भाषा

ENहिગુ
ग्रंथ पाठ

विष्वक्सेनसंहिता · अध्याय 30

30.1

स याति विष्णुसालोक्यं क्रमात् पारिषदेश्वरः ॥
इति श्रीपाञ्चारात्रे विष्वक्सेनसंहितायां श्रीरामजन्मोत्सव- विधिर्नाम एकोनत्रिंशो ऽध्यायः
त्रिंशो ऽध्यायः
विष्वक्सेनः---
अथातः संप्रवक्ष्यामि कृष्णजन्मदिनोत्सवम् ।
सर्वलोकहितार्थाय संभूतं यादवे कुले

30.2

देवक्यां वसुदेवस्य देवानां हितकाम्यया ।
श्रावणे कृष्णपक्षे च रोहिण्यामष्टमे तिथौ

30.3

अङ्कुरार्पणपूर्वं तु सप्तपञ्चदिने ऽथवा ।
मध्यरात्रे तु पूर्वे तु कृष्णबिम्बमनुत्तमम्

30.4

नवनीतनटं वापि सर्पनृत्तमथापि वा ।
चतुर्भुजं वापि तथा पूजयेत्तद्दिने मुने

30.5

प्रासादपूर्वभागे तु मण्डपं चतुरश्रकम् ।
वितानध्वजसंयुक्तं दर्भमालासमावृतम्

30.6

पुष्पमाल्यैरलंकृत्य मुक्तादामै(?)रलंकृतम् ।
इन्द्रादीशानपर्यन्तं मार्जनं प्रणवेन तु

30.7

प्रोक्षयेद्गन्धतोयेन द्वादशाक्षरविद्यया ।
गोमयेन समालिप्य पूर्वादिक्रमयोगतः

30.8

प्रदीपं च चतुर्दिक्षु दीपयेत् साधकः क्रमात् ।
पालिकाभिरलंकृत्य मण्डपस्य समन्ततः

30.9

मण्डपस्य च मध्ये तु चतुष्पादासनं न्यसेत् ।
तत्रोर्ध्वे छादनं कुर्यात् सितपुष्पं विनिक्षिपेत्

30.10

अर्चयेद्गन्धपुष्पैस्तु धर्मादिक्रमयोगतः ।
बिम्बं तु स्थापयेत्तत्र ब्राह्मणैः स्वस्तिवाच्य च

30.11

कौतुकं बन्धयित्वा तु ब्राह्मणनामनुज्ञया ।
अङ्गुष्ठानामिकाभ्यां तु द्वादशाक्षरविद्यया

30.12

मुखवासं ततो दद्यात् तालवृन्तैश्च वीजयेत् ।
छत्रचामरसंयुक्तं नृत्तगीतसमन्वितम्

30.13

वीणावेणुसमायुक्तं कौतुकं बन्धयेद्धरेः ।
शङ्खदुन्दुभिसंयुक्तं स्वस्तिवाचनपूर्वकम्

30.14

पादुकाद्वयसंयुक्तं शयने संनिवेशयेत् ।
पूर्ववच्छयनं कल्प्य तन्मध्ये देवमानयेत्

30.15

दक्षिणे बलभद्रं च पश्चात्तत्राधिवासयेत् ।
अष्टाक्षरेण दिग्बन्धं कारयेत् साधकोत्तमः

30.16

तथैव विन्यसेद्देवं विष्णुमन्त्रेण साधकः ।
पाद्यार्घ्याचमनीयं च गन्धपुष्पं तथैव च

30.17

पुण्याहं वाचयेत्तत्र वैष्णवैर्वेदपारगैः ।
आचार्यः शुक्लवासास्तु शुक्लयज्ञोपवीतवान्

30.18

ऊर्ध्वपुण्ड्रधरश्चैव सपवित्रकरस्तथा ।
आजानुपादौ प्रक्षाल्य द्विर्द्विराचमनीयकम्(?)

30.19

देवस्य दक्षिणे पार्श्वे उत्तराभिमुखासने ।
प्राणायामत्रयं कृत्वा सृष्टिन्यासं तथैव च

30.20

तथैव देवं विन्यस्य मन्त्रमष्टाक्षरं मुने ।
सौवर्णादिघटं गृह्य शुद्धतोयेन मन्त्रवित्

30.21

तत्पात्रं क्षालयेत् पश्चात् विष्णुगायत्रिया मुने ।
तोयपूर्णं सुगन्धं च सूत्रवस्त्रसमन्वितम्

30.22

धान्यराशौ विनिक्षिप्य तस्य मध्ये महामुने ।
मूलबेरात्ततो देवं ध्यायन्नारायाणं प्रभुम्

30.23

श्यामलं बालवपुषं कृष्णबेरमुनस्मरन् ।
तत्तोयं प्रतिमामूर्ध्नि सेचयेन्मूलविद्यया

30.24

कृताञ्जलिपुटो भूत्वा नमस्कृत्य पुनः पुनः ।
शयने शाययित्वा तु तं देवं मूलविद्यया

30.25

तथैव बलभद्रं च शाययेत्तस्य मन्त्रतः ।
वस्त्रैराच्छादयेद्देवं सितपुष्पैः समर्चयेत्

30.26

ततो नारायणं सूक्तमुच्चरेत् साधकोत्तमः ।
शङ्खदुन्दुभिसंयुक्तं वेदाध्ययनसंयुतम्

30.27

वीणावेणुसमायुक्तं झल्लरीमद्दलैर्युतम् ।
वारसैरन्ध्रिसंयुक्तमाचार्यो मन्त्रमुच्चरन्

30.28

शङ्खादिघोषसंयुक्तं ततो देवं समुद्धरेत् ।
गन्धपुष्पं विनिक्षिप्य नमस्कृत्य पुनः पुनः

30.29

श्रीरमाज्येन संयुक्तं भलभद्राय दापयेत् ।
वैष्णवेभ्यः सदस्यानां सर्वेषां च प्रदापयेत्

30.30

क्षीरं दधिघृतं चैव प्रदद्याद्बलकृष्णयो ।
कदलीपनसं चैव जम्ब्वादिफलमेव च

30.31

तदन्ते देवदेवस्य दापयेन्मूलविद्यया ।
तैलं च रजनीचूर्णं तावुभौ मूर्ध्नि सेचयेत्

30.32

शेषं च वैष्णवेभ्यस्तु दद्यात् सर्वमथापि वा ।
शङ्खदुन्दुभिनिर्घोषैः तूर्यवेणुसमन्वितैः

30.33

नृत्तगीतसमायुक्तं ब्राह्मणैः स्वस्तिवाचनम् ।
रामकृष्णो तु संस्थाप्य चासने पुष्पसंयुते

30.34

अर्घ्यपाद्यादिनाभ्यर्च्य होमकर्म समाचरेत् ।
नित्याग्नौ वाथ पूर्वस्मिन् कारयेद्वा महामुने

30.35

वैष्णवाग्नौ तु जुहुयात् समिदाज्यचरूणि च ।
मूलमन्त्रेण मन्त्रज्ञः पञ्चविंशतिसंख्यया

30.36

प्रत्येकं तु मुनिश्रेष्ठ पश्चाच्छान्तिं समाचरेत् ।
मधुना पयसा दध्ना हूयतेन(?) घृतेन च

30.37

तथैव जुहुयान्मन्त्रैः पूर्णाहुतिमथाचरेत् ।
होमान्ते देवदेवेशं स्नापयेद्विधिचोदितम्

30.38

कृष्णगन्धेन काष्ठने उशीरैश्चन्दनेन च ।
रजनीद्वयचूर्णेन पुनः कृष्णतिलैस्तथा

30.39

सिद्धार्थसर्षपैश्चैव सर्वधान्यानि साधकः ।
चूर्णोकृत्य मुनिश्रेष्ठ स्नपनान्ते ऽभिषेचयेत्

30.40

ततस्तु रजनीचूर्णं स्नापयेद्देवमूर्धनि ।
पुष्पं दत्वा नमस्कृत्य मङ्गलालापनं कुरु

30.41

शुद्धस्नानं ततः कृत्वा गन्धतोयेन साधकः ।
वस्त्राभरणमाल्यैश्च कृत्वा गन्धानुलेपनम्

30.42

अर्चयेद्विधिवद्देवं गन्धपुष्पादिभिस्तथा ।
अलंकृत्य ततो देवं नीराजनसमन्वितम्

30.43

गोदानं भूमिदानं च हिरण्यं वस्त्रभूषणम् ।
सर्वदानं ततो दद्यात् ब्राह्मणेभ्यो यथाक्रमम्

30.44

तदन्ते वैष्णवान् पूज्य भोजनाच्छादनादिभिः ।
ताम्बूलं वाथ सर्वेषां यथावित्तानुसारतः(?)

30.45

हिरण्यं वाथ वस्त्रं वा गावो वा धान्यमेव वा ।
आचार्याय प्रदातव्यमतिसंपत्तिकारणम्

30.46

दानस्यानन्तरं देवमर्घ्यपाद्यादिनार्चयेत् ।
पायसं कृसरं गौल्यं शुद्धान्नं च पृथक् पृथक्

30.47

कदलीपनसैर्युक्तं देवेशाय निवेदयेत् ।
पानीयाचमनीयं च दद्याद्देवाय भक्तितः

30.48

भोज्यासनं व्यपोह्याशु देवं भोगासने नयेत् ।
देवस्याचमनं दद्यान्मुखवासं प्रदापयेत्

30.49

पूर्वमालां विसृज्याथ चान्मालां तु दापयेत् ।
देवदेवमलंकृत्य मुखवासं पुनर्ददेत्

30.50

नृत्तगीतसमायुक्तं वीणावेणुसमन्वितम् ।
देवागारं परिभ्रम्य गर्भगेहे नयेद्धरिम्

30.51

प्रभातायां तु शर्वर्यामुत्सवं कारयेत्ततः ।
ग्रामे वा नगरे वापि मार्गशुद्धिं च कारयेत्

30.52

शिबिकां वा रथं वापि कुञ्जरं वा हयं तु वा ।
वस्त्रपुष्पैरलंकृत्य माल्यैश्च विविधैरपि

30.53

एवं देवमलंकृत्य स्थापयेद्यानमध्यमे ।
ग्रामप्रदक्षिणं कृत्वा गेयनृत्तादिसंयुतम्

30.54

पटहैस्तालसंयुक्तं कृत्वा ग्रामं परिभ्रमेत् ।
तैलैश्चन्द्रनसंयुक्तं रजनीचूर्णमेव च

30.55

दापयेद्वैष्णवानां तु सदस्यानां विशेषतः ।
पुनः प्रदक्षिणं कृत्वा देवालयमनुत्तमम्

30.56

विधिवत् स्नपनं कृत्वा देवदेवं सनातनम् ।
महाहविर्निवेद्याथ गर्भागारे नयेद्धरिम्

30.57

इति संक्षेपतः प्रोक्तः कृष्णजन्मदिनोत्सवः ।
सर्वपापक्षयकरः सर्वयज्ञफलप्रदः

मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc