विष्वक्सेनसंहिता · अध्याय 5
इति श्रीपाञ्चरात्र विष्वक्सेनसंहितायां शिलासंग्रहणविधिर्नाम चतुर्थो ऽध्यायः ॥
पञ्चमो ऽध्यायः
पञ्चमो ऽध्यायः विष्वक्सेनः---
अथातःसंप्रवक्ष्यामि शूलस्थापनमुत्तमम् ।
स्थापयेत् प्रतिमाशूलं रत्नन्यासस्य चो(स्तथो?)परि
खदिरादीनि गृह्णीयात् याज्ञिकानि विशेषतः ।
तल्लक्षणं प्रवक्ष्यामि शृणु पूर्वं शचीपते
पञ्चोत्तरद्विपञ्चाशत् सपादं(अङ्गुलं?)शूलमुच्पते ।
रहितं वृक्षदोषैस्तु मितमङ्गुलिभिः क्रमात्
द्विषट्कद्व्यङ्गुलयुतं मुखं प्रोक्तं प्रमाणतः ।
भागः सपादकं वा स्यादधस्तात् सप्तविंशतिः
नाभेरधोमुखं प्रोक्तमर्धाङ्गुलिसमायुतम् ।
ऊरुदण्डस्य चायामः पञ्चविंशाङ्गुलो भवेत्
भागःसपादं जानुः स्यात् जङ्घा चोरुसमायुता ।
गोलकद्वयमुद्दिष्टमधस्ताद्द्व्यन्तरं तथा
वक्षोदण्डस्य विस्तारः पञ्चविंशाङ्गुलो भवेत् ।
कटिदण्डस्य विस्तारः षोडशाङ्गुल उच्यते
आयामो बाहुदण्डस्य पञ्चविंशाङ्गुलो भवेत् ।
आयामो ऽपरबाह्वोस्तु भवेत् सप्तदशाङ्गुलम्
मणिबन्धः कलायामो बन्धकान् प्रतिमस्करम् ।
आयामो मध्यमाङ्गुल्यां पञ्चाङ्गुल इति स्मृतः
एतत्प्रमाणं शूलं स्यात् उक्तमन्यन्निरीक्ष्यते(तु?) ।
देवीनां तु शचीनाथ शूलानुक्तान् प्रयोजयेत्
शिल्पशास्त्रानुसारेण कारयेच्छूललक्षणम्(मुत्तमम्?) ।
शूलमृत्पटरज्वादिजीर्णं चेत्तु शचीपते
पुनरन्यत् समुत्पाद्य पूर्वोक्तेनैव कारयेत् ।
हीनाधिकं न कर्तव्यं जीर्णदण्डवदाचरेत्
एवमेतन्मया प्रोक्तं, जीर्णोद्धारणकर्मणि ।
युक्त्या युक्तिविशेषेण क्रियते ऽस्मिन्नतन्द्रितैः
शूलाधिवासनादीनि प्रवक्ष्यामि शचीपते ।
शृणुष्वैकाग्रचित्तेन विविक्तेन मयाधुना(?)
प्रासादस्याग्रतः कुर्यात् मण्डपं चतुरश्रकम् ।
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम्
वितानवस्त्रसंछन्नमलंकारैरलंकृतम् ।
पञ्चोत्तरशतं हस्तं विस्तारं तावदेव तु
तन्मध्ये वेदिकां कृत्वा दशतालप्रमाणतः ।
दशहस्तं भवेद्वापि द्वादशं वा शचीपते
तन्मण्डपं(द्वेदिकां?)त्रिधा कृत्वा मध्ये वेदिं तु कारयेत् ।
दशतालविहीनेन (प्रमाणेन) कारयेद्वेदिमुत्तमाम्
तालद्वयोच्छ्रितां वेदिं दर्पणोदरसंनिभाम् ।
वेदिकां क्रमशः कृत्वा सम्यक्कुण्डानि कल्पयेत्
चतुस्तालं त्रितालं वा दूरीभूतानि सर्वशः ।
वेदिकायां तु परितः चतुरश्रादि कल्पयेत्
स्थण्डिले वा प्रकर्तव्यं शूलस्थापनकर्मणि ।
कृत्वैवं मण्डपं सम्यक् प्रपां वास्मिन् समाचरेत्
अङ्कुरार्पणपूर्वं तु स्थापयेच्छूलमुत्तमम् ।
शुलादि देवदेवीत्वाप्यूहं कृत्वा क्रमेण तु
त्रिरात्रमेकरात्रं वा जलवासं प्रकल्पयेत् ।
जलाधिवासनं गुह्यं शृणु शक्र शचीपते
नद्यां वाथ तटाके वा निर्झरे वा शचीपते ।
समुद्रगामिनी नद्यां(?)जलवासं समाचरेत्
तस्मिन्मनोरमे तीरे संस्थाप्य हरिमव्ययम् ।
शूलमध्ये हरिं ध्यात्वा साधकः परमार्थवित्
केवलं लोहबिम्बं वा स्थापयेत् साधकोत्तमः ।
अर्घ्यपाद्यादिनाभ्यर्च्य न्यासकर्म समारभेत्
अष्टाक्षरं महामन्त्रं ज्ञात्वा मन्त्रविचक्षणः ।
न्यासं कृत्वा स्वदेहे तु पश्चाद्देवे न्यसेत् क्रमात्
सृष्टिन्यासं न्यसेत्तस्मिन् संहारं न स्मरेदिह ।
षडक्षरं न्यसेद्धीमान् स्थितिन्यासं न्यसेत् क्रमात्
देवाग्रे तु ततो भूमिं गोमयेनानुलेपयेत् ।
तन्मध्ये शालीनास्तीर्य चाष्टपत्राब्जकं लिखेत्
पञ्चगव्यं न्यसेन्मध्ये कर्णिकायां शचीपते ।
पूर्वे गन्धोदकं न्यस्य दक्षिणे पुष्पतोयकम्
पश्चिमे नालिकेराम्भः चोत्तरे तु कुशोदकम् ।
आग्नेय्यां दधि विन्यस्य नैऋते क्षीरमेव च
वायव्ये मङ्गलोदं तु ऐशाने तु यवोदकम् ।
एवं तु नवकं चाब्जमध्ये संस्थापयेत् क्रमात्
पद्मस्य परितश्चाष्टौ लोकपालान् प्रकल्पयेत् ।
प्रत्येकं कलशस्यान्तः तोयं संस्थापयेत्क्रमात्
नववस्त्रैश्च संछाद्य कलशानां तथोपरि ।
प्रत्येकैकं त्रिभिर्वापि नववस्त्रं शचीपते
पुण्याहं वाचयित्वा तु स्वस्तिसूक्तं तथोच्चरेत् ।
गन्धपुष्पादिनाभ्यर्च्य स्वनाम्ना मन्त्रवित्तमः
स्मरन् नारायणं पश्चात् स्नापयेत् क्रमयोगतः ।
पञ्चगव्यादिकलशान् पूर्ववत् परमेष्ठिना
पुष्पमाल्यैरलंकृत्य चित्रवस्त्रैस्तु वेष्टयेत् ।
गन्धपुष्पादिनाभ्यर्च्य स्मरन् नारायणं प्रभुम्
जलमध्ये प्रपां कृत्वा वितानैरुपशोभिताम् ।
सप्तहस्तसमां वापि पञ्चहस्तसमां तु वा
दर्भसूत्रैस्तु संवेष्ट्य पुनर्माल्यैस्तु वेष्टयेत् ।
चतुर्हस्तं तु देवेन्द्र विस्तारायामतादृशम्(तः समम्?)
दर्भमालासमायुक्तं मुक्तादामैरलंकृतम्(मभिरन्वितम्?) ।
पुष्पमाल्यैरलंकृत्य पताकैरुपशसोभितम्
एवं प्रपामलंकृत्य तन्मध्ये चासनं न्यसेत् ।
चतुष्पादसमायुक्तं काष्ठासनमनुत्तमम्
तन्मध्ये देवमावाह्य क्षीरार्णवमनुस्मरन् ।
शाययेत्तु शचीनाथ मूर्तिमन्त्रेण मन्त्रवित्
प्राक्शीर्षं वा[पिटदेवेन्द्र दक्षिणे वाथ शाययेत् ।
पञ्चोपनिषदं ज्ञात्वा आचार्यस्तन्त्रपारगः
पुरुषेण ततो गन्धपुष्पाद्यैरर्चयेद्धरिम् ।
लोकपालाष्टकलशान् देवस्य परितो न्यसेत्
स्वनाम्ना पूजयेत् सर्वानिन्द्रादिक्रमयोगतः ।
प्रणवादिनमोन्तेन घण्टाशब्दसमन्वितम्
गन्धा(अर्घ्या?)दिदीपपर्यन्तं साधकः परमार्थवित् ।
तां प्रपां परितश्चाष्टदिग्बलिं कारयेत् क्रमात्
अनेन लोकपालांस्तु स्मरंस्तन्त्रविदां वरः ।
गन्धपुष्पादिनाभ्यर्च्य उक्तमन्येन (न्यच्च?)कारयेत्
शचीपते मया प्रोक्तो जलवासविधिः क्रमात् ।
अपरे ऽहनि देवेन्द्र अपराह्णे समाहितः
जलादुत्तीर्य तन्त्रज्ञः शङ्खभेर्यादिभिः सह ।
संपूजयेत्तयो देवमलंकृत्य स्रगादिभिः
मण्डपेशानभागे तु स्थापयेत् स्नानमण्डपे ।
स्नपनं विधिवत् कृत्वा गन्धाद्यैरर्चयेत् क्रमात्
उत्तरे ऽस्मिन् मया प्रोक्तं तन्त्रे तु स्नपनं क्रमात् ।
तत्क्रमं स्नापयित्वा तु कल्पयेच्छयनं क्रमात्
शयनं कल्पयित्वा तु शाययेच्छूलसंचयम् ।
तन्मध्ये देवशूलं तु देवीशूलं तु पार्श्वयोः
वस्त्रैः संछादयेच्छूलान् गन्धपुष्पैः समर्चयेत् ।
सूक्तेन पु(पौ?) रुषेणैव सृष्टिन्यासं ततो न्यसेत्
संहारो नेष्यते तस्मिन् तत्वानि विनियोजये ।
मूलप्रकृतिमहदहङ्काराकाशवायुवह्णिवारिवसुन्धरावाक्पाणिपादपायूपस्थश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणमनःप्राणापानव्यानोदानसमानजीवाः पञ्चविंशतितत्त्वानि ।
एवं तत्त्वानि विन्यस्य तन्नामानि नियोजयेत्
ततस्तु वेदिकायां तु पूर्वादिक्रमयोगतः ।
स्थापयेत् पूर्णकुम्भांस्तु धान्यराशौ समाहितः
वराहादीन् समभ्यर्च्य स्वनाम्नाष्टदले(घटे) षु च ।
नेष्यते वेदिकायां तु ब्रह्मकुम्भाधिवासनम्
न्यासभेदानि सर्वाणि अनुक्तं न स्मरेदिह ।
अर्घ्यपाद्यादिनाभ्यर्च्य स्मरन्नारायणं हरिम्
वासुदेवादिमूर्तीनां पूर्वादिक्रमयोगतः ।
कुण्डे वा स्थण्डिले वापि जुहुयुर्मूर्तिपाः पृथक्
समिदाज्येन चरुणा अष्टोत्तरशतं क्रमात् ।
मधुना पयसा दध्ना हूयतेन (जुहुयाच्च?) घृतेन च
सूक्तेन पौरुषणैव पूर्वादिक्रमयोगतः ।
कुण्डे कुण्डे तु कर्तव्यं (कुर्याच्च?) प्रत्येकं षोडशाहुतीः
पूर्णाहुतिं ततो हुत्वा होममस्मिन् समापयेत् ।
पायसं कृसरं गौऌयं देवेशाय निवेदयेत्
शङ्खदुन्दुभिनिर्घोषं तस्मिन् काले नियोजयेत् ।
रक्षार्थं हविषास्त्रेण चाष्टदिग्बलिमाचरेत्
घण्टाशब्दसमोपेतं शङ्खदुन्दुभि घोषयेत् ।
ततस्तु नववस्त्रैश्च वेष्टयेदुपरि क्रमात्
गन्धपुष्पं विनिक्षिप्य प्रणम्याञ्जलिमुद्रया ।
रात्रिशेषं नयेत् गेयनृत्तवीणादिभिः क्रमात्
प्रभातायां तु शर्वर्यामाचार्यः स्नानमाचरेत् ।
ऊर्ध्वपुण्ड्रं क्रमात् कृत्वा वस्त्रालंकारभूषितः
मूर्तिपैःसह चोत्थाय शूलमूलमनुस्मरन् ।
अर्घ्यपाद्यादिनाभ्यर्च्य हाविरस्मिन्न (स्मैप्र?) दापेयत्
वेश्वमप्रदक्षिणं कुर्वन् गर्भागारं प्रवेशयेत् ।
आचार्यः स्थापयेच्छूलं ततस्तु परमेष्ठिना
देवीशूलं तु संस्थाप्य स्वनाम्नास्मिन् श्रियादिना ।
वेदान् सस्वरमुद्धृत्य काले तस्मिन् समुच्चरेत्
वाराहादीनि चावाह्य शूलाग्रे सेचयेत् क्रमात् ।
आसनं च ततः पुंसा विश्वेन शयनं ततः
निवृत्या यानकं चापि सिञ्चेत्तन्मूर्ध्नि(र्ति?) धारकः ।
मूर्धादिपादपर्यन्तं वाराहादीननुक्रमात्
विन्यसेच्छूल (लं?) देहे तु स्वनाम्ना च पृथक्पृथम् ।
सहैव स्थापयेच्छूलं श्रीपुष्ट्योर्देवपार्श्वयोः
चित्रार्धं शेलदारुभ्यां साङ्गोपाङ्गसमायुतम् ।
कारयेत् प्रतिमां तत्र स्थापयेच्छूलवत् पुरा
वस्त्रं तत्र नवं स्निग्धं नीलरोमादिवर्जितम् ।
संगृह्य प्रणवेनैव छादयेत् प्रतिमोपरि
वर्णं तत्कारयेद्विद्वान् यद्यत् पूर्वानुरूपतः ।
पुनःसंस्थापनं कृत्वा स्थापनाशास्त्रतः क्रमात्
शूलमस्थिमवेत्तस्मिन् रज्जुस्तत्र सिरा भवेत् ।
मृण्मासं त्वक्पटं तत्र शरीरवदिदं स्मृतम्
यथा शरीरे संकल्प्य चतुष्षष्टि सिरास्तथा ।
नारिकेले(ल?)त्वचःसारं गृह्णीयाद्रज्जुकर्मणि
शूले पाशाः प्रकर्तव्याः तत्कर्मकशलैः शुभैः ।
एवं रज्जुमयं कृत्वा सर्वाङ्गेषु सुवेष्टयेत्
संक्षेपात् कथितं रज्जुबन्धनं परमं शुभम् ।
एवं कृत्वा यथान्यायं शूलस्थापनमुत्तमम्
आचार्यं पूजयेत् पश्चात् धनैःकनककुण्डलैः ।
शिल्पिनं पूजयेत् पश्चात् तथैव नववस्त्रकैः
दैवज्ञं पूजयेत् पूर्वं वस्त्रहेमाङ्गुलीयकैः ।
ब्राह्मणान् भोजयेत् पश्चात् वैष्णवान् वेदपारगान्
मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0