भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 6.6

6.6.1

स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः
तत्प्राप्तिकारणं ब्रह्म तद् एतद् इति पठ्यते ॥

6.6.2

स्वाध्यायाद् योगम् आसीत योगात् स्वाध्यायम् आचरेत्
स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ॥

6.6.3

तदीक्षणाय स्वाध्यायश् चक्षुर् योगस् तथापरम्
न मांसचक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते ॥

6.6.4

भगवंस् तम् अहं योगं ज्ञातुम् इच्छामि तं वद
ज्ञाते यत्राखिलाधारं पश्येयं परमेश्वरम् ॥

6.6.5

यथा केशिध्वजः प्राह खाण्डिक्याय महात्मने
जनकाय पुरा योगं तथाहं कथयामि ते ॥

6.6.6

खाण्डिक्यः को ऽभवद् ब्रह्मन् को वा केशिध्वजो ऽभवत्
कथं तयोश् च संवादो योगसंबन्धवान् अभूत् ॥

6.6.7

धर्मध्वजो वै जनकस् तस्य पुत्रो ऽमितध्वजः
कृतध्वजश् च नाम्नासीत् सदाध्यात्मरतिर् नृपः ॥

6.6.8

कृतध्वजस्य पुत्रो ऽभूत् ख्यातः केशिध्वजो द्विज
पुत्रो ऽमितध्वजस्यापि खाण्डिक्यजनको ऽभवत् ॥

6.6.9

कर्ममार्गे ऽति खाण्डिक्यः पृथिव्याम् अभवत् कृती
केशिध्वजो ऽप्य् अतीवासीद् आत्मविद्याविशारदः ॥

6.6.10

ताव् उभाव् अपि चैवास्तां विजिगीषू परस्परम्
केशिध्वजेन खाण्डिक्यः स्वराज्याद् अवरोपितः ॥

6.6.11

पुरोधसा मन्त्रिभिश् च समवेतो ऽल्पसाधनः
राज्यान् निराकृतः सो ऽथ दुर्गारण्यचरो ऽभवत् ॥

6.6.12

इयाज सो ऽपि सुबहून् यज्ञाञ् \ज्ञानव्यपाश्रयः
ब्रह्मविद्याम् अधिष्ठाय तर्तुं मृत्युम् अविद्यया ॥

6.6.13

एकदा वर्तमानस्य यागे योगविदां वर
धर्मधेनुं जघानोग्रः शार्दूलो विजने वने ॥

6.6.14

ततो राजा हतां ज्ञात्वा धेनुं व्याघ्रेण ऋत्विजः
प्रायश्चित्तं स पप्रच्छ किम् अत्रेति विधीयते ॥

6.6.15

ते चोचुर् न वयं विद्मः कशेरुः पृच्छ्यताम् इति
कशेरुर् अपि तेनोक्तस् तथेति प्राह भार्गवम् ॥

6.6.16

शुनकं पृच्छ राजेन्द्र नाहं वेद्मि स वेत्स्यति
स गत्वा तम् अपृच्छच् च सो ऽप्य् आह शृणु यन् मुने ॥

6.6.17

न कशेरुर् न चैवाहं न चान्यः साम्प्रतं भुवि
वेत्त्य् एक एव त्वच्छत्रुः खाण्डिक्यो यो जितस् त्वया ॥

6.6.18

स चाह तं प्रयाम्य् एष प्रष्टुम् आत्मरिपुं मुने
प्राप्त एव मया यज्ञो यदि मां स हनिष्यति ॥

6.6.19

प्रायश्चित्तं स चेत् पृष्टो वदिष्यति रिपुर् मम
ततश् चाविकलो यागो मुनिश्रेष्ठ भविष्यति ॥

6.6.20

इत्य् उक्त्वा रथम् आरुह्य कृष्णाजिनधरो नृपः
वनं जगाम यत्रास्ते खाण्डिक्यः स महामतिः ॥

6.6.21

तम् आयान्तं समालोक्य खाण्डिक्यो रिपुम् आत्मनः
प्रोवाच क्रोधताम्राक्षः समारोपितकार्मुकः ॥

6.6.22

कृष्णाजिनं त्वं कवचम् आबध्यास्मान् निहंस्यसि
कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति ॥

6.6.23

मृगाणां वद पृष्ठेषु मूढ कृष्णाजिनं न किम्
येषां मया त्वया चोग्राः प्रहिताः शितसायकाः ॥

6.6.24

स त्वाम् अहं हनिष्यामि न मे जीवन् विमोक्ष्यसे
आतताय्य् असि दुर्बुद्धे मम राज्यहरो रिपुः ॥

6.6.25

खाण्डिक्य संशयं प्रष्टुं भवन्तम् अहम् आगतः
न त्वां हन्तुं विचार्यैतत् कोपं बाणं विमुञ्च वा ॥

6.6.26

ततः स मन्त्रिभिः सार्धम् एकान्ते सपुरोहितैः
मन्त्रयाम् आस खाण्डिक्यः सर्वैर् एव महामतिः ॥

6.6.27

तम् ऊचुर् मन्त्रिणो वध्यो रिपुर् एष वशं गतः
हते तु पृथिवी सर्वा तव वश्या भविष्यति ॥

6.6.28

खाण्डिक्यश् चाह तान् सर्वान् एवम् एतन् न संशयः
हते तु पृथिवी सर्वा मम वश्या भविष्यति ॥

6.6.29

परलोकजयस् तस्य पृथिवी सकला मम
न हन्मि चेल् लोकजयो मम त्व् अस्य वसुंधरा ॥

6.6.29*11

नाहं मन्ये लोकजयाद् अधिका स्याद् वसुंधरा ॥

6.6.30

परलोकजयो ऽनन्तः स्वल्पकालो महीजयः
तस्माद् एनं न हनिष्ये यत् पृच्छति वदामि तत् ॥

6.6.31

ततस् तम् अभ्युपेत्याह खाण्डिक्यजनको रिपुम्
प्रष्टव्यं यत् त्वया सर्वं तत् पृच्छस्व वदाम्य् अहम् ॥

6.6.32

ततः सर्वं यथावृत्तं धर्मधेनुवधं द्विज
कथयित्वा स पप्रच्छ प्रायश्चित्तं हि तद्गतम् ॥

6.6.33

स चाचष्ट यथान्यायं द्विज केशिध्वजाय तत्
प्रायश्चित्तम् अशेषेण यद् वै तत्र विधीयते ॥

6.6.34

विदितार्थः स तेनैव अनुज्ञातो महात्मना
यागभूमिम् उपागम्य चक्रे सर्वाः क्रियाः क्रमात् ॥

6.6.35

क्रमेण विधिवद् यागं नीत्वा सो ऽवभृथाप्लुतः
कृतकृत्यस् ततो भूत्वा चिन्तयाम् आस पार्थिवः ॥

6.6.36

पूजिता ऋत्विजः सर्वे सदस्या मानिता मया
तथैवार्थिजनो ऽप्य् अर्थैर् योजितो ऽभिमतैर् मया ॥

6.6.37

यथार्हम् अत्र लोकस्य मया सर्वं विचेष्टितम्
अनिष्पन्नक्रियं चेतस् तथापि मम किं यथा ॥

6.6.38

इत्थं संचिन्तयन्न् एव सस्मार स महीपतिः
खाण्डिक्याय न दत्तेति मया वै गुरुदक्षिणा ॥

6.6.39

स जगाम ततो भूयो रथम् आरुह्य पार्थिवः
मैत्रेय दुर्गगहनं खाण्डिक्यो यत्र संस्थितः ॥

6.6.40

खाण्डिक्यो ऽपि पुनर् दृष्ट्वा तम् आयान्तं धृतायुधः
तस्थौ हन्तुं कृतमतिस् तम् आह स पुनर् नृपः ॥

6.6.41

भो नाहं ते ऽपकाराय प्राप्तः खाण्डिक्य मा क्रुधः
गुरोर् निष्क्रयदानाय माम् अवेहि त्वम् आगतम् ॥

6.6.42

निष्पादितो मया यागः सम्यक् त्वदुपदेशतः
सो ऽहं ते दातुम् इच्छामि वृणुष्व गुरुदक्षिणाम् ॥

6.6.43

भूयः स मन्त्रिभिः सार्धं मन्त्रयाम् आस पार्थिवः
गुरुनिष्कृतिकामो ऽत्र किम् अयं प्रार्थ्यताम् इति ॥

6.6.44

तम् ऊचुर् मन्त्रिणो राज्यम् अशेषं प्रार्थ्यताम् अयम्
कृतिभिः प्रार्थ्यते राज्यम् अनायासितसैनिकैः ॥

6.6.45

प्रहस्य तान् आह नृपः स खाण्डिक्यो महामतिः
स्वल्पकालं महीराज्यं मादृशैः प्रार्थ्यते कथम् ॥

6.6.46

एवम् एतद् भवन्तो ऽत्र अर्थसाधनमन्त्रिणः
परमार्थः कथं को ऽत्र यूयं नात्र विचक्षणाः ॥

6.6.47

इत्य् उक्त्वा समुपेत्यैनं स तु केशिध्वजं नृपम्
उवाच किम् अवश्यं त्वं ददासि गुरुदक्षिणाम् ॥

6.6.48

बाढम् इत्य् एव तेनोक्तः खाण्डिक्यस् तम् अथाब्रवीत्
भवान् अध्यात्मविज्ञान परमार्थविचक्षणः ॥

6.6.49

यदि चेद् दीयते मह्यं भवता गुरुनिष्क्रयः
तत् क्लेशप्रशमायालं यत् कर्म तद् उदीरय ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc