वृत्तरत्नाकर · अध्याय 4
इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां
वृत्तरत्नाकरव्याख्यायां समवृत्ताध्यायस्तृतीयः ॥
चतुर्थो ऽध्यायः
विषमे यदि सौ सलगा दले भौ युजि भाद् गुरुकावुपचित्रम्
भत्रयमोजगतं गुरुणी चेद्युजि च नजौ ज्ययुता द्रुतमध्या
सयुगात्सगुरू विषमे चेद्भाविह वेगवती युजि भाद्गौ
ओजे तपरौ जरौ गुरुश्चेन्मसौ ज्गौग्भद्रविराङ् भवेदनोजे
असमे सजो सगुरुयुक्तौ केतुमती समे भरनगाद्गः
आख्यानकीं तौ जगुरू ग ओजे जतावनोजे जगुरू गुरुश्चेत्
जतौ जगौ गो विषमे समे चेत्तौ ज्गौ ग एषा विपरीतपूर्वा
सयुगात्सलघू विषमे गुरुर्युजि नभौ भरकौ हरिणप्लुता
अयुजि ननरला गुरुः समेन्जमपरवक्त्रमिदं ततो जरौ
अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा
वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः ।
पुष्पताग्राभिधं केचिदौपच्छन्दसिकं तथा
स्याअयुग्मके रजौ रयौ समे चेज्जरौ जरौ गुरुर्यवात्परा मतीयम्
मूल पाठ: Vṛttaratnākara · Edition: Śrī Kedāra Nātha Śarmā: Vṛttaratnākara : with a commentary of Bhaṭṭa Nārāyaṇa Bhaṭṭ and notes etc. by Vaidya Nātha Śāstrī Varakale, edited with the Maṇimayī Hindī Commentary. -- 6th ed. Varanasi : Chaukhambha Sanskrit Sansthan , 1980. (The Kashi Sanskrit Series ; 55) · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0