विष्णुपुराण (समीक्षित संस्करण) · अध्याय 6.7
न प्रार्थितं त्वया कस्मान् मम राज्यम् अकण्टकम्
राज्यलाभाद् विना नान्यत् क्षत्रियाणाम् अतिप्रियम् ॥
केशिध्वज निबोध त्वं मया न प्रार्थितं यतः
राज्यम् एतद् अशेषं ते यत्र गृध्नन्त्य् अपण्डिताः ॥
क्षत्रियाणाम् अयं धर्मो यत् प्रजापरिपालनम्
वधश् च धर्मयुद्धेन स्वराज्यपरिपन्थिनाम् ॥
यत् प्रजापालनं यच् च स्वराज्यप्रतिपक्षणाम् ॥
यत्राशक्तस्य मे दोषो नैवास्त्य् अपहृते त्वया
बन्धायैव भवत्य् एषा अविद्याप्य् अक्रमोज्झिता ॥
जन्मोपभोगलिप्सार्थम् इयं राज्यस्पृहा मम
अन्येषां दोषजा नैव धर्मम् एवानुरुध्यते ॥
न याच्ञा क्षत्रबन्धूनां धर्मायैतत् सतां मतम् ॥
जन्मोपभोगक्षयदं योगाद् अन्यन् न विद्यते ॥
ब्रह्मवीहि महाभाग योगं योगविदुत्तम ॥
विज्ञातयोगशास्त्रार्थाः त्वम् अस्यान् निमिसंततौ ॥
अतो न याचितं राज्यम् अविद्यान्तर्गतं तव ॥
राज्ये गृध्नन्त्य् अविद्वांसो ममत्वाहृतचेतसः
अहंमानमहापान मदमत्ता न मादृशाः ॥
ततः प्रहृष्टः साध्व् इति प्राह केशिध्वजो नृपः
खाण्डिक्यजनकं प्रीत्या श्रूयतां वचनं मम ॥
अहम् अविद्यया मृत्युं तर्तुकामः करोमि वै
राज्यं यागांश् च विविधान् भोगैः पुण्यक्षयं तथा ॥
तद् इदं ते मनो दिष्ट्या विवेकैश्वर्यतां गतम्
श्रूयतां चाप्य् अविद्यायाः स्वरूपं कुलनन्दन ॥
अनात्मन्य् आत्मबुद्धिर् या अस्वे स्वम् इति या मतिः
अविद्यातरुसंभूति बीजम् एतद् द्विधा स्थितम् ॥
पञ्चभूतात्मके देहे देही मोहतमोवृतः
अहम् एतद् इतीत्य् उच्चैः कुरुते कुमतिर् मतिम् ॥
आकाशवाय्वग्निजल पृथिवीभ्यः पृथक् स्थिते
आत्मन्य् आत्ममयं भावं कः करोति कलेवरे ॥
कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च कः
अदेहे ह्य् आत्मनि प्राज्ञो ममेदम् इति मन्यते ॥
इत्थं च पुत्रपौत्रेषु तद्देहोत्पादितेषु कः
करोति पण्डितः स्वाम्यम् अनात्मनि कलेवरे ॥
सर्वं देहोपभोगाय कुरुते कर्म मानवः
देहश् चान्यो यदा पुंसस् तदा बन्धाय तत्परम् ॥
यदि नामास्य कायस्य यद् अन्तस् तद् बहिर् भवेत् ॥
दण्डम् आदाय लोको ऽयं शुनः काकांश् च वारयेत् ॥
मृण्मयं हि यथा गेहं लिप्यते वै मृदम्भसा
पार्थिवो ऽयं तथा देहो मृदम्भोलेपनस्थितिः ॥
पञ्चभूतात्मकैर् भोगैः पञ्चभूतात्मकं वपुः
आप्यायते यदि ततः पुंसो गर्वो ऽत्र किं कृतः ॥
अनेकजन्मसाहस्रीं संसारपदवीं व्रजन्
मोहश्रमं प्रयातो ऽसौ वासनारेणुगुण्ठितः ॥
प्रक्षाल्यते यदा सो ऽस्य रेणुर् ज्ञानोष्णवारिणा
तदा संसारपान्थस्य याति मोहश्रमः शमम् ॥
मोहश्रमे शमं याते स्वस्थान्तःकरणः पुमान्
अनन्यातिशयाबाधं परं निर्वाणम् ऋच्छति ॥
निर्वाणमय एवायम् आत्मा ज्ञानमयो ऽमलः
दुःखाज्ञानमला धर्माः प्रकृतेस् ते तु नात्मनः ॥
जलस्य नाग्निसंसर्गः स्थालीसङ्गात् तथापि हि
शब्दोद्रेकादिकान् धर्मांस् तत् करोति यथा मुने ॥
तथात्मा प्रकृतेः सङ्गाद् अहंमानादिदूषितः
भजते प्राकृतान् धर्मान् अन्यस् तेभ्यो हि सो ऽव्ययः ॥
तद् एतत् कथितं बीजम् अविद्याया मया तव
क्लेशानां च क्षयकरं योगाद् अन्यन् न विद्यते ॥
तं ब्रवीहि महाभाग योगं योगविदुत्तम
विज्ञातयोगशास्त्रार्थस् त्वम् अस्यां निमिसंततौ ॥
योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम
यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥
मन एव मनुष्याणां कारणं बन्धमोक्षयोः
बन्धस्य विषयासङ्गि मुक्तेर् निर्विषयं तथा ॥
विषयेभ्यः समाहृत्य विज्ञानात्मा मनो मुनिः
चिन्तयेन् मुक्तये तेन ब्रह्मभूतं परेश्वरम् ॥
आत्मभावं नयत्य् एनं तद् ब्रह्मध्यायिनं मुने
विकार्यम् आत्मनः शक्त्या लोहम् आकर्षको यथा ॥
आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः
तस्या ब्रह्मणि संयोगो योग इत्य् अभिधीयते ॥
एवम् अत्यन्तवैशिष्ट्य युक्तधर्मोपलक्षणः
यस्य योगः स वै योगी मुमुक्षुर् अभिधीयते ॥
एको वै बन्धमोक्षस्य न द्वितीयो ऽस्ति कश्चन ॥
पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् ॥
सङ्गस्य कर्मणा बुद्धिः पूर्वोत्पत्तौ न संभवेत् ॥
एवं धर्मो ऽभ्युपायेन नान्यधर्मेषु कारणम् ॥
योगयुक् प्रथमं योगी युञ्जमानो ऽभिधीयते
विनिष्पन्नसमाधिस् तु परब्रह्मोपलब्धिमान् ॥
यद्य् अन्तरायदोषेण दूष्यते चास्य मानसम्
जन्मान्तरैर् अभ्यसतो मुक्तिः पूर्वस्य जायते ॥
विनिष्पन्नसमाधिस् तु मुक्तिं तत्रैव जन्मनि
प्राप्नोति योगी योगाग्नि दग्धकर्मचयो ऽचिरात् ॥
ब्रह्मचर्यम् अहिंसां च सत्यास्तेयापरिग्रहान्
सेवेत योगी निष्कामो योग्यतां स्वमनो नयन् ॥
स्वाध्यायशौचसंतोष तपांसि नियतात्मवान्
कुर्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः ॥
एते यमाः सनियमाः पञ्च पञ्च प्रकीर्तिताः
विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ॥
एकं भद्रासनादीनां समास्थाय गुणैर् युतः
यमाख्यैर् नियमाख्यैश् च युञ्जीत नियतो यतिः ॥
प्राणाख्यम् अनिलं वश्यम् अभ्यासात् कुरुते तु यत्
प्राणायामः स विज्ञेयः सबीजो ऽबीज एव च ॥
परस्परेणाभिभवं प्राणापानौ यदानिलौ
कुरुतः स द्विधानेन तृतीयः संयमात् तयोः ॥
तस्य चालम्बनवतः स्थूलरूपं द्विजोत्तम
आलम्बनम् अनन्तस्य योगिनो ऽभ्यसतः स्मृतम् ॥
शब्दादिष्व् अनुरक्तानि निगृह्याक्षाणि योगवित्
कुर्याच् चित्तानुकारीणि प्रत्याहारपरायणः ॥
वश्यता परमा तेन जायते ऽतिचलात्मनाम्
इन्द्रियाणाम् अवश्यैस् तैर् न योगी योगसाधकः ॥
प्राणायामेन पवनैः प्रत्याहारेण चेन्द्रियैः
वशीकृतैस् ततः कुर्यात् स्थितं चेतः शुभाश्रये ॥
कथ्यतां मे महाभाग चेतसो यः शुभाश्रयः
यदाधारम् अशेषं तद् धन्ति दोषसमुद्भवम् ॥
आश्रयश् चेतसो ब्रह्म द्विधा तच् च स्वरूपतः
भूप मूर्तम् अमूर्तं च परं चापरम् एव च ॥
त्रिविधा भावना भूप विश्वम् एतन् निबोधताम्
ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥
कर्मभावात्मिका ह्य् एका ब्रह्मभावात्मिकापरा
उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥
सनन्दनादयो ब्रह्म भावभावनया युताः
कर्मभावनया चान्ये देवाद्याः स्थावराश् चराः ॥
हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा
अधिकारबोधयुक्तेषु विद्यते भावभावना ॥
अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु
विश्वम् एतत् परं चान्यद् भेदभिन्नदृशां नृप ॥
प्रत्यस्तमितभेदं यत् सत्तामात्रम् अगोचरम्
वचसाम् आत्मसंवेद्यं तज् ज्ञानं ब्रह्मसंज्ञितम् ॥
तच् च विष्णोः परं रूपम् अरूपस्याजम् अक्षरम्
विश्वस्वरूपवैरूप्य लक्षणं परमात्मनः ॥
न तद् योगयुजा शक्यं नृप चिन्तयितुं यतः
ततः स्थूलं हरे रूपं चिन्तयेद् विश्वगोचरम् ॥
हिरण्यगर्भो भगवान् वासवो ऽथ प्रजापतिः
मरुतो वसवो रुद्रा भास्करास् तारका ग्रहाः ॥
गन्धर्वयक्षदैत्याद्याः सकला देवयोनयः
मनुष्याः पशवः शैलाः समुद्राः सरितो द्रुमाः ॥
भूप भूतान्य् अशेषाणि भूतानां ये च हेतवः
प्रधानादिविशेषान्तं चेतनाचेतनात्मकम् ॥
एकपादं द्विपादं च बहुपादम् अपादकम्
मूर्तम् एतद् धरे रूपं भावनात्रितयात्मकम् ॥
एतत् सर्वम् इदं विश्वं जगद् एतच् चराचरम्
परब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम् ॥
तत्त्वाच् च शक्तिविक्षेपाः तदाज्ञासंज्ञिता विभोः ॥
विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा
अविद्या कर्मसंज्ञान्या तृतीया शक्तिर् इष्यते ॥
यया क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा
संसारतापान् अखिलान् अवाप्नोत्य् अतिसंततान् ॥
तया तिरोहितत्वाच् च शक्तिः क्षेत्रज्ञसंज्ञिता
सर्वभूतेषु भूपाल तारतम्येन लक्ष्यते ॥
अप्राणवत्सु स्वल्पाल्पा स्थावरेषु ततो ऽधिका
सरीसृपेषु तेभ्यो ऽन्याप्य् अतिशक्त्या पतत्त्रिषु ॥
पतत्त्रिभ्यो मृगास् तेभ्यस् तच्छक्त्या पशवो ऽधिकाः
पशुभ्यो मनुजाश् चापि शक्त्या पुंसः प्रभाविताः ॥
तेभ्यो ऽपि नागगन्धर्व यक्षाद्या देवता नृप ॥
शक्रः समस्तदेवेभ्यस् ततश् चापि प्रजापतिः
हिरण्यगर्भो ऽपि ततः पुंसः शक्त्युपलक्षितः ॥
एतान्य् अशेषरूपाणि तस्य रूपाणि पार्थिव
यतस् तच्छक्तियोगेन युक्तानि नभसा यथा ॥
द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते
अमूर्तं ब्रह्मणो रूपं यत् सद् इत्य् उच्यते बुधैः ॥
समस्ताः शक्तयश् चैता नृप यत्र प्रतिष्ठिताः
तद् विश्वरूपरूपं वै रूपम् अन्यद् धरेर् महत् ॥
समस्तशक्तिरूपाणि तत् करोति जनेश्वर
देवतिर्यङ्मनुष्यादि चेष्टावन्ति स्वलीलया ॥
जगताम् उपकाराय न सा कर्मनिमित्तजा
चेष्टा तस्याप्रमेयस्य व्यापिन्य् अव्याहतात्मिका ॥
तद् रूपं विश्वरूपस्य तस्य योगयुजा नृप
चिन्त्यम् आत्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम् ॥
यथाग्निर् उद्धतशिखः कक्षं दहति सानिलः
तथा चित्तस्थितो विष्णुर् योगिनां सर्वकिल्बिषम् ॥
तस्मात् समस्तशक्तीनाम् आधारे तत्र चेतसः
कुर्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा ॥
शुभाश्रयः स चित्तस्य सर्वगस्य तथात्मनः
त्रिभावभावनातीतो मुक्तये योगिनां नृप ॥
अन्ये तु पुरुषव्याघ्र चेतसो ये व्यपाश्रयाः
अशुद्धास् ते समस्तास् तु देवाद्याः कर्मयोनयः ॥
मूर्तं भगवतो रूपं सर्वापाश्रयनिःस्पृहम्
एषा वै धारणा प्रोक्ता यच् चित्तं तत्र धार्यते ॥
तच् च मूर्तं हरे रूपं यादृक् चिन्त्यं नराधिप
तच् छ्रूयताम् अनाधारे धारणा नोपपद्यते ॥
प्रसन्नचारुवदनं पद्मपत्त्रोपमेक्षणम्
सुकपोलं सुविस्तीर्ण ललाटफलकोज्ज्वलम् ॥
समकर्णान्तविन्यस्त चारुकर्णविभूषणम्
कम्बुग्रीवं सुविस्तीर्ण श्रीवत्साङ्कितवक्षसम् ॥
वलीत्रिभङ्गिना मग्न नाभिना चोदरेण वै
प्रलम्बाष्टभुजं विष्णुम् अथवापि चतुर्भुजम् ॥
समस्थितोरुजङ्घं च सुस्थिताङ्घ्रिकराम्बुजम्
चिन्तयेद् ब्रह्मभूतं तं पीतनिर्मलवाससम् ॥
किरीटचारुकेयूर कटकादिविभूषितम् ॥
शार्ङ्गशङ्खगदाखड्ग चक्राक्षवलयान्वितम् ॥
वरदाभयहस्तं च मुद्रिकाहस्तभूषितम् ॥
चिन्तयेत् तन्मयो योगी समाधायात्ममानसम् ॥
तावद् यावद् दृढीभूता तत्रैव नृप धारणा
व्रजतस् तिष्ठतो ऽन्यद् वा स्वेच्छया कर्म कुर्वतः
नापयाति यदा चित्तात् सिद्धां मन्येत तां तदा ॥
ततः शङ्खगदाचक्र शार्ङ्गादिरहितं बुधः
चिन्तयेद् भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥
सा यदा धारणा तद्वद् अवस्थानवती ततः
किरीटकेयूरमुखैर् भूषणै रहितं स्मरेत् ॥
तद् एकावयवं देवं चेतसा हि पुनर् बुधः
कुर्यात् ततो ऽवयविनि प्रणिधानपरो भवेत् ॥
तद्रूपप्रत्यया चैका संततिश् चान्यनिःस्पृहा
तद्ध्यानं प्रथमैर् अङ्गैः षड्भिर् निष्पाद्यते नृप ॥
तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत्
मनसा ध्याननिष्पाद्यं समाधिः सो ऽभिधीयते ॥
विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव
प्रापणीयस् तथैवात्मा प्रक्षीणाशेषभावनः ॥
क्षेत्रज्ञः करणी ज्ञानं करणं तेन तस्य तत्
निष्पाद्य मुक्तिकार्यं वै कृतकृत्यं निवर्तते ॥
तद्भावभावम् आपन्नस् ततो ऽसौ परमात्मना
भवत्य् अभेदी भेदश् च तस्याज्ञानकृतो भवेत् ॥
विभेदजनके ऽज्ञाने नाशम् आत्यन्तिकं गते
आत्मनो ब्रह्मणो भेदम् असन्तं कः करिष्यति ॥
इत्य् उक्तस् ते मया योगः खाण्डिक्य परिपृच्छतः
संक्षेपविस्तराभ्यां तु किम् अन्यत् क्रियतां तव ॥
कथिते योगसद्भावे सर्वम् एव कृतं मम
तवोपदेशेनाशेषो नष्टश् चित्तमलो यतः ॥
ममेति यन् मया चोक्तम् असद् एतन् न चान्यथा
नरेन्द्र गदितुं शक्यम् अपि विज्ञेयवेदिभिः ॥
अहं ममेत्य् अविद्येयं व्यवहारस् तथानया
परमार्थस् त्व् असंलाप्यो गोचरे वचसां न सः ॥
तद् गच्छ श्रेयसे सर्वं ममैतद् भवता कृतम्
यद् विमुक्तिप्रदो योगः प्रोक्तः केशिध्वजाव्ययः ॥
यथार्हं पूजया तेन खाण्डिक्येन स पूजितः
आजगाम पुरं ब्रह्मंस् ततः केशिध्वजो नृपः ॥
खाण्डिक्यो ऽपि सुतं कृत्वा राजानं योगसिद्धये
वनं जगाम गोविन्दे विनिवेशितमानसः ॥
तत्रैकान्तरतिर् भूत्वा यमादिगुणशोधितः
विष्ण्वाख्ये निर्मले ब्रह्मण्य् अवाप नृपतिर् लयम् ॥
केशिध्वजो ऽपि मुक्त्यर्थं स्वकर्मक्षपणोन्मुखः
बुभुजे विषयान् कर्म चक्रे चानभिसंधितम् ॥
अकल्याणोपभोगैश् च क्षीणपापो ऽमलस् ततः
अवाप सिद्धिम् अत्यन्त तापक्षयफलां द्विज ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0