विष्वक्सेनसंहिता · अध्याय 32
इति श्रीपञ्चरात्रे विष्वक्सेनसंहितायां [मण्डलादिविधिर्नाम] एकत्रिंशो ऽध्यायः ॥
द्वात्रिंशो ऽध्यायः
विष्वक्सेनः---
अथातः संप्रवक्ष्यामि हेतिराजस्य लक्षणम् ।
शृणु नारद गुह्येन(?) उत्तमादि क्रमेण तु
सहस्रारं महाचक्रं शतारं वार्धमेव वा ।
षोडशारं तु वा चक्रं द्वादशारमथापि वा
कारयेन्मुनिशार्दूल सौवर्णादिक्रमेण तु ।
स्वर्णेन रजतेनापि ताम्रलोहेन वा मुने
कारयेद्धेतिराजानमुत्तमाधममध्यतः ।
उत्तमं हेतिराजस्य लक्षणं प्रथमं शृणु
अङ्गुष्ठाङ्गुलमानेन द्वादशाङ्गुलमायतम् ।
भ्रामयेच्चक्ररूपेण विस्तारायामतादृशम्
अथवात्र मुनिश्रेष्ठ मानमार्गं विधीयते ।
ग्रामराजानुकूलेन नक्षत्रेणैव कारयेत्
शिल्पशास्तानुरूपेण कारयेच्छिल्पवित्तमैः ।
षड्दिग्वाथ चतुर्दिग्वा लिखेज्ज्वालाग्निरूपिणाम्
चक्रेण द्विगुणीकृत्य दण्डाकारायतं भेवत् ।
षडङ्गुलं तु तन्नाहं पद्ममष्टाङ्गुलोच्छ्रयम्
विंशत्यङ्गुलमानं तत् पादायतं क्रमात् सदा ।
कर्णिकां द्वादशाङ्गुल्या कारयेत् सुमनोरमाम्
कारयेच्चक्रमध्ये तु शक्तिं तद्वैष्णवं महत् ।
सुवृत्तान्तर्गतं ध्यात्वा तत्तन्मूर्त्यनुसारतः
रविरग्निश्च रुद्रश्च ब्रह्माविष्णुस्तथैव च ।
कालश्च बडबाग्निस्तु शिखायामग्निरेव च
कालरूपस्तु दण्डे च ज्योतिश्चक्रं तु तत्प्रभा(?) ।
अष्टशक्तिसमोपेतं चक्रं तं देवमाकृतिम्
एवं तु हेतिराजस्य लक्षणं कथितं मया ।
मध्यमं हेतिराजस्य लक्षणं शृणु सुव्रत
दशाङ्गुलसमोपेतं भ्रामयेच्चक्रवत् क्रमात् ।
चक्रदण्डायतं सम्यक् अष्टाङ्गुलमुदाहृतम्
चतुरङ्गुलनाहं तत्पद्मं पञ्चाङ्गुलोच्छ्रयम् ।
पद्मस्य पादविस्तारं ततः पञ्चदशाङ्गुलम्
पादानुरूपतः कृत्वा कर्णिकां मुनिसत्तम ।
एवं तु मध्यमं प्रोक्तं शेषं पूर्ववदाचरेत्
अष्टाङ्गुलस्य विस्तारं भ्रामयेच्चक्ररूपकम् ।
चतुरङ्गुलमायामं गदारूपं तु कारयेत्
त्रियङ्गुलं तु नाहं तत्पादोत्सेधं तथा भवेत् ।
चतुर्दशाङ्गुलं पद्मं पादविस्तारमेव च
कर्णिकापरिमाणं यत् कारयेदनुरूपतः ।
पूर्ववत् कारयेद्वापि दण्डाकारस्य लक्षणम्
मध्यमाधमचक्रे ऽस्मिन् नालं कर्तृवशात् कुरु ।
उत्तमादिक्रमं प्रोक्तं शेषं साधारणं भवेत्
भक्तनां दर्शनार्थं यत् चक्रं तु सुमनोरमम् ।
तथैव कारयेद्विद्वान् हेतिराजस्य लक्षणम्
सौवर्णं राजतं चेत्तु कर्मार्चादि महामुने ।
बल्यर्थं हेतिराजानं ताम्रैर्वाप्यथ कारयेत्
मिश्रलोहेन वा कुर्यात् शास्त्रदृष्टेन नारद ।
बल्युत्सवं तथार्थर्ं(-चा?) तु स्नपनार्थं महामुने
चक्रमूर्तिरिह प्रोक्ता सर्वसंपत्सुखावहा ।
अथवा बलिबेरेण कारयेत्तन्त्रवित्तमः
दिवा बिम्बेन कर्तव्यं रात्रौ चक्रेण कारयेत्(?) ।
चक्राभावे द्विसन्ध्यायां बलिबेरेण कारयेत्
एवं संक्षेपतः प्रोक्तं सर्वं वक्तुं न शक्यते ।
पवित्रारोहणे चैव पुष्पयागे समन्ततः
तथा दीक्षावसाने तु सुप्रतिष्ठात्मपूजने ।
एवमेव तु कर्तव्यं चक्रं भूमौ तु मण्डलम्
दण्डाकारं विना तस्मिन् निशि चूर्णेन पूज(-र?)येत् ।
प्रथमं चक्रमध्ये तु द्वितीयं चारु(-र?) मध्यमे
तृतीयं तु न्यसेद्धीमान् बहिर्वलयमेव तु ।
एवं चूर्णैरलंकृत्य चक्रमण्डलमुत्तमम्
नेष्यते ऽस्मिन् महाविष्णुर्मध्यमान्तर्गतो हरिम् ।
ततस्तु परितोष धीं कारयेत्तालमात्रतः
कुन्देन्दुधवलाकारं तण्डुलैरुभयत्र तु ।
द्वाराणि तालमात्रेण कारयेच्चतुरो दिशि
मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0