भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 6.8

6.8.1

इत्य् एष कथितः सम्यक् तृतीयः प्रतिसंचरः
आत्यन्तिको विमुक्तिर् या लयो ब्रह्मणि शाश्वते ॥

6.8.2

सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च
वंशानुचरितं चैव भवतो गदितं मया ॥

6.8.3

पुराणं वैष्णवं त्व् एतत् सर्वकिल्बिषनाशनम्
विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥

6.8.4

तुभ्यं यथावन् मैत्रेय प्रोक्तं शुश्रूषवे ऽव्ययम्
यद् अन्यद् अपि वक्तव्यं तत् पृच्छाद्य वदामि ते ॥

6.8.5

भगवन् कथितं सर्वं यत् पृष्टो ऽसि मया मुने
श्रुतं चैतन् मया भक्त्या नान्यत् प्रष्टव्यम् अस्ति मे ॥

6.8.6

विच्छिन्नाः सर्वसंदेहा वैमल्यं मनसः कृतम्
त्वत्प्रसादान् मया ज्ञाता उत्पत्तिस्थितिसंयमाः ॥

6.8.7

ज्ञातश् चतुर्विधो राशिः शक्तिश् च त्रिविधा गुरो
विज्ञाता चापि कार्त्स्न्येन त्रिविधा भावभावना ॥

6.8.8

त्वत्प्रसादान् मया ज्ञातं ज्ञेयैर् अन्यैर् अलं द्विज
यथैतद् अखिलं विष्णोर् जगन् न व्यतिरिच्यते ॥

6.8.9

कृतार्थो ऽस्म्य् अपसंदेहस् त्वत्प्रसादान् महामुने
वर्णधर्मादयो धर्मा विदिता यद् अशेषतः ॥

6.8.10

प्रवृत्तं च निवृत्तं च ज्ञातं कर्म मयाखिलम्
प्रसीद विप्रप्रवर नान्यत् प्रष्टव्यम् अस्ति मे ॥

6.8.11

यद् अस्य कथनायासैर् योजितो ऽसि मया गुरो
तत् क्षम्यतां विशेषो ऽस्ति न सतां पुत्रशिष्ययोः ॥

6.8.12

एतत् ते यन् मयाख्यातं पुराणं वेदसंमितम्
श्रुते ऽस्मिन् सर्वदोषोत्थः पापराशिः प्रणश्यति ॥

6.8.13

सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च
वंशानुचरितं कृत्स्नं मयात्र तव कीर्तितम् ॥

6.8.14

अत्र देवास् तथा दैत्या गन्धर्वोरगराक्षसाः
यक्षा विद्याधराः सिद्धाः कथ्यन्ते ऽप्सरसस् तथा ॥

6.8.15

मुनयो भावितात्मानः कथ्यन्ते तपसान्विताः
चातुर्वर्ण्यं तथा पुंसां विशिष्टचरिता नराः ॥

6.8.16

पुण्याः प्रदेशा मेदिन्याः पुण्या नद्यो ऽथ सागराः
पर्वताश् च महापुण्याश् चरितानि च धीमताम् ॥

6.8.17

वर्णधर्मादयो धर्मा वेदशाखाश् च कृत्स्नशः
येषां संश्रवणात् सद्यः सर्वपापैः प्रमुच्यते ॥

6.8.18

उत्पत्तिस्थितिनाशानां हेतुर् यो जगतो ऽव्ययः
स सर्वभूतः सर्वात्मा कथ्यते भगवान् हरिः ॥

6.8.19ab

अवशेनापि यन् नाम्नि कीर्तिते सर्वपातकैः ॥

6.8.19ab*18

तस्माद् व्यासाद् अहं श्रुत्वा भवतां पापनाशनम् ॥

6.8.19cd

पुमान् विमुच्यते सद्यः सिंहत्रस्तैर् मृगैर् इव ॥

6.8.19*19

मयैतत् कथितं सर्वं सहस्रैः सप्तसंख्यया ॥

6.8.20

यन् नामकीर्तनं भक्त्या विलायनम् अनुत्तमम्
मैत्रेयाशेषपापानां धातूनाम् इव पावकः ॥

6.8.21ab

कलिकल्मषम् अत्युग्रं नरकार्तिप्रदं नृणाम् ॥

6.8.21ab*20:1

तन्नाशनं परं भक्त्या हरिस्मरणम् एव हि ॥

6.8.21ab*20:2

तत् किंचिन् न स्थितं विप्र मार्गणीयं यद् अन्यतः ॥

6.8.21cd

प्रयाति विलयं सद्यः सकृद् यत्र च संस्मृते ॥

6.8.22

हिरण्यगर्भदेवेन्द्र रुद्रादित्याश्विवायुभिः
पावकैर् वसुभिः साध्यैर् विश्वेदेवादिभिः सुरैः ॥

6.8.23

यक्षरक्षोरगैः सिद्धैर् दैत्यगन्धर्वदानवैः
अप्सरोभिस् तथा तारा नक्षत्रैः सकलैर् ग्रहैः ॥

6.8.24

सप्तर्षिभिस् तथा धिष्ण्यैर् धिष्ण्याधिपतिभिस् तथा
ब्राह्मणाद्यैर् मनुष्यैश् च तथैव पशुभिर् मृगैः ॥

6.8.25

सरीसृपैर् विहंगैश् च पलाशाद्यैर् महीरुहैः
वनाद्रिसागरसरित् पातालैः सधरादिभिः ॥

6.8.26

शब्दादिभिश् च सहितं ब्रह्माण्डम् अखिलं द्विज
मेरोर् इवाणुर् यस्यैतद् यन्मयं च द्विजोत्तम ॥

6.8.27

स सर्वः सर्ववित् सर्व स्वरूपो रूपवर्जितः
भगवान् कीर्तितो विष्णुर् अत्र पापप्रणाशनः ॥

6.8.27*21

तन् मङ्गल्यं स्वस्त्ययनं तत् पवित्रम् अनुत्तमम् ॥

6.8.28

यद् अश्वमेधावभृथे स्नातः प्राप्नोति वै फलम्
सकलं तद् अवाप्नोति श्रुत्वैतन् मुनिसत्तम ॥

6.8.29

प्रयागे पुष्करे चैव कुरुक्षेत्रे तथार्बुदे
कृतोपवासः प्राप्नोति तद् अस्य श्रवणान् नरः ॥

6.8.30

यद् अग्निहोत्रे सुहुते वर्षेणाप्नोति वै फलम्
महापुण्यमयं विप्र तद् अस्य श्रवणात् सकृत् ॥

6.8.31

यज् ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले
मथुरायां हरिं दृष्ट्वा प्राप्नोति परमां गतिम् ॥

6.8.32ab

तद् आप्नोति फलं सम्यक् समाधानेन कीर्तनात् ॥

6.8.32ab*22

तद् अस्य श्रवxxxम् आदरेण सुकीर्तिवान् ॥

6.8.32cd

पुराणस्यास्य विप्रर्षे केशवार्पितमानसः ॥

6.8.33

यमुनासलिले स्नातः पुरुषो मुनिसत्तम
ज्येष्ठामूले ऽमले पक्षे द्वादश्याम् उपवासकृत् ॥

6.8.34

समभ्यर्च्याच्युतं सम्यङ् मथुरायां समाहितः
अश्वमेधस्य यज्ञस्य प्राप्नोत्य् अविकलं फलम् ॥

6.8.35

आलोक्यर्द्धिम् अथान्येषाम् उन्नीतानां स्ववंशजैः
एतत् किलोचुर् अन्येषाम् पितरः सपितामहाः ॥

6.8.36

कच्चिद् अस्मत्कुले जातः कालिन्दीसलिलाप्लुतः
अर्चयिष्यति गोविन्दं मथुरायाम् उपोषितः ॥

6.8.37

ज्येष्ठामूले सिते पक्षे येनैवं वयम् अप्य् उत
पराम् ऋद्धिम् अवाप्स्यामस् तारिताः स्वकुलोद्भवैः ॥

6.8.38

ज्येष्ठामूले सिते पक्षे समभ्यर्च्य जनार्दनम्
धन्यानां कुलजः पिण्डान् यमुनायां प्रदास्यति ॥

6.8.39

तस्मिन् काले समभ्यर्च्य तत्र कृष्णं समाहितः
दत्त्वा पिण्डं पितृभ्यश् च यमुनासलिलाप्लुतः ॥

6.8.40

यद् आप्नोति नरः पुण्यं तारयन् स्वपितामहान्
श्रुत्वाध्यायं तद् आप्नोति पुराणस्यास्य भक्तिमान् ॥

6.8.41

एतत् संसारभीरूणां परित्राणम् अनुत्तमम्
दुःस्वप्ननाशनं नॄणां सर्वदुष्टनिबर्हणम् ॥

6.8.41*23

मङ्गलं मङ्गलानां च पुत्रसंपत्प्रदायकम् ॥

6.8.42

इदम् आर्षं पुरा प्राह ऋभवे कमलोद्भवः
ऋभुः प्रियव्रतायाह स च भागुरये ऽब्रवीत् ॥

6.8.43

भागुरिः स्तम्भमित्राय दधीचाय स चोक्तवान्
सारस्वताय तेनोक्तं भृगुः सारस्वताद् अपि ॥

6.8.44

भृगुणा पुरुकुत्साय नर्मदायै स चोक्तवान्
नर्मदा धृतराष्ट्राय नागायापूरणाय च ॥

6.8.45

ताभ्यां च नागराजाय प्रोक्तं वासुकये द्विज
वासुकिः प्राह वत्साय वत्सश् चाश्वतराय वै ॥

6.8.46

कम्बलाय च तेनोक्तम् एलापत्राय तेन वै ॥

6.8.47

पातालं समनुप्राप्तस् ततो वेदशिरा मुनिः
प्राप्तवान् एतद् अखिलं स वै प्रमतये ददौ ॥

6.8.48

दत्तं प्रमतिना चैव जातूकर्णाय धीमते
जातूकर्णेन चैवोक्तम् अन्येषां पुण्यशालिनाम् ॥

6.8.49

पुलस्त्यवरदानेन ममाप्य् एतत् स्मृतिं गतम्
मयापि तुभ्यं मैत्रेय यथावत् कथितं त्व् इदम् ॥

6.8.50

त्वम् अप्य् एतच् छिनीकाय कलेर् अन्ते वदिष्यसि ॥

6.8.51

इत्य् एतत् परमं गुह्यं कलिकल्मषनाशनम्
यः शृणोति नरः पापैः स सर्वैर् द्विज मुच्यते ॥

6.8.52

पितृयक्षमनुष्येभ्यः समस्तामरसंस्तुतिः
कृता तेन भवेद् एतद् यः शृणोति दिने दिने ॥

6.8.52*24:1

श्रुत्वैतत् सकलं विप्र पुराणं वैष्णवं महत् ॥

6.8.52*24:2

वाचकं पूजयेत् तत्र व्यासकल्पं द्विजोत्तम ॥

6.8.52*24:3

दद्याच् च काञ्चनं गावश् चाभ्रमन्तं स्वशक्तितः ॥

6.8.52*24:4

वाचके पूजितं विप्र पूजितस् तेन केशवः ॥

6.8.53

कपिलादानजनितं पुण्यम् अत्यन्तदुर्लभम्
श्रुत्वा त्व् अस्य दशाध्यायान् अवाप्नोति न संशयः ॥

6.8.54

यस् त्वैतत् सकलं शृणोति पुरुषः कृत्वा मनस्य् अच्युतं सर्वं सर्वमयं समस्तजगताम् आधारम् आत्माश्रयम्
ज्ञानं ज्ञेयम् अनन्तम् आदिरहितं सर्वामराणां हितं स प्राप्नोति न संशयो ऽस्त्य् अविकलं यद् वाजिमेधे फलम् ॥

6.8.55

यत्रादौ भगवांश् चराचरगुरुर् मध्ये तथान्ते च स ब्रह्मज्ञानमयो ऽच्युतो ऽखिलजगन्मध्यान्तसर्गप्रभुः
तच् छृण्वन् पुरुषः पवित्रपरमं भक्त्या पठन् धारयन् प्राप्नोत्य् अस्ति न तत् समस्तभुवनेष्व् एकान्तसिद्धिर् हरिः ॥

6.8.56

यस्मिन् न्यस्तमतिर् न याति नरकं स्वर्गो ऽपि यच् चिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राह्मो ऽपि लोको ऽल्पकः
मुक्तिं चेतसि यः स्थितो ऽमलधियां पुंसां ददात्य् अव्ययः किं चित्रं यद् अघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥

6.8.57

यज्ञैर् यज्ञविदो यजन्ति सततं यज्ञेश्वरं कर्मिणो यं यं ब्रह्ममयं परापरपरं ध्यायन्ति च ज्ञानिनः
यं संप्राप्य न जायते न म्रियते नो वर्धते हीयते नैवासन् न च सद् भवत्य् अति ततः किं वा हरेः श्रूयताम् ॥

6.8.58

कव्यं यः पितृरूपधृग् विधिहुतं हव्यं च भुङ्क्ते विभुर् देवत्वे भगवान् अनादिनिधनः स्वाहास्वधासंज्ञितः
यस्मिन् ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां निष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिः ॥

6.8.59

नान्तो ऽस्ति यस्य न च यस्य समुद्भवो ऽस्ति वृद्धिर् न यस्य परिणामविवर्जितस्य
नापक्षयं च समुपैत्य् अविकल्पवस्तु यस् तं नतो ऽस्मि पुरुषोत्तमम् ईशम् ईड्यम् ॥

6.8.60

तस्यैव यो ऽनुगुणभुग् बहुधैक एव शुद्धो ऽप्य् अशुद्ध इव मूर्तिविभागभेदैः
ज्ञानान्वितः सकलतत्त्वविभूतिकर्ता तस्मै नतो ऽस्मि पुरुषाय सदाव्ययाय ॥

6.8.61

ज्ञानप्रवृत्तिनियमैक्यमयाय पुंसो भोगप्रदानपटवे त्रिगुणात्मकाय
अव्याकृताय भवभावनकारणाय वन्दे स्वरूपभवनाय सदाजराय ॥

6.8.61*25:1

ओं नमो भगवते वासुदेवाय ॥

6.8.61*25:2

जितं ते पुण्डरीकाक्ष नमस् ते विश्वभावन
नमस् ते ऽस्तु हृषीकेश महापुरुषपूर्वज ॥

6.8.62

व्योमानिलाग्निजलभूरचनामयाय शब्दादिभोग्यविषयोपनयक्षमाय
पुंसः समस्तकरणैर् उपकारकाय व्यक्ताय सूक्ष्मविमलाय सदा नतो ऽस्मि ॥

6.8.63

इति विविधम् अजस्य यस्य रूपं प्रकृतिपरात्ममयं सनातनस्य
प्रदिशतु भगवान् अशेषपुंसां हरिर् अपजन्मजरादिकां स सिद्धिम् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc