भाषा

ENहिગુ
ग्रंथ पाठ

विष्वक्सेनसंहिता · अध्याय 31

31.1

सायुज्यफलमाप्नोति सत्यमेतन्न संशयः ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां जयन्त्युत्सवविधानं नाम त्रिंशो ऽध्यायः ॥
एकत्रिंशो ऽध्यायः
नारदः---
पवित्रारोपणे पुष्पयागे प्रति- ष्ठाद्युत्सवे दीक्षाविधानादिकाले ।
यदुक्तं पुरा देवास (देवसे?) नेश वर्णैः कथं मण्डलं वर्तिते तत्र काले

31.2

विष्वक्सेनः---
मुने देशकालोक्तवर्णादिहीने यथा कर्तृरिच्छानुरूपं तु कार्या ।
क्रिया साधकैस्ते प्रवक्ष्याम्युपायं मुने तत्त्वतस्तच्छृणुष्वादिगुप्तम्

31.3

सरोजं त्वनामिकया साधकः संविलिप्ते स्वहस्तविस्तारदीर्घे ।
शुचौ भूतले द्रोणशाल्यक्षतसं- कीर्णे सकर्णिकाष्टपत्रं यथेच्छतम्

31.4

नारदः---
श्रुत्वानन्दनभेदादनन्तार्चनादि- क्रिया वाहिनीनाथ युष्मत्प्रसादात् ।
गुरो मूलमन्त्रप्रभावं मनीषा मम श्रोतुमासीज्जगत्कारणस्य

31.5

विष्वक्सेनः---
शृणुष्व प्रभावो ऽस्य पद्मासने- नाप्यचिन्त्यश्रुतौ बन्धमूलस्य ।
अष्टाक्षरस्येयमीदृक् तथा येनाभिभाषितुः शक्तिर्मुने भो

31.6

तथा प्रसादाद्यथा देवदेवः स्वयं भ्रान्तिनाशाय भक्तार्तिहारी ।
यदाज्ञप्तवान् मूलविद्याप्रभावं मुने वैष्णवत्वात्तवाहं ब्रवीमि

31.7

स्वार्थे परार्थेर्ऽचकस्त्वर्चनायै सुप्ततद्द्वयं पूतदेशे निषण्णः ।
ततोपायतया भक्तितत्त्वार्णबीज- च्छन्दोमुनिक्षेत्रदेवे च मानवाः

31.8

स्वयं वा यथाशक्तिजप्त्वाङ्गुलीभिः समस्ताभिरामृष्टदृग्देशदेहः ।
भवेद्धूतपापः कृतार्थेर्थाधी स्वयं देववत् पूजितश्चैव भक्तैः

31.9

आवाहनाद्यर्चनाङ्गेन युक्ता वियुक्तपापा मूलमन्त्रप्रभावात् ।
विरिञ्चात्मजार्चा कृता प्रीतिकारि- ण्यनन्तस्य विष्णोरशेषाण्डयोनेः

31.10

नारदः---
आवाहनं नाम मन्त्रेण लक्ष्मी- धरस्याभिमुखस्य क्रियासङ्गस्य ।
मन्त्रात्मनो मन्त्रकर्तुः प्रतीते- ष्वनेनैव संस्थापनादि प्रियास्य

31.11

हरिर्जङ्गमेश्वरतस्तानि काले स्थितो नित्यमाहूतये यत्तदा किम् ।
कथं मूलबेरस्थितो वासुदेवो नरेण तु काचोत्सवादिप्रतीतेः

31.12

वदानीकिनीनाथ गुह्यं परिष्ठं गुरो संशयं भक्तिमानित्यमुष्मिन् ।
विष्वक्सनेः---
प्रश्नं त्वदन्यः कथं प्रष्टुमीष्टे मुने ऽनेन तुष्टः प्रवक्ष्यामि तुभ्यम्

31.13

हरेः पूजनाङ्गोपचारे यत्त- त्वावाहनं त्वत्सद्भावहेतोः ।
मुने यौगपद्येन सांनिध्यमस्मिन् क्रमेणेति वा संशयः प्रादुरासीत्

31.14

एकप्रदीपोत्थिता दीपमाला दापे यथा यौगपद्येन देवः ।
तथा वासुदेवो लिखेत्तु प्रतीके मुने संनिधिं दास्यतीति प्रतीतिः

31.15

अथान्यो महाभोगयोगप्रदायी प्रजानां तथा वृद्धिदो मुक्तिदश्च ।
परं मूलमन्त्रेण संस्मृत्य पञ्चा- ङ्गुलं हृदि स्पृश्य बिम्बस्य मुद्राम्

31.16

प्रदृश्याङ्गुलिसंज्ञितां पादमूले प्रणम्याक्षतं वापि पुष्पं प्रकीर्य ।
मुने विद्ययाष्टार्णयैवाथ चार्घ्यं पुनः पाद्याचमनं गन्धपुष्पम्

31.17

ततो धूपदीपं प्रदायाथ भूतान्नं निवेद्यान्तरावरणं कल्प्य सम्यक् ।
तथावरणानां यथापूर्वमर्घ्या- द्यनेनैव मन्त्रेण पुष्पं प्रदाय

31.18

निवेद्याथ ताम्बूलिकामच्युताय प्रदीप्यो बलिं होममन्ते विधाय ।
समस्ताधिकः सर्वसिद्धिप्रदायी नृपादिप्रियो योगसिद्धिं लभेत

31.19

नारदः---
एकः प्रधानः कथं पूज्यते स्वे- पदे चावृतासने वासुदेवः ।
गुरो विष्णुसेनापते वक्तुमर्ह- स्यशेषेण मे संशयच्छेदनाय

31.20

विष्वक्सेनः---
यथा पावकस्थानभेदात् क्रियैको मखेष्विज्यते वासुदवो द्विजेन्द्रैः ।
तथा विष्टरे स्वे पदे च वृताव- प्यनन्तोच्यते स्थानभेदेन भेदः

मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc