विष्णुपुराण (समीक्षित संस्करण) · अध्याय 6.4
सप्तर्षिस्थानम् आक्रम्य स्थिते ऽम्भसि महामुने
एकार्णवं भवत्य् एतत् त्रैलोक्यम् अखिलं ततः ॥
मुखनिश्वासजो विष्णोर् वायुस् ताञ् जलदांस् ततः
नाशयन् वाति मैत्रेय वर्षाणाम् अपरं शतम् ॥
सर्वभूतमयो ऽचिन्त्यो भगवान् भूतभावनः
अनादिर् आदिर् विश्वस्य पीत्वा वायुम् अशेषतः ॥
एकार्णवे ततस् तस्मिञ् शेषशय्यास्थितः प्रभुः
ब्रह्मरूपधरः शेते भगवान् आदिकृद् धरिः ॥
जनलोकगतैः सिद्धैः सनकाद्यैर् अभिष्टुतः
ब्रह्मलोकगतैश् चैव चिन्त्यमानो मुमुक्षुभिः ॥
आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः
आत्मानं वासुदेवाख्यं चिन्तयन् परमेश्वरः ॥
एष नैमित्तिको नाम मैत्रेय प्रतिसंचरः
निमित्तं तत्र यच् छेते ब्रह्मरूपधरो हरिः ॥
यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत्
निमीलत्य् एतद् अखिलं मायाशय्याशये ऽच्युते ॥
पद्मयोनेर् दिनं यत् तु चतुर्युगसहस्रवत्
एकार्णवे कृते लोके तावती रात्रिर् इष्यते ॥
ततः प्रबुद्धो रात्र्यन्ते पुनः सृष्टिं करोत्य् अजः
ब्रह्मस्वरूपधृग् विष्णुर् यथा ते कथितं पुरा ॥
इत्य् एष कल्पसंहाराद् अन्तरप्रलयो द्विज
नैमित्तिकस् ते कथितः प्राकृतं शृण्वतः परम् ॥
अनावृष्ट्यग्निसंपर्कात् कृते संक्षालने मुने
समस्तेष्व् एव लोकेषु पातालेष्व् अखिलेषु च ॥
महदादेर् विकारस्य विशेषान्तस्य संक्षये
कृष्णेच्छाकारिते तस्मिन् प्रवृत्ते प्रतिसंचरे ॥
आपो ग्रसन्ति वै पूर्वं भूमेर् गन्धात्मकं गुणम्
आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥
प्रणष्टे गन्धतन्मात्रे भवत्य् उर्वी जलात्मिका
आपस् तदा प्रवृद्धास् तु वेगवत्यो महास्वनाः ॥
सर्वम् आपूरयन्तीदं तिष्ठन्ति विचरन्ति च
सलिलेनैवोर्मिमता लोकांस् तांस् तान् समन्ततः ॥
व्याप्तम् एवाभवत् सर्वं जगद् एतद् द्विजोत्तम ॥
अपाम् अपि गुणो यस् तु ज्योतिषा पीयते तु सः
नश्यन्त्य् आपस् ततस् ताश् च रसतन्मात्रसंक्षयात् ॥
ततश् चापो हृतरसा ज्योतिषं प्राप्नुवन्ति वै
अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते ॥
स चाग्निः सर्वतो व्याप्य आदत्ते तज् जलं तथा
सर्वम् आपूर्यते ऽर्चिभिस् तदा जगद् इदं शनैः ॥
अर्चिर्भिः संवृते तस्मिंस् तिर्यग् ऊर्ध्वम् अधस् तथा
ज्योतिषो ऽपि परं रूपं वायुर् अत्ति प्रभाकरम् ॥
प्रलीने च ततस् तस्मिन् वायुभूते ऽखिलात्मनि
प्रणष्टे रूपतन्मात्रे हृतरूपो विभावसुः ॥
प्रशाम्यति तदा ज्योतिर् वायुर् दोधूयते महान्
निरालोके तदा लोके वाय्ववस्थे च तेजसि ॥
ततस् तु मूलम् आसाद्य वायुः संभवम् आत्मनः
ऊर्ध्वं चाधश् च तिर्यक् च दोधवीति दिशो दश ॥
वायोर् अपि गुणं स्पर्शम् आकाशं ग्रसते ततः
प्रशाम्यति ततो वायुः खं तु तिष्ठत्य् अनावृतम् ॥
अरूपम् अरसस्पर्शम् अगन्धं न च मूर्तिमत्
सर्वम् आपूरयच् चैव सुमहत् तत् प्रकाशते ॥
परिमण्डलं तत् सुषिरम् आकाशं शब्दलक्षणम्
शब्दमात्रं तदाकाशं सर्वम् आवृत्य तिष्ठति ॥
ततः शब्दगुणं तस्य भूतादिर् ग्रसते पुनः
भूतेन्द्रियेषु युगपद् भूतादौ संस्थितेषु वै
अभिमानात्मको ह्य् एष भूतादिस् तामसः स्मृतः ॥
भूतादिं ग्रसते चापि महान् वै बुद्धिलक्षणः ॥
उर्वी महांश् च जगतः प्रान्ते ऽन्तर् बाह्यतस् तथा ॥
एवं सप्त महाबुद्धेः क्रमात् प्रकृतयस् तु वै
प्रत्याहारे तु ताः सर्वाः प्रविशन्ति परस्परम् ॥
येनेदम् आवृतं सर्वम् अण्डम् अप्सु प्रलीयते
सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ॥
उदकावरणं यत् तु ज्योतिषा पीयते तु तत्
ज्योतिर् वायौ लयं याति यात्य् आकाशे समीरणः ॥
आकाशं चैव भूतादिर् ग्रसते तं तथा महान्
महान्तम् एभिः सहितं प्रकृतिर् ग्रसते द्विज ॥
गुणसाम्यम् अनुद्रिक्तम् अन्यूनं च महामुने
प्रोच्यते प्रकृतिर् हेतुः प्रधानं कारणं परम् ॥
इत्य् एषा प्रकृतिः सर्वा व्यक्ताव्यक्तस्वरूपिणी
व्यक्तस्वरूपम् अव्यक्ते तस्मिन् मैत्रेय लीयते ॥
एकः शुद्धो ऽक्षरो नित्यः सर्वव्यापी तथा पुमान्
सो ऽप्य् अंशः सर्वभूतस्य मैत्रेय परमात्मनः ॥
न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः
सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्य् आत्मनः परे ॥
तद् ब्रह्म तत् परं धाम परमात्मा स चेश्वरः
स विष्णुः सर्वम् एवेदं यतो नावर्तते यतिः ॥
प्रकृतिर् या मया ख्याता व्यक्ताव्यक्तस्वरूपिणी
पुरुषश् चाप्य् उभाव् एतौ लीयेते परमात्मनि ॥
परमात्मा च सर्वेषाम् आधारः परमेश्वरः
विष्णुर् नाम्ना स वेदेषु वेदान्तेषु च गीयते ॥
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्
ताभ्याम् उभाभ्यां पुरुषैः सर्वमूर्तिः स इज्यते ॥
ऋग्यजुःसामभिर् मार्गैः प्रवृत्तैर् इज्यते ह्य् असौ
यज्ञेश्वरो यज्ञपुमान् पुरुषैः पुरुषोत्तमः ॥
ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स चेज्यते
निवृत्ते योगिभिर् मार्गे विष्णुर् मुक्तिफलप्रदः ॥
ह्रस्वदीर्घप्लुतैर् यत् तु किंचिद् वस्त्व् अभिधीयते
यच् च वाचाम् अविषये तत् सर्वं विष्णुर् अव्ययः ॥
व्यक्तं स एव चाव्यक्तं स एव पुरुषो ऽव्ययः
परमात्मा च विश्वात्मा विश्वरूपधरो हरिः ॥
व्यक्ताव्यक्तात्मिका तस्मिन् प्रकृतिः संप्रलीयते
पुरुषश् चापि मैत्रेय व्यापिन्य् अव्याहतात्मनि ॥
द्विपरार्धात्मकः कालः कथितो यो मया तव
तद् अहस् तस्य मैत्रेय विष्णोर् ईशस्य कथ्यते ॥
व्यक्ते च प्रकृतौ लीने प्रकृत्यां पुरुषे तथा
तत्र स्थिते निशा चान्या तत्प्रमाणा महामुने ॥
नैवाहस् तस्य न निशा नित्यस्य परमात्मनः
उपचारस् तथाप्य् एष तस्येशस्य द्विजोच्यते ॥
इत्य् एष तव मैत्रेय कथितः प्राकृतो लयः
आत्यन्तिकम् अथो ब्रह्मन् निबोध प्रतिसंचरम् ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0