भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 12

12.6

तन्मध्ये यो न दृश्येत स शुद्धः परिकीर्तितः
अन्यथा ह्य् अविशुद्धः स्याद् एकाङ्गस्यापि दर्शने ॥

12.7

त्वम् अम्भः सर्वभूतानाम् अन्तश् चरसि साक्षिवत्
त्वम् एवाम्भो विजानीषे न विदुर् यानि मानुषाः ॥

12.8

व्यवहाराभिशतो ऽयं मानुषस् त्वयि मज्जति
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc