वृत्तरत्नाकर · अध्याय 5
इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां
वृत्तरत्नाकरव्याख्यायामर्धसमाध्यायश्चतुर्थः ॥
पञ्चमो ऽध्यायः
[पदचतुरूर्ध्व-प्रकरणम् (1-5)]
मुखवादो ऽष्टभिर्वर्णैः परे स्युर्मकरालयैः क्रमाद् वृद्धैः ॥
सततं यस्य विचित्रैः पादैः सम्पन्नसौन्दर्यं
तदुदितममलमतिभिः पदचतुरूर्ध्वाभिधं वृत्तम्
प्रथममुदितवृत्ते विरचितविषमचरणभाजि ॥
गुरुकयुगलनिधन इह सहित आङा
लघुविरतपदविततियतिरिति भवति पीडः
प्रथममितरचरणसमुत्थं श्रयति स यदि लक्ष्म ।
इतरदितरगतितमपि यदि च तुर्यं
चरणयुगलकमिति कलिका सा
द्विगुरुयुतसमलचरणान्ता मुखचरणगतमनुभवति च तृतीयः ।
अपरमिह लक्ष्म प्रकृतमखिलमपि यदिदमनुभवति लवली सा
प्रथमधिवसति यदि तुर्यं, चरमचरणपदमवसितगुरुयुग्मम् ।
निखिलमपरमुपरिगतमिति ललितपदयुक्ता, तदिदममृतधारा
[उद्गता-प्रकरणम् (6-8)]
सजादिमे सलघुकौ च नसजगुरुकैरथोद्गता ।
त्र्यङ्घ्रिगतभनजला गयुताः सजसा अगौ चरणमेकतः पठेत्
चरणत्रयं व्रजति लक्ष्म यदि सकलमुद्गतागतम् ।
ना भगौ भवति सौरभकं चरणे यदीह भवतस्तृतीयके
नयुगं सकारयुगलं च भवति चरणे तृतीयके ।
तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य खलु पूर्वतुल्यकम्
[उपस्थितप्रचुपित-प्रकरणम् (9-11)]
म्सौ ज्भौ गौ प्रथमाङ्घ्रिरेकतः पृथगन्यत्त्रितयं सनजरगास्ततो ननौ सः ।
त्रिनपरिकलितजयौ प्रचुपितमिदमुदितमुपस्थितपूर्वम्
नौ पादे ऽथ तृतीयके सनौ नसयुक्तौ प्रथमाङ्घ्रिकृतयतिस्तु वर्धमानम् ।
त्रितयमपरमपि पूर्वसदृशमिह भवति प्रततमतिभिरिति गदितं लघु वृत्तम्
प्रथमे च विरतिरार्षभं ब्रुवन्ति ॥
तच्छुद्धविराट् पुरः स्थितं त्रितयमपरमपि यदि पूर्वसमं स्यात्
विषमाक्षरपादं वा पादैरसमं दशध्र्मवत् ।
यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम्
मूल पाठ: Vṛttaratnākara · Edition: Śrī Kedāra Nātha Śarmā: Vṛttaratnākara : with a commentary of Bhaṭṭa Nārāyaṇa Bhaṭṭ and notes etc. by Vaidya Nātha Śāstrī Varakale, edited with the Maṇimayī Hindī Commentary. -- 6th ed. Varanasi : Chaukhambha Sanskrit Sansthan , 1980. (The Kashi Sanskrit Series ; 55) · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0