विष्णुस्मृति · अध्याय 11
यो हस्तयोः क्वचिद् दग्धस् तम् अशुद्धं विनिर्दिषेत्
न दग्धः सर्वथा यस् तु स विशुद्धो भवेन् नरः ॥
भयाद् वा पातयेद् यस् तु दग्धो वा न विभाव्यते
पुनस् तं हारयेल् लोहं समयस्याविशोधनात् ॥
करौ विमृदितव्रीहेस् तस्यादाव् एव लक्षयेत्
अभिमन्त्र्यास्य करयोर् लोहपिण्डं ततो न्यसेत् ॥
त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि साक्षिवत्
त्वम् एवाग्ने विजानीषे न विदुर् यानि मानवाः ॥
व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0