भाषा

ENहिગુ
ग्रंथ पाठ

विष्वक्सेनसंहिता · अध्याय 35

35.1

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां (प्रासादलक्षणादिविधिर्-नाम) चतुस्त्रिंशो ऽध्यायः
पञ्चत्रिंशो ऽध्याय:
विष्वक्सेनः---
अथातः संप्रवक्ष्यामि परिवारस्य लक्षणम् ।
शृणु देवमुनिश्रेष्ठ महापीठावसानकम्

35.2

तालद्वयं तदर्धं वा प्रासादात् परिवारकम् ।
विसृज्य कल्पयेद्धीमान् द्वित्रिहसतमथापि वा

35.3

चतुर्हस्तं पञ्चहस्तं व्यपोह्यन्ते महामुने ।
कल्पयेत् परिवाराणां हस्तमात्रं समन्ततः

35.4

शिलाभिरिष्टकाभिर्वा आचार्याङ्गुलिना मुने ।
चतुरङ्गुलमुत्सेधं मध्ये पद्मं सकर्णिकम्

35.5

कारयेत् परितः पीठं मेखलाद्वयसंयुतम् ।
तालमात्रेण वा कुर्यात् बलिपीठं समन्ततः

35.6

तथैव परिवाराणां प्राकारान्मानमत्र तु ।
एवं कल्प्य ततो पीठं परिवारस्य तु सर्वशः

35.7

मण्डपाद्वा महापीठं प्राकाराद्वा महामुने ।
हस्तं षोडशमुत्सृज्य आचार्याङ्गुलिनाग्रतः

35.8

अष्टहस्तं तदर्धं वा विसृज्यान्ते महामुने ।
कारयेद्वा महापीठं पूर्वापूर्वा गरीयसी

35.9

तल्लक्षणं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शुभम् ।
विविक्तने परं गुह्यं शृणु नारद तत्त्वतः

35.10

त्रिचतुःपञ्चहस्तं वा विस्तारायामतादृशम् (-तः समम्?) ।
पादुकाद्यब्जपर्यन्तमुत्तमादिक्रमेण तु

35.11

कारयेच्छास्त्रदृष्टेन शिल्पिना कुशलेन तु ।
उत्तमे ऽप्युत्तमं कुर्यात् मध्यमे मध्यमं कुरु

35.12

अधमे ऽप्यधमं कुर्यात् विभवस्यानु रूपतः ।
षट्सप्तहस्तायतं वापि(?)तत्समं विस्तृतं भवेत्

35.13

एवं ज्ञात्वा महापीठं कल्पयेत् सुमनोरमम् ।
युक्त्या युक्तिविशेषेण कारयेद्बलिपीठकम्

35.14

एकविंशतिभागेन तत्क्रमं शृणु सुव्रत ।
अड्गेन पादुकं (का?) चैव पञ्चकैर्जगती तथा

35.15

त्रियंशं कुमुदं चैव एकांशेन तु पट्टिका ।
गलं चैव चतुर्भागं भागं चैवोर्ध्वपट्टिका

35.16

त्रियंशेर्वलभी छन्दः त्रियंशं कर्णिकोच्छ्रयम् (-यः?) ।
एवं कृत्वा महापीठं शित्र्पिना कुशलेन तु

35.17

शिल्पकार्यावसाने तु प्रोक्षयेत्तन्त्रवित्तमः ।
अथातः संप्रवक्ष्यामि प्रोक्षणं बलिपीठके

35.18

अयने चोत्तरे कुर्यात् पूर्वपक्षे शुभे ऽहनि ।
कल्याणवारे सुतिथौ पूर्वेद्युः कारयेद्बुधः

35.19

तक्षक्रियां समाप्याथ प्रोक्षयेत्तन्त्रवित्तमः ।
पुण्याहं कारयेत्तत्र प्रोक्षयेत् पञ्चमन्त्रकैः

35.20

देवाग्रपीठयोर्मध्ये मण्डपं कारयेत् सुधीः ।
मण्डपस्य विधानेन तोरणानि तु पूर्ववत्

35.21

कृत्वा तु पूर्ववत् सम्यक् वेदिं कुर्यात्तु मध्यतः ।
चतुर्हस्तं द्विहस्तं वा एकहस्तोच्छ्रयं मने

35.22

सुस्निग्धं (-ग्धां?) कारयेत्तत्र दर्पणोदरसंनिभ (-भा?)म् ।
गोमयेनोपलिप्याथ प्रोक्षयेद्गन्धवारिणा

35.23

तद्वेदिपीठयोर्मध्ये वृत्तं वा चतुरश्रकम् ।
कारयेत्तत्र कुण्डं तु मध्यमे होममाचरेत्

35.24

शालिद्रोणद्वये वेद्यां सकूर्चं सापिधानकम् ।
सहिरण्यं सवस्त्रं च सरित्सलिलपूरितम्

35.25

ससूत्रं कालरहितं द्रोणपूर्णं सुशोभनम् ।
मध्यमे तु न्यसेद्धीमान् विष्णुपारिषदान् बहून्

35.26

ऐन्द्रादीशानपर्यन्तं कलशान् स्थापयेत् पृथक् ।
कुमुदं कुमुदाक्षं च पुण्डरीकं च वामनम्

35.27

शङ्कुकर्णं सर्पनेत्रं सुमुखं सुप्रतिष्ठितम् ।
गन्धादिभिः समभ्यर्च्य होमं कुर्यादनन्द्रितः

35.28

समिदाज्यचरून् दध्ना मधुना पयसापि च ।
यवान् सिद्धार्थसलिलान् प्रत्यकं शतमाहुतीः

35.29

मन्त्रेणाष्टाक्षरेणैव द्वादशाक्षरमेव वा ।
नृत्तगीतसमातोद्यै रात्रिशेषं नयेद्बुधः

35.30

सुमुहूर्ते तु संप्राप्ते ब्राह्मणानामुनज्ञया ।
स्वस्तिसूक्ति(-क्त?)युतो गत्वा विमानं तु प्रदक्षिणम्

35.31

स्वस्वस्थाने तु संप्रोक्ष्य तत्तत्स्थानान् स्मरन् बुधः ।
कुम्भोदकादशेषं तु महापीठे ऽभिषेचयेत्

35.32

विष्णुपारिषदान् सर्वान् संस्मरेत् साधकोत्तमः ।
पायसं कृसरं गौल्यं हरिद्रान्नं चतुर्विधम्

35.33

साज्यं दधिपयोयुक्तं नारिकेलपयांसि च ।
निवेदयेन्महापीठे चादिमूर्तिमनुस्मरन्

35.34

निवेद्य शेषं संगृह्य चण्डादिभ्यो बलिं क्षिपेत् ।
शङ्खभेर्यादिसंयुक्तं गेयनृत्तसमन्वितम्

35.35

वेदाध्ययनसंयुक्तं बलिकर्म समापयेत् ।
बल्यन्ते परमात्मानं स्नापयेदधमोत्तमम्

35.36

महाहविर्निवेद्याथ पुण्याहं पुनराचरेत् ।
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान्

35.37

आचार्यं पूजयेत् पश्चात् हेमरत्नाङ्गुलीयकैः ।
इदं धन्यं यशस्यं च सर्वशान्तिकरं भवेत्

मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc