भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 10

10.9

ब्रह्मघ्नां ये स्मृता लोका ये लोकाः कूटसाक्षिणाम्
तुलाधारस्य ते लोकास् तुलां धारयतो मृषा ॥

10.10

धर्मपर्यायवचनैर् धट इत्य् अभिधीयसे
त्वम् एव धट जानीषे न विदुर् यानि मानुषाः ॥

10.11

व्यवहाराभिशस्तो ऽयं मानुषस् तोल्यते त्वयि
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥

10.12

ततस् त्व् आरोपयेच् छिक्ये भूय एवाथ तं नरम्
तुलितो यदि वर्धेत ततः शुद्धः स धर्मतः ॥

10.13

शिक्यच्छेदाक्षभङ्गेषु भूयस् त्व् आरोपयेन् नरम्
एवं निःसंशयं ज्ञानं यतो भवति निर्णयः ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc