भाषा

ENहिગુ
ग्रंथ पाठ

विष्वक्सेनसंहिता · अध्याय 38

38.1

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां दीक्षाशकुनविस्तारो नाम सप्तत्रिंशो ऽध्यायः ॥
अष्टत्रिंशो ऽध्यायः
विष्वक्सेनः---
अथातः संप्रवक्ष्यामि जलसंप्रोक्षणं परम् ।
रहस्यं परमं गुह्यं सर्वपापप्रणाशनम्

38.2

तव स्नेहात् प्रवक्ष्यामि त्रिदशेरपि दुर्लभम् ।
सद्य एव तु कर्तव्यं प्रायश्चित्तं तु नारद

38.3

न तिथिर्न च नक्षत्रं कालवेला न विद्यते ।
दुःस्थितं सुस्थितं वापि देवबिम्बं न चालयेत्

38.4

शिलाबिम्बं तथा लौहं बिम्बं वा चैकबेरकम् ।
दैवाद्वा मानुषाद्वापि मोहाद्वा मुनिसत्तम

38.5

चालयेद्यदि तद्बिम्बं प्रायश्चित्तं विशेषतः ।
कारयेन्मुनिशार्दूल सर्वसंपत्सुखावहम्

38.6

प्रासादकरणे काले नवकर्मकृते सति ।
चित्रकर्मकृते वापि चित्रकारादि संस्पृशेत्

38.7

स्पृश्यते वा निकृष्टैस्तु देवश्चण्डालपातकैः ।
पीठे श्वभ्रस्थिते काले चलिते पूर्ववत् कृते

38.8

चन्दनादीनि पुष्पाणि तथा सर्वौषधीनि च ।
कुशपल्लवदूर्वाश्च पूरयित्वा तदूर्ध्वतः

38.9

योजयेत् पञ्चगव्येन प्राङ्मुखः सकुशोदकम् ।
अर्चयित्वार्घ्यगन्धाद्यैः साङ्मूलं समुच्चरन्

38.10

आच्छाद्य नववस्त्रेण दद्याद्भूतबलिं ततः ।
देवतायतनग्रामनगरेष्वपि पल्लिके

38.11

स्थापनास्पदमासाद्य शोधनं पञ्चगव्यकैः ।
तत्र मध्ये खनेत् श्वभ्रं मूलमन्त्रमुदीरयन्

38.12

अङ्गुष्ठोदरमावर्त्य त्रिधा सूत्रेण वेष्टयेत् ।
तेनैव भ्रामयेन्मध्ये स्थाप्य तत्रावटं खनेत्

38.13

हस्तमात्रमधस्ताच्च षडङ्गुलसमन्वितम् ।
संप्रोक्ष्य पञ्चगव्येन तत्र रत्नादिकं न्यसेत्

38.14

शेषं ध्यात्वा तदूर्ध्वे तु अभ्यर्च्यार्घ्यादिभिः क्रमात् ।
वाससाच्छाद्य दिग्बन्धमाचरेदस्त्रमुच्चरन्

38.15

संस्पृश्च गव्यकुम्भाभ्यां ध्यात्वा मूलं जपेद्गुरुः ।
प्रभातायां तु शर्वर्यां कृत्वा स्नानादिकीं क्रियाम्

38.16

कुम्भस्थं नृहरिं पूज्य जपान्तं पूर्ववर्त्मना ।
पुण्याहवाचनं कृत्वा मुहूर्ते शोभने गुरुः

38.17

पद्मपत्राव(वृ?)तु कुम्भं श्वभ्रे तारेण विन्यसेत् ।
परितः सर्वधान्येन पूरयित्वा चशलं (?) यथा

38.18

पञ्चगव्यं समुद्धृत्य घटस्थं कलशं लबन्(?) ।
तेनैव पूरयेत् कुम्भं श्वभ्रस्थं मूलमुच्चरन्

38.19

समभ्यर्च्यार्घ्यपुष्पाद्यैः पूरयेन्मृद्भिराहृतैः ।
शंसूक्तं भद्रसूक्तं च स्वस्तिसूक्तं च पाक्कृते(?)

38.20

एतत् साधारणं प्रोक्तं बहुबेरैकबेरयोः ।
सर्वलक्षणसंपन्नमङ्गयुक्तं द्विजोत्तमम्

38.21

पदवाक्यप्रमाणज्ञं देवयज्ञ व्रतस्थितम् ।
एवं लक्षणसंयुक्तमाचार्यं तन्त्रपारगम्

38.22

ज्ञात्वा तेनैव कर्तव्यं जलसंप्रोक्षणं शुभम् ।
प्रासादाग्रे मुनिरेष्ठ कुर्यान्मण्डपमुत्तमम्

38.23

दक्षिणे ऽप्यथवा कुर्यात् उत्तरे वा महामुने ।
ऐशाने वात्र मतिमान् यथालाभं सुदिक्षु च

38.24

चतुरश्रं सुखं सम्यक् विस्तारायामतादृशम्(-तः समम्?) ।
करषोडशकं वापि हस्तं पञ्चदशं तु वा

38.25

स्तम्भषोडशसंयुक्तं चतुर्द्वारसमन्वितम् ।
इष्टकादारुपाषाणैः कृतां सम्यक्सुवेदिकाम्

38.26

हस्तमात्रसमायुक्तं ध्वजाशामुखतोरणम् ।
दर्भमालापरिवृतं पुष्पमाल्यैरलंकृतम्

38.27

फलपल्लवमालाद्यैर्धूपदीपसमन्वितम् ।
शालिसंचयसंपूर्णं प्रागुदक्प्रवणं शुभम्

38.28

वितानेनोर्ध्वमाच्छाद्य नानावस्त्रैरलंकृतम् ।
छत्रचामरसंयुक्तं मुक्तादामै(!) रलंकृतम्

38.29

ध्वजैर्नानार्विधेश्चित्रैर्दीपमालाविराजितम् ।
वर्षवातैर्न चाक्रान्तं पालिकाभिरलंकृतम्

38.30

एतस्य मण्डपस्याग्रऽप्यत्तरे वा यथाक्रमम् ।
ईशाने वा मुनिश्रेष्ठ कुर्यात् स्नपनमण्डपम्

38.31

हस्तद्वयप्रमाणेन विसतारायामतादृशम् (-तः समम्?) ।
मण्डपस्यैशपूर्वे तु स्नपनार्थं सुवेदिकाम्

38.32

हस्तोच्छ्रयां तदर्धां वा ह्युत्तरे श्वभ्रसंयुताम् ।
धारायुग्वेदिकां कुर्यात् पश्चिमे कलशान् न्यसेत्

38.33

स्नपनं कारयेदेवं एकाशीतिक्रमेण तु ।
एकबेरविधानं चेत् मूलार्चायां प्रयोजयेत्

38.34

कर्मार्चायां तु कर्तव्यं बहुबेरविधौ सति ।
स्नपनं विधिवत् कृत्वा ततः कर्म समारभेत्

38.35

पीतवस्त्रैस्तु शुक्लैर्वा वेष्टयेद्देवपीठकम् ।
ततो ऽस्मिन् मण्डपे द्वारि कलशांस्तोरणध्वजान्

38.36

गन्धपुष्पैः समभ्यर्च्य स्वनाम्नैव पृथक्पृथक् ।
ततो मण्डपवेद्यां च निक्षिपेच्छालिसंचयम्

38.37

शालिमध्ये लिखेत् पद्ममष्टपत्रं सकर्णिकम् ।
सौवर्णं राजतं वापि ताम्रं वा मृण्मयं तु वा

38.38

द्रोणद्वयेन संपूर्णं निम्नोषं (निर्देषं?) कलशं शुभम् ।
वस्त्रपूतजलैः पूर्णं सकूर्चं सापिधानम्

38.39

ससूत्रं वस्त्रयुग्मेन वेष्टितं रत्नसंयुतम् ।
अष्टशक्तिसमायुक्तं सौवर्णायुधपञ्चयुक्

38.40

तत्कुम्भं प्रणवेनैव शालिपद्मे तु विन्यसेत् ।
ततः पद्मदलेष्वष्टकलशान् परितो न्यसेत्

38.41

पूर्ववत्तोयसंपूर्णान् सहिरण्यान् सवस्त्रकान् ।
सापिधानान् सकूर्चांश्च मुखे चाश्वत्थपल्लवान्

38.42

अर्चयेद्गन्धपुष्पैश्च दीपैरन्यैः पवित्रकैः ।
पूजयेन्मूलमन्त्रेण तत्तन्मूर्तिमनुस्मरन्

38.43

विष्णुं चैव महाविष्णुं सदाविष्णुं च मध्यमे ।
वासुदेवानिरुद्धान्तं(?)न्यसेत् पूर्वादिदिक्षु च

38.44

न्यसेच्छ्रियादिशान्त्यन्तमाग्नेयादिविदिक्षु च ।
एवं न्यस्य विधानेन गन्धपुष्पादिभिर्यजेत्

38.45

एतानपि समभ्यर्च्य होमकर्म समारभेत् ।
पूर्वादि चोत्तरान्तं तु कुण्डानि परिकल्पयेत्

38.46

वासुदेवं यजेत् पूर्वं कुण्डे तु चतुरश्रके ।
अर्धचन्द्राग्निकुण्डे तु याम्ये संकर्षणं यजेत्

38.47

वारुण्यां वर्तुले कुण्डे प्रद्युम्नं तु यजेद्बुधः ।
उत्तरे ऽब्जे त्रिकोणे वा अनिरुद्धं यजेत् प्रभुम्

38.48

पालाशं खादिरं वापि बैल्वमौदुम्बरं तथा ।
अष्टोत्तरशतं हुत्वा पृथक्पूर्वादितः क्रमात्

38.49

समिदाज्यचरून् लाजैः जुहुयुर्मूर्तिपाः पृथक् ।
एवं होमं प्रशंसन्ति एकहोमेन चाप्यलम्

38.50

कारयेच्चतुरश्रे तु जुहुयात्तद्विधानतः ।
वैष्णवीकरणार्थाय कुण्डं पूर्ववदाचरेत्

38.51

तत्कुण्डे मुनिशार्दूल आचार्यो होममाचरेत् ।
समिदाज्येन चरुणा जुहुयात्तु पुनः पुनः

38.52

समिधो मूलमन्त्रेण प्रणवेनाज्यमेव च ।
चरुं पुरुषसूक्तेन प्रत्येकं षोडशाहुतीः

38.53

एवं हुत्वा विधानेन पुनराज्येन होमयेत् ।
पौरुषेण च सूक्तेन जुहुयाद्विष्णुभक्तितः

38.54

ततो नारायणं सूक्त सृष्ट्यादिप्रतिपादकम् ।
सम्यग्ज्ञात्वा मुनिश्रेष्ठ काल्यां तु जुहुयात् क्रमात्

38.55

पञ्चोपनिषदैर्मन्त्रैः जुहुयात्तु पुनः पुनः ।
पूर्ववच्छान्तिहोमं तु कारयेच्च विधानतः

38.56

एवं हुत्वा मुनिश्रेष्ठ कौतुकं बन्धयेद्धरिम् ।
पूर्वोक्तेन विधानेन पूजयेद्धविरन्तकम्

38.57

द्वादशाक्षरमन्त्रेण मूर्तिमन्त्रेण चैव हि ।
क्षौमसूत्रेण वा तत्र कार्पासं वा महामुने

38.58

प्रोक्षयेन्मूलमन्त्रेण तत्सूत्रं तु पुनः पुनः ।
रात्रौ महोत्सवं कुर्यात् शङ्खतूर्यादिनिस्वनैः

38.59

कौतुकं समलंकृत्य तण्डुलोपरि नारद ।
पश्चाद्ग्रामं परिभ्रम्य महादीपसमूहयुक्

38.60

बन्धयेत् कौतुकं पश्चात् पूर्वोक्तेन विधानतः ।
रात्रौ होमः प्रकर्तव्यः जलसंप्रोक्षणं दिवा

38.61

न कुर्यात् प्रोक्षणं रात्रौ न दिवा होममाचरेत् ।
तस्मात् सर्वप्रयत्नेन रात्रौ होमं प्रकल्पयेत्

38.62

प्रभाते सुमुहूर्ते तु जलसंप्रोक्षणं क्रमात् ।
प्रोक्षयेत्तु विधानेन बिम्बाद्यावरणान्तिकम्

38.63

आवाहयेत्ततो देवं नारायणमनामयम् ।
शङ्खचक्रधरं देवं पीतवाससमच्युतम्

38.64

सर्वाभरणसंयुक्तं वनमालाविराजितम् ।
राजावर्तमणिप्रख्यं हारकेयूरभूषितम्

38.65

श्रीवत्सवक्षसं चारु मकराकृतिकुण्डलम् ।
कम्बुग्रीवं महाबाहुं किञ्चित्प्रहसिताननम्

38.66

एवं ध्यात्वा महाविष्णुं गरुडोपरि संस्थितम् ।
सह द्वादशभिश्चैव मूर्तिभिर्दशभिस्तथा

38.67

लोकपालैस्तथादित्यै रुद्रैर्वसुभिरेव च ।
ऋषिभिश्चारणैः सिद्धैः किंनरैरप्सरो गणैः

38.68

एवं ध्यात्वा महाविष्णुं नारायणमनामयम् ।
तत्तन्मन्त्रेण संस्थाप्य प्रोक्षयेद्गन्धवारिणा

38.69

शेषोदकेन मतिमान् प्रोक्षयेत् परिवारकम् ।
प्रणवादिस्वमन्त्रैस्तु परिवारानशेषतः

38.70

पूर्वादिकलशान् गृह्य महापीठे ऽभिषेचयेत् ।
ततः पुरुषसूक्तेन पूजयेत् पुरुषोत्तमम्

38.71

हविर्निवेदयेत् पश्चात् पूर्वोक्तेन विधानतः ।
चण्डादिभ्यो बलिं दद्याद्दिक्षु चैव विदिक्षु च

38.72

बलिबिम्बसमायुक्तं बलिभ्रमणमाचरेत् ।
एवं बलिं क्रमात् कुर्यात् शङ्खतूर्यादिसंयुतम्

38.73

प्रदक्षिणं ततः कुर्यात् प्रणिपत्य क्षमापयेत् ।
आचार्यदक्षिणां दत्वा ब्राह्मणान् भोजयेत्ततः

38.74

होतॄंश्चैव सुसंपूज्य आचार्यं पूजयेत् पुनः ।
हारकेयूरसंयुक्तं कटिसूत्राङ्गुलीयकैः

38.75

विविधानि च वस्त्राणि आचार्याय निवेदयेत् ।
दक्षिणां चोत्तमां दद्यात् गां च दत्वा पयस्विनीम्

38.76

अर्धं वापि धनं देयं मूर्तिपानां हितैषिणाम् ।
पादोनं साधकानां च दीक्षितानां तदर्धकम्

38.77

अन्नदानं च सर्वेषां दद्याद्देवसमीपतः ।
पवित्रारोपणेप्येवं दक्षिणां दापयेन्मुने

38.78

इति सम्यक् समाख्यातः जलसंप्रोक्षणक्रमः ।
एतद्विचार्य कर्तव्यं(?)पञ्चरात्रविशारदैः

मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc