भाषा

ENहिગુ
ग्रंथ पाठ

विष्वक्सेनसंहिता · अध्याय 26

26.1

एतत्ते कथितं सम्यगङ्कुराणां सुविस्तरम् ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां अङ्कुर्रापणविधिर्नाम पञ्चविंशोध्यायः ॥
षड्विंशो ऽध्यायः
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि ध्वजोत्थापनमुत्तमम् ।
येनोपसर्गा(?)नश्यन्ति सर्वसंपत्सुखावहम्

26.2

अध्वजो विष्णुयागस्तु निष्फलः स्यान्न संशयः ।
तीर्थस्नानदिनात् पूर्वं सप्तविंशतिके ऽहनि

26.3

एकविंशतिके वा स्यात्(वापि?) ध्वजोत्थापनमाचरेत् ।
अथवारम्भदिवसे सद्यः कालोद्भवो भवेत्

26.4

आरोहणं दिवा कुर्यात् केतोर्निश्यङ्कुरार्पणम् ।
एकत्र दिवसे यागे न ध्वजोद्धार इष्यते

26.5

अङ्कुरार्पणपूर्वं तु द्वितीयं परिकीर्तितम् ।
गोपुर(-रा?) स्थानयार्मध्ये ध्वजपीठं प्रकल्पयेत्

26.6

अथवा बलिपीठस्य वैनतेयस्य वा पुनः ।
हस्तमात्रं परित्यज्य बलिपीठस्य चान्तरे

26.7

कल्पयेद्ध्वजपीठं तु मानं तस्य प्रचक्षते(?) ।
तस्यार्धं वाप्यपोह्यैव ध्वजपीठं प्रकल्पयेत्

26.8

चतुर्हस्तं तदर्धं वा विस्तारायामतः समम् ।
हस्तोच्छ्रायं द्विहस्तं वा स्थाप्य स्तम्भस्य मध्यतः

26.9

एकहस्तं तथा भूमौ गर्तं पीठादधः शुभम् ।
स्तम्भस्य परितः कुर्यात् मेखलात्रितयं बुधः

26.10

वृत्तं वा चतुरश्रं वा षोडशाष्टाश्रमेव वा ।
अन्तरादि तदुत्सेधमङ्गुलीनां यथाक्रमम्

26.11

मेखलोच्छ्रायमायाममेकैकं चतुरङ्गुलम् ।
तालमात्रं विसृज्यैव वेदिकायां समन्ततः

26.12

पश्चात्तु मेखलाः सम्यक् कारयेन्मन्त्रवित्तमः ।
मेखलानामथोर्ध्वे तु वृत्तवेदिं समाचरेत्

26.13

चतुरङ्गुलमुत्सेधं तदूर्ध्वे ऽब्जदलं(पद्मकं?)लिखेत् ।
षोडशद्वादशं वापि चाष्टपत्रमथापि वा

26.14

द्व्यङ्गुलं तु घनं ज्ञेयं कर्णिकासहितं मुने ।
त्र्यङ्गुलं तु तदुत्सेधं द्व्यङ्गुलं तद्घनं भवेत्

26.15

इति पद्मदलं (-विधिः?) प्रोक्त उत्तमाधममध्यतः ।
स्तम्भस्य परितः कुर्यात् सर्वालंकारसंयुतम्

26.16

एवमुक्तप्रकारेण ध्वजपीठं प्रकल्पयेत् ।
पूर्वं वाप्यथवा पश्चात् कल्पयेत् पीठमुत्तमम्

26.17

अन्यथा यदि चेद्वेदिमनर्थमशुभावहम् ।
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम्

26.18

ध्वजस्तम्भं प्रवक्ष्यामि विविक्तेन महामुने ।
चन्दनं चम्पकं वापि बिल्वमर्जुनमेव च

26.19

तेकवृक्षं च खदिरं सालं तिन्दुकमेव च ।
चम्पकं चाष्टकं चैव क्रमुकं नालिकेरकम्

26.20

तालं वेणुं तथैवात्र संभवेन तु कारयेत् ।
शततालार्धमर्धं च मुख्यमध्याधमं क्रमात्

26.21

अशीतितालमिच्छन्ति केचित्तस्यार्धमेव वा ।
गोपुराकृतितुल्यं स्यात् स्तम्भमध्यर्धमेव वा

26.22

स्तम्भप्रमाणमथवा तुल्यमध्यर्धमेव वा ।
प्रासादेन समुच्छ्रायं सुषिरादिविवर्जितम्

26.23

त्रिंशदङ्गुलनाहं तु मूलदण्डस्य नारद ।
मध्यमं चाष्टविंशत्(?)तदग्रं षड्विंशकं भवेत्

26.24

सच्छिद्रयन्त्रत्रियते ह्यधस्ताद्गरुडालयम् ।
लोहं दारुमयं वापि गरुडं तत्र योजयेत्

26.25

देवाभिमुखमासीनमल्पकायं कृताञ्जलिम् ।
षोडशाङ्गुलकं वापि द्वादशाङ्गुलकं तथा

26.26

अष्टाङ्गुलमथ ज्ञात्वा कल्पयेद्गरुडं मुने ।
तथा वा फलकं (-कां?)कृत्वा यथाकामं मुनीश्वर

26.27

तन्मध्ये गरुडं लिख्य स्वस्थाने विनतासुतम् ।
योजयित्वा ततः खेशं स्थापयेत् स्वस्वमन्त्रतः

26.28

वेदिकोपरि मन्त्रज्ञः सुप्रपां परिकल्पयेत् ।
दर्भमालासमायुक्तं मुक्तादामसमन्वितम्

26.29

प्रपायां पूर्वभागादि पताकास्तत्र योजयेत् ।
दशहस्तं सप्तहस्तं पञ्चहस्तमथापि वा

26.30

अन्यामष्टकरां यष्टिं स्तम्भे यन्त्रेषु योजयेत् ।
पटस्य लक्षणं तस्मिन् विशेषं कथय मि ते

26.31

शृणुष्वावहितो भूत्वा सर्वसंपत्सुखावहम् ।
द्वादशं(!)दशहस्तं वा नवसप्तपटं भवेत्

26.32

आयाममिति संप्रोक्तं विस्तारमधुनोच्यते ।
षट्सप्ततालविस्तारं द्वा[र]विस्तारमुच्यते

26.33

पुच्छायामं द्वितालं स्यात्तत्समं शिर उच्यते ।
शिरसा तु समौ ज्ञेयौ भूजौ तस्यार्धमेव वा

26.34

भुजद्वयविहीनं वा पटमेतद्विशिष्यते ।
क्षुद्रप्रासादरूपं चेत् नवसप्तपटं भवेत्

26.35

नवहस्ताच्च नू(न्यू?)नं वै महागेहे तु नेष्यते ।
यो मोहात् कुरुते तस्मिन् क्रिया भवति निष्फला

26.36

आलिखेद्गरुडं तत्र सुवर्णाभं सुवर्चसम् ।
ध्रुवदृग्गलनाभ्यन्तं गरुडेत्सेधमिष्यते

26.37

नवतालपरिच्छिन्नं मानोन्मानप्रमाणतः ।
किञ्चिदायतवृत्ताक्षं रक्ताक्षं नीलनासिकम्

26.38

उत्कुञ्चितं वामपादं दक्षिणं पृष्ठतः स्थितम् ।
गगने गमनारम्भं पक्षविक्षेपणान्वितम्

26.39

पुष्पाञ्जलिपुटोपेतं रौद्रं च विनतासुतम् ।
नागाभरणसंवीतं स्मितास्यं कनकाङ्गदम्

26.40

करण्डमकुटं नीलवाससं प्रियदर्शनम् ।
सुरक्तपाण्यङ्घ्रितलं दंष्ट्राभ्यामुज्ज्वलाननम्

26.41

अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः ।
तक्षकः कटिसूत्रं तु हारः कर्कोटकस्तथा

26.42

पद्मो दक्षिणकर्णे तु महापद्मस्तु वामतः ।
शङ्खः शिरः प्रदेशे तु गुलिकस्तु भुजान्तरे

26.43

एतैरष्टोरगैराद्यैर्भूषितं भुजगोत्तमैः ।
अनन्तगुलिकौ विप्रौ रक्तौ वह्निसमुद्भवौ

26.44

वासुकिः शङ्खपालश्च पीतौ चन्द्रोद्भवौ नृपौ ।
महाक्ष(-ब्ज?) तक्षकौ वेश्यौ शुक्लौ वारिसमुद्भवौ

26.45

पद्मकर्कोटकौ शूद्रौ कृष्णौ वायुसमुद्भवौ ।
लिखित्वा गरुडं तत्र छत्रं चोपरि कल्पयेत्

26.46

अथो ऽमृतस्य कलशं पद्मं चैवात्र संलिखेत् ।
ताभ्यामुभयतः कुर्यात् दीपौ द्वौ शुभदर्शनौ

26.47

चित्राभासप्रतिष्ठां तु कारयेन्मन्त्रवित्तमः ।
छायाधिवासनं कुर्यात् जलं संहृत्य देशिकः

26.48

शाययित्वा ततो वेद्यां संहृत्योत्पाद्य तत्त्वतः ।
धान्यराशिं विनिक्षिप्य वेदिमध्ये समन्ततः

26.49

वेदिकाकलशेष्वष्टावनन्तादीन् प्रपूजयेत् ।
शङ्खादिमङ्गलानां तु विन्यसेत् परितः क्रमात्

26.50

पूर्वे शङ्खं नियुञ्जीत आग्नेये चक्रमेव च ।
याम्ये तु विन्यसेत् केतुं श्रियं वै नैरृते तथा

26.51

दर्पणं वारुणे भागे वृषभं वायुगोचरे ।
सोमे तु मत्स्ययुग्मं तु कुम्भमीशानगोचरे

26.52

एवं तु मङ्गलान्(?)न्यस्य पूर्वादिक्रमयोगतः ।
पूजयेत् कलशेष्वष्टमङ्गलानि यथाक्रमम्

26.53

वासोभिर्वेष्टितेष्वेषु निक्षिप्तकनकेषु च ।
वासांसि मध्ये संस्तीर्य गरुडं तत्र शाययेत्

26.54

प्रत्यग्ग्रीवं ततो वस्त्रैः संच्छाद्य पतगेश्वरम् ।
तस्य दक्षिणतः कुम्भं विन्यसेत्तण्डुलोपरि

26.55

वारिपूर्णं सुसंवीतं सदशेनाहतेन तु ।
शुक्लेनाम्बरयुग्मेन मृदुना सुशुभेन च

26.56

सरत्नं हेमसंयुक्तं सापिधानं सकूर्चकम् ।
तस्मिन्नावाहयेद्देवं गरुडं विनतासुतम्

26.57

आवाहनविधिं सम्यक् प्रवक्ष्यामि महामुने ।
सौवर्णं राजतं पात्रं ताम्रं मृण्मयमेव वा

26.58

आढकेन तु संपूर्णं पयोभिर्वारिभिस्तु वा ।
तत्पात्रे देवमावाह्य आकाशान्मन्त्रवित्तमः

26.59

एह्येहि खगराजेन्द्र वैनतेय महाबल ।
सांनिध्यं पार्षदैः सार्धं कुरु तुभ्यं नमो नमः

26.60

तत्पात्रपतितं देवमानयेत् कुम्भतोयके ।
मूलमन्त्रेण मन्त्रज्ञस्तन्मन्त्रमधुनोच्यते

26.61

ओं नमो ऽष्टकुलनागभूषणाय वैनतेयाय नागशोणितदिग्धाङ्गाय सुपर्णाय सप्तपातालवासिने पक्षिराजाय भगवद्वाहनाय गरुडाय त्रैलोक्यक्षोभणाय ब्रह्मादिचतुरक्षरानुसाराय(?)युगान्तबीजाय मातुरर्थे(?) शोकनाशाय हनहन(?)विघ्ननाशाय स्वाहा ।
अनेन तु स्वमन्त्रेण स्तुत्वा तु विहगेश्वरम् ।
सांनिध्यं कल्पयेत्तत्र पक्षिराजस्य सर्वदा

26.62

एवमाहूय गरुडं ध्वजमुद्रां प्रदर्शयेत् ।
वामस्योपरि संस्थाप्य दक्षिणं तु करं समम्

26.63

अङ्गुष्ठं चालयेत्तत्र ध्वजमुद्रां प्रदर्शयेत् ।
एवं मुद्रां प्रकुर्वीत गरुडं सर्पभूषणम्

26.64

गन्धादिभिः समभ्यर्च्य धूपदीपान्तमेव हि ।
ततः पटगतं बिम्बं शयानं गरुडस्य तु

26.65

लयमार्गेण संहृत्य पुनरुत्पादयेत् क्रमात् ।
पृथिव्यादिनि तत्त्वानि बीजादीने यथाक्रमम्

26.66

सवाचकानि विन्यस्य मन्त्रदेहं प्रकल्पयेत् ।
सकलीकरणं कृत्वा ध्यानमार्गेण देशिकः

26.67

कुम्भस्थितेन तोयेन प्रोक्षयेत्तं स्वविद्यया ।
पूर्वादिकलशस्थाद्भिरनन्तादीन् स्वनामभिः

26.68

प्रणवादिनमोन्तैश्च कुशैः संप्रोक्षयेत् क्रमात् ।
सांनिध्यं प्रार्थयित्वा तु यावद्यागावसानकम्

26.69

ततः संपूजयेत् सर्वैरुपचारैः खगेश्वरम् ।
घृताप्लुतं तु मुद्गान्नं नैवेद्यं परिकल्पयेत्

26.70

मुखवासं प्रदायाथ होमकर्म समारभेत् ।
स्थण्डिलं तु चतुर्दिक्षु कृत्वा तत्र विधानतः

26.71

वैष्णवाग्निं निधायात्र होमकर्म समारभेत् ।
समिदाज्येन चरुणा प्रत्येकं शतमष्ट च

26.72

आहुतीर्जुहुयुर्विप्राश्चत्वारः सममेव तु ।
दीक्षिता एव जुहुयुः सोत्तरीयाः स्वलंकृताः

26.73

चतस्रो मूर्तयः प्रोक्ताः पक्षिराजस्य देशिकैः ।
स्वाहान्तं जुहुयुः सर्वे मूर्तिपाः मूर्तिभाविताः

26.74

एवं समाप्य होमं तु स्पृशेयुस्ते खगेश्वरम् ।
पादयोर्जठरे चास्ये मूर्ध्नि चैव यथाक्रमम्

26.75

अथवा मूलमन्त्रेण होममेकं तु वा मुने ।
प्राचीं दिशं समासाद्य कारयेत्तन्त्रवित्तमः

26.76

विना होमं तु वा कुर्याद्गरुडस्थापनं मुने ।
ध्वजादन्यत्र कर्तव्यं चतुर्हेमं यथाक्रमम्

26.77

एवं समाप्य होमं तु स्थापनं गरुडस्य च ।
अथवास्मिन् मुनिश्रेष्ठ अधिवासनमुत्तमम्

26.78

प्रवक्ष्यामि समासेन सुपुण्याहपुरःसरम् ।
पुण्याहं कारयित्वा तु ब्राह्मणैः सह मन्त्रवित्

26.79

बन्धयेत् कौतुकं पश्चाद्वैनतेयस्य मन्त्रतः ।
वेदिकोपरि धान्यैश्च पूरयेद्भारसंमितैः

26.80

अष्टपत्रं लिखेत् पद्मं वस्त्रेणाच्छादयेत् पुनः ।
तदर्धं तण्डुलं चैव तस्यार्धं तिलमेव च

26.81

वेदिकायां तु संस्तीर्य वस्त्रैराच्छादयेत् पुनः ।
रक्तपुष्पं तु संस्तीर्य गन्धपुष्पैः समर्चयेत्

26.82

तत्रैव शाययेद्देवं पूर्वोक्तेन विधानतः ।
अर्चयेद्गरुडं तत्र धूपदीपान्तमेव हि

26.83

देवस्य दक्षिणे पार्श्वे स्थापयेत् कुम्भमुत्तमम् ।
तस्मिन्नावाहयेत् कुम्भे वैनतेयं महाबलम्

26.84

आकाशात् पतितं खेशं ध्वजरूपे हि संस्थितम् ।
एहि खेश महाबाहो वैनतेय महाबल

26.85

सांनिध्यं कुरु पक्षीश प्रसीदात्र नमो ऽस्तु ते ।
अनेनावाहयित्वा तु मन्त्रेणैव तु देशिकः

26.86

गन्धपुष्पादिभिर्द्रव्यैः वीशं कुम्भे ततोर्ऽचयेत् ।
ततस्तु कलशानष्टौ कुम्भस्य परितो न्यसेत्

26.87

इन्द्रादीशानपर्यन्तमिन्द्रादींश्च क्रमान्न्यसेत् ।
कलशेष्वर्चयित्वा तु लोकेशान् गन्धपुष्पकैः

26.88

तद्बाह्ये विन्यसेदष्टमङ्गलान्(!) परितस्तथा ।
अर्चयित्वा ततो होमं प्राच्यां च स्थण्डिले क्रमात्

26.89

समिदाज्यचरून् सम्यग् अष्टोत्तरशतं पृथक् ।
जुहुयाद्वैनतेयस्य मूलमन्त्रेण देशिकः

26.90

प्रणवं पूर्वमुच्चार्य नमस्कारं ततः क्रमात् ।
चतुर्विंशतिकं पश्चात् व्यञ्जनं तु तृतीयकम्

26.91

स्वरेणाद्येन संयुक्तमूनत्रिंशत्तथैव च ।
षोडशं चोच्चरेत् पश्चात् स्वरेणैकादशेन च

26.92

वैनतेयपदं पश्चात् चतुर्थ्यन्त समन्वितम् ।
स्वाहाकारसमायुक्तं मूलमन्त्रं विदुर्बुधाः

26.93

होमं समाप्य विधिवत् कुम्भादावाहयेत् पटे ।
तं पटं प्रोक्षयित्वा तु हंसः शुचिषदि त्यृचा

26.94

मूलमन्त्रेण चावाह्य गरुडं सर्पभूषणम् ।
तद्रात्रौ विधिवत् प्रोक्ष्य पूजयेद्गन्धपुष्पकैः

26.95

सक्तुखण्डरसोपेतं(-तैः?) मुद्गान्नैश्च गुलौदनैः ।
भक्ष्यैश्च विविधैश्चान्यैः पूजयेत्तं खगेश्वरम्

26.96

मुखवासं ततो दद्यात् स्तुतिमन्त्रेण तोषयेत् ।
पूर्वादीशानपर्यन्तमिन्द्रादींश्चैव पूजयेत्

26.97

नेष्यते ऽस्मिन् मुनिश्रेष्ठ प्रलयादिक्रियाक्रमः ।
द्विप्रकारो मया प्रोक्तो अधिवासविधिक्रमः

26.98

आचार्येच्छानुरूपेण कारयेदेकधात्र तु ।
ततस्तु देवताह्वानं स्वस्वमन्त्रेण तन्निशि

26.99

कारयेन्मुनिशार्दूल जगत्संरक्षणार्थकम् ।
प्रासादस्याग्रभागे तु गरुडाभिमुखं यथा

26.100

द्रोणद्वयेन संपूर्णं सतोयं रक्तवर्णकम् ।
त्रिसूत्रं तन्तुनावेष्ट्य पञ्चरत्नैः सपल्लवैः

26.101

कूर्चद्वयसमायुक्तं रक्तमाल्यैरलंकृतम् ।
वस्त्रयुग्मेन संवेष्ट्य गन्धपुष्पैस्तु पूरितम्

26.102

एवं लक्षणसंयुक्ते कुम्भे चावाहयेद्बुधः ।
इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा

26.103

वायुं सोमं तथेशानं चन्द्रादित्यमरुद्गणान् ।
वसूनष्ट तथा रुद्रानेकादश विनायकम्

26.104

कार्तिकेयं वीरभद्रं द्वादशादित्यसंज्ञकान् ।
त्र्यक्षं पञ्चमुखं देवं नीलकण्ठमुमापतिम्

26.105

भूतेशांश्च तथा सर्वान् सगणानाह्वयेत्ततः ।
मातॄश्चैव तथा दुर्गां ज्येष्ठां चैव सरस्वतीम्

26.106

कान्तिं शान्तिं शुचिं मुद्रामुमां लक्ष्मीं तथैव च ।
सगणैः परिवारैश्च तान् नयेत् कुम्भतोयके

26.107

ततस्त्वावाहयेद्देवान् कुमुदादींश्च नारद ।
तेषां च परिवाराणि प्रयत्नेनानयेद् घटे

26.108

इन्द्रादीशानपर्यन्तमावहेत् कुम्भतोयके ।
कुंभतोयस्थदेवानामर्चनं गन्धपुष्पकैः

26.109

धूपदीपैः समाप्येवं घण्टाशब्दसमन्वितम् ।
हविर्निवेदयेत् पश्चात् सर्वदेवप्रियार्थकम्

26.110

अन्यथाकृततुल्यं स्यात् महान् दोषो भविष्यति ।
तद्ग्रामनाशकृद्वापि तत्रस्थो नरकं व्रजेत्

26.111

तस्मात् सर्वप्रयत्नेन तत्कुम्भे पार्षदान् न्यसेत् ।
मण्डपे चैन्द्रभागे तु चतुर्हस्तप्रमाणतः

26.112

गोमयेन समालिप्य शालिना वेदिमाचरेत् ।
अष्टद्रोणं तदर्धं वा तस्यार्धं वार्धमेव वा

26.113

पूरयेत् स्थण्डिले मध्ये चाष्टपत्राब्जमालिखेत् ।
नववस्त्रेण संछाद्य पद्मं प्रणवमुच्चरन्

26.114

दक्षिणादिक्रमेणैव शाययेद्दक्षिणाशिरः ।
तन्मध्ये भेरिकां न्यस्य नवं लक्षणसंयुतम्

26.115

उत्तर्योष्णीषसंयुक्त आचार्यो मन्त्रवित्तमः ।
पश्चिमाभिमुखो भूत्वा तां भेरीं पूजयेत् क्रमात्

26.116

गन्धादिभिः समभ्यर्च्य हरिं स्मृत्वादिमन्त्रतः ।
यावद्रात्र(-त्र्य?)वसानं तु तावत्तन्निशि ताडयेत्

26.117

पश्चात् पञ्चमहाशब्दं नृत्तगीतसमन्वितम् ।
उत्तर्योष्णीषसंयुक्तो यामलाचार्यतः क्रमात्

26.118

कारयेत् सर्वपार्षद्यान् वैनतेयादिकान् क्रमात् ।
एवं संघोषयित्वा तु यामलाचार्यसंयुतम्

26.119

रात्रान्तकं(आरात्र्यन्तं?)विशेषेण सर्वदेवप्रियार्थकम् ।
कुर्यात् पञ्चमहाशब्दं सदा शुभविवर्धनम्

26.120

ग्रामराज्ञोश्च वृद्धिः स्यात् तथैव नगरादिषु ।
तस्मात् सर्वप्रयत्नेन भेरीं तां निशि ताडयेत्

26.121

अन्यथा चेन्महादोषो राष्ट्रभ्रंशो भवेद्ध्रुवम् ।
तद्ग्रामं निधनं यति व्याधिभिः पीडनं ध्रुवम्

26.122

एवं कृत्वा विधानेन ध्वजोत्सवमथाचरेत् ।
ततः प्रभाते विमले शङ्खभेरीरवाकुलम्

26.123

सर्वालंकारसंयुक्तं कृत्वा ग्रामं परिभ्रमेत् ।
परिभ्रमणवेलायां बलिं कुर्यात् समाहितः

26.124

सलाजं रजनीचूर्णं क्षीरं दधिसमन्वितम् ।
पूर्वमिन्द्रादिलक्ष्म्यन्तान् देवांस्तत्रैव पूजयेत्

26.125

नालिकेरफलं चैव पञ्चद्रव्यसमन्वितम् ।
बल्यन्नमेतैः संयोज्य बलिदानं तु चोत्सवे

26.126

क्रमेण कारयेत् पश्चात् पूर्ववद्धोमपूर्वकम् ।
ध्वजोत्थानं दिवा कुर्याद्रात्रावाहनमेव च

26.127

स (तद्?)ध्वजे देवताह्वानं मध्याह्ने तु विशेषतः ।
आरोहणं दिवा कुर्यात् केतोर्निश्यङ्कुरार्पणम्

26.128

हविषा बलिदानं तु कृत्वा द्वाराग्रपीठयोः ।
मध्ये हस्तसमां वेदिं मध्ये देवान् समर्चयेत्

26.129

आरम्य बलिदानं तु कुर्याद्ग्रामादिवास्तुषु ।
इन्द्रादि ब्रह्मपर्यन्तं दिग्विदिक्षु क्रमान्न्यसेत्

26.130

तत्कुम्भे देवमावाह्य तत्तोयेन समर्चयेत् ।
पूर्वादिन्द्रादिलक्ष्म्यन्तान् देवांस्तत्र सुपूजयेत्

26.131

ततस्तु गणसंयुक्तं कृत्वा ग्रामादिवास्तुषु ।
कुमुदादींश्च देवांश्च पूजयेत्ताननुक्रमात्

26.132

आचार्यो धौतवासास्तु उत्तराभिमुखः स्थितः ।
गन्धपुष्पादिनाभ्यर्च्य ऐन्द्राद्यैशान्तकादिषु

26.133

तेषां नाम समुच्चार्य बलिं दद्याद्विचक्षणः ।
यावद्यागावसानं तु तिष्ठन्ति बलिदेवताः

26.134

अत्र कश्चिद्विशेषो ऽस्ति देवतानां बलिक्रमे ।
ध्वजारोहणकाले वै चोत्सवेषु विशेषतः

26.135

यागावसानं यावत्तु तावदैन्द्रादिकान् मुने ।
यावल्लक्ष्म्यवसानं तु मध्याह्ने क्रमयोगतः

26.136

पूजयेद्गन्धपुष्पाद्यैर्हविषा वेदिमध्यमे ।
बलिं दद्याद्यथालब्धं मध्याह्ने रात्रिषु क्रमात्

26.137

तेषां तु बलिकार्याणि विष्णोः प्रीतिकरं शुभम् ।
अङ्कुरोत्सवकालान्ते उत्सवार्थं महामुने

26.138

कारयेद्यागसिद्ध्यर्थं यागमण्डपपूजनम् ।
तत्पूजान्ते मुनिश्रेष्ठ होमं कुर्याद्यथाविधि

26.139

होमान्ते कुमुदादीनामारभ्य बलिमाचरेत् ।
यावत्तीर्थावसानं तु तावद्ग्रामादिवास्तुषु

26.140

अन्यथावाहनबलिर्ध्वजयागे कृतो भवेत् ।
ध्वजयागविनाशेन उत्सवो निष्फलो भवेत्

26.141

उत्सवस्य विनाशेन नित्यपूजा च निष्फला ।
नित्यपूजाविनाशस्तु सर्वसंहारकारणम्

26.142

तस्मात् सर्वप्रयत्नेन आवाहनबलिं कुरु ।
आनीय गरुडं वेश्म कृत्वा चैव प्रदक्षिणम्

26.143

स्मृत्वा कालविधिं पश्चात् कृत्वा पुण्याहघोषणम् ।
पीठस्य याम्यपार्श्वे तु ध्वजदण्डं तु शाययेत्

26.144

तदग्रं दक्षिणे स्थाप्य मूलमुत्तरतो न्यसेत् ।
विमाने पश्चिमद्वारे ऽप्युत्तरे शाययेद्गुरुः

26.145

दक्षिणद्वारमेवं चेत्(-के चेत्तु?)ध्वजस्तम्भं महामुने ।
पीठस्य पूर्वपार्श्वे तु शाययेदैन्द्रशीर्षकम्

26.146

तन्मूलमवटे न्यस्य मूलमन्त्रमनुस्मरन् ।
उत्तरद्वारमेवं स्यात्(?)तद्ध्वजारोहणं प्रति

26.147

अन्यथा चेन्महादोषो ग्रामराज्ञोरवृद्धिकृत् ।
दिने दिने मुनिश्रेष्ठ धर्ममार्गो विनश्यति

26.148

तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ।
महाकुम्भस्थतोयेन स्तम्भं प्रक्षाल्य मन्त्रतः

26.149

तद्ध्वजं तु समादाय प्रोक्षयेन्मन्त्रवित्तमः ।
मूलमन्त्रेण मतिमान् ध्वजयष्ट्या(-ष्टिं?)तु बन्धयेत्

26.150

निश्चलं स्थापयित्वा तु ध्वजदण्डेन चोद्धरेत् ।
यन्त्रेण चोद्धरेद्वापि रज्जुना सह देशिकः

26.151

वेदिं कुर्यात्तु पूर्वोक्तां लक्षणेन समन्विताम् ।
वेदिकां तु समालिप्य कृत्वा च स्वस्तिवाचनम्

26.152

यष्ट्यग्राद्दण्डमूलान्तं दर्भानावेष्ट्य साधकः ।
दर्भमालादिनावेष्ट्य दण्डमूलान्तमेव हि

26.153

पाद्याचमनगन्धं च पुष्पं धूपं तथैव च ।
दीपं चैव यथायोगं घण्टानादसमन्वितम्

26.154

अर्चयेद्गरुडं चैव चरुं पश्चान्निवेदयेत् ।
फलसक्तुसमोपेतं मुद्ग्रान्नं च घृताप्लुतम्

26.155

पृथक् पात्रे तु संस्थाप्य गरुडाय निवेदयेत् ।
पानीयाचमनं दत्वा मुखवासं तथैव च

26.156

एवमभ्यर्च्य गरुडं सर्वदेवप्रियं शुभम् ।
दिक्पालान्तमनाद्यन्तं परिवारमथार्चयेत्

26.157

ततस्तु लोकपालांस्तु पूजयेद्वेदिकाधरे ।
पूर्वादिक्रमयोगेन स्वनाम्ना परिपूजयेत्

26.158

एवं दिने दिने कुर्यात् सन्ध्ययोरुभयोरपि ।
निवेदितं च यद्द्रव्यमन्नं पुष्पं फलं तथा

26.159

तत्पिण्डमिति विज्ञेयं स्त्रीणां चैव प्रदापयेत् ।
सुमङ्गली च नारी च सती शुद्धा शुभव्रता

26.160

तत् प्रसादमिति स्मृत्वा स्नात्वोपोष्य शुभानना ।
प्राशयेद्गरुडं ध्यात्वा वन्ध्या पुत्रं प्रसूयते

26.161

रोगार्तो मुच्यते रोगात् बद्धो मुच्येत् बन्धनात् ।
भयान्मुच्येत आपन्नः सम्यग् ज्ञानमवाप्नुयात्

26.162

आवाहनार्थं देवानां गरुडं तु पटे न्यसेत् ।
तत्पटे सर्वदेवांश्च आह्वयेत्तु दिने दिने

26.163

लोहं दारुमयं बिम्बं विना वा स्थाप्यते ध्वजम् ।
यदि ध्वजपटे बिम्बं गरुडस्य कृतं भवेत्

26.164

पताकाध्वजसंयुक्तं कृत्वा चित्रमपि ध्वजम् ।
उपरि प्रतिमां कृत्वा स्थापयेद्देशिकोत्तमः

26.165

झ्र्समाप्ते वैष्णवे यागे स्नपनान्ते यथाविधि ।
रात्रौ भूतबलिं कृत्वा क्रमादुद्वास्य पार्षदान्

26.166

कारयेत् पुष्पयागं तु यथाविधिपुरःसरम् ।
(पुष्पयागविधिः प्रोक्तो मया शक्र विधानके

26.167

तद्वन्मण्डलमालिख्य तद्विधानेन पूजयेत्) ।
पुष्पयागविधिं वक्ष्ये समासान्मुनिपुङ्गव

26.168

देवेशयजनं यत्तु मण्डले पुष्पपूरिते ।
पुष्पयाग इति प्रोक्त उत्सवान्ते तु कारयेत्

26.169

प्रासादाग्रे ऽथवा याम्ये वारुणे सौम्यके ऽथवा ।
पूर्वोक्तमण्डपं कृत्वा मण्डपे तु समालिखेत्

26.170

विनोदमण्डपे वाथ यत्र वा रमते मतिः ।
मण्डलं तु महानन्तं चक्राब्जं च तथैव च

26.171

भद्रकं वाथ विधिवत् सूत्रपातं तथा भवेत् ।
एकहस्तं द्विहस्तं वा गर्भगेहसमं तु वा

26.172

चतुरश्रं समं कृत्वा सूत्रेणैव तु देशिकः ।
एकविंशतिसूत्राणि प्राक्प्रत्यग्दक्षिणोत्तरम्

26.173

आस्फालयेद्भवन्त्यत्र कोष्टकानि चतुःशतम् ।
मध्ये षोडशकोष्ठानि पद्मक्षेत्रमुदाहृतम्

26.174

बहिः पङ्क्तिं विसृज्याथ त्रिपङ्क्तिं ग्राहयेत्ततः ।
पादगात्रकभेदेन विमृजेत् परितः क्रम त्

26.175

अन्तः षट् च बहिः षट् च मध्ये तु चतुरश्रकम् ।
विसृजेत्तु चतुर्दिक्षु गात्रार्थं तु विचक्षणः

26.176

अन्तः षट् च बहिः पञ्च कोणपादार्धमाचरेत् ।
पङ्क्तिद्वयं तु तद्बाह्ये वीथ्यर्थं परितो मृजेत्

26.177

द्वारकण्ठोपकण्ठं च शोभां बाह्यपदद्वये ।
अन्तर्द्वे चतुरो बाह्ये द्वारार्थं तु चतुर्दिशि

26.178

त्रीण्यन्तर्बहिरेकं स्याद्विपर्यासेन मार्जयेत् ।
अन्तरेको बहिः पञ्च कोणेषु परिमार्जयेत्

26.179

मण्डलं भ्रामयेत् क्षेत्रं पद्मार्थं तु पुरोदितम् ।
पद्मक्षेत्रार्धमानं तु भागं द्वादशमं (-कं?) बहिः

26.180

विसृज्य भ्रामयेच्छीर्षं त्वरक्षेत्रं तु वर्तलम् ।
प्रथमं कर्णिकाक्षेत्रं केसराणां द्वितीयकम्

26.181

तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम् ।
आस्फल्य कोणसूत्राणि कोणदिङ्मध्यमं ततः

26.182

केसराग्रेषु संस्थाप्य दलान्तं भ्रामयेत्ततः ।
दलान्तरालमानं तु सन्धौ सूत्रं तु विन्यसेत्

26.183

दलाग्रं भ्रमयेत्तत्र तस्याग्रां तदनन्तरम् ।
एतत् साधारणं प्रोक्तं चक्राब्जं तु ततः शृणु

26.184

द्विषट्काङ्गुलमानेन अक्षक्षेत्रं परिभ्रमेत् ।
अक्षक्षेत्रसमा नाभिः बाह्यरेखाद्वयं लिखेत्

26.185

एकाङ्गुलप्रमाणेन अरक्षेत्रं ततो बहिः ।
पद्मं पूर्वोक्तवत् कुर्यात् कर्णिकाकेसरैर्युतम्

26.186

अरक्षेत्रस्य विस्तारं नाभ्यक्षक्षेत्रयोः समम् ।
नेमिक्षेत्रान्तवलयमक्षक्षेत्रार्धकं भवेत्

26.187

अराणि कारयेत्तत्र द्वौ द्वौ कुर्याद्दलं प्रति ।
अरक्षेत्रं त्रिधा कृत्वा गुणत्रयविधानतः

26.188

प्रथमं सात्त्विकं चैव द्वितीयं राजसं भवेत् ।
तृतीयं तामसं चैव समं कुर्याद्द्विजोत्तम

26.189

सात्त्विकं कलशाकारं दूर्वाकारं तु राजसम् ।
तामसं को(कूर्?)पराकारं पीठाकारं तथोपरि

26.190

प(पी?)ठस्य पृष्ठतश्चापि मणिबन्धवदाचरेत् ।
अधोवक्त्रं तु कलशं नाभिक्षेत्रं तु मध्यमम्

26.191

शिखाकारमरान्तं स्याच्छेषमिच्छानुरूपतः ।
एवमेव प्रकारेण चक्रब्जं परिभाषितम्

26.192

मण्डलं पूरयेत् पुष्पैः कर्णिकादि यथाक्रमम् ।
पञ्चवर्णानि पुष्पाणि पुष्पयागे शुभानि तु

26.193

श्वेतं रक्तं च पीतं च कृष्णं हरितमेव च ।
शुद्धवर्णानि चैतानि मिश्रितान्यपराणि च

26.194

पुष्पेषु पुष्पवर्गेषु छेदयित्वा विचक्षणः ।
पीतेषु कर्णिकां पूर्य रक्तं वै केसराणि च

26.195

कर्णिकावलयं रक्तं हरितं वा द्विजोत्तम ।
केसरान्ते च वलयं श्वेतपुष्पेण पूरयेत्

26.196

दलेषु मूलभागेषु श्वेतरक्तविमिश्रितैः ।
दलाग्रान् रक्तपुष्पेण पूरयेद्देशिकोत्तमः

26.197

दलानां सन्धिदेशे तु श्यामपुष्पेण पूरयेत् ।
दलान्तरेखां विप्रेन्द्र कुसुमैर्हरितेन च

26.198

पूरयेन्नाभिरेखां च सितैः पुष्पैर्मनोरमैः ।
मध्यरेखां मुनिश्रेष्ठ पीतपुष्पेण पूरयेत्

26.199

अन्ता रेखास्तु मन्त्रज्ञः कुसुमै रक्तकैसतथा ।
अरं चोत्तररेखां वै हरितै रक्तकैस्तथा

26.200

नेम्यादिरेखां कृष्णेन नेम्यन्तं(न्तां?)सितपुष्पकैः ।
नेमिं रक्तेन पूर्याथ पीतपुष्पेण वा द्विज

26.201

पुष्पमण्डलमुद्दिष्टं पुष्पयागे विशेषतः ।
एवं लक्षणसंयुक्तं चक्राब्जं कारयेत् सुधीः

26.202

ध्वजारोहादिजीर्थान्तं प्रायश्चित्तं तु यद्भवेत् ।
तस्य दोषविघातार्थं पुष्पयागं च कारयेत्

26.203

प्रासादस्याग्रतः कुर्याद्दक्षिणे पश्चिमे ऽपि वा ।
उत्तरे वा द्विजश्रेष्ठ मण्डपं पूर्ववत् क्रमात्

26.204

तस्य मध्ये लिखेद्विद्वान् चक्राब्जं लक्षणान्वितम् ।
द्वारे द्वारे तु घटिका द्वे द्वे चैव तु विन्यसेत्

26.205

शरावं विन्यसेत्तद्वत् पूर्वादिषु यथाक्रमम् ।
ऐन्द्राद्यैशानपर्यन्तं पालिका विन्यसेत् क्रमात्

26.06

तत्पार्श्वे मङ्गलान् न्यस्य(?)शङ्खादींश्च यथाक्रमम् ।
मण्डलं पूरयेत् पुष्पैः कर्णिकादि यथाक्रमम्

26.207

प्राच्यादिदिक्चतुष्केषु वासुदेवादिकान् यजेत् ।
श्रियादीन् कोणदेशेषु न्यसेत् पद्मोपरि क्रमात्

26.208

इन्द्रादिपरिवारांश्च दिक्षु चैव यथाक्रमम् ।
विष्वक्सेनं गरुत्मन्तं यजेत्तत्रैव संनिधौ

26.109

इत्येवं योगयेद्विद्वान् पुष्पविन्यासमण्डले ।
स याति विष्णुसालोक्यं ज्ञानयज्ञेन संयजेत्

26.210

पुष्पयागविधिः प्रोक्तो मया शक्र विधानके ।
तन्मण्डलं समालिख्य तद्विधानेन पूजयेत्

26.211

ट भूतक्रूरबलिं कृत्वा क्रमादुद्वास्य पार्षदान् ।
स्नात्वाचम्य शुचिर्भूत्वा समभ्यर्च्य खगेश्वरम्

26.212

उद्वसयेद्यथापूर्वमाहूतास्तत्र देवताः ।
नित्ये नैमित्तिके काम्ये ध्वजसंस्थानं मतम्

मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc