भाषा

ENहिગુ
ग्रंथ पाठ

विष्वक्सेनसंहिता · अध्याय 6

6.1

एवं संस्थापनं प्रोक्तं संक्षेपाच्छूलमुत्तमम् (?) ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां शूलस्थापन- विधिर्नाम पञ्चमो ऽध्यायः ॥
षष्ठो ऽध्यायः
षष्ठो ऽध्यायः विष्वक्सेनः---
मृत्संस्कारमथो वक्ष्ये शृणुष्वैक मनाधुना (!) ।
पक्वापक्वे(क्वा?)द्विधा प्रोक्ता भूसुरादीननुक्रमात्

6.2

सर्वलोका न शंसन्ति प्रतिमां दग्धमृण्मयीम् ।
अपक्वा प्रतिमा शस्ता सैव कार्या विचक्षणैः

6.3

सुधया नैव कुर्याद्वा नाश्मचूर्णैः कदाचन ।
मृदैव मृण्मयं कुर्यात् यथावर्णानुरूपतः

6.4

ब्राह्मणस्य सिता मृद्वै क्षत्रियस्यारुणा स्मृता ।
विशां पीता भवेन्मृद्वै कृष्णा शूद्रस्य कीर्तिता

6.5

मृदं वर्णानुपूर्व्येण गृह्णीयात् क्षेत्रसंभवाम् ।
दधिसर्पिःपयोभिश्च अतसीस्नेहसंयुतैः

6.6

शर्करा(रां?)लोहपाषाणैः चूर्णं कृत्वा तु पूर्वशः ।
समभागानि चूर्णानि मृत्तिकायां नियोजयेत्

6.7

खादिरेण कषायेण अर्जुनेन च पेषयेत् ।
श्रीवेष्टकं सज्जरसं कुङ्कुमं कोष्ठमेव च

6.8

कुन्दुरुश्च रसा ह्येते सर्वे सर्वरसान्विताः ।
नदीसङ्गमतीरेषु पुण्योद्यानेषु वै पुनः

6.9

आदाय मृत्तिकां तत्र स्नेहचूर्णसमायुताम् ।
मासं पर्युषितं कृत्वा कारयेत् प्रतिमां ततः

6.10

त्रिरात्रं पेषिता(चोषिता?)सा तु शिलामयसमा भवेत् ।
मृत्संस्कारं मया प्रोक्तं तेनैव प्रतिमां क्रमात्

6.11

कारयेत् सुदृढं सम्यक् शास्त्रदृष्ट्या च शिल्पिना ।
साङ्गोपाङ्गसमायुक्तां प्रतिमां सुमनोरमाम्

6.12

नवाम्बरं तु सुस्निग्धं प्रतिमोपरि वेष्टयेत् ।
तस्योपरि लिखेत् स्निगधं वर्णानुक्रमणेन तु

6.13

अतस्तत्संप्रवक्ष्यामि वर्णानुक्रमण क्रमात् ।
श्वेतं पीतं तथा रक्तं हरितं कृष्णमेव च

6.14

पञ्चवर्णा इमे प्रोक्ताः पृथिव्याद्यधिदेवताः ।
उत्तमा धातुजा प्रोक्ता मध्यमा वृक्षसंभवा

6.15

संयोगजावरा ज्ञेया त्रिविधो वर्णसंग्रहः ।
वर्णं चाप्यनुवर्णं च संकरं च तथैव च

6.16

त्रिविधो वर्णसंयोगः शास्त्रे ऽस्मिन्नुच्यते मया ।
वर्णा इत्युच्यते शुद्धा राजवार्तादिनाकरोत्(?)

6.17

अनाक(का?)रेषु ये वर्णाः प्रायःशुद्धिविवर्जिताः ।
अनुवर्णा इमे प्रोक्ताः संकरान् कथयाम्यहम्

6.18

शुक्लो रक्तश्च कृष्णश्च नीलश्चेति चतुर्विधः ।
शङ्खगोक्षीरवर्णाभः शुक्ल इत्यभिधीयते

6.19

हरितश्चैव पीतश्च पीतवर्णो द्विधा भवेत् ।
मनःशिला हरीतालो हरितः संप्रकीर्तितः

6.20

हरिद्राकुङ्कुमाभस्तु पीत इत्यभिधीयते ।
ततस्तु श्यामवर्णश्च कृष्णवर्णो द्विधा मतः

6.21

दूर्वामरकताभस्तु इन्द्रनीलनिभो ऽपरः ।
शुक्लेन मिश्रितो रक्तो हरिरित्यभिसंज्ञितः

6.22

शुक्लेन मिश्रितः पीतो गौर इत्यभिधीयते ।
रक्तेन मिश्रितमपि कपिलं परिभाशितम्

6.23

शुक्लेन मिश्रितः कृष्णो धूम्र इत्यभिसंज्ञितः ।
पीतेन मिरितः कृष्ण काल इत्यभिसंज्ञितः

6.24

पीतकृष्णयुतःशुक्लो गौर इत्यभिधीयते ।
पीतरक्तयुतःशुक्लः कर्बुरः समुदाहृतः

6.25

पीतकृष्णयुतो वर्णो हरिवर्णः प्रकीर्तितः ।
एवं संकरतो वर्णः तत्कालं स्थीयते दृढम्

6.26

यन्निभा कथिता मूर्तिः तन्निभं वर्णयोजनम् ।
अदृष्टदेशसंभूता मध्यमा कालसंभवा

6.27

एवं वर्णविभागस्तु क्रमशः परिकीर्तितः ।
वासुदेवं संकर्षणं प्रद्युम्नं चनिरुद्धकम्

6.28

कलौ युगे शचीनाथ श्यामवर्णेन कारयेत् ।
तद्बिम्बं शुभदं ऋद्धिं(विद्धि?)राजराष्ट्रविवर्धनम्

6.29

तस्मात्सर्वप्रयत्नेन कलौ श्यामेन कारेयत् ।
अन्यथाशुभमाप्नोति राजराष्ट्रविनाशकृत्

मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc