भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 51

51.59

असंस्कृतान् पशून् मन्त्रैर् नाद्याद् विप्रः कथंचन
मन्त्रैस् तु संस्कृतान् अद्याच् छाश्वतं विधिम् आस्थितः ॥

51.60

यावन्ति पशुरोमाणि तावत् कृत्वेह मारणम्
वृथा पशुघ्नः प्राप्नोति प्रेत्य चेह च निष्कृतिम् ॥

51.61

यज्ञार्थं पशवः सृष्टाः स्वयम् एव स्वयंभुवा
यज्ञो हि भूत्यै सर्वस्य तस्माद् यज्ञे वधो ऽवधः ॥

51.62

न तादृशं भवत्य् एनो मृगहन्तुर् धनार्थिनः
यादृशं भवति प्रेत्य वृथा मांसानि खादतः ॥

51.63

ओषध्यः पशवो वृक्षास् तिर्यञ्चः पक्षिणस् तथा
यज्ञार्थं निधनम् प्राप्ताः प्राप्नुवन्त्य् उच्छ्रितीः पुनः ॥

51.64

मधुपर्के च यज्ञे च पितृदैवतकर्मणि
अत्रैव पशवो हिंस्या नान्यत्रेति कथंचन ॥

51.65

यज्ञार्थेषु पशून् हिंसन् वेदतत्त्वार्थविद् द्विजः
आत्मानं च पशूंश् चैव गमयत्य् उत्तमां गतिम् ॥

51.66

गृहे गुराव् अरण्ये वा निवसन्न् आत्मवान् द्विजः
नावेदविहितां हिंसाम् आपद्य् अपि समाचरेत् ॥

51.67

या वेदविहिता हिंसा नियतास्मिंश् चराचरे
अहिंसाम् एव तां विद्याद् वेदाद् धर्मो हि निर्बभौ ॥

51.68

यो ऽहिंसकानि भूतानि हिनस्त्य् आत्मसुखेच्छया
स जीवंश् च मृतश् चैव न क्वचित् सुखम् एधते ॥

51.69

यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति
स सर्वस्य हितप्रेप्सुः सुखम् अत्यन्तम् अश्नुते ॥

51.70

यद् ध्यायति यत् कुरुते रतिं बध्नाति यत्र च
तद् एवाप्नोत्य् अयत्नेन यो हिनस्ति न किंचन ॥

51.71

नाकृत्वा प्राणिनां हिंसां मांसम् उत्पद्यते क्वचित्
न च प्राणिवधः स्वर्ग्यस् तस्मान् मांसं विवर्जयेत् ॥

51.72

समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम्
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥

51.73

न भक्षयति यो मांसं विधिं हित्वा पिशाचवत्
स लोके प्रियतां याति व्याधिभिश् च न पीड्यते ॥

51.74

अनुमन्ता विशसिता निहन्ता क्रयविक्रयी
संस्कर्ता चोपहर्ता च खादकश् चेति घातकाः ॥

51.75

स्वमांसं परमांसेन यो वर्धयितुम् इच्छति
अनभ्यर्च्य पितॄन् देवान् न ततो ऽन्यो ऽस्त्य् अपुण्यकृत् ॥

51.76

वर्षे वर्षे ऽश्वमेधेन यो यजेत शतं समाः
मांसानि च न खादेद् यस् तयोः पुण्यफलं समम् ॥

51.77

फलमूलाशनैर् दिव्यैर् मुन्यन्नानां च भोजनैः
न तत् फलम् अवाप्नोति यन् मांसपरिवर्जनात् ॥

51.78

मां स भक्षयितामुत्र यस्य मांसम् इहाद्म्य् अहम्
एतन् मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc