भाषा

ENहिગુ
ग्रंथ पाठ

विष्वक्सेनसंहिता · अध्याय 4

4.1

तथैव शिल्पिनं पूज्य शिलाग्रहणमारभेत् ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां दारुसंग्रहणविधिर्नाम तृतीयो ऽध्यायः ॥
चतुर्थो ऽध्यायः
चतुर्थो ऽध्यायः विष्वक्सेनः---
अतः परं प्रवक्ष्यामि शिलाग्रहणमुत्तमम् ।
द्विविधा तु शिला ग्राह्या पर्वतेषु धरासु च

4.2

पर्वतान् प्रथमं वक्ष्ये येषु शैलेषु गृह्यते ।
त्रिकूटो हेमकूटश्च कैलासो गिरिसत्तमः

4.3

मन्दरो माल्यवांश्चैव निषधो नीलपर्वतः ।
मेरुः सह्यश्च विन्ध्यश्च किष्किन्धो गिरिसत्तमः

4.4

वेङ्कटो दर्दरश्चैव श्रीगिरिश्चित्रकूटकः ।
एवंभूतान् समन्वीक्ष्य पुरतः प्रणमेत् सदा

4.5

पत्रं पुष्पं समादाय निक्षिपेद्गिरिमूलके ।
नमस्कृत्य हरिं ध्यात्वा पर्वतं पापनाशनम्

4.6

अधिवासनानिसर्वाणि(कर्माणि?)अस्मिन् पूर्ववदाचरेत् ।
भूगता याः शिलाः प्रोक्ताः तासां लक्षणमुच्यते

4.7

वारुणी चैव माहेन्द्री आग्नेयी वायवी तथा ।
चतुर(चतस्र?)स्तु शिलाः प्रोक्ताः तासांलक्षणमुच्यते

4.8

या पुष्पवनसंकीर्णा जलाशयसमायु(वृ?)ता ।
सा क्षितिर्वारुणी ज्ञेया शिला तत्र तु वारुणी

4.9

यस्याश्चोत्तरसंस्थायाः व्रीहिक्षेत्रं तु दक्षिणे ।
पश्चिमे क्षीरवृक्षाश्च सा माहेन्द्री प्रकीर्तिता

4.10

पलाशाः खदिरा वृक्षाः काश्मर्यः पुष्पर्(-यश्चैव?)दक्षिणे ।
तित्तिर्यश्च कपोताश्च गृध्राश्चैव वसाशनाः

4.11

भ्रमराश्च वराहाश्च दृश्यन्ते यत्र सन्ततमद्म् ।
तोयमन्तर्गतां(तं?)स्वल्पां(ल्पं?)तामाग्नेयींप्रचक्षते

4.12

बिल्वश्लेष्मातकाकीर्णा तथा स्नुहिविभीतके ।
सृगाला यत्र दृश्यन्ते तथैव मृगतृष्णिका

4.13

तृणोदकविहीना च शर्करोषरसंयुता ।
वायवी सा क्षितिः प्रोक्ता शिलां तत्र तु वर्जयेत्

4.14

नदीतीरे ह्रदतटे लवणोदपरिप्लुते ।
ग्राममध्ये श्मशाने च तथा चैव चतुष्पथे

4.15

अमेध्यभूमौ वल्मीके ऊषरे शवदूषिते ।
वायुसूर्याग्निदग्धे च न ग्राह्यास्तु शिलाःसदा

4.16

वर्जिताभिः शिलाभिर्यः प्रतिमां लोभमोहितः ।
कुर्याद्वा कारयेद्वापि तस्य स्यादाभिचारिकम्

4.17

प्रमिमार्थं तु निर्गच्छेदाचार्यः शिल्पिभिःसह ।
ब्राह्मणान् भोजयित्वादौ तैः कृत्वा स्वस्तिवाचनम्

4.18

अयः कुठादिसंगृह्य प्राङ्मुखो वाप्युदङ्मुखः ।
निर्गतस्तु शिलां पश्येत् तदा प्रभृति नित्यशः

4.19

प्रतिमाकर्म कुर्वीत तत्कर्मान्तं हविष्यभुक् ।
दारुसंग्रहणाध्याये संप्रोक्तं चाधिवासनम्

4.20

तस्मिन् सर्वं प्रयोक्तव्यं विशेषं कथयामि ते ।
शिल्पिभिश्च भुवं खात्वा शिलां पश्येत् समाहितः

4.21

दक्षिणोत्तरमायामं तथा वै पूर्वपश्चिमम् ।
शान्तिदा दक्षिणग्रीवा पूर्वग्रीवाजयप्रदा

4.22

श्रीकरी पश्चिमग्रीवा कर्तुर्भवति नित्यदा ।
पुष्टिदा चोत्तरग्रीवा कोणं तु परिवर्जयेत्

4.23

उत्पाट्यमाने दृश्यन्ते स्फुलिङ्गा यत्र चाग्निवत् ।
नादाश्च कांस्यघण्टावच्छिलायाश्च शिरो मतम्

4.24

कांस्यवन्मध्यभागे तु मूले वै कांस्यतालवत् ।
ध्वनिर्यस्याः शिलायास्तु सा पुमानिति कीर्तिता

4.25

तस्मात्किञ्चिद्विहीना तु छिद्रायाश्च ध्वनिर्भवेत् ।
सा शिला स्त्रीति विज्ञेया तद्धीना स्यान्नपुंसकम्

4.26

पुल्लिङ्गे प्रतिमा प्रोक्ता स्त्रीलिङ्गे पादपीठिका ।
रत्नन्यासादधस्तात्तु नपुंसकमुदाहृतम्

4.27

तत्र गर्भं परीक्षेत छेदने भेदने ऽपि च ।
मण्डला यत्र दृश्यन्ते तत्र गर्भं विनिर्दिशेत्

4.28

माञ्जिष्ठवर्णसदृशे दर्दुरस्तत्र संभवे ।
पीतके मण्डले गोष्णा (गोधा?)कृष्णे कृष्णाहिरेव च

4.29

कपिले मूषिकः प्रोक्तः कृकलासस्तथारुणे ।
गुलवर्णे तु पाषाणः कर्बुरेगृहगौलिका

4.30

कु(अ?)म्भः कृपाणसदृशे वालुकाः पद्मसंनिभे ।
विचित्रे वृश्चिको ज्ञेयो नीलपीते पतङ्गकः

4.31

मधुवर्णे तु खद्योतः मण्डले निर्दिशेद्बुधः ।
गर्भदर्शनदोषांस्तु पुनर्वक्ष्ये यथातथम्

4.32

दर्दुरे स्यादनारोग्यं गोधायां दुर्गतो(तिः?) भवेत् ।
विषेण म्रियते सर्पे अनपत्यस्तु मूषिके

4.33

कृकलासे य(त?)थाल्पायुः पाषाणे ऽशनिना वधः ।
गौलिकायां धनापायो जले वै गर्भनाशनम्

4.34

सिकातासु जलाभावो वृश्चिके कलहस्तथा ।
शलभे राष्ट्रनाशः स्यात् खद्योते च कुलक्षयः

4.35

तस्माद्यत्नात् परीक्षेत नित्यं गर्भमतन्द्रितः ।
गर्भेण सहितां लोभात् प्रतिमां कुरुते यदि

4.36

तन्मण्डलाधिपो राजा कारकः स्थापकस्तथा ।
उन्मूमिला भवन्त्येते तस्माद्गर्भं विशोधयेत्

4.37

मणिजा लोहजाश्चैव दारुजा वा शचीपते ।
गर्भागर्भमवेक्षेत नित्यं वृद्धिशुभप्रदा

4.38

अस्मिन् तन्त्रोत्तरे भागे प्रमिमालक्षणं क्रमात् ।
नारदस्य(दाय?)मया प्रोक्तं गुह्याद्गुह्यमनुत्तमम्

4.39

तस्मात्पूर्वोत्तरं ज्ञात्वा प्रमिमां कारयेत्क्रमात् ।
एवं शैलविधिः प्रोक्तः सारात्सार अनुत्तमः

मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc