ग्रंथ पाठ
विष्णुस्मृति · अध्याय 52
52.14
दत्त्वैवापहृतं द्रव्यं धनिकस्याप्य् उपायतः
प्रायश्चित्तं ततः कुर्यात् कल्मषस्यापनुत्तये ॥
52.15
यद् यत् परेभ्यस् त्व् आदद्यात् पुरुषस् तु निरङ्कुशः
तेन तेन विहीनः स्याद् यत्र यत्राभिजायते ॥
52.16
जीवितं धर्मकामौ च धने यस्मात् प्रतिष्ठितौ
तस्मात् सर्वप्रयत्नेन धनहिंसां विवर्जयेत् ॥
52.17
प्राणिहिंसापरो यस् तु धनहिंसापरस् तथा
महद् दुःखम् अवाप्नोति धनहिंसापरस् तयोः ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0