भाषा

ENहिગુ
ग्रंथ पाठ

विष्वक्सेनसंहिता · अध्याय 33

33.1

द्वारे द्वारे मुनिश्रेष्ठ पूर्णैरेव तु भूषयेत् ।
...... ...... ...... ......
...... ...... ...... ......
...... ...... गेनैव शुद्ध्यति ।
एवं संक्षेपतः प्रोक्तं हेतिराजस्य लक्षणम् ।
प्रतिष्ठायाः क्रमं चैव राजराष्ट्रसुखावहम् ।
धन्यं यशस्यमायुष्यं समरे विजयं(?)तथा ।
यः कारयेत्तु मतिमान् सर्वान् कामानवाप्नुयात् ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंह्रितायां[हेतिराजलक्षणविधिर्नाम] द्वात्रिशो ऽध्यायः ॥
त्रयस्त्रिंशो ऽध्यायः
विष्वक्सेनः---
अथातः संप्रवक्ष्यामि द्रव्यशुद्धिविधिं परम् ।
रत्नानि हेमवस्ताणि भूषणादींश्च ताम्रजान्

33.2

अन्नं तोयं दधिक्षीरे घृतं मधुगुलादयः ।
मधुपर्कश्च पुष्पाणि मुखवासोपहारकम्

33.3

एवमादीनि चान्यानि देवेशोय निवेदयेत् ।
निवेदितानि वस्तूनि शुद्धाशुद्धानि वै शृणु

33.4

अन्नादीनुपहारांस्तान् वर्जयेन्मुनिसत्तम ।
रत्नादिलोहजान्ताश्च शुद्धा एव न संशयः

33.5

रत्नानि हेमवस्त्राणि भूषणानि च (-दींश्च?) लोहजान् ।
निवेदितानि शुद्ध्यन्ते क्षालयेन्मन्त्रपूर्वकम्

33.6

अस्तराजेन मन्त्रेण क्षालयेत्तान् पुनस्त्रिधा ।
तथैव ताम्रकलशान् वस्त्रेण परिवेष्टयेत्

33.7

मन्त्रमाहात्म्यमात्रेण शुद्ध्यन्ते नात्र संशयः ।
अन्नं तोयं दधिक्षीरं घृतं मधु गुलं तथा

33.8

मधुपर्को ऽथ पुष्पं च मुखवासोपहारकम् ।
निर्माल्यमिति विज्ञेयं मम प्रीतिकरं शुभम्

33.9

ताम्बूलं मधुपर्कं च नैवेद्यान्नं तथैव च ।
यद्भुक्तं तद्विना ब्रह्मन् आचार्याय प्रदापयेत्

33.10

तुर्यभाग्र हि संगृह्य ममाग्रे स्थापयेत् क्रमात् ।
गन्धपुष्पादिनाभ्यर्च्य मामुद्दिश्य निवेदयेत्

33.11

तन्निर्माल्यं च तद्भुक्तं वैष्णवानां तु दापयेत् ।
एवं संक्षेपतः प्रोक्तः द्रव्यशुद्धिर्मया मुने

33.12

अथातः संप्रवक्ष्यामि स्रुक्स्रुवाद्यधिदैवतम् ।
स्रुक्स्रुवं (-वौ?) चैव दर्वी च पृथिवीदेवता स्मृता

33.13

उदकुम्भश्चन्द्रदैवत्यः(?) प्रणीता वरुणदेवता ।
जिह्वश्च स्वर्गदैवत्यः(?) अन्तरिक्षं चरुस्तथा

33.14

गन्धर्वो गन्धदैवत्यः(?) पुष्पं शुक्राधिदैवतम् ।
अक्षता लक्ष्मीदैवत्या(?) धूपं चार्घ्याधिदैवतम्

33.15

दीपस्य भास्करं विद्यान्मूलं सश्चन्द्रदेवता(?) ।
विहरी वासुदेवत्या(?) समिधो ब्रह्मदेवता

33.16

आज्यं तु रुद्रदैवत्यं(?) अन्नं रुद्राधिदैवतम् ।
इध्मप्रव्रश्चनं (-ने?) (चैव ?) पितृवर्गा यथाक्रमम्

33.17

गव्यवस्तूनि सर्वाणि गणेशस्तत्र देवता ।
स्वरे सरस्वती देवी प्रणवे सर्वशक्तयः

33.18

सर्वेषामेव वस्तूनां रसरूपं तु वैष्णवम् ।
स्मृतं चेदस्मृतं चेत्तु सर्वं नारायणात्मकम्

33.19

कलशे देवता वक्ष्ये शृणु नारद तत्त्वतः ।
वक्त्रं वागीश्वरी देवी कर्णं लक्ष्मीस्तथैव च

33.20

पार्श्वयोश्च तथा शान्ती पृष्ठे च पृथिवी स्मृता ।
तथैव पूर्णकुम्भं तु संस्मरेदधिदैवतम्

33.21

एव संक्षेपतः प्रोक्तं स्रुक्स्रुवाद्यविदैवतम् ।
नित्ये नैमित्तिके चास्मिन् विष्णुयागेषु सर्वशः

33.22

ज्ञात्वा तत्राधिदैवं तु साधकः संप्रयोजयेत् ।
कारयेद्विष्णुयागेषु मन्त्राणामधिदैवतम्

33.23

अज्ञानात् कुरुते मोहात् सा कृताप्यकृता भवेत् ।
तस्मात् सर्वप्रयत्नेन साधकः परमार्थवित्

मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc