भाषा

ENहिગુ
ग्रंथ पाठ

विष्वक्सेनसंहिता · अध्याय 37

37.1

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [जीर्णोद्धारादिविधिर्नाम] षट्त्रिंशो ऽध्यायः ॥
सप्तत्रिंशो ऽध्यायः
नारदः---
नमस्ते ऽस्तु जगन्नाथ विष्णुपारिषदेश्वर ।
विष्वक्सेन नमस्ते ऽस्तु नमस्ते विश्वकर्मणे

37.2

त्वत्तो ऽधीतं मया तन्त्रं पञ्चरात्रार्णवामृतम् ।
दीक्षाशकुनविस्तारो न त्वया किञ्चिदीरितः

37.3

तत्सर्वं श्रोतुमिच्छामि प्रब्रूहि भगवन् मम ।
इति विज्ञापितो देवो विष्वक्सेनो महात्मना

37.4

प्रत्युवाच महजेजाः प्रणम्य गरुडध्वजम् ।
विष्वक्सेनः---
श्रुणु नारद तत्त्वेन महाविद्यां पुरातनीम्

37.5

मया पृष्टः पुरा प्राह महाविष्णुर्जगन्मयः ।
साधकानां हितार्थाय चतुःषष्टिप्रभेदतः

37.6

शकुनानि जगन्नाथः तान् सर्वान् प्रब्रवीमि ते ।
विघ्नेशः प्रथमः प्रोक्तो गाङ्गेयो मूषिकाध्वजः

37.7

तं पूजयित्वा विधिवत् प्रणम्य प्रार्थयेन् मुने ।
तस्मिन् प्रसन्ने विघ्नेशे सर्वदेवनमस्कृते

37.8

सर्वार्थसिद्धिर्भवति नात्र कार्या विचारणा ।
स एव नायकस्तेषां शकुनानां गणेश्वरः

37.9

तस्मात् सर्वप्रयत्नेन पूजयेद्विघ्ननायकम् ।
पूजाक्रमं प्रवक्ष्यामि संक्षेपेण महामुने

37.10

आवाहयेच्छुचौ देशे सुलिप्ते सुविचित्रिते ।
स्वासने दर्भसंकीर्णे कुसुमैरुपशोभिते

37.11

गायत्र्या चासनं दद्यात् प्रणम्य गणनायकम् ।
अर्घ्यं पाद्यं तथाचामं मधुपर्कं तथैव च

37.12

स्नानं वस्त्रोपवीतं च भूषणं गन्धपुष्पकम् ।
धूपदीपं (-पौ?) निवेद्यादि स्तोत्रं रजमुखं स्मरन्

37.13

कृत्वा पूजां गणेशस्य प्रणम्य प्रार्थयेत् प्रभुम् ।
गायत्र्या चैव तत्सर्वं कुर्यात्तन्त्रविचक्षणः

37.14

एवं पूज्य ततः पश्चात् गन्धपुष्पादिभिः पुनः ।
पुस्तकं पूजजित्वा तु यथावद्विजितेन्द्रियः

37.15

आलिखेत् पुस्तकं सर्वं शकुनानि यथाक्रमम् ।
नारदः--
कथं देव निमित्तानि लिख्यते पुस्तके नरैः

37.16

एतदाचक्ष्व भगवन् संशयो मे महानसौ ।
विष्वक्सेनः---
एवमेव मया पृष्टः प्रोवाच भगवान् यथा

37.17

तथैवात्र प्रवक्ष्यामि शृणुष्व मुनिपुङ्गव ।
विघ्नराज (-जो?) महारातिः महिषः शुकपीतकः

37.18

कबन्धं न नदी चैव बृहज्जाली तथैव च ।
पुरुषश्च मृगश्चैव मार्जारो देवगौस्तथा

37.19

देवागारो रथश्चैव ज्वरः कल्पद्रुमस्तथा ।
व्याघ्रप्रासादरक्षांसित मृगो ग्राहस्तथैव च

37.20

मकरो वृश्चिकश्चैव पुष्कला(-रा?)वर्तकस्तथा ।
मत्स्ययुग्मं च श्येनं च श्रीवृक्षे च सरस्वती

37.21

वानरं च (-रश्च?) महाचक्रं वृकशङ्खकपिञ्जलाः ।
अङ्कुशं लोकमातङ्ग ऋक्षाश्वं राजहंसकम्

37.22

धूमचामरसिंहाश्च पूर्णरिक्तघटौ क्रमात् ।
पद्मिनीकाकचन्द्राश्च ध्वजशूलौ च दर्पणम्

37.23

नग्नो दीपश्च विधवा मङ्गलापितृभूस्तथा ।
कूर्मः कालीमहादुर्गार्(-गे?)सर्पराजजरद्गवौ

37.24

नृपब्रह्महरीशान् वै एते शकुनसूचकाः ।
एकैकस्य भवेच्छाखा एक एव प्रकीर्तितः

37.25

तान् सर्वान् क्रमशो वक्ष्ये यथावत्तान् निबोध मे ।
विघ्नेशमादितस्तत्र ततः श्लोकं प्रवक्ष्यते

37.26

विघ्नेशो दृश्यते यत्र साधकेन्द्रेण धीमता ।
प्रार्थितस्य तु तां सिद्धिं तच्छिष्यायादिशेद्गुरुः

37.27

शत्रुनाशं तथैवाग्रं राजपूजा च दृश्यते ।
धनलाभोर्ऽथलाभश्च अभयं च भविष्यति

37.28

कायक्लेशं तथा रोगं सर्वत्र भयमेव च ।
दृश्यते यत्र महिषं तत्र व्याधिर्भविष्यति

37.29

विद्यासुखं महाज्योतिर्दृश्यते शुकपीतकम् ।
आयुश्च लभते यस्मात् बन्धूनां च सुखं भवेत्

37.30

लम्बाननं (कबन्धं तु ?) यथादृष्टं वियोगं बन्धुभिः सह ।
युज्यते भयमन्युपग्रं पिशायेभ्यस्तथैव च

37.31

दृश्यते यत्र कावेरी विपदं च विनश्यति ।
सुखं भवति सर्वत्र बहुव्रीहिर्भविष्यति

37.32

वृद्धिर्भवति सस्यानां राजा च विजयी भवेत् ।
आयुरारोग्यदं नॄणां रोगनाशो भविष्यति

37.33

दृश्यते तु बृहज्जाली मुखरोगं विनिर्दिशेत् ।
कृष्णकुष्ठशरीरे(?)तु गृहनाशमथापि वा

37.34

पुरुषश्च (-षे च ?) मृगे दृष्टे ब्रह्मवर्चस्तपोयुतः(?) ।
अभिप्रेतार्थसिद्धिं च शुभं चैव विनिर्दिशेत्

37.35

मार्जारा यत्र दृश्यन्ते बन्धुनाशं वियोगिता ।
दधिक्षीरघृतादीनां नाशो भवति नान्यथा

37.36

देवगौर्दृश्यते यत्र शत्रुभ्यो भयमादिशेत् ।
सहवासं च पुत्राणां मातॄणां च विनाशनम् (?)

37.37

देवालये ऽथ दृष्टे वै विद्यावृद्धिस्तथा भवेत् ।
पुत्रलाभोर्ऽथलाभश्च भविष्यति न संशयः

37.38

विमानं दृश्यते यत्र राज्यलाभो नृपस्य तु ।
शुद्रब्राह्मणवैश्यानां लाभः सर्वो भविष्यति

37.39

ज्वरे दृष्टे ज्वरं ब्रूयादङ्गहानिः क्षुधार्तता ।
हृत्ताप अर्थनाशश्च भविष्यति न संशयः

37.40

कल्पद्रुमे ऽथ दृष्टे वै राज्येन सदृशं सुखम् ।
ब्राह्मणस्य श्रियं ब्रूयादीप्सितार्थं भविष्यति

37.41

व्याघ्रे दृष्टे भयं घोरं गवादीनां विनिर्दिशेत् ।
राजतो भयमत्युग्रं पुरुषस्य न संशयः

37.42

प्रासादो दृश्यते यत्र पुत्रपौत्रैः सुखी भवेत् ।
धनधान्यसमृद्धिश्च भवेत्तत्र न संशयः

37.43

निशाचरे च वै दृष्टे घोरं नॄणां भयं भवेत् ।
ब्राह्मणानां गवां चैव वधं ब्रूयुरसंशयः

37.44

कृश्णे मृगे ऽथ दृष्टे वै यज्ञकल्याणमादिशेत् ।
राष्ट्रशान्ति कुटुम्बस्य कीर्तिं वाथ विनिर्दिशेत्

37.45

शिंशुमारे ऽथ दृष्टे वै मरणं च भयावहम् ।
अजगोमहिषादीनां व्याधिं चार्तिं विनिर्दिशेत्

37.46

मकरे दृश्यमाने तु स्त्रीभोगं लभते ध्रुवम् ।
आरोगयमन्नलाभश्च लभते नात्र संशयः

37.47

वृश्चिको दृश्यते यत्र विषेण मरणं भवेत् ।
हृत्तापमात्मपीडा च भार्याकलहमेव च

37.48

पुष्कला(-रा?)वर्तके दृष्टे महद्वृद्धिर्भविष्यति ।
वृद्धिर्भवति सस्यानां सुभिक्षं क्षेत्रमेव च

37.49

कीर्तिं वृद्धिं जयं चैव विन्दते परमं सुखम् ।
बलवृद्धिं सुभिक्षं च मत्स्ययुग्मं विनिर्दिशेत्

37.50

श्येनस्तु दृश्ते यत्र शस्त्रेण मरणं भवेत् ।
पलायनं कुटुम्बस्य शत्रुभिर्भयमादिशेत्

37.51

निधनं लभते सस्तु (यस्तु ?) सदा लाभविनिर्गगतम् ।
पुष्कलं धनधान्यं च वंशवृद्धिर्भविष्यति

37.52

कृकलासो भवेद्यत्र ब्राह्मणैश्च विरुद्ध्यते ।
वर्णस्य संकरं ब्रूयात् त्वग्दोषं च विनिर्दिशेत्

37.53

श्रुतलाभं च वा वृद्धिं कीर्तिलाभं च शाश्वतम् ।
व्यवहारे जयं चैव सरस्वत्यां विनिर्दिशेत्

37.54

कुटुम्बस्य च दौर्बल्यं वर्णसंकरमेव च ।
वानरो दृश्यते यत्र मृगेभ्यो भयमेव च

37.55

चक्रे तु विजयं नित्यं राज्यलाभमवाप्स्यति ।
व्याधिदुर्भिक्षनाशं च शत्रुनाशं विनिर्दिशेत्

37.56

तस्करेभ्यो भयं नित्यं वृके दृष्टे न संशयः ।
क्षुत्पीडां राजपीडां च राष्ट्रस्य च विनिर्दिशेत्

37.57

भयनाशं श्रिनयं चैव पुष्कलार्थं तथैव च ।
स्त्रीलाभं वस्त्रलाभं च पाञ्चजन्ये विनिर्दिशेत्

37.58

पिङ्गला(?) दृश्यते यत्र शत्रुभिर्मरणं भवेत् ।
राष्ट्रस्य कलहं ब्रूयात् विषं भवति नान्यथा

37.59

हस्तिलाभस्तथा राज्ञो अङ्कुशे तु विनिर्दिशेत् ।
समरे विजयं तेषां पुष्कलार्थं विनिर्दिशेत्

37.60

वराहो दृश्यते यत्र सस्यनाशं विनिर्दिशेत् ।
शस्त्रक्षयं पुनः पश्येत् अर्थनाशं भयं तु वा

37.61

पुत्रलाभं श्रियं चैव राज्यलाभं तथैव च ।
स्फुटमैरावते दृष्टे राज्यलाभं तु निर्दिशेत्

37.62

ऋक्षराजे ऽथ वै दृष्टे क्षेत्रनाशो भवेद्ध्रुवम् ।
स्थाननाशो भवेत्तत्र शत्रुवृद्धिं च निर्दिशेत्

37.63

ग्रामे शान्तिर्मनस्तुष्टिर्मङ्गलायतनं भवेत् ।
आयुरारोग्यमैश्वर्यमर्थे(-श्वे?)न तु विनिर्दिशेत्

37.64

राजहंसो (-से?) भवेन्नित्यं राज्यलाभो जयाय तु ।
आयुरैश्वर्यवृद्धिश्च पुष्कलाकीर्तिरेव च

37.65

धूमे बन्धुविनाशश्च विद्युता मरणं भवेत् ।
निषादेभ्यो भयं चैव वैधव्यं च भविष्यति

37.66

चामरे चैव दृष्टे तु ग्रामनाशो भविष्यति ।
अनावृष्टिश्च राज्यस्य अतिवृष्टिरथापि वा

37.67

सिंहे दृष्टे भवेच्चैव अर्थलाभं च निर्दिशेत् ।
सद्वृद्धिं सर्वजन्तूनां पुत्रपौत्रविवर्धनम्

37.68

पुत्रपौत्रविवृद्धिं च पुष्कलां श्रियमाप्नुयात् ।
पूर्णकुम्भे तु वै दृष्टे पुरुषाणां न संशयः

37.69

शत्रूणां वृद्धिसंयुक्तं धनधान्यविनाशनम् ।
रिक्तकुम्भे तु वै दृष्टे भवत्येव न संशयः

37.70

धनलाभं तथावाप्तिः(?) पुत्रलाभस्तथैव च ।
लभते सर्वलाभं च पुष्करिण्याः प्रदर्शने

37.71

चिन्तितार्था विनश्यन्ति आयुरैश्वर्यनाशनम् ।
यस्मिन् काले तु संपश्येत् दुष्टकाकं सुदुर्मनाः

37.72

शत्रुक्षयं धनावाप्तिं समरे विजयं तथा ।
आयुरारोग्यसंप्राप्तिं पूर्णचन्द्रस्य दर्शनात्

37.73

विजयं शत्रुनाशश्च धनधान्यसुखावहम् ।
आयुरारोग्यदं नॄणां उत्तमध्वजदर्शनात्

37.74

शत्रुवृद्धिं धनच्छेदं सरोगं सस्यनाशनम् ।
संपश्यन् शूलराजानं नात्र कार्या विचारणा

37.75

आरोग्श्यं बलमैश्वर्यं कीर्तिं विद्याधनागमम् ।
लभते नास्ति सन्देहो दर्पणस्य च दर्शनात्

37.76

लाभहानिर्यशो हानिरायुर्हानिस्तथैव च ।
सर्वहानिर्भवत्येव नग्नस्यैव च दर्शनात्

37.77

चित्तार्थं लभते तत्र शुभं वाप्यशुभं तु वा ।
शत्रुक्षयं च भवति प्रदीपं यस्तु पश्यति

37.78

अर्थहानिर्मनस्तापः गृहे दुश्चरितं भवेत् ।
विधवादर्शनं यस्य भवत्यत्र न संशयः

37.79

अर्थलाभो मनस्तुष्टिः गृहे संपद्भविष्यति ।
चिन्तितार्थं लभेत्तत्र सुमङ्गल्याः प्रदर्शने

37.80

श्मशानं दृश्यते यत्र ग्रामनाशं धनक्षयम् ।
बन्धुदेववियोगं च सर्वते भयमेव वा

37.81

अभयं सर्वतत्त्वेषु कूर्मरापजप्रदर्शनात् ।
राज्यं श्रियं च संप्राप्य क्षेमारोग्ययुतो भवेत्

37.82

शत्रुवृद्धिर्धनच्छेदः व्याधिर्दुर्भिक्षवर्धनम् ।
चिन्तितं नश्यते(!) तत्र महाकालीप्रदर्शनात्

37.83

विजयं चार्थलाभं च कीर्तिश्रीवर्धनं तथा ।
पुत्रपौत्रविवृद्धिश्च दुर्गे दृष्टे न संशयः

37.84

व्याधिं प्रवासं मरणं विपत्स्यति न संशयः ।
पञ्चास्यपन्नगं पश्येत् पापिभिश्चाभिभूयते

37.85

व्याधिनाशो(?) महद्दुःखं कुटुम्बस्य विनाशनम् ।
आलोकिते महापापे गर्दभे स्यान्न संशयः

37.86

जरद्गवं प्रपश्येता नराः शोकार्णवं पुनः ।
व्रजन्ति व्याधिना पीडा कलहं च गृहे भवेत्

37.87

चक्रवर्तिनमायान्तं अवलोक्य जनाधिपम् ।
श्रियं प्राप्नोति पुत्रांश्च पुष्टिं च लभते नरः

37.88

चतुर्मुखं समालोक्य ब्रह्माणं कमलासनम् ।
सर्वाधिपत्यमाप्ने वंशवृद्धिश्च जायते

37.89

विष्णुमालोक्य देवेशं शङ्खचक्रगदाधरम् ।
सर्वाधिपत्यमास्थाय स्थितिं च लभते नरः

37.90

रुद्रमालोक्य भूतेशं शूलपाणिमुमापतिम् ।
शत्रुसैन्यं महज्जित्वा मोदते सह बन्धुभिः

37.91

एते श्लोका मयोद्दिष्टाः शकुनानां विशेषतः ।
एतांस्तु पुस्तके लिख्य विवेकं सुमनोरमम्

37.92

एकपत्रे तथैकैकं श्लोकं संलिख्य वाग्यतः ।
सूत्रेण सूत्रयित्वा तु पुष्पादिभिरथार्चयेत्

37.93

अनुज्ञाप्य ततो देवं विघ्नेशं गणनायकम् ।
आनीय तु ततः शिष्यान् बद्धनेत्रान् यथाक्रमम्

37.94

तेषां हस्ते तु पुष्पाणि निधाय च समाहितः ।
आदाय पुस्तकं पश्चात् प्रणवेन समाहितः

37.95

शिष्यहस्ते निधायाथ नमस्कृत्वा प्रसाद्य च ।
प्रार्थयेच्च स तेनाथ विघ्नराजाग्निसंभवम्

37.96

नमस्ते ऽस्तु जगन्नाथ लम्बोदर गजानन ।
संशये ऽस्मिन् महाबाहो संत्यं संदर्शयस्व नः

37.97

सत्यं हि भवतामाहुः मनुयस्तत्त्वदर्शिनः ।
इति विज्ञाप्य देवेशं शिष्यं ब्रूयात्ततः परम्

37.98

विस्रंसयित्वा सूत्रं तु पत्रं गृह्णीष्व पुस्तके ।
इत्युक्तस्तु ततः शिष्यः स्रसयित्वा तु सूत्रकम्

37.99

गृह्णीयात् पत्रमेकं तु हस्तप्राप्तं यदृच्छया ।
आचार्यस्तु ततो तेत्रबन्धनं प्रविमुच्य च

37.100

देहि पत्रमिति ब्रुयात् शिष्यं प्रति समाहितः ।
शिष्यस्तु पत्रं दद्याच्च गुरुहस्ते महामुने

37.101

गुरुस्तु वाचयेत् पत्रमसंमूढेन चेतसा ।
तदुक्तं विधिवज्ज्ञात्वा शुभं वा यदि वाशुभम्

37.102

ततः शिष्यं प्रतिब्रूयाद्यथोक्तं सर्वमेव तु ।
प्रतिशिष्यं तथा कृत्वा ज्ञात्वा कर्म शुभाशुभम्

37.103

दीक्षयेच्छिष्यमाचार्यस्तत्परं लक्षणान्वितम् ।
एतत् पुस्तकमादाय सूत्रयित्वा विचक्षणः

37.104

अन्येषामपि भक्तानामनेन विधिना पुनः ।
पूजयित्वा गणेशं तु पुस्तकं च यथाक्रमम्

37.105

शुभाशुभविधिं प्राज्ञः प्रब्रूयाद्देशिकोत्तमः ।
न नास्तिकानां संपश्येत् नाभक्तानां कदाचन

37.106

न निन्दकानां सर्वेषां अनाचारजुषामपि ।
दुर्वृत्तानां च सर्वेषां बाह्यदीक्षाजुषामपि

37.107

असंभाष्येण पश्येच्च न विज्ञाते कदाचन ।
शिष्याणां वनितानां तु भक्तानामपि सर्वदा

37.108

संशयाविष्टचेतानां कृपणानां गुरौ सदा ।
अजिह्मकानां भक्तानां देयमेतद्यथातथम्

37.109

अनुक्तगुणयुक्तानां यदि पश्येत्तु (दद्यात्तु?) देशिकः ।
देवताश्च प्रकुप्यन्ते(!) न तथ्यं च भविष्यति

37.110

इति विज्ञाय सर्वं तु प्रपश्येच्छकुनानि तु ।
शकुनान्ते ततो विघ्ननायकं पूजयेत् क्रमात्

37.111

पुस्तकं पूजयेत् पश्चात् गन्धपुष्पादिभिः पुनः ।
आचार्यं पूजयेत् पश्चात् सर्वस्वं वाधर्मेव वा

37.112

यथावित्तानुसारेण(!) पूजयेद्गुरुपूजनम् ।
उद्वासयेत्ततो देवमाकाशे गणनायकम्

मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc