भाषा

ENहिગુ
ग्रंथ पाठ

विष्वक्सेनसंहिता · अध्याय 36

36.1

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां महापीठ- प्रतिष्ठाविधिर्नाम पञ्चत्रिंशो ऽध्यायः ॥
षट्त्रिंशो ऽध्यायः
विष्वक्सेनः--
... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ...
पुण्याहं वाचयेत्तत्र ब्राह्मणैः सह मन्त्रवित् ।
पञ्चभारप्रमाणं वा तदर्धं वार्धमेव वा

36.2

तन्न्यूनं न हि कर्तव्यं शालिसंचयमुत्तमम् ।
तत्रोर्ध्वे विकिरेद्विद्वान् तदर्धं तण्डुलं तथा

36.3

तण्डुलोपरि विन्यस्य चाष्टपत्राब्जमुत्तमम् ।
तत्र मध्ये लिखेद्बीजं दले चाष्टाक्षरं न्यसेत्

36.4

मध्यमे नवकुम्भं तु स्थापयेत् साधकोत्तमः ।
सूत्रवस्त्रसमायुक्तं रत्नमाल्येरलंकृतम्

36.5

गन्धोदकेन संपूर्णं वस्त्रग्युग्मेन वेष्टितम् ।
पूर्वादि चाष्टकुम्भस्य वस्त्रमेकैकमेव वा

36.6

दिङ्मूर्त्यादीनि चाष्टानामेकवस्त्रमथापि वा ।
कर्णिकायां न्यसेत् कुम्भं दलेष्वष्टघटान् न्यसेत्

36.7

त्रिसप्तपञ्चदर्भैर्वा कृत्वा कूर्चं विनिक्षिपेत् ।
तस्मिन् पूर्णघटे मध्ये देवागारं तु चिन्तयेत्

36.8

सहस्रशीर्षा पुरुषः सहस्राक्षाः सहस्रपात्(?) ।
सहस्रकुन्तलोपेतं सहुस्रमकुटान्वितम्

36.9

सहस्रादित्यसंकाशं सहस्रेन्दुनिभाननम् ।
सहस्रवाहनैर्युक्तं सर्वदिङ्नासिकान्वितम्

36.10

शङ्खचक्रगदापाणिं सर्वप्रहरणान्वितम् ।
प्रासादरूपमित्याहुः पूर्वरात्रे ऽधिवासयेत्

36.11

तद्ध्यानेनैव देवर्षे सम्यक् स्नानमवाप्नुयात्(?) ।
मोक्षार्थी मोक्षमाप्नोति तस्माद्ध्यानं विशिष्यते

36.12

मण्डपादिषु सर्वेषु ध्यानमेवं प्रकीर्तितम् ।
तस्मिन् मध्ये नयेद्विद्वान् स्मरन् तत् परमेष्ठिना

36.13

पूर्वादि चोत्तरान्ते तु तन्मूर्तिं तु विचिन्तयेत् ।
आग्नेयादिषु कोणेषु वैनतेयादिकान् न्यसेत्

36.14

मृतगस्याधिपतिं सिंहं वैनतेयांशकं न्यसेत् ।
तस्मिन् पूर्णघटे मध्ये पौरुषं सूक्तमभ्यसेत्

36.15

दिग्देवादिषु कुम्भेषु तत्तन्मूर्तिं जपेत् क्रमात् ।
ऋगादीनां तु वेदानां सारमुद्धृत्य नारद

36.16

पूर्वादिसोमपर्यन्तमुच्चरेत् सुस्वरेण तु ।
ततः पूर्णघटादीनि चार्चयेत्तेन मन्त्रतः

36.17

हविर्निवेदयेत् पश्चात् मन्त्रेण परमेष्ठिना ।
मुखवासं ततो दद्यात् रक्षां कृत्वाष्टदिक्क्रामत्

36.18

घण्टाध्वनिसमायुक्तं गन्धपुष्पादिभिः सह ।
हविषा बलिदानं तु कारयेदष्टदिक्षु च

36.19

कुमुदादीनि सर्वाणि गृह्णन्ति बलिमुत्तमम् ।
शङ्क्षदुन्दुभिनिर्घोषं कृत्वास्मिन् मुनिसत्तम

36.20

ततः पुष्पाञ्जलिं कृत्वा साधकः परमार्थवित् ।
नमस्कृत्याखिलान् सर्वान् मङ्गलानुच्चरेत्क्रमात्

36.21

प्रभातायां तु शर्वर्यामाचार्यः स्नानमाचरेत् ।
सूक्तेन पुरुषेणैव मन्त्रं वा परमेष्ठिना

36.22

कुम्भस्थितेन देवेशं पूजयेत् पुरुषोत्तमम् ।
गन्धादि दीपपर्यन्तं तत्तन्मन्त्रेण साधकः

36.23

पूर्वादीशानपर्यन्तमर्चयेदष्टदिग्घटान् ।
महामुम्भादि संगृह्य प्रासादं तु परिभ्रमेत्

36.24

शङ्खभेर्यादिनादैस्तु नृत्तगीतसमन्वितम् ।
स्वस्तिवाचनसंयुक्तं गर्भागारं प्रवेशयेत्

36.25

देवस्याग्रे तु संस्थाप्य तण्डुलोपरि नारद ।
महाकुम्भस्थदेवेशं विधिनाधिपतिं परम्

36.26

तत्पूर्वपार्श्वे संस्थाप्य तण्डुलेषु घटान् क्रमात् ।
अर्घ्यपाद्यादिनाभ्यर्च्य मुखवासावसानकम्

36.27

एवमभ्यर्च्य मतिमान् क्षम्यतामिति चोच्चरन् ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन

36.28

क्षन्तुमर्हसि देवेश परिपूर्णं तदस्तु मे ।
एवं कृत्वा तु मन्त्रज्ञो मङ्गलानि समीरयेत्

36.29

आचार्यः पुष्पमादाय नमस्कृत्य हरिं प्रभुम् ।
कुम्भस्थितेन देवेशे मूलबेरे नियोजयेत्

36.30

तथैवाष्टघटाच्छक्तिं तद्देहे विनिवेशयेत् ।
परमेष्ठ्या न्यसेत् पूर्वं दिङ्मूर्त्यादीन् स्वविद्यया

36.31

मूलबेरस्य मूर्ध्नेव सेचयेत्तांस्त्रिबिन्दुना ।
देवपादे तु हस्ताभ्यां पुष्पं दत्वा पुनः पुनः

36.32

ततः पुरुषसूक्तं तु ब्राह्मणैः सह संजपेत् ।
तस्मिन् काले महाप्राज्ञ आचार्यं पूजयेद्धनैः

36.33

नववस्त्राङ्गुलीयैस्तु कटकादिविभूषणैः ।
कुम्भस्थितेन तोयेन प्रोक्षयेद्गेहमुत्तमम्

36.34

अत्रोपयुक्तं यद्द्रव्यं देवतालंकृतं (-तिः?) विना ।
आचार्याय प्रदातव्यं वस्त्रं व्रीह्यादिभिः सह

36.35

निवेदितं तु तत्सर्वं सात्त्वतेभ्यो निवेदयेत् ।
शिल्पिनं पूजयेत्तत्र दैवज्ञमनुपूजयेत्

36.36

ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ।
क्रियावसाने मतिमान् चित्रकर्म च कारयेत्

36.37

हवनं मण्डपाद्येषु एवमेव समाचरेत् ।
एवमुक्तप्रकारेण कारयेदधिवासनम्

36.38

वासाधिवासनं चैव प्रासादप्रोक्षणे मुने ।
अङ्कुरार्पणकार्ये तु होममत्र न विद्यते

36.39

बालगेहं तु देवर्षे कल्पयेत् पूर्ववत् क्रमात् ।
जगती कुमुदादीनि वर्जयेत्तरुणालये

36.40

बालालयप्रतिष्ठायां स्थण्डिले होममाचरेत् ।
अधिवासादिकर्माणि वासवादीनि(?) कारयेत्

36.41

एवमुक्तप्रकारेण शक्तिमुद्वास्य नारद ।
जीर्णोद्धारं ततः कुर्यात् शिल्पिना कुशलेन तु

36.42

अन्यथा कुरुते मोहात् ग्रामनाशो धनक्षयः ।
स्थाननाशो भवेत्तत्र संभवेन्नात्र संशयः

36.43

तस्मात् सर्वप्रयत्नेन विमानस्थ हरिं परम् ।
उद्वासयेन्महाबेरे क्रमात् पूर्वं यथाविधि

36.44

तस्मात् सर्वप्रयत्नेन शक्त्युद्वासनमारभेत् ।
मार्गेणैकेन संयोज्य प्रासादस्याधिदैवतम्

36.45

विनोदमण्डपं चैव वप्रप्राकारके तथा ।
परिवारालयाद्येषु बहिः प्राकारके तथा

36.46

एवमुक्तप्रकारेण कारयेदधिवासनम् ।
एवं संक्षेपतः प्रोक्तं जीर्णोद्धारमथारभेत्

36.47

अतः परं प्रवक्ष्यामि जीर्णोद्धारविधिं परम् ।
आचार्यं यजमानं च तक्षाचार्यं महामुने

36.48

मृण्मयप्रतिमाजीर्णे शूलमृत्पटरज्जवः ।
पुनस्तु मृण्मयाः कार्या शिलया वापि कारयेत्

36.49

शैलजप्रतिमाजीर्णे लोहजाः शैलजास्तथा ।
रत्नजप्रतिमाजीर्णे सौवर्णं वापि राजतम्

36.50

दारुमृच्छैललोहाद्या रुक्मरत्नादिकाः क्रमात् ।
उत्तमा इति विज्ञेया उत्तरोत्तरमग्रतः

36.51

रुक्मं रत्नं समानं च केचिदाहुर्मनीषिणः ।
शिलालोहं च सदृशं देवर्षे इति केचन

36.52

हाटकं रजतं ताम्रं समानमिति नारद ।
लोहशब्देन संज्ञात्वा कारयेदुत्सवादिकम्

36.53

यजमानस्य वाञ्छा चेत् यथावित्तानुसारतः(!) ।
अस्मिन् मुनिवरश्रेष्ठ त्रपुकं चायसं विना

36.54

आत्मार्थे च परार्थे च प्रतिमाकरणे मुने ।
अधमद्रव्यसंपन्नं परकार्यमनुत्तमम्(?)

36.55

सदृशने तु यत्कार्यं मध्यमं प्रोच्यते बुधैः ।
नोत्तमं त्वधमैः कार्यं कुर्वन् मोहात् प्रणश्यति

36.56

राजराष्ट्रं च सकलं इति शास्त्रस्य निश्चयः ।
द्रव्य एव विसंवादो मानोन्मानप्रमाणकैः

36.57

न न्यूनमतिरिक्तं च यदि चेत्सिद्धिमात्मनः ।
मूलबेरादिबेराणं जीर्णोद्धारविधौ मुने

36.58

आत्मार्थे वा परार्थे वा तुल्यमेतद्द्विजोत्तम ।
आत्मार्थे वंशनाशः स्यात् परार्थे राष्ट्रनाशनम्

36.59

तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ।
विमानं प्रतिमां वापि प्राकारं गोपुरं तथा

36.60

मण्डपं पूर्ववत् कुर्यात् नवकर्मानुलेपने ।
नष्टालयं चेत्तद्भूमौ पुराणोक्तं चार्षं तु वा

36.61

दैविकं मानुषं वापि यथाकामं तु कारयेत् ।
उत्तमालयमत्रैव उत्तमोत्तममेव वा

36.62

अधमोत्तमं वा विप्रेन्द्र जीर्णं चेन्मुनिसत्तम ।
मध्यमेनाधमेनैव कारयेदालयं पुनः

36.63

यजमानस्य वाञ्छा चेन्मध्यमे ऽप्येवमेव तु ।
अधमालयं भवेत्तस्मिन् अधमोत्तममेव वा

36.64

अधमाधममेवाथ जीर्णोद्धारणकर्मणि ।
उपपीठसमायुक्तं द्वितलं त्रितलं तु वा

36.65

यथावित्तानुसारेण(!) कुर्यादेकतलं तु वा ।
उत्तमादिक्रमं ज्ञात्वा यथाकामं तु वर्धयेत्

36.66

वर्धनाच्छ्रियमाप्नोति राज्ञो राष्ट्रस्य नारद ।
तथैव नगरादीनामालयस्य विशेषतः

36.67

भवनं गोपुराकारं शालकूटादिकं मुने ।
जीर्णं चेदिह लोके तु कारयेद्वा प्रपाकृतिम्

36.68

नगरादीनि संज्ञात्वा ग्रामराजानुकूलतः ।
यथावित्तानुसारेण(!) कुर्याद्वेश्म यथापरुचि

36.69

ग्रामानुकूलतो वापि धाम कुर्यादनुत्तमम ।
प्रतिमां पुनरत्रैव कुर्यात् प्रासादमात्रतः

36.70

द्वारमानेन वा चास्मिन् गर्भमानेन वा मुने ।
उत्तमाधममध्येन नष्टोद्धारणकर्मणि

36.71

तद्गेहात् पश्चिमे याम्ये निर्गमाकृति नेष्यते ।
पूर्ववत् कारयेज्जीर्णस्योद्धारे मुनिसत्तम

36.72

संमोहात् पश्चिये याम्ये निर्गमं कारयेद्यदि ।
ग्रामस्य कलहं कुर्यात् धर्ममार्गर्ं(-गो?)विनश्यति

36.73

तद्राष्ट्रं यजमानश्च नश्यत्येव न संशयः ।
तस्मात् सर्वप्रयत्नेने न कुर्यान्निर्गमाकृतिम्

36.74

पूर्वद्वारस्य गेहस्य मण्डपादि यथाक्रमम् ।
यजमानस्य वाञ्छा चेद्यथाकामं तु वर्धयेत्

36.75

सर्वशः प्रतिदिक्ष्वादि पश्चिमं नेष्यते मुने ।
पूर्वद्वारस्य गेहस्य मण्डपादि यथाक्रमम्

36.76

जीर्णोद्धारे मुनिश्रेष्ठ सर्वं पूर्ववदाचरेत् ।
तस्मात् सर्वप्रयत्नेन यथाकामं तु वर्धयेत्

36.77

वर्धनाच्छ्रियमाप्नोति तद्गेहस्य दिने दिने ।
प्राकारादिषु भूषाणां भेदो वा दोषकारणम्

36.78

न भवेदिति भाषन्ते मुनयो नारदादयः ।
गोपुरे ऽधिकभावं च प्राकारे ऽपि विशेषतः

36.79

एवं परीक्ष्य मतिमान् नवकर्मानुलेपने ।
नष्टोद्धारे च वै चास्मिन् जीर्णोद्धारादिषु क्रमात्

36.80

कारयेत् साधकः पश्चात् शिल्पाचार्यसमन्वितः ।
मूलबेरे मुनिश्रेष्ठ भिन्नं छेद्यं भवेद्यदि

36.81

स्फुटितं चेत्तु तद्बेरं त्यक्त्वा पश्चान्महामुने ।
शक्तिमुद्वासयेद्बेरात् क्षिप्रं शान्तिं समाचरेत्

36.82

तस्याग्रे विधिवत् कुम्भे संस्थाप्य हरिमव्ययम् ।
तत्कुम्भमध्ये मूलेन मूलबेरान्नयेद्धरिम्

36.83

शान्तिहोमं ततः कृत्वा चक्रमन्त्रेण मन्त्रवित् ।
सुदर्शनमहामन्त्रं सर्वशन्तिकरं भवेत्

36.84

आवाहनविसर्गं तु कुम्भात् पूर्ववदाचरेत् ।
बालस्थानं क्रमात् कल्प्य स्थापयेद्विधिचोदितम्

36.85

जलाधिवासनं तस्य नेष्यते मुनिसत्तम ।
सद्यो ऽधिवासनेनैव स्थापयेद्धरिमव्ययम्

36.86

जीर्णोद्धारे मुनिश्रेष्ठ कालवेलादि नेष्यते ।
निरीक्ष्य बहुधा दोषान् पूजाकाले दिने दिने

36.87

पश्चात् संपूजयेद्देवं दोषहीनं भवेद्यदि ।
एवं दोषसमायुक्तं मोहाल्लोभाद्यजेद्धरिम्

36.88

तत्पूजा निष्फला याति कर्ता भर्ता च नश्यति ।
तद्ग्रामं निधनं याति रोगवृद्धिर्भविष्यति

36.89

तस्मात् सर्वप्रयत्नेन जीर्णोद्धारणमाचरेत् ।
ध्वजे वारोहिते पश्चात् वैगुण्यं यदि दृश्यते

36.90

उत्सवं च मुनिश्रेष्ठ शान्तिहोमसमन्वितम् ।
बालस्थाने समासाद्य उत्सवं तत्र कारयेत्

36.91

अन्यथा चेन्महादोषो राज्ञश्चैव विनाशकृत् ।
तस्मात् सर्वप्रयत्नेन शेषकर्म समाचरेत्

36.92

नित्योत्सवादि कर्माणि बालस्थाने ऽपि नारद ।
पूर्ववत् कारयेद्धीमान् इति शास्त्रस्य निश्चयः

36.93

मन्त्रज्ञो वंशसंपन्नो कुलीनः शास्त्रपारगः ।
तन्त्रज्ञो वेदपाठी च स्थापनादिक्रियापरः

36.94

सर्वावयवसंपूर्णः सर्वरोगविवर्जितः ।
सुशान्तः कुशलो दान्तो यदृच्छालाभतोषकः

36.95

अमत्सरी जितक्रोधः धूद्रसंकरवर्जितः ।
वर्ज्यावर्ज्यः कृतज्ञश्च पूर्वकारी च भक्तिमान्

36.96

तद्वंश्यो वापि शिष्यो वा प्रशिष्यस्तन्त्रपारगः ।
तन्त्रवान् दीक्षितो वापि गुणवान् गुणवित्तमः

36.97

राजयक्ष्मा(?)च कुष्ठी च गुल्मी च शिबि(पि?) विष्टकः ।
खल्वाटः चातिवृद्धश्च बालो वृषणरोगवान्

36.98

ह्रस्वाकारो ऽतिदीर्घश्च कृशचिबुक एव च ।
बधिरो विकलाङ्गश्च विप्रो रदनदोषयुक्

36.99

वर्जयेद्देवकार्येषु कुनखी च विशेषतः ।
स्थापकाचार्ययोश्चैव लक्षणं विद्धि नारद

36.100

संग्रहेल्लक्षणोपेतमाचार्यं स्थापकं तथा ।
एवं परीक्ष्य मतिमान् प्रतिष्ठाराधनादिषु

36.101

जीर्णोद्धारे विशेषेण लक्षयेल्लक्षणान् क्रामत् ।
सुमुहूर्ते सुलग्ने च स्थापकस्तक्षकान्वितः

36.102

तन्त्रेणैकेन कर्तव्यं कर्षणादिषु नारद ।
यत्तन्त्रेण समारब्धं तत्तन्त्रेण समाचरेत्

36.103

अनुक्तं चान्यतन्त्रेषु निरीक्ष्यात्र प्रयोजयेत् ।
विशेषांश्च मुनिश्रेष्ठ चान्यथा राष्ट्रनाशकृत्

36.104

चातुर्वर्ण्यसमोपेतः(?)सदाचारपरायणः ।
सद्वंश्यः सर्वशास्त्रज्ञो लोकज्ञः सर्वधर्मवित्

36.105

भक्तिमान् धनवान् वाग्मी सर्वसंकल्पवृद्धियुक् ।
सुशीलश्च सुरूपश्च श्रद्धालुः शुद्धमानसः

36.106

आचार्यः तक्षकश्चैव वंशगः सुमुखोत्तमः ।
शास्त्रप्रामाण्यकश्चैव दीनः सुबहुभृत्यवान्

36.107

यथोक्तकारी मतिमान् कुशलः सर्वकर्मसु ।
पूर्वकारी च तद्वंश्यः तच्छिष्यो वा प्रशिष्यकः

36.108

तज्जातीयो ऽन्यजातीयः पूर्वापूर्वगुणाधिकः ।
पूर्वापलोभे तु गृह्णीयात् उत्तरं नान्यथा मुने

36.109

मोहेन यदि गृह्णीयात् तस्य स्यात् कर्तृसंकरः ।
कर्तृसंकरदोषेण राजराष्ट्रस्य रोगकृत्

36.110

तस्मात् सर्वप्रयत्नेन शास्त्रदृष्ट्या समाचरेत् ।
तक्षकं तक्षसूत्रज्ञं कुशलं सर्वकर्मसु

36.111

लघुहस्तं सुरूपं च सुशान्तं दैविकं तथा ।
वंशानुवंशसम्पन्नं कुशलं सत्परायणम्

36.112

वैष्णवं सूत्रकालज्ञं क्रियाज्ञं पूर्वकारिणम् ।
दयालुं शान्तमनसं सतीर्थं(?)सत्समादृतम्

36.113

तदलाभे तु तद्वंश्यान् तच्छिश्यान् वा प्रशिष्यकान् ।
संनिमन्त्रितमेवं तत्(?)न कुर्याज्जातिसंकरम्

36.114

अन्यजातिसमालब्धमादिकाले महामुने ।
अन्यजात्या कृतं मोहाद्राजराष्ट्रविनाशकृत्

36.115

एवं लक्षणमालभ्य कर्तुरिच्छापुरःसरम् ।
यो मोहादन्यमार्गेण कारयेन्मुनिसत्तम

36.116

आचार्यस्य च कर्तुश्च तक्ष्णश्चाप्यशुभं भवेत् ।
इति सुबहु निरीक्ष्य बुद्धिदृष्ट्या सततमनन्यमतिः स कर्तृमत्या

36.117

स्थपतिमति च(?)कारयीत जीर्णोद्धरणमसौ जगतां गुरुर्गुरुर्यः ।
विष्वक्सेनः---
अतः परं प्रवष्यामि प्रासादस्य विशेषतः

36.118

रथादिशिबिकादीनां प्रोक्षणं परमं शुभम् ।
सर्वशान्तिकरं पुंसां सर्वतीर्थफलाप्रदम्

36.119

पूर्वोक्तमण्डपे शुद्धे सर्वमङ्गलसंयुते ।
तन्मध्ये हस्तकां वेदिं वृत्तां वा चुतरश्रकाम्

36.120

कारयेच्छास्त्रदृष्टेन तन्नाम अधुनोच्यते ।
वृत्तं सुशोभनं नाम चतुरश्रं सुमङ्गलम्

36.121

राजराष्ट्रविवृद्ध्यर्थं वृत्तकारं भवेत् सदा ।
ग्रामायतनवृद्ध्यर्थं चतुरश्रं तु नारद

36.122

वृत्तं वाकृति विज्ञेयः(?) चतुरश्रं तु वाधिः ।
आमेष्टकाभिः पक्वाभिः कुर्याद्वेदिमनुत्तमाम्

36.123

हस्तोच्छ्रायां तदर्धं वा दर्पणोदरसंनिभाम् ।
पूर्ववद्वेदिमालिप्य प्रोक्षयेत् पूर्ववत् क्रमात्

36.124

पुण्याहं वाचयेत्तत्र ब्राह्मणानामनुज्ञया ।
पूर्ववत् स्थण्डिलं कृत्वा शालिना मुनिसत्तम

36.125

तदर्धं तण्डुलं कृत्वा शालिभिर्वान्यमेव वा ।
वेदिकायां तदूर्ध्वे तु पीठं कृत्वा लिखेत् पुनः

36.126

वेदिकायां तु परितः शालिभिर्वेदिमाचरेत् ।
शालिमध्ये मुनिश्रेष्ठ चाष्टदिग्दलमालिखेत्

36.127

छन्दोमूलादिवचनं लिखेत्तद्दलमध्यमे ।
सूत्रवस्त्रपरिच्छन्नं सर्वलक्षणसंयुतम्

36.128

चन्द्रमण्डलमध्ये तु स्थापयेत्तेन मन्त्रतः ।
तत्कुम्भजलमध्ये तु सितपुष्पं विनिक्षिपेत्

36.129

पुष्पमाल्यैरलंकृत्य वस्त्रयुग्मैरलंकृतम् ।
नवरत्नसमायुक्तं नवकूर्चयुतं तथा

36.130

तस्मिन्नावाहयेन्मध्ये प्रासादस्याधिदैवतम् ।
मध्ये कुम्भं च परितः स्थापयेदष्टदिग्दले

36.131

तत्तन्मन्त्रेण मतिमान् अष्टकुम्भाननुक्रमात् ।
नववस्त्रेण संछाद्य सूत्रपुष्पजलान्वितम्

36.132

कूर्चद्वयसमोपेतं पुष्पमाल्यैरलंकृतम् ।
पूर्वादीशानपर्यन्तं कुम्भे पूर्ववदानयेत्

36.133

आचार्यः समलंकृत्य हेमवस्त्राङ्गुलीयकैः ।
कुम्भस्य दक्षिणे पार्श्वे उत्तराभिमुखः स्थितः

36.134

पुण्पाञ्जलिपुटं कृत्वा इमं मन्त्रं जपेद्बुधः ।
सहस्रशीर्षादीनि (-दि?) सूक्तं तु पुरुषेण तु

36.135

मुलबेरान्नयेत् कुम्भे देवं प्रासादरूपिणम् ।
अथवा मुनिशार्दूल चानयेत् परमेष्ठिना

36.136

दिग्दलाष्टघटे विद्वान् तत्तन्मन्त्रेण चानयेत् ।
पूर्ववद्बलिदानं तु कारेयन्मन्त्रवित्तमः

36.137

तथैव प्रोक्षयेद्विद्वान् सूक्तेन पुरुषेण तु ।
गर्भगेहं तथा प्रोक्ष्य बहिरन्तः समन्ततः

36.138

कुम्भस्थितेन देवेशं विमानादिषु योजयेत् ।
अर्घ्यपाद्यादिनाभ्यर्च्य हविस्तत्र न विद्यते

36.139

बलिं तु कारयेत्तत्र चाष्टदिक्षु समन्ततः ।
तस्मिन् काले महाप्राज्ञो आचार्य पूजयेत् क्रमात्

36.140

हेमवस्त्राङ्गुलीयैस्तु पूजयेद्देववत्तदा ।
शिल्पिनं पूजयेत्तत्र नववस्त्राङ्गुलीयकैः

36.141

ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ।
एवमेव तु कर्तव्यं त्रिरधा (?) शिबिकानि च

36.142

रथादिवाहनानां तु खगेशाच्छक्तिमानयेत् ।
तेन मन्त्रेण मन्त्रज्ञो प्रोक्षयेत् पूर्ववत् क्रमात्

36.143

चण्डालपतितोदक्यानिषाद्यै(-दै?)स्तक्षकादिकैः ।
लोभाद्वा यदि वा मोहात् स्पर्शनं चेन्मुनीश्वर

36.144

प्रासादप्रोक्षणेनैव प्रासादं शुद्ध्यते ऽत्र वै ।
अथवा मुनिशार्दूल पञ्चगव्यं समानयेत्

36.145

देवाग्रे हस्तमात्रं तु समालिप्य समाहितः ।
द्रोणशालिं तु विस्तीर्य तदर्धं तण्डुलं तथा

36.146

तत्र मध्ये लिखेत् पद्मं पूर्वोक्तेन विधानतः ।
पञ्चगव्यं तु संस्थाप्य तेन बीजेन साधकः

36.147

पुण्याहं वाचयेत्तत्र गन्धपुष्पादिनार्चयेत् ।
हविर्निवेदयेत् पश्चात् स्मरन् देवस्य रूपिणम्

36.148

प्रोक्षयेद्गव्यकैर्मन्त्रैः पञ्चोपनिषदैः क्रमात् ।
ततः सप्तदशा भिन्नान् कलशान् बलिबेरगे

36.149

स्नपनं कारयेत्तस्मिन् शुद्ध्यते नात्र संशयः ।
चण्डालाद्यैश्च संस्पृष्टं(-ष्टे?) प्रायश्चित्तमिदं स्मृतम्

36.150

प्रासादप्रोक्षणं पश्चात् कारयेद्विधिचोदितम् ।
आचार्यं पूजयेत्तत्र यथावित्तानुसारतः(!)

36.151

दिङ्मूर्तीनां तु सर्वेषां न शुद्धिरिह नारद ।
अत्र कश्चिद्विशेषो ऽस्ति दिङ्मूर्तिस्थापनाविधौ

36.152

अर्धचित्रप्रतिष्ठायां यत्प्रोक्तं संहितान्तरे ।
तथैव कारयेत्तस्मिन् दिङ्मूर्तीनां तु नारद

36.153

आयुरारोग्यपुत्रादीन् लभते नात्र संशयः ।
उत्सवान्ते प्रलेपान्ते दुर्जनस्पर्शने तथा

36.154

दुर्निमित्ता(-त्तो?)दये चैव कार्यं संप्रोक्षणाविधिः ।
दिङ्मूर्तीनां तु सर्वेषां उत्सवान्ते न कारयेत्

36.155

अर्धचित्रप्रतिष्ठास्मिन् शेषं साधारणं भवेत् ।
दुर्जनस्पर्शनं चेत्तु प्रासादं मुनिसत्तम

36.156

चण्डालाद्यैश्च संस्पृष्टं(-ष्टे?) प्रायश्चित्तं समाचरेत् ।
तेनैव शुद्ध्यते तस्मिन् नात्र कार्या विचारणा

36.157

दिङ्मूर्तीनां तु सर्वेषामस्मिंस्तेनैव तुष्यति ।
गेहस्यालेपनान्ते च दुर्जनस्पर्शने ऽपि च

36.158

दिङ्मूर्तीनां तु सर्वेषां विशेषं न तु कारयेत् ।
तथैव दुर्निमित्तेषु शेषं पूर्ववदाचरेत्

36.159

प्रासादप्रोक्षणेनैव शुद्ध्यते नात्र संशयः ।
नास्तिक्येनैव यो मोहात् अन्यथाकुरुते मुने

36.160

तत् स्थानं नाशकृद्वापि तद्ग्रामस्य तथैव च ।
तस्मात्तु विधिवत् सम्यक् कारयेत्तन्त्रवित्तमः

मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc