भाषा

ENहिગુ
ग्रंथ पाठ

विष्वक्सेनसंहिता · अध्याय 25

25.1

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां (जलगाधादि-संस्कारविधिर्नाम) चतुर्विंशो ऽध्यायः ॥
पञ्चविंशो ऽध्यायः
नारदः---
भगवन् विष्णुभूतेश विष्वक्सेन नमो ऽस्तु ते ।
ज्ञातुमिच्छाम्यहं सर्वं मङ्गलाङ्कुररोपणम्

25.2

पालिकालक्षणं चैव घटिकालक्षणं तथा ।
शरावस्तु कथं प्रोक्तं संख्यानां तु कथं भवेत्

25.3

तेषां वर्णश्च वै नाम द्रव्याणां च कथं भवेत् ।
तेषां चैवाधिदैवं च अङ्कुराणां शुभाशुभम्

25.4

एतत्सर्वं समाचक्ष्व परं कौतूहलं हि मे ।
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि मङ्गलाङ्कुरविस्तरम्

25.5

सौवर्णां पालिकां कुर्यात् राजतीं घटिकाकृतिम् ।
ताम्रैरेव शरावं तु सर्वेषां ताम्रमेव वा

25.6

मृद्भिर्वाप्यथ सर्वेषां(सर्वाणि?)कारयित्वा विचक्षणः ।
यथावित्तानुसारेण(?)कुर्याद्वा पालिकादिकान्

25.7

षट्त्रिंशच्चाङ्गुलोत्सेधं विस्तीर्णं तु तदर्धकम् ।
पादं च द्वादशं(!)ज्ञेयं पालिकानां प्रकीर्तितम्

25.8

चतुर्विंशाङ्गुलोत्सेधं विस्तारं द्वादशं(!)भवेत् ।
पञ्चास्या घटिका कार्या पञ्चाङ्गुलसुविस्तरम्(-रा)

25.9

पादं चाष्टाङ्गुलं ज्ञेयं घटिकानां प्रकीर्तितम् ।
द्वादशाङ्गुलमुत्सेधं विस्तारं तावदेव तु

25.10

पादं षडङ्गुलं ज्ञेयं शरावाणां तु सर्वशः ।
तत्तुद्रूपानुसारेण नालं कर्तृवशान् मुने

25.11

कारयेत् क्रमयोगेन सुश्लक्ष्णं सुषिरान्वितम् ।
यथाकामं तु वा कुर्यात् पालिकादीन् क्रमेण तु

25.12

एवं ज्ञात्वा मुनिरेष्ठ कारयेदङ्कुरार्पणम् ।
प्रतिष्ठाद्युत्सवे चैव स्नपने यागदर्शने

25.13

विषुवे चैव संक्रान्त्यामयने ग्रहणे तथा ।
शुभनक्षत्रयोगे च नामर्क्षेत्वथवा मुने

25.14

अङ्कुरार्पणकार्यं तु कारयेत् सर्वकर्मणि ।
अनङ्कुरार्पणं कुर्यादनर्थमशुभावहम्

25.15

तस्मात् सर्वप्रयत्नेन कारयेदङ्कुरार्पणम् ।
प्रत्येकं षोडश स्युर्वै मङ्लाङ्कुररोपणैः(-णे?)

25.16

तेषां चैव तु नामानि वक्ष्यामि मुनिसत्तम ।
सुन्दरो ऽसुन्दरश्चैव विक्रमो मुरशासनः

25.17

वीरसेनो विरामश्च सोमदत्तो महाहनुः ।
यज्ञभुक् सर्वभुक् चैव मनुजो मर्दनस्तथा

25.18

अग्निग्रीवो हयग्रीवो वायुग्रीवो महाहनुः(?) ।
इत्येते षोडश प्रोक्ताः पालिकानां तु(अत्र?)नामतः

25.19

घटिकानां तु वक्ष्यामि याथातथ्यं हि नारद ।
वेगो ऽवेगः सुवेगश्च वायुवेगस्तथैव च

25.20

अग्निनाथो वायुनाथो हविर्नाथो हयांपतिः ।
सर्वभुक् सर्वधृक् सर्वी सर्वभक्षस्तथैव च

25.21

सुभुजो दुर्भुजश्चैव भुजगो वह्निजेश्वरः ।
इत्येते षोडश प्रोक्ता घटिकानां तु (-श्चापि?)नामतः

25.22

शरावाणां तु नामानि तद्वक्ष्यामि यथाक्रमम् ।
राजराजो विराजश्च सुकेतुः कीर्तिवर्धनः

25.23

इन्द्रकर्मा महाकर्मा देवकर्मा मनीषिणः(?) ।
यज्ञनाथो हविर्नाथः सुलग्नः सुरनन्दनः

25.24

मणिप्रियो महामायो देवमायः सुखप्रियः ।
इत्येते षोडश प्रोक्ताः शरावाणां तु(-श्चैव?)नामतः

25.25

वर्णानां तु (वर्णांश्चापि?)प्रवक्ष्यामि यथावदनुपूर्वशः ।
सुन्दराद्यास्तु चत्वारः शुक्लवर्णाः प्रकीर्तिताः

25.26

वीरसेनादयो रक्ताः श्यामा यज्ञभुगादयः ।
शेषास्तु पालिकाः सर्वाः कृष्णवर्णाः प्रकीर्तिताः

25.27

पालिकाः षोडश(अथवा?)सर्वाः शुक्लवर्णापि वा मुने ।
एवमेव तु वर्णानि(-श्च?)घटिकानां तु सर्वशः

25.28

सितरक्तः शरावाणां सर्वेषां तु प्रकीर्तितः ।
शरावाणां तु सर्वेषां रक्तवर्ण अथापि वा

25.29

पालिकाः शुक्लवर्णास्तु घटिकाः कृष्णमेव च (-वर्णकाः?) ।
शरावे षोडशेनैव रक्तवर्णमिति स्मृतम्

25.30

उक्तस्तु वर्णविस्तारो बीजन्यासविधिं शृणु ।
प्रासादे मण्डपे वापि प्राकारे मुनिसत्तम

25.31

तत्रोपलिप्य विधिवत् मण्डलं चतुरश्रकम् ।
तत्रस्थं वै पदं कुर्यादष्टचत्वारिकं क्रमात्

25.32

शालिपिष्टं सतोयेन(?) सूत्रं संलिप्य मूलया ।
प्राक् प्रत्यक् नवसूत्रं तु प्रसार्यास्फाल्य भूतले

25.33

तथैव कारयेत् सूत्रं द्वादशं मुनिसत्तम ।
दक्षिणाद्युत्तरान्तेन चास्फाल्यास्त्रेण मन्त्रतः

25.34

विमृजेत्तु पदान् सम्यक् वीथ्यर्थं मुनिसत्तम ।
द्विपदं द्विपदं त्यक्त्वा तृतीयं मार्जयेत् क्रमात्

25.35

सार्धतालप्रमाणं वा तालमानमथापि वा ।
संज्ञात्वात्र मुनिश्रेष्ठ कारयेत् सुपदान् पृथक्

25.36

तत्पदेषु पुनः सम्यक् अर्चयेद्गन्धवारिणा ।
पश्चात्तु पूरयेद्धान्यैस्तण्डुलैः शालिसंभवैः

25.37

त्रिपङ्क्तीकृत्य तान् सर्वान् प्रत्येकं क्रमयोगतः ।
आग्नेयादीशपर्यन्तं विन्यसेद्धान्यपूर्वकम्

25.38

स्थापयित्वा तु मन्त्रेण द्वादशार्णेन वै ततः ।
व्यस्तैः पृथक् पृथक् स्थाप्य सर्वानेव यथाक्रमम्

25.39

ततस्तु पूरयेत् सम्यक् मृद्वालुककरीषकैः ।
पूरयित्वा समान् सर्वान् अर्चयित्वा ततः क्रमात्

25.40

गन्धपुष्पादिभिश्चैव पूजयित्वा विचक्षणः ।
पूजयित्वा ततः पश्चात् बीजानादाय मन्त्रवित्

25.41

तिलमुद्गं तथा माषनिम्बनिष्पावशालयः ।
यवश्यामाकनीवारकुलुत्थकंकुसर्षपाः

25.42

एतानि द्वादश प्रोक्ता(?) मङ्गलाङ्कुरकर्मणि ।
पयोभिः क्षालयेत् पूर्वं बीजेन परमेष्टिना

25.43

पुनश्च क्षालयेत् पश्चात् बीजेन पुरुषात्मना ।
जितन्त इति मन्त्रेण विन्यसेत्तु शनैः शनैः

25.44

आग्नेयादीशपर्यन्तं प्रतिपङ्क्ति यथाक्रमम् ।
ततस्तु दूर्वाङ्कुरयुक् घृतारोपणमाचरेत्

25.45

ततस्तु चाहतैर्वस्त्रैर्वेष्टयित्वा पृथक् पृथक् ।
पालिकां क्षेत्रपूर्वे वा चोत्तरे वा तु होमयेत्

25.46

समिदाज्यचरूणां तु प्रत्येकं षोडशाहुतीः ।
संपाताज्येन संप्रोक्ष्य पालिकादीन् विशेषतः

25.47

निवाते संप्रकुर्वीत मण्डपेशानकोणके ।
नवाहं सप्तरात्रं वा अर्चयेद्गन्धवारिणा

25.48

शिरीषाङ्कुरपूर्वैस्तु माल्यैर्वेष्ट्य पृथक् पृथक् ।
दुर्वाङ्कुरैर्मुनिश्रेष्ठ पूर्वे वा वेष्टयेत् पृथक्(?)

25.49

पुण्याहूपर्वं संपूज्य गन्धाद्यक्षतसंयुतम् ।
बलिं च सर्वतो दद्यादष्टदिक्षु समन्ततः

25.50

हविषा गन्धपुष्पैस्तु पूजयेत्तु दिने दिने ।
बीजन्यास इति प्रोक्तः देवतानां ब्रवीमि ते

25.51

चतस्रो वासुदेवाद्या मूर्तयो दैविकास्तथा ।
शङ्खादीन्यायुधान्यष्टौ पालिकानां तु देवताः

25.52

वाराहो नारसिंहश्च श्रीधरो हयशीर्षकः ।
जामदग्न्यश्च रामश्च वामनो यदुनन्दनः

25.53

नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।
मत्स्यः कूर्मश्च तार्क्ष्यश्च अनन्तो भुजगोत्तमः

25.54

इत्येते षोडश प्रोक्ताः घटिकानां तु देवताः ।
विष्ण्वाद्या द्वादश ये च हंसो ऽथ बल एव च

25.55

कपिलश्च हलश्चैव शरावाणां तु देवताः ।
अपरे चन्द्राग्न्यादित्यदेवतात्रयमेव तु

25.56

विष्णुं च ब्रह्मरुद्रौ च अङ्कुराणां मुनीश्वर ।
शुभमाप्नोति पीतेषु शुक्ले देवत्वमाप्नुयात्

25.57

कृष्णरक्तावुभौ वर्णौ अशुभं कुर्वते सदा ।
पञ्चत्वमाप्नुयाच्छीघ्रमप्ररूढे सकर्तृकम्

25.58

श्यामाङ्कुरो(-राद्?)द्रव्यनाशः कर्तुः कारयितुर्भवेत् ।
एतेषां चापि नीरोगमुत्सवस्य मयेरितम्(?)

मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc