भाषा

ENहिગુ
ग्रंथ पाठ

वृत्तरत्नाकर · अध्याय 6

6.1

इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां
पञ्चमो ऽध्यायः ॥
षष्ठो ऽध्यायः
[प्रस्तारः]
प्रस्तारो नष्टमुद्दिष्टमेकद्वयादिलगक्रिया ।
सङ्ख्यानमध्वयोगश्च षडेते प्रत्ययाः स्मृताः

6.2

पादे सर्वगुरावाद्याल्लघुं न्यस्य गुरोरधः ।
यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम्

6.3

ऊने दद्याद् गुरूनेव यावत्सर्वलघुर्भवेत् ।
प्रस्तारो ऽयं समाख्यातश्छन्दोविचितिवेदिभिः

6.4

[नष्टम्]
नष्टस्य यो भवेदङ्कस्तस्यार्धे ऽर्धे समे च लः ॥
विषमे चैकमाधाय स्यादर्धे ऽर्धे गुरुभवेत्

6.5

[उद्दिष्टम्]
उद्दिष्टं द्विगुणानाद्यादुपर्यङ्कान्समालिखेत् ।
लघुस्था ये च तत्राङ्कास्तैः सैकैर्मिश्रितैर्भवेत्

6.6

[एकद्वयादिलगक्रिया]
वर्णान्वृत्तभवान्सैकानौत्तराधर्यतः स्थितान् ।
एकादिक्रमतश्चैतानुपर्युपरि निक्षिपेत्

6.7

उपान्त्यतो निवर्तेत त्यजन्नेकैकमूर्ध्वतः ।
उपर्याद्याद् गुरोरेकमेकद्व्यादिलगक्रिया

6.8

[सङ्ख्यानम्]
लगक्रियाङ्कसन्दोहे भवेत्सङ्ख्या विमिश्रिते ।
उद्दिष्टाङ्कसमाहारः सैका वा जनयेदिमाम्

6.9

[अध्वयोगः]
सङ्ख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ॥
वृत्तस्याङ्गुलिका व्याप्तिरधः कुर्यात्तथाङ्गुलिम्

6.10

वंशे ऽभूत्कश्यपस्य प्रकटगुणगणः शैवसिद्धान्तवेत्ता
विप्रः पव्येकनामा विमलतरमतिर्वेदतत्त्वार्थबोधे ।
केदारस्तस्य सूनुः शिवचरणयुगाराधनैकाग्रचित्तश्छन्दस्तेनाभिरामं
वृत्तरत्नाकराख्यम्

मूल पाठ: Vṛttaratnākara · Edition: Śrī Kedāra Nātha Śarmā: Vṛttaratnākara : with a commentary of Bhaṭṭa Nārāyaṇa Bhaṭṭ and notes etc. by Vaidya Nātha Śāstrī Varakale, edited with the Maṇimayī Hindī Commentary. -- 6th ed. Varanasi : Chaukhambha Sanskrit Sansthan , 1980. (The Kashi Sanskrit Series ; 55) · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc