .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {26।37} आदेशिनि अलि आश्रीयमाणे प्रतिषेधः इति ज्यायः .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {27।37} कुतः एतत् .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {28।37} तथा हि अयम् विशिष्टम् स्थानिकार्यम् आदेशे अतिदिशति गुरुवत् गुरुपुत्रे इति यथा .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {29।37} तत् यथा : गुरुवत् गुरुपुत्रे वर्तितव्यम् अन्यत्र उच्छिष्टभोजनात् पादोपसङ्ग्रहणाच् च इति .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {30।37} यदि च गुरुपुत्रः अपि गुरुः भवति तत् अपि कर्तव्यम् .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {31।37} अस्तु तर्हि आदेशिनि अलि आश्रीयमाणे प्रतिषेधः .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {32।37} ननु च उक्तम् आदेश्यल्विधिप्रतिषेधे कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः इति .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {33।37} न एषः दोषः .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {34।37} करोतौ तपरकरणनिर्देशात् सिद्धम् .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {35।37} पिबतिः अदन्तः .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {36।37} वधकम् इति न अयम् ण्वुल् .
(प्_1,1.56.4) क_इ,135.9-136.4 रो_इ,406-408 {37।37} अन्यः अयम् अकशब्दः कित् औणादिकः रुचकः इति यथा .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {1।45} एकदेशविकृतस्य उपसङ्ख्यानम् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {2।45} एकदेशविकृतस्य उपसङ्ख्यानम् कर्तव्यम् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {3।45} किम् प्रयोजनम् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {4।45} पचतु पचन्तु .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {5।45} तिङ्ग्रहणेन ग्रहणम् यथा स्यात् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {6।45} एकदेशविकृतस्य अनन्यत्वात् सिद्धम् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {7।45} एकदेशविकृतम् अनन्यवत् भवति इति तिङ्ग्रहणेन ग्रहणम् भविष्यति .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {8।45} तत् यथ : श्वा कर्णे वा पुच्छे वा छिन्ने श्वा एव भवति न अश्वः न गर्दभः इति .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {9।45} अनित्यत्वविज्ञानम् तु तस्मात् उपसङ्ख्यनम् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {10।45} अनित्यत्वविज्ञानम् तु भवति .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {11।45} नित्याः शब्दाः .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {12।45} नित्येषु नाम शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {13।45} तत्र सः एव अयम् विकृतः च एतत् नित्येषु न उपपद्यते .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {14।45} तस्मात् उपसङ्ख्यनम् कर्तव्यम् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {15।45} भारद्वाजीयाः पठन्ति : एकदेशविकृतेषु उपसङ्ख्यानम् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {16।45} एकदेशविकृतेषु उपसङ्ख्यानम् कर्तव्यम् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {17।45} किम् प्रयोजनम् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {18।45} पचतु पचन्तु : तिङ्ग्रहणेन ग्रहणम् यथा स्यात् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {19।45} किम् च कारणम् न स्यात् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {20।45} अनादेशत्वात् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {21।45} आदेशः स्थानिवत् इति उच्यते , न च इमे आदेशाः .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {22।45} रूपान्यत्वात् च .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {23।45} अन्यत् खलु अपि रूपम् पचति इति अन्यत् पचतु इति .

(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {24।45} इमे अपि आदेशाः .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {25।45} कथम् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {26।45} आदिश्यते यः सः आदेशः .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {27।45} इमे च अपि आदिश्यन्ते .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {28।45} आदेशः स्थानिवत् इति चेत् न अनाश्रितत्वात् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {29।45} आदेशः स्थानिवत् इति चेत् तत् न .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {30।45} किम् कारणम् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {31।45} अनाश्रितत्वात् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {32।45} यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {33।45} न एतत् मन्तव्यम् : समुदाये आश्रीयमाणे अवयवः न आश्रीयते इति .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {34।45} अभ्यन्तरः हि समुदायस्य अवयवः .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {35।45} तत् यथा : वृक्षः प्रचलन् सह अवयवैः प्रचलति .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {36।45} आश्रयः इति चेत् अल्विधिप्रसङ्गः . आश्रयः इति चेत् अल्विधिः अयम् भवति .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {37।45} तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {38।45} न एषः दोषः .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {39।45} न एवम् सति कः चित् अपि अनल्विधिः स्यात् .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {40।45} उच्यते च इदम् अनल्विधौ इति .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {41।45} तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः अल्विधिः इति .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {42।45} कः च साधीयः अल्विधिः .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {43।45} यत्र प्राधान्येन अल् आश्रीयते .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {44।45} यत्र नान्तरीयकः अल् आश्रीयते न असौ अल्विधिः .
(प्_1,1.56.5) क_इ,136.5-137.2 रो_इ,408-411 {45।45} अथ वा उक्तम् आदेशग्रहणस्य प्रयोजनम् : आदेशमात्रम् स्थानिवत् यथा स्यात् इति .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {1।40} अनुपपन्नम् स्थान्यादेशत्वम् नित्यत्वात् .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {2।40} स्थानी आदेशः इति एतत् नित्येषु शब्देषु न उपपद्यते .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {3।40} किम् कारणम् .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {4।40} नित्यत्वात् .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {5।40} स्थानी हि नाम् यः भूत्वा न भवति .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {6।40} आदेशः हि नाम यः अभूत्वा भवति .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {7।40} एतत् च नित्येषु शब्देषु न उपपद्यते यत् सतः नाम विनाशः स्यात् असतः वा प्रादुर्भावः इति .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {8।40} स् इद्धम् तु यथा लौकिकवैदिकेषु अभूतपूर्वे अपि स्थानशब्दप्रयोगात् .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {9।40} सिद्धम् एतत् .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {10।40} कथम् .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {11।40} यथा लौकिकेषु वैदिकेषु च कृतान्तेषु अभूतपूर्वे अपि स्थानशब्दः वर्तते .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {12।40} लोके तावत् : उपाध्यायस्य स्थाने शिष्यः इति उच्यते न च तत्र उपाध्यायः भूतपूर्वः भवति .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {13।40} वेदे अपि : सोमस्य स्थाने पूतीकतृणानि अभिषुणुयात् इति उच्यते न च तत्र सोमः भूतपूर्वः भवति .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {14।40} कार्यविपरिणामात् वा सिद्धम् .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {15।40} अथ वा कार्यविपरिणामात् सिद्धम् एतत् .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {16।40} किम् इदम् कार्यविपरिणामात् इति .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {17।40} कार्या बुद्धिः .
(प्_1,1.56.6) क_इ,137.3-26 रो_इ,411-412 {18।40} सा विपरिणम्यते .

मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc