भाषा

ENहिગુ
ग्रंथ पाठ

विष्वक्सेनसंहिता · अध्याय 27

27.1

आचार्यं पूजयेत् पश्चात् यथाशक्ति समाहितः ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां झ्र्ध्वजारोहणादिविधर्नामट षङ्विशो ऽध्यायः ॥
सप्तविंशो ऽध्यायः
विष्वक्सेनः--
अथातः संप्रवक्ष्यामि उत्सवस्य विधिं परम् ।
सर्वशान्तिकरं पुण्यं सर्वयज्ञफलप्रदम्

27.2

सर्वपापहरं पुंसां सर्वकर्मशुभावहम् ।
राजराष्ट्रविवृद्ध्यर्थं श्रीमत्त्रैलोक्यभूषणम्

27.3

उत्सवं त्वेकरात्रं तु त्रिरात्रिकमथापि वा ।
पञ्चरात्रं तु वा विप्र सप्तरात्रमथापि वा

27.4

नवरात्रं तु वा कुर्यात् उत्सवस्य तु विस्तरम् ।
एकरात्रोत्सवो ब्राह्मः त्रियहः शैव उच्यते

27.5

पञ्चाहश्चैन्द्र विज्ञेयः सप्ताहश्चार्षको भवेत् ।
नवाहो दैविकः प्रोक्त उत्सवः पञ्चधोच्यते

27.6

दैविकं सर्वशान्त्यर्थं राज्यवर्धनमार्षकम् ।
ऐन्द्रं दुर्भिक्षनाशार्थं शैवं रोगविनाशनम्

27.7

ब्राह्मं तु ब्रह्मवृद्धिः स्यात् उत्सवं पञ्चधा फलम् ।
एकाहं त्रियहं वापि सप्ताहं तु नवाहकम्

27.8

पञ्चाहमादिकालोयमुत्सवं ह्रासयेन्न तु ।
वर्धयेत्तु यथाकामं ह्रासनं राष्ट्रनाशकृत्

27.9

रातविभ्रमकृच्चापि दुर्भिक्षभयकृद्भवेत् ।
उत्सवानां ततः कुर्यात् कारकस्यानुरूपतः

27.10

शुभनक्षत्रयोगे च तिथिवारनिरीक्षिते ।
प्रतिष्ठाऋक्षके वाथ नगरग्रामऋके

27.11

राज्ञः स्वजन्मनक्षत्रे यजमानेच्छया कुरु ।
तत्क्रमं ते प्रवक्ष्यामि हरेः सुरमुने शृणु

27.12

सवस्त्वमङ्गलं विद्धि तन्निरासात्तदुत्सवः ।
पञ्चोत्तरदशाङ्गं च कथ्यते ताननुक्रमात्

27.13

प्रथमं चाङ्कुरावापः पताकारोहणं ततः ।
शुद्धस्नानं तृतीयं स्यात् स्पपनं तु ततः परम्

27.14

अङ्कुरस्योत्सवं पश्चात् होमः स्याद्भूषणं ततः ।
अष्टमं तु बलिं विद्यात् नवमं तु महोत्सवम्

27.15

तीर्थाधिवासनं पश्चात् तीर्थस्नानमनन्तरम् ।
द्वादशं स्नपनं विद्यात् पुष्पयागमनन्तरम्

27.16

दक्षिणासंप्रदानं च ध्वजस्याप्यवरोहणम् ।
पञ्चोत्तरदशाङ्गो ऽयमुत्सवः परिकीर्तितः

27.17

सायंप्रातः कृतेनैव होमेन च समन्वितम् ।
दक्षिण भिश्च संयुक्तं वैष्णवानां च पूजनम्

27.18

आचण्डालान्तमन्नाद्यमुत्सवस्यैष संग्रहः ।
तद्भूतपितृयक्षाभिः ब्रह्मशैवान्यहानि च (?)

27.19

वैष्णवानि च शेषाणि सायं प्रातर्बलिं हरेत् ।
सप्ताहे याज्ञिकैर्द्रव्यैर्बलिं कुर्याद्विचक्षणः

27.20

पञ्चाहे ब्रह्मकादिः स्यात् त्रियहे वैष्णवादयः ।
बलिभ्रमणपूर्वं तु होमं कुर्याद्विचक्षणः

27.21

यात्रा चोत्सवबिम्बस्य द्विकालं पश्चिमं भवेत् ।
एककालमथो वापि कारयेत्तन्त्रवित्तमः

27.22

पूर्वाह्णे वाथ मध्याह्ने बलिदानं समाचरेत् ।
बलिभ्रमणवेलायां परिभ्रम्य शनैः शनैः

27.23

शङ्ख दिकुम्भपर्यन्तमष्टमङ्गलकान्(!)क्रमात् ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थो ऽथ भिक्षुकः

27.24

धारयेच्छिरसा विद्वान् वैष्णवान् मङ्गलान् पृथक् ।
एष क्रमो मया प्रोक्तो बलिद्रव्यमथोच्यते

27.25

सिताः सुमनसो रजनीपराग- लाजादधिकमलं सितचन्दनेन ।
अहनि ससक्तु मुने ऽथ भूतसंज्ञे प्रथमदिने बलिराह तृप्तिकारी

27.26

तिलकुङ्कुमोदाक्षतनीलपुष्पं द्वितीये पयोमिश्रितं वासरे स्यात् ।
बलिस्तृप्तिकारी पितॄणां तदीये मुने कथ्यते तत्तृतीये बलिश्च

27.27

रक्तं पुष्पं सर्पिषापूपलाजाः शरादं वा करम्भेण युक्तम् ।
यक्षाणां तत्तृप्तिहेतोर्मुनीन्द्रै- रिष्टैः प्राज्ञैरह्निरेषा बलेः स्यात्

27.28

एकोदनीलोत्पलनारिकेल- क्षीरेण शालेरथ पिष्टकं च ।
काकोदराणां दिवसे तुरीये सक्तूनि चाहुर्बलिमार्यवर्याः

27.29

कमलमक्षतमुत्पलवासितं जलमथो कमलासनवासरे ।
बलिरयं मुनिभिः परिगीयते कनकसंनिभपुष्पचयैः सह

27.30

पाटलसुरभितपूतजलैर्वा वासितकुसुमचयैश्चरुरेषा- ।
पूपगुलयुत इति षष्ठदिने स्यात् पावनचोदितहरिदिनपूजा

27.31

विष्णोरुत्सवसप्तमे दिनवरे तत्तृप्तिकारी बलिः पुष्पं श्यामलमोदनं च सगुलं सन्मल्लिकागन्धिकम् ।
जातीवासितमम्बुपायसमपि स्यादष्टमे वासरे पुष्पं मेचकमाह नारद महाविष्णोर्दिने स्याद्बलिः

27.32

सदाविष्णोस्तृप्तयै कृसरमशिलैर्गन्धनिवहैः सदीपैर्युक्तं शीतं जलमखिलवर्णैश्च कुसुमैः ।
बलिः सक्तूपेतं नवमदिवसे नारदमुने यथावत् कार्यो ऽयं नृपजनविवृद्ध्यै बलिविधिः

27.33

कुमुदादीनां तु नामानि तेषां च परिवारकम् ।
प्रवक्ष्यामि मुनिश्रेष्ठ समासेन यथाक्रमम्

27.34

कुमुदः कुमुदाक्षश्च पुण्डरीको ऽथ वामनः ।
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः

27.35

देवाश्च तेषां रिपवो ऽसुराश्च गन्धर्वयक्षाः पितरो भुजङ्गाः ।
यक्षाश्च याश्चापि पिशाचजातिः ये षष्ठको देवगणा ग्रहाख्याः

27.36

बलिं तु मण्डले दद्याद्वेद्यादिक्रमयोगतः ।
चतुष्पथेषु कोणेषु त्रिपथैकपथेषु च

27.37

देवागारे ऽथ वल्मीके कूपतीरे ऽथ पर्वते ।
तटाके चैत्यवृक्षेषु पर्वतस्य समीपगे (-के?)

27.38

एवमादिषु देशेषु तोरणानि च कारयेत् ।
संस्थाप्य परितः सम्यक् ग्रामाद्यष्टसु वास्तुषु

27.39

उत्थापयित्वा केतूनां तोरणान्ते पृथक् पृथक् ।
अथवात्र मुनिश्रेष्ठ केतून् ग्रामादिवास्तुषु

27.40

अष्टदिक्षु यथायोगं बलिपीठं प्रकल्पयेत् ।
तालद्वयप्रमाणेन विस्तारायामतादृशम्

27.41

मेखलाद्वयसंयुक्तं प्रत्यकं चतुरङ्गुलम् ।
तन्मध्ये कर्णिकां कुर्यात् वृत्तां वा चतुरश्रकाम्

27.42

चतुरङ्गुलमायामां कर्णिकां मुनिसत्तम ।
एवं पीठविधिः प्रोक्तो हरिपार्षदान् शृणु

27.43

नारदः---
वद ममाखिल देवगुरोर्गुरो प्रतिदिशं हरिपारिषदान् क्रमात् ।
बलिभुजः कुमुदादिपुरोहितान् हरिमहोत्सवकर्मणि वास्तुषु

27.44

विष्वक्सेनः---
अहं खल्वखिलाण्डयोनेरशेषधिषणाधीशितुरप्रमेयस्यानवरतसुखिनो हरेः महोत्सवादिषु ग्रामादिवास्तुषु ऐन्द्रादिदिक्स्थितानां कुमुदादीनां वर्णरूपवाहनायुधपरिवारमन्त्रार्चनादि यथामति कथयिष्ये---
कुमुदस्तु पुनः शुभ्रो मुकुन्दः(न्द?)पार्षदः कुन्दवासाः त्र्यक्षः शङ्खचक्रधरः कृताञ्जलिपुटो ग्रामाभिमुखो हस्त्यारूढो देवग्रहगणमध्ये स्थितः ।
उत्कटः प्रकटोन्मुखो विमुखो ऽश्वग्रीवो ऽश्ववदनो ऽश्वजिह्वो हस्तिवक्त्रो कुमुदो हस्तिपादः केशववामननरकनरमर्दनमन्ददृष्टिकण्डु (कन्दु?) कन्दुकलोचनपटहाक्षविशालाक्षक्षामकक्षमपाण्डरपाण्डुपृष्ठदुर्दिनसुदिनवामदेवमहादेवमहाग्निमधुसूदनकनककालकभावनभवनभानुमद्भानुवेगभास्कराभास्करविश्वसेनविसेनविष्वक्सेनविसारिविस्तारनिस्तरविदण्डिदण्डकामदकामुककामभृत्कामनाशननामभिः पञ्चाशद्भिः पार्षदैः सौम्यैः नानाविधाकारैः परिवृतमेन संस्मृत्य अर्घ्यपाद्याचमनगन्धपुष्पधूपदीपैरभ्यर्च्यानन्तरं तद्दिनविहितहव्यं निवेद्य बलिं दद्यात् अञ्जलिं दर्शयित्वा हरेः मुखादिवासं विधाय (मुखवासं दत्वा?) तद्देवतातृप्त्यर्थं शङ्खदुन्दुभिनृत्तगेयादि कारयेत् ।
कुमुदाक्षं पुनः आग्नेय्यां स्थितं नीलवाससं त्रिणेत्रं काकवक्त्रं चतुर्भुजं मुष्टियुद्धहस्तं खड्गमुद्गरधारिणं महिषारूढं ग्रामाभिमुखमसुरग्रहगणमध्यस्थं आग्नेयनिधनाग्निजिह्वहुताशनाग्निरूपाग्निकेशाग्निवर्णाग्न्यग्निवक्त्रमहावक्त्रमहासेनमहोदरकरालकाकजिह्वकाकवक्त्राग्निवक्त्रमण्डुमण्डूकवक्त्रदेवदेवलकशर्वकशपकशङ्कुशङ्कुश्रवमारीचद्रोणमारीचमहिषमाहिषकुम्भनासविनासकुम्भकर्णविकर्णविदारिविक्रममस्करिमस्करसूकरसूकरास्यशशशशमुखसिंहसिंहमुखनरसिंहनरकालधृक्कालसूत्रसूत्रसूत्रविनालिनालकर्णैः परिवृतं अमुं यथापूर्वमभ्यर्च्य तद्दिनबलिद्रव्यं निवेद्याचमनं दत्वा अञ्जलिमुद्रां दर्शयित्वा बलिबरे मुखवासान्तं विधाय (मुखवासं दत्वा?) तद्दिग्देवतृप्त्यर्थं तूर्याणि घाषयेत् ।
अन्तकाशास्थितं पुण्डरीकं पुण्डरीकत्विषं पुण्डरीकवदनं त्रिलोचनं चतुर्भुजं शङ्खचक्रधरं कृताञ्जलिपुटं ग्रामाभिमुखमश्वारूढं पितृग्रहगणमध्यस्थ यमधर्मधरधर्मधर्मराजधनुर्धरविनयप्रश्रयनिश्रेयनिर्गुणालसकुणपक्रूरबाहुकुञ्जरप्रांशुदमननिष्कोपनिरनुक्रोशनिर्ममविवाहा (विभवा?) विभवहुताशाह्यू (बहूर्?)ध्वरक्षण संज्ञैकलपाकलकङ्ककटकावटशङ्खीचक्रीगदीखड्गीशार्ङ्गीशार्ङ्गधरवासुदेवभद्रकेतुमत्केतुकक्षमीज्वलनकिंनराश्वत्थसुप्तसुजपनजपपश्चिमकैक्षिकस्वंजबाडवक्षमीभिःपरिवृतं पूर्ववदभ्यर्च्य तद्दिनबलिं निवेद्याचमनं [दत्वा]अञ्जलिं दर्शयित्वानन्तरं बलिकौतुके मुखवासं विधाय (दत्वा?) तद्दिग्देवतातृप्त्यर्थं शङ्खादि घोषयेत् ।
निरृत्याशास्थितं वामनं धूम्रवर्णं धूम्रवाससं त्रिणयनं चतुर्भुजं शूलखड्गमुद्गरधरं मुष्टियुद्धहस्तं शकटारूढं ग्रामाभिमुखं यातुग्रहान्तः स्थितं बलम्बिरृतिप्रकृतिविकृतिसुकृतिदारुणदमकरक्षकलक्षकमाधवमांसकनिष्ठुरखरभाषणप्रलम्बकप्राणनप्रणयवीरसेनाङ्गदविभाषविभीषणरक्ताक्षलोहिताक्षरक्तजिह्वविजह्वकविद्युत्केशविशालाक्षविक्षरवीरहाक्षरप्राक्षरकामरूपीविरूपीसर्वगसर्वविद्गौरसंभवप्रभववारुणवसुविमर्दमदन (दमन?)ए वैकर्तनविकर्तृकपर्दीपृथुकन्दकीकन्दकनाकीवरुणारुणैः परिवृतं पूर्ववदभ्यर्च्य तद्दिनबल्याचमनं विधायाञ्जलिं निर्वर्त्य[बलि] कौतुके मुखवासं विधाया (दत्वा?) नन्तरं तूर्याणि घोषयेत् ।
वरुणदिगालयं शङ्कुकर्णं पीतवर्णं त्रिवीक्षणं पीतवाससं चतुर्भुजं शङ्खचक्रधरं कृताञ्जलिपुटं ग्रामाभिमुखं व्याघ्रारूढं पितृग्रहगणमध्यस्थं वरुणवारुणपाशीपाशधरगुरुक्षेपणक्षोभणनारदसर्वदरविसुमननामनहंसवैकुण्ठपरमपरहुनमत्वसुमत्भद्रभद्रवप्रभवमहाकर्णविकर्णशशकशलकपिकवानरनरककार्ष्णीकर्णधरांशुमत्चक्रृभृत् [उग्र] वज्रीवज्रनाभविनाभककरप (-भ?) कुरभदाक्षिणदक्षिण सुहृद्दुर्गन्धपूतिगन्धतार्क्ष्यगरुडविरोधरोधकरोधकङ्कणवृकोदरैः परिवृतं पूर्ववदभ्यर्च्य तद्दिनबल्याचमनं दत्वा अञ्जलिं कृत्वा बलिबेरे मुखवासं दत्वा शङ्खादीन् घोषयेत् ।
अथ पुनरनिलदिङ्निलयं अतितप्तहाटकनिभं सर्पनेत्रं त्रिणेत्रं चतुर्भुजं हरिद्रावाससं परशुपाशधरं मुष्टिसंनद्धहस्तं ग्रामाभिमुखं मृगाधिरूढं नागाभरणभूषितं गन्धर्वग्रहगणान्तंः स्थितं मरुन्मारुतगोरुर्व्याखुवायुसुतानिलगलर्तवर्तककंकमार्गणप्राङ्कणाचलबलबलनिधिवीरविरोधरोधकविधिसि द्धवसुयवसंकरधीरकमालीमालाविधिवस्तुसमर्थसमुहोत्सवकर्कटकटकगन्धगन्धवहपरसिक्तवसि क्तरोगीसेवकसेवनसवौषधभेषजरोगीगभवकारणकरणकर्तृगरवीरखल (अखल?) बलवाकुवाहसुचारुभिः परिवृतं यथोक्तमभ्यर्च्याचमनं दत्वा अञ्जलिं दर्शयित्वा बलिबिम्बान्नवासः निर्वर्त्य (बलिबिम्बेमुखवासं तद्दिनबलिं च दत्वा?) दिग्देवतातृप्त्यर्थं शङ्खादीन् घाषयेत् ।
अनन्तरममृतकराशास्थितं श्यामच्छायं श्यामाम्बरधरं त्रिणेत्रं चतुर्भुजं जलजचक्रधरं कृताञ्जलिपुटं ग्रामाभिमुखं यक्षग्रहगणमध्यस्थं सुमुखं मेषारूढं सोमसोमकलसोम (सोम्य?) सामवित्सामनायकसुधासुधाताधातासुराष्ट्रकाष्ठककलिकालधृक्कालचक्रकालकूटविषबलामृतामृतनाथकेयूरीकेवलीबलीविष्णुकृष्णपिशङ्गाङ्गी रेखालेखालेखपिकशुकलूबकशुकश्येनश्येनमुखमार्जारमरुभृद्वालगुल्मकणवककणशेषविशेषोच्छेद (-ष?) कर्दमपूतिविग्रहसाम्बसंवत्सरवेगीवेगधरमरुद्भिः चतुरै राक्षससहस्रगैर्नायकैः परिवृतं सागणध्यानं यथापूर्वमभ्यर्च्य तदद्वारबलिद्रव्यं परिवृतं सगणध्यानं यथापूर्वमभ्यर्च्य तदद्वारबलिद्रव्यं निवेद्यञ्जिलिं दर्शयित्वा [बलि] प्रतिमामुखवासं विधाया(दत्वा)शादेवतातृप्त्यर्थं शङ्खादीन् घोषयेत् ।
अथ पुनरीशानशाप्रतिष्ठितं सुप्रतिष्ठितं सिंहारूढं रजतवर्णं रजतवाससं त्रिणेत्रं चतुर्भुजं खड्गमुद्गदधरं मुष्टियुद्धहस्तं ग्रामाभिमुखं पिशाचग्रहगणमध्यस्थं ईशानेश्वरव्यापीव्यसनविनशबुधधरबकविशवादशकुनिशकटघटवृक्षकक्षक्षमीक्षान्तिमातृरोमकपिञ्जलब्रह्मण्यब्रह्मविद्ब्रह्मीब्रह्मात्मब्रह्मसाधनवेदीवेदविदुद्बन्धशङ्करशङ्करधीमद्विसृष्टिरिष्टात्मदुष्टात्मदुष्टकर्मकृत्विनेतृविगोविन्दगोपतिगोप्तृमहेश्वरैः परिवृतं यथं क्तमभ्यर्च्याचमनं दत्वा तद्दिनबलिं दत्वाञ्जलिं दर्शयित्वा बलिबिम्बाननवासं निर्वर्त्य(दत्वा?) दिग्देवतातृप्त्यर्थं शङ्खादीन् घोषयेत् ।

अनन्तस्थितं पृश्निगर्भं सिद्धग्रहगणान्वितं तप्तजाम्बूनदसंकाशं चतुर्वक्त्रं चतुर्भुजं अक्षसूत्रकमण्डलुधरं पुष्पाञ्जलिधरं हंसाधिरूढं पश्चिमाभिमुखं कमलोद्भवं कमलासनं सिद्धधातृविधातृधातृप्रजापतिलोकेशलोककृत्कर्तृस्रष्ट्रुब्रह्मात्मभसुतापतुलरीतिवर्धनाव्यक्तगुणवद्गौणगुणभुगुद्गीथप्रणवहिरण्यगर्भविरिञ्चपुष्करभासनभासविकर्णविजयरथन्तरच्छन्दोयजुऋगथर्वमरीच्यङ्गिरपुलहक्रतुवसिष्ठप्रचेतशलभभीष्महेमन्तशिशिरकुसुमाकरकलहविराहि (-गि?) अमर्षरोषणशोषणगतिहर्षणवर्धनैः पृश्निगर्भवशानुगैः भीमरूपमहाकायैरसंख्यपरिवारकैः व्याघ्रवक्त्रैर्मेषववत्रैः शशमुखेः स्वस्तिवक्त्रैः व्यालवक्त्रैः वराहवक्त्रैः कुक्कुटवक्त्रैः बलाकवक्त्रैः हंसवक्त्रैः मयूरवक्त्रैः स्वस्तिकास्यैः चक्रवाकाननैः कपोतास्यैरेकनेत्रैः द्विनेत्रैः त्रिणेत्रैः (बहुनेत्रैः?) एकपादैः द्विपादैः बहुपादैः एकवक्त्रैः बहुवक्त्रैः असंख्यैः परिवृतं विष्णुपार्षदेश्वरगणमध्यस्थं ध्यात्वार्घ्यादिभिरभ्यर्च्य बलिद्रव्यं प्रदायाचमनाञ्जलिं दर्शयित्वा बिम्बाभिमुखं कृत्वा पुष्पाञ्जलिः साधको नमस्कृत्य समस्तमङ्गलवाद्यादि मुखवासं विधाय (दत्वा?) तद्देवतातृप्त्यै शङ्खादीन् घोषयेत् ।
नारदः---
उत्सवेर्ऽघ्यप्रदानादि चण्डादीनां गुरो ऽस्ति किम् ।
भेदः सामान्यतो वापि मन्त्रं किं वा विधिः प्रभो

27.45

विष्वक्सेनः---
चण्डादिदेवताध्यानं कृत्वा देवमुखे ततः ।
दक्षिणेर्ऽघ्यं तथाचामं हस्ते पादे च पाद्यकम्

27.46

ललाटे गन्धमादद्यात् पुष्पं शिरसि धारयेत् ।
नासादक्षिणपार्श्वे तु धूपं दीपं ततो दृशि

27.47

बलिद्रव्यं च पानीयं पुनराचमनं तथा ।
दक्षिणे दोष्णि दद्यात्तु तत्प्रमाणमथो शृणु

27.48

पाद्यार्घ्याचमनीयं तु परिमाणमथेच्यते (?) ।
गन्धं षड्बिन्दुमात्रं तु पुष्पं मुष्टिप्रपूरितम्

27.49

धूपं सुरभिणा व्याप्तं शान्तज्वालोच्छ्रितोत्थितम् ।
बहुरेखमरत्यग्रं(?) दशमात्रं प्रदापेयत्

27.50

दीपं सप्ताङ्गुलोत्थानं घृतकर्पूरदीपितम् ।
धूपवद्दीपयेद्देवमुपचारनिवर्तकम्

27.51

त्रिमात्रकं तु मुद्राया दर्शनं दक्षिणे दृशि ।
इत्थं निर्वर्त्य वाराणां राजराष्ट्रविवृद्धिकृत्

27.52

अन्यथा परिवाराणां अर्चोत्सवविधौ भवेत् ।
राजराष्ट्रविनाशाय दुर्भिक्षानर्थदो भवेत्

27.53

ततश्चण्डादिमन्त्राणां लक्षणं कथ्यते ऽधुना ।
प्रणवादिनमो ऽन्तं च नाममन्त्रमिति स्मृतम्

27.54

पीठे पीठे बलिं क्षिप्त्वा ग्राममध्ये समापयेत् ।
भूतकृद्भ्यो नमः सर्वभूतेभ्यश्च नमो ऽस्त्विति

27.55

नमो ऽस्तु सर्वभूतेभ्य इति मन्त्रमुदीरयेत् ।
तस्मिन् वेद्यादिपर्यन्तं देशे मन्त्रमिति स्मृतम्

27.56

अनुगच्छन्ति ये त्वत्र कौतुकं कौतुकान्विताः ।
पदे पदे क्रतुफलं लभन्ते नात्र संशयः

27.57

शुद्धवासाः शुचिर्भूत्वा कृतदन्तानुधावनः ।
हविष्यभुग् यतात्मा च आचार्यो बलिमाचरेत्

27.58

रात्रौ बलिप्रदानान्ते स्नानं सद्यः समाचरेत् ।
प्रतिष्ठोत्सवहोमेषु स्नपनादौ विशेषतः

27.59

आरभ्य तन्त्रानुक्तं च निरीक्ष्यान्यांस्तु कारयेत् ।
अन्यथा केवलं तन्त्रमेकं वीक्ष्य प्रयोजयेत्

27.60

तत्संक्षेपं न विस्मृत्य मोहात् सर्वविनाशकृत् ।
तीर्थपूर्वदिने रात्रावधिवासनमाचरेत्

27.61

यागमण्डपमध्ये वा देवस्य पुरतो ऽथवा ।
वेदिं कृत्वाथ शालीभिरष्टद्रोणसमन्वितम्

27.62

तदर्धं तण्डुलं न्यस्य तन्मध्ये ऽम्बुजमालिखेत् ।
कुशान् संस्तीर्य तन्मध्ये वस्त्राणि परितो न्यसेत्

27.63

गन्धपुष्पैः समास्तीर्य प्रोक्षयेन्मूलविद्यया ।
अष्टदिग्दीपसंयुक्तं कर्पूरागरुधूपितम्

27.64

धूपयित्वा ततो वेदिं तन्मध्ये देवमानयेत् ।
अर्घ्यपाद्यादिनाभ्यर्च्य हविरस्मै तु दापयेत्

27.65

देवस्य पूर्वपार्श्वे तु पूर्णकुम्भं निधाय तु ।
वेष्टितं सूक्ष्मवस्त्रैश्च हेमरत्नसमन्वितम्

27.66

तस्मिन्नावाहयेत् तीर्थान् सरितश्च सरांसि च ।
पूजयित्वैव गन्धाद्यैस्ततो देवं समर्चयेत्

27.67

प्रार्थयेत्तीर्थयात्रार्थं प्रणिपत्यैव देशिकः ।
देवदेव जगन्नाथ नमस्ते लोकभावन

27.68

तीर्थयात्रां कुरुष्व त्वं प्रसीद पुरुषोत्तम ।
प्रार्थचित्वैव देवेशं प्रोक्षयेत् कुम्भवारिणा

27.69

पञ्चमन्त्रैश्च सूक्तेन पौरुषेण च मन्त्रवित् ।
तथा नारायणं सूक्तं सृष्ट्य दिप्रतिपादकम्

27.70

अथर्वणमिदं सूक्तं सर्वकामप्रदं शुभम् ।
आत्मानं च तथाचार्यो वैष्णवांश्चैव सात्त्वतान्

27.71

गङ्गस्नानफलं सर्वर्ं(-वे?)लभन्ते प्रोक्षयेत्तदा ।
पुनराचमनं दत्वा गन्धपुष्पादिनार्चयेत्

27.72

हविर्निवेदनं कुर्यादपूपांश्च फलानि च ।
पानीयाचमनं दत्वा मुखवासं तथैव च

27.73

निवेदितं तु तत्सर्वं आचार्याय निवेदयेत् ।
आचार्यस्य मनः प्रीतिरतिसंपत्तिकारिणी

27.74

आचार्यस्यानुरूपेण सात्त्वतेभ्यो निवेदयेत् ।
किञ्चिन्मात्रं गृहीत्वा तु सदस्यानां तु दापयेत्

27.75

पुण्याहं वाचयित्वैव कौतुकं बन्धयेत्ततः ।
दर्शयेद्देवदेवस्य मङ्गलानि यथाक्रमम्

27.76

छत्रं चामरमादर्शं सुमुहर्ते निवेदयेत् ।
शाययेच्छयने दिव्ये देवं मूलेन विद्यया

27.77

आत्मानं कौतुकं बद्ध्वा रात्रिशेषं समापयेत् ।
अथ तीर्थे ऽहनि प्राप्ते नित्यकर्म समाप्य च

27.78

मण्डपे मध्यमे भागे सोमेशाने तु लेपयेत् ।
तन्मध्ये शालिना वेदिं कुर्यान्मध्ये ऽब्जमुत्तमम्

27.79

उलूखलान(-न्य?)लंकृत्य निशाचूर्णै(-खण्डै?)स्तु पूरयेत् ।
पूर्वोक्तेन विधानेन घातयेत्तत्त्रिधा पुनः

27.80

तस्य पश्चिमभागे तु शालिमध्ये महामुने ।
तीर्थार्थं स्थापयेच्चूर्णान् गन्धादीन् क्रमयोगतः

27.81

गन्धचूर्णं तथा पिष्टं चूर्णं रजनिमेव च ।
शालिमध्ये तु संस्थाप्य प्रागादीशावसानकम्

27.82

नववस्त्रैस्तु संवेष्ट्य कलशान्(-शो?)लूखलान्(?)क्रमात् ।
पश्चाद्रजनिचूर्णं तु पूरयेत् कलशे मुने

27.83

अर्घ्यपाद्यादिनाभ्यर्च्य तं देवं मूलविद्यया ।
स्नापयेद्देवदेवस्य मूर्ध्नि पश्चात् समाहितः

27.84

गन्धादिचूर्णान् संगृह्य तीर्थदेशे समाचरेत् ।
चूर्णोत्सवं ततः कुर्यात् चुर्णस्नानसमन्वितम्

27.85

ग्रामं प्रदक्षिणं कृत्वा तीर्थदेशं समानयेत् ।
पुण्याहाज्यारोपणं स्नानवस्त्रं पाद्यार्घ्यं वै दन्तकाष्ठं च तोयम्

27.86

दत्वादर्शं तैलमुद्वर्तनं च धात्रीस्नानं स्नानपूर्वोपचारम् ।
स्नानक्रमं प्रवक्ष्यामि नित्ये नैमित्तिके ऽपि च

27.87

काम्ये तु वा प्रकुर्वीत देवदेवस्य शाङ्र्गिणः ।
देवस्य पूर्वभागे तु मण्डलं पञ्चहस्तकम्

27.88

कृत्वा तन्मध्यमे न्यस्य शालिद्रोणद्वयं मुने ।
विस्तीर्य वेदिमध्ये तु तदर्धं तण्डुलं तथा

27.89

तत्र मध्ये न्यसेद्विद्वान् कलशान् द्वादश क्रमात् ।
मध्यमे तु घृतं न्यस्य तत्र पूर्वे दधि न्यसेत्

27.90

दक्षिणे विन्यसेत् क्षीरं मधु वारुणगोचरे ।
सोमे चोष्णोदकं न्यस्य साधकः परमार्थवित्

27.91

आग्नेय्यां गन्धतोयं तु नैरृते पुष्पतोयकम् ।
वायव्ये मङ्गलोदं तु ईशाने शुद्धवारिभिः

27.92

हस्तमुत्सृज्य नवकादैन्द्रे वा चोत्तरे ऽथवा ।
स्थापयेत् क्रमयोगेन चूर्णानि क्रमयोगतः

27.93

परमेष्ट्यादिभिर्मन्त्रैः स्नापयेत् पुरुषोत्तमम् ।
ततश्च विमृजेच्चूर्णैर्मूलेनाङ्गादि दैवके

27.94

पुनश्च कुशकूर्चेन मार्जयेद्बिम्बमुत्तमम् ।
एवं वै कलशान् न्यस्य कूर्चद्रव्यात् न्यसेद्बुधः

27.95

चक्रिकां स्थापयेत्तस्मिन् गन्धपुष्पं विनिक्षिपेत् ।
नववस्त्रैस्तु संछाद्य गन्धपुष्पादिनार्चयेत्

27.96

ततस्तु परितः कुर्याद्रक्षार्थं कुमुदादिकान् ।
कुमुदं पूर्वदिग्भागे पुण्डरीकं तु दक्षिणे

27.97

शङ्कुकर्णं प्रतीच्यां तु सुमुखं चोत्तरे न्यसेत् ।
आग्नेये कुमुदाक्षं तु नैरृते वामनं न्यसेत्

27.98

सर्पनेत्रं तु वायव्यामीशाने सुप्रतिष्ठतम् ।
एवं तु कुमुदादींस्तु कलशेषु न्यसेद्बुधः

27.99

तुलसीसहदेवी च बिल्वमौदुम्बरं तथा ।
अश्वत्थं प्लक्षवकुलं सदाभद्रा प्रकीर्तिताः

27.100

एतेषां पल्लवान् गृह्य कलशेषु न्यसेत् क्रमात् ।
पुष्पादिभिः समभ्यर्च्य धूपदीपान्तमेव च

27.101

एवं वै कलशान् न्यस्य द्रव्यदेवान् ब्रवीमि ते ।
शालिनीवारमाषांश्च चन्दनोशीरमेव च

27.102

पञ्चचूर्णमिति ख्यातं परागाणामनुत्तमम् ।
चन्दनं कुङ्कुमोशीरं चम्पकोत्पलवासितम्

27.103

गन्धतोयमिति ख्यातं गङ्गावारिसमप्रभम् ।
उत्पलं मल्लिकाजातिपाटलं पद्ममेव च

27.104

पञ्च पुष्पोदकमिदं पञ्चोपनिषदं न्यसेत् ।
इन्द्रवल्यङ्कुराश्वत्थदलैकं पद्ममेव च

27.105

एतत्तु कथितं पूर्वं मङ्गलं मङ्गलोदकम् ।
शुद्धतोयं समादाय मन्त्रेण परमेष्ठिना

27.106

कुशाग्रेण मथित्वा तु देवेशमभिषेचयेत् ।
कुङ्कुमोशीरकुष्ठं च रजनीचन्दनं तथा

27.107

एतत्तीर्थमयं पुण्यं तीर्थचूर्णमिति स्मृतम् ।
रजनीष्वेकवर्ज्यं तु द्रोणं वाप्यर्धमेव वा

27.108

आढकं वा तदर्धं वा चूर्णं कुर्यात्तु मन्त्रवित् ।
चूर्णानामप्यलाभे तु रजनीचूर्णमुत्तमम्

27.109

शालिभिर्वाथ सर्वेषां स्नापयेन्मूलविद्यया ।
घृतादिस्नेहद्रव्याणामाढकं वार्धमेव वा

27.110

सर्वेषामप्यलाभे तु पूरयेद्गन्धवारिणा ।
तेनैव स्नापयेद्देवं यथावित्तानुसारतः(?)

27.111

यत्प्रोक्तं चोत्सवे पुष्पं तस्या (?) एवं तु मन्त्रवित् ।
तत्तद्दोषं स्मरेत् क्षिप्य तुलसी चोत्पलाक्षतम्

27.112

एवं द्रव्यं तु संप्रोक्तं दैवतं कथयामि ते ।
दामोदरावसानाश्च केशवाद्याश्च मूर्तयः

27.113

घृतादिकलशानां तु देवताः परिकीर्तिताः ।
रक्षार्थं कलशानां तु कुमुदादीनि दैवतम्

27.114

उद्धारणक्रमं येन तत्प्रोक्तं दैवतं क्रमात् ।
एवं संस्थाप्य विधिवत् पश्चाच्छुद्धिं समाचरेत्

27.115

पुण्याहं वाचयित्वा तु प्रोक्षयेत् कुशवारिणा ।
एवं संप्रोक्ष्य विधिवत् ततः स्नपनमाचरेत्

27.116

घृतेन दध्ना पयसा मधुनोष्णाकदकेन च ।
स्नापयेत् पञ्चचूर्णैश्च संप्रपूज्य प्रभुं मुने

27.117

अष्टाक्षरेण गन्धाम्भः पुष्पाम्भो द्वादशाक्षरैः ।
मङ्गलं विष्णुगायत्र्या शुद्धाम्भः प्रणवेन तु

27.118

तीर्थचूर्णं ततः स्नाप्य मूलमन्त्रेण साधकः ।
स्नपनान्ते तु संस्थाप्य रजनीचूर्णमुत्तमम्

27.119

आज्यादिनिशि(?)चूर्णान्तं एवं संस्नापयेत् क्रमात् ।
गन्धपुष्पादिनाभ्यर्च्य दीपान्तं च महामुने

27.120

स्नपनान्ते तु मन्त्रज्ञः कुमुदादींश्च रक्षकान् ।
देवस्य शिरसि भ्राम्य भक्तानां तु प्रदापयेत्

27.121

एवं तु स्नपनं कृत्वा नदीस्नानं तु कारयेत् ।
तीरे देवं समानीय कुशकूर्चेन मार्जयेत्

27.122

पाद्यादिदीपपर्यन्तं अर्चयेत् कौतुकं ततः ।
अवगाह्य च तत्तीर्थं तीर्थानावाह्य सर्वतः

27.123

कृत्वाघमर्षणं तत्र पञ्चमन्त्रैः समाहितः ।
जलकेलिं ततः कृत्वा तीरमासाद्य देशिकः

27.124

तत्र तीर्थजले स्नातः सर्वपापैः प्रमुच्यते ।
अलंकृत्य तु वस्त्राद्यैर्गन्धपुष्पादिनार्चयेत्

27.125

हविर्महाहविर्वापि दत्वा नृत्तादि कारयेत् ।
देवस्य पूर्वदिग्देशे बलिं दद्यात् समाहितः

27.126

नमो ऽस्तु सर्वदेवेभ्य एवमुच्चार्य मन्त्रतः ।
पालिकाद्यैरलंकृत्य यानमारोपयेद्धरिम्

27.127

पुनः प्रदक्षिणं कुर्यात् ग्रामं वा नगरं तु वा ।
आलयं वाप्यभावे तु यथावित्तानुसारतः(!)

27.128

स्वस्तिवाचनसंयुक्तं शङ्खभेरीरवाकुलम् ।
प्रदीपशतसंयुक्तं नृत्तगीतादिसंयुतम्

27.129

पुष्पवृष्टिसमायुक्तमक्षता(?) लाजसंयुतम् ।
सामगीतसमायुक्तं जयशब्दसमन्वितम्

27.130

प्रदक्षिणं परिक्रम्य नद्रुतं नविलम्बितम् ।
यागभूमिं समासाद्य पूजयित्वा यथाक्रमम्

27.131

स्नपनं विधिवत् कृत्वा पुष्पयागं समारभेत् ।
कृत्वा पद्मं चक्रकं मण्डलं वा तत्र स्थाने वासुदेवादिकां (-का?) श्च

27.132

शङ्खाद्या वै बाह्यतो लोकपालाः विष्वक्सेनो वैनतेयश्च बाह्ये ।
भूतेशा वै बाह्यतः पूजनीयाः गौल्यन्नं वै भक्ष्यमग्नेश्च कार्यम्

27.133

पुण्याहार्घ्यं पुष्पमेकं बलिं च पूजापुज्ये मूलबिम्बे स्थितं वै ।
चक्रलक्षणमार्गे तु शेषमस्मिन्नियोजयेत्

27.134

ध्वजावरोहणं कुर्यात् उद्वास्यैव तु देवताः ।
दत्वा महाबलिं ताभ्यो मुद्गान्नापूपलाजकैः

27.135

सक्तुभिर्ग्रामबाह्ये च मध्ये चैव क्षमाप्य च ।
ध्वजाद्विसर्जयेद्देवं वैनतेयं स्वमन्त्रतः

27.136

एकरात्रिद्विरात्रे वा त्रिरात्रे तु महामुने ।
ध्वजावरोहणं कुर्यात् अधिकं तु न कारयेत्

27.137

अधिकं यदि चेत्तत्र स्नपनं कारयेत् क्रमात् ।
उत्सवप्रतिमायां तु स्नपनं त्वधमोत्तमम्

27.138

पञ्चविंशतिभिर्वापि कलशैर्द्वादशैस्तु वा ।
यथावित्तानुसारेण (!) स्नपनं कारयेद्धरिम्

27.139

ध्वजावरोहणं पश्चात् कारयेन्मन्त्रवित्तमः ।
कर्षणादिषु पूजायां प्रतिष्ठारोहणादिषु

27.140

ध्वाजारोहणवेलायां ध्वजस्याप्यवरोहणे ।
उत्सवे बलिदाने तु शङ्खाद्यैश्चैव घोषयेत्

27.141

शङ्खतूर्यादिनिर्घोषं हरितृप्तिकरं मुने ।
रक्षोविद्रावणं चैव राजशान्तिकरं तथा

27.142

राष्ट्रवृद्धिकरं सम्यक् यजमानसुखावहम् ।
स्नपनस्थापनादीनां या मुद्रा यस्य कथ्यते

27.143

तां तथाशक्नुवन् कर्तुं मूलमन्त्रं न्यसेत् करे ।
तेन कुर्वन् क्रियाः सर्वाः करेण मुनिपुङ्गव

27.144

तृतीयं समनुध्यानं ते चान्ते ऽञ्जलिकारकाः ।
तृप्तिं कुर्वन्ति देवस्य जलस्थानजलेश्वरान्(?)

27.145

तृप्त (तर्प) येदात्मनस्तृप्तिमिति गुह्योपदेशकः ।
देवोत्सवादिक्रियया नृपस्य बलायुरारोग्यजयश्रियश्च

27.146

राष्ट्रस्य वृद्धिर्धनधान्ययुग्वै प्रयोजयित्रादि फलं सुखादि ।
उत्सवाङ्गमथो वक्ष्ये यागमण्डपमुत्तमम्

27.147

दक्षिणे गोपुरस्यैव आनेय्यां दिशि वै तथा ।
याम्यायामुत्तरे वाथ कारयेद्यागमण्डपम्

27.148

तत्पूर्वभागे कर्तव्यं कुण्डं लक्षणसंयुतम् ।
कुण्डपार्श्वे मुनिश्रेष्ठ वेदिं कुर्याद्यथाविधि

27.149

चतुर्हस्तप्रमाणेन कारयेद्वेदिमुत्तमाम् ।
विस्तारायामतुल्या स्याद्यागवेदिर्महामुने

27.150

त्रिहस्तं वा द्विहस्तं वा कारयेद्वेदिमुत्तमाम् ।
रत्निमात्रसमुत्सेधामथवा तालमात्रकाम्

27.151

दर्पणोदरसंकाशां यागवेदिमनुत्तमाम् ।
एवं कृत्वा विधानेन वेदिं भुक्तिशुभप्रदाम्

27.152

तत्रोपरि लिखेत् पद्ममष्टपत्रदलाकृति ।
गोमयेन समालिप्य द्वादशाक्षरविद्यया

27.153

प्रोक्षयेत्तेन मन्त्रेण कुशपूतेन वारिणा ।
पालिका चाङ्कुरोपेतमष्टमङ्गलसंयुतम्

27.154

पूर्वादिक्रमयोगेन शङ्खादीन् मङ्गलान्(!)न्यसेत् ।
उत्तमादिक्रमं प्रोक्तं वेदिकालक्षणं मुने

27.155

पुण्याहं वाचयित्वा तु प्रोक्षयित्वा कुशाम्भसा ।
स्वस्तिसूक्तं ततोच्चार्य(?)ब्राह्मणैः सह मन्त्रवित्

27.156

तत्र मध्ये मुनिश्रेष्ठ शालिना वेदिमाचरेत् ।
पञ्चभारप्रमाणं वा तस्यार्धं वार्धमेव वा

27.157

विस्तीर्य वेदिमध्ये तु रक्तशाल्यन्तमेव वा ।
पूर्ववद्विलिखेद्रक्तपद्ममष्टदलैर्युतम्

27.158

तत्र मध्ये तु संस्थाप्य नवकुम्भान् यथाक्रमम् ।
सूत्रत्रयसमोपेतान् गालितोदकपूरितान्

27.159

वस्त्रयुग्मैरलंकृत्य गन्धपुष्पसमन्वितान् ।
पञ्चरत्नसमोपेतान् कूर्चत्रयसमन्वितान्

27.160

अश्वत्थपल्लवैर्युक्तांश्चक्रिकाभिः पिधाय तु ।
एवं लक्षणसंयुक्तकुम्भेष्वावाहयेत् क्रमात्

27.161

महाबेरान्नयेच्छक्तिं मध्यकुम्भे महामुने ।
पूर्वादि चष्टकुम्भेषु वासुदेवादिकान् यजेत्

27.162

अर्घ्यपाद्यादिनाभ्यर्च्य हवींषि मुखवासकम् ।
दापेयत् कुम्भमध्यस्थदेवाय मुनिसत्तम

27.163

पूर्वादि चाष्टकुम्भेषु तच्छेषेण बलिं क्षिपेत् ।
वासुदेवादिकान् ज्ञात्वा स्वनाम्नैव पृथक् पृथक्

27.164

ततस्तु कुमुदादीनां कुम्भस्य परितोर्ऽचयेत् ।
घण्टाशब्दसमोपेतं कुक्कुटाण्डप्रमाणतः

27.165

स्वस्तिवाचनसंयुक्तं धूपदीपसमन्वितम् ।
स्वनम्ना बलिदानं तु साधयेत् साधकोत्तमः

27.166

नारिकेलफलं दद्यात् सन्ध्ययोरेवमर्चयेत् ।
तत्पूजान्ते तु मन्त्रज्ञो होमकर्म समारभेत्

27.167

अष्टोत्तरशतं वापि तदर्धं वार्धमेव वा ।
समिदादितिलान्तं तु जुहुयात् साधकोत्तमः

27.168

होमान्ते बलिदानं तु कारयेद्ग्रामवास्तुषु ।
ततस्तीर्थस्य दिवसे पूर्वाह्णे होमपूजनम्

27.169

कारयेत् पूर्ववत् सम्यक् साधकः परमार्थवित् ।
होमान्ते चानयेत् कुम्भात्तच्चक्षुर्मूलबेरके

27.170

ततस्तु वासुदेवादीन् नयेत् पूर्ववदावृते ।
वत्सरे वत्सरे ब्रह्मन् कर्तव्यं परमं शुभम्

27.171

नित्यपूजाविहीनस्य प्रायश्चित्तं महोत्सवम् ।
एवं संपूजयेद्देवं चोत्सवे यागमण्डपे

27.172

तीर्थस्य दिवसं यावत्तावत् संपूजयेत् क्रमात् ।
यागमण्डपपूजायामङ्कुरार्पणपूजने

27.173

बलिशेषं होमशेषं पात्रशेषं तथैव च ।
अस्मिन्निवेदितं सर्वमाचार्याय प्रदापयेत्

27.174

अन्यथा निष्फलं याति यजमानस्य रोगकृत् ।
तस्मात् सर्वप्रयत्नेन कारयेच्छास्त्रचोदितम्

27.175

यः कारयेत्तु मतिमान् तत्फलं समवाप्नुयात् ।
यागमण्डपपूजां तु विना चेदुत्सवं कुरु

27.176

केवलं होममात्रेण चाप्यलं तु महोत्सवम् ।
धन्यं यशस्यमायुष्यं सर्वपापनिकृन्तनम्

मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc