भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 6.5

6.5.1

आध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः
उत्पन्नज्ञानवैराग्यः प्राप्नोत्य् आत्यन्तिकं लयम् ॥

6.5.2

आध्यात्मिको वै द्विविधः शारीरो मानसस् तथा
शारीरो बहुभिर् भेदैर् भिद्यते श्रूयतां च सः ॥

6.5.3

शिरोरोगप्रतिश्याय ज्वरशूलभगंदरैः
गुल्मार्शःश्वासश्वयथुच् छर्द्यादिभिर् अनेकधा ॥

6.5.4

तथाक्षिरोगातीसार कुष्ठाङ्गामयसंज्ञकैः
भिद्यते देहजस् तापो मानसं श्रोतुम् अर्हसि ॥

6.5.5

कामक्रोधभयद्वेष लोभमोहविषादजः
शोकासूयावमानेर्ष्या मात्सर्यादिभवस् तथा ॥

6.5.6

मानसो ऽपि द्विजश्रेष्ठ तापो भवति नैकधा
इत्य् एवमादिभिर् भेदैस् तापो ह्य् आध्यात्मिकः स्मृतः ॥

6.5.7

मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः
सरीसृपाद्यैश् च नृणां जन्यन्ते चाधिभौतिकः ॥

6.5.8

शीतोष्णवातवर्षाम्बु वैद्युतादिसमुद्भवः
तापो द्विजवरश्रेष्ठ कथ्यते चाधिदैविकः ॥

6.5.9

गर्भजन्मजराज्ञान मृत्युनारकजं तथा
दुःखं सहस्रशो भेदैर् भिद्यते मुनिसत्तम ॥

6.5.10

सुकुमारतनुर् गर्भे जन्तुर् बहुमलावृते
उल्बसंवेष्टितो भुग्न पृष्ठग्रीवास्थिसंहतिः ॥

6.5.11

अत्यम्लकटुतीक्ष्णोष्ण लवणैर् मातृभोजनैः
अतितापिभिर् अत्यर्थं वर्धमानातिवेदनः ॥

6.5.12

प्रसारणाकुञ्चनादौ नाङ्गानां प्रभुर् आत्मनः
शकृन्मूत्रमहापङ्क शायी सर्वत्रपीडितः ॥

6.5.13

निरुच्छ्वासः सचैतन्यः स्मरञ् जन्मशतान्य् अथ
आस्ते गर्भे ऽतिदुःखेन निजकर्मनिबन्धनः ॥

6.5.14

जायमानः पुरीषासृङ् मूत्रशुक्राविलाननः
प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥

6.5.15

अधोमुखो वै क्रियते प्रबलैः सूतिमारुतैः
क्लेशैर् निष्क्रान्तिम् आप्नोति जठरान् मातुर् आतुरः ॥

6.5.16

मूर्च्छाम् अवाप्य महतीं संस्पृष्टो बाह्यवायुना
विज्ञानभ्रंशम् आप्नोति जातश् च मुनिसत्तम ॥

6.5.17

कण्टकैर् इव तुन्नाङ्गः क्रकचैर् इव दारितः
पूतिव्रणान् निपतितो धरण्यां कृमिको यथा ॥

6.5.18

कण्डूयने ऽपि चाशक्तः परिवर्ते ऽप्य् अनीश्वरः
स्नानपानादिकाहारम् अवाप्नोति परेच्छया ॥

6.5.19

अशुचिप्रस्तरे सुप्तः कीटदंशादिभिस् तथा
भक्ष्यमाणो ऽपि नैवैषां समर्थो विनिवारणे ॥

6.5.20

जन्मदुःखान्य् अनेकानि जन्मनो ऽनन्तराणि च
बालभावे यदाप्नोति आधिभौतादिकानि च ॥

6.5.21

अज्ञानतमसाच्छन्नो मूढान्तःकरणो नरः
न जानाति कुतः को ऽहं क्वाहं गन्ता किमात्मकः ॥

6.5.22

केन बन्धेन बद्धो ऽहं कारणं किम् अकारणम्
किं कार्यं किम् अकार्यं वा किं वाच्यं किं च नोच्यते ॥

6.5.23

को ऽधर्मः कश् च वै धर्मः कस्मिन् वर्ते ऽथवा कथम्
किं कर्तव्यम् अकर्तव्यं किं वा किं गुणदोषवत् ॥

6.5.24

एवं पशुसमैर् मूढैर् अज्ञानप्रभवं महत्
अवाप्यते नरैर् दुःखं शिश्नोदरपरायणैः ॥

6.5.25

अज्ञानं तामसो भावः कार्यारम्भाप्रवृत्तयः
अज्ञानिनां प्रवर्तन्ते कर्मलोपास् ततो द्विज ॥

6.5.26

नरकं कर्मणां लोपात् फलम् आहुर् महर्षयः
तस्माद् अज्ञानिनां दुःखम् इह चामुत्र चोत्तमम् ॥

6.5.27

जराजर्जरदेहश् च शिथिलावयवः पुमान्
विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥

6.5.28

दूरप्रणष्टनयनो व्योमान्तर्गततारकः
नासाविवरनिर्यात लोमपुञ्जश् चलद्वपुः ॥

6.5.29

प्रकटीभूतसर्वास्थिर् नतपृष्ठास्थिसंहतिः
उत्सन्नजठराग्नित्वाद् अल्पाहारो ऽल्पचेष्टितः ॥

6.5.30

कृच्छ्राच् चङ्क्रमणोत्थान शयनासनचेष्टितः
मन्दीभवच्छ्रोत्रनेत्रः स्रवल्लालाविलाननः ॥

6.5.31

अनायत्तैः समस्तैश् च करणैर् मरणोन्मुखः
तत्क्षणे ऽप्य् अनुभूतानाम् अस्मर्ताखिलवस्तूनाम् ॥

6.5.32

सकृद् उच्चारिते वाक्ये समुद्भूतमहाश्रमः
श्वासकासमहायास समुद्भूतप्रजागरः ॥

6.5.33

अन्येनोत्थाप्यते ऽन्येन तथा संवेश्यते जरी
भृत्यात्मपुत्रदाराणाम् अवमानास्पदीकृतः ॥

6.5.34

प्रक्षीणाखिलशौचश् च विहाराहारसस्पृहः
हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ॥

6.5.35

अनुभूतम् इवान्यस्मिञ् जन्मन्य् आत्मविचेष्टितम्
संस्मरन् यौवने दीर्घं निःश्वसित्य् अतितापितः ॥

6.5.36

एवमादीनि दुःखानि जरायाम् अनुभूय वै
मरणे यानि दुःखानि प्राप्नोति शृणु तान्य् अपि ॥

6.5.37

श्लथद्ग्रीवाङ्घ्रिहस्तो ऽथ व्याप्तो वेपथुना नरः
मुहुर् ग्लानिः परवशो मुहुर् ज्ञानलवान्वितः ॥

6.5.38

हिरण्यधान्यतनय भार्याभृत्यगृहादिषु
एते कथं भविष्यन्तीत्य् अतीवममताकुलः ॥

6.5.39

मर्मभिद्भिर् महारोगैः क्रकचैर् इव दारुणैः
शरैर् इवान्तकस्योग्रैश् छिद्यमानास्थिबन्धनः ॥

6.5.40

विवर्तमानताराक्षिर् हस्तपादं मुहुः क्षिपन्
संशुष्यमाणताल्वोष्ठ पुटो घुरघुरायते ॥

6.5.41

निरुद्धकण्ठो दोषौघैर् उदानश्वासपीडितः
तापेन महता व्याप्तस् तृषा चार्तस् तथा क्षुधा ॥

6.5.42

क्लेशाद् उत्क्रान्तिम् आप्नोति याम्यकिंकरपीडितः
ततश् च यातनादेहं क्लेशेन प्रतिपद्यते ॥

6.5.43

एतान्य् अन्यानि चोग्राणि दुःखानि मरणे नृणाम्
शृणुष्व नरके यानि प्राप्यन्ते पुरुषैर् मृतैः ॥

6.5.44

याम्यकिंकरपाशादि ग्रहणं दण्डताडनम्
यमस्य दर्शनं चोग्रम् उग्रमार्गविलोकनम् ॥

6.5.45

करम्भवालुकावह्नि यन्त्रशस्त्रादिभीषणे
प्रत्येकं नरके याश् च यातना द्विज दुःसहाः ॥

6.5.46

क्रकचैः पाट्यमानानां मूषायां चापि धम्यताम्
कुठारैः कृत्यमानानां भूमौ चापि निखन्यताम् ॥

6.5.47

शूलेष्व् आरोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम्
गृध्रैः संभक्ष्यमाणानां द्वीपिभिश् चोपभुज्यताम् ॥

6.5.48

क्वाथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे
उच्चान् निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥

6.5.49

नरके यानि दुःखानि पापहेतूद्भवानि वै
प्राप्यन्ते नारकैर् विप्र तेषां संख्या न विद्यते ॥

6.5.50

न केवलं द्विजश्रेष्ठ नरके दुःखपद्धतिः
स्वर्गे ऽपि पातभीतस्य क्षयिष्णोर् नास्ति निर्वृतिः ॥

6.5.51

पुनश् च गर्भे भवति जायते च पुनर् नरः
गर्भे विलीयते भूयो जायमानो ऽस्तम् एति च ॥

6.5.52

जातमात्रश् च म्रियते बालभावे ऽथ यौवने
मध्यमं वा वयः प्राप्य वार्द्धके वा ध्रुवा मृतिः ॥

6.5.53

यावज् जीवति तावच् च दुःखैर् नानाविधैः प्लुतः
तन्तुकारणपक्ष्मौघैर् आस्ते कार्पासबीजवत् ॥

6.5.54

द्रव्यनाशे तथोत्पत्तौ पालने च तथा नृणाम्
भवन्त्य् अनेकदुःखानि तथैवेष्टविपत्तिषु ॥

6.5.55

यद् यत् प्रीतिकरं पुंसां वस्तु मैत्रेय जायते
तद् एव दुःखवृक्षस्य बीजत्वम् उपगच्छति ॥

6.5.56

कलत्रपुत्रमित्रार्थ गृहक्षेत्रधनादिकैः
क्रियते न तथा भूरि सुखं पुंसां यथासुखम् ॥

6.5.57

इति संसारदुःखार्क तापतापितचेतसाम्
विमुक्तिपादपच्छायाम् ऋते कुत्र सुखं नृणाम् ॥

6.5.58

तद् अस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः
गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ॥

6.5.59

निरस्तातिशयाह्लाद सुखभावैकलक्षणा
भेषजं भगवत्प्राप्तिर् एकान्तात्यन्तिकी मता ॥

6.5.60

तस्मात् तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर् नरैः
तत्प्राप्तिहेतुर् ज्ञानं च कर्म चोक्तं महामुने ॥

6.5.61

आगमोत्थं विवेकाच् च द्विधा ज्ञानं तथोच्यते
शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥

6.5.62

अन्धं तम इवाज्ञानं दीपवच् चेन्द्रियोद्भवम्
यथा सूर्यस् तथा ज्ञानं यद् विप्रर्षे विवेकजम् ॥

6.5.63

मनुर् अप्य् आह वेदार्थं स्मृत्वा यन् मुनिसत्तम
तद् एतच् छ्रूयताम् अत्र संबन्धे गदतो मम ॥

6.5.64

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥

6.5.65

द्वे विद्ये वेदितव्ये वै इति चाथर्वणी श्रुतिः
परया त्व् अक्षरप्राप्तिर् ऋग्वेदादिमयापरा ॥

6.5.66

यत् तद् अव्यक्तम् अजरम् अचिन्त्यम् अजम् अव्ययम्
अनिर्देश्यम् अरूपं च पाणिपादाद्यसंयुतम् ॥

6.5.67

विभुं सर्वगतं नित्यं भूतयोनिम् अकारणम्
व्याप्य् अव्याप्तं यतः सर्वं तं वै पश्यन्ति सूरयः ॥

6.5.68

तद् ब्रह्म तत् परं धाम तद् ध्येयं मोक्षकाङ्क्स्.इणाम्
श्रुतिवाक्योदितं सूक्ष्मं तद् विष्णोः परमं पदम् ॥

6.5.69

तद् एव भगवद्वाच्यं स्वरूपं परमात्मनः
वाचको भगवच्छब्दस् तस्याद्यस्याक्षयात्मनः ॥

6.5.70

एवं निगदितार्थस्य स तत्त्वं तस्य तत्त्वतः
ज्ञायते येन तज् ज्ञानं परम् अन्यत् त्रयीमयम् ॥

6.5.71

अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विज
पूजायां भगवच्छब्दः क्रियते ह्य् औपचारिकः ॥

6.5.72

शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वर्तते
मैत्रेय भगवच्छब्दः सर्वकारणकारणे ॥

6.5.73

संभर्तेति तथा भर्ता भकारो ऽर्थद्वयान्वितः
नेता गमयिता स्रष्टा गकारार्थस् तथा मुने ॥

6.5.74

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः
ज्ञानवैराग्ययोश् चैव षण्णां भग इतीरणा ॥

6.5.75

वसन्ति तत्र भूतानि भूतात्मन्य् अखिलात्मनि
स च भूतेष्व् अशेषेषु वकारार्थस् ततो ऽव्ययः ॥

6.5.76

एवम् एष महाशब्दो भगवान् इति सत्तम
परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥

6.5.77

तत्र पूज्यपदार्थोक्ति परिभाषासमन्वितः
शब्दो ऽयं नोपचारेण अन्यत्र ह्य् उपचारतः ॥

6.5.78

उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम्
वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति ॥

6.5.79

ज्ञानशक्तिबलैश्वर्य वीर्यतेजांस्य् अशेषतः
भगवच्छब्दवाच्यानि विना हेयैर् गुणादिभिः ॥

6.5.80

सर्वाणि तत्र भूतानि वसन्ति परमात्मनि
भूतेषु च स सर्वात्मा वासुदेवस् ततः स्मृतः ॥

6.5.81

खाण्डिक्यजनकायाह पृष्टः केशिध्वजः पुरा
नामव्याख्याम् अनन्तस्य वासुदेवस्य तत्त्वतः ॥

6.5.82

भूतेषु वसते सो ऽन्तर् वसन्त्य् अत्र च तानि यत्
धाता विधाता जगतां वासुदेवस् ततः प्रभुः ॥

6.5.82*9

भूतेषु यो ऽन्तर् वसति स्म नित्यं सर्वाणि भूतानि च यत्र सन्ति
धाता विधाता परमेश्वरश् च स वासुदेवो न यतः परो ऽन्यः ॥

6.5.83

स सर्वभूतप्रकृतिं विकारं गुणादिदोषांश् च मुने व्यतीतः
अतीतसर्वावरणो ऽखिलात्मा तेनास्तृतं यद् भुवनान्तराले ॥

6.5.84

समस्तकल्याणगुणात्मको हि स्वशक्तिलेशावृतभूतसर्गः
इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितो ऽसौ ॥

6.5.85

तेजोबलैश्वर्यमहावबोध स्ववीर्यशक्त्यादिगुणैकराशिः
परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे ॥

6.5.86

स ईश्वरो व्यष्टिसमष्टिरूपो ऽव्यक्तस्वरूपः प्रकटस्वरूपः
सर्वेश्वरः सर्वदृक् सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः ॥

6.5.87

संज्ञायते येन तद् अस्तदोषं शुद्धं परं निर्मलम् एकरूपम्
संदृश्यते वाप्य् अवगम्यते वा तज् ज्ञानम् अज्ञानम् अतो ऽन्यद् उक्तम् ॥

6.5.87*10:1

व्यर्थं जन्मशतं तस्य श्रुत्वा वक्त्रपराङ्मुखः ॥

6.5.87*10:2

अश्वमेधसमं ज्ञेयं कुरुक्षेत्रशताधिकम् ॥

6.5.87*10:3

निष्फलं जीवितं तस्य अस्य ज्ञानपराङ्मुखः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc