विष्णुस्मृति · अध्याय 50
अस्थन्वतां तु सत्त्वानां सहस्रस्य प्रमापणे
पूर्णे चानस्य् अनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥
किंचिद् एव तु विप्राय दद्याद् अस्थिमतां वधे
अनस्ह्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥
फलदानां तु वृक्षाणां छेदने जप्यम् ऋक्शतम्
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥
अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥
कृष्टजानाम् ओषधीनां जातानां च स्वयं वने
वृथालम्भे ऽनुगच्छेद् गां दिनम् एकम् पयोव्रतः ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0