भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 6.3

6.3.1

सर्वेषाम् एव भूतानां त्रिविधः प्रतिसंचरः
नैमित्तिकः प्राकृतिकस् तथैवात्यन्तिको मतः ॥

6.3.2

ब्राह्मो नैमित्तिकस् तेषां कल्पान्ते प्रतिसंचरः
आत्यन्तिकश् च मोक्षाख्यः प्राकृतो द्विपरार्धिकः ॥

6.3.3

परार्धसंख्यां भगवन् ममाचक्ष्व यया तु सः
द्विगुणीकृतया ज्ञेयः प्राकृतः प्रतिसंचरः ॥

6.3.4

स्थानात् स्थानं दशगुणम् एकस्माद् गण्यते द्विज
ततो ऽष्टादशमे भागे परार्धम् अभिधीयते ॥

6.3.5

परार्धद्विगुणं यत् तु प्राकृतः स लयो द्विज
तदाव्यक्ते ऽखिलं व्यक्तं स्वहेतौ लयम् एति वै ॥

6.3.6

निमेषो मानुषो यो ऽयं मात्रामात्रप्रमाणतः
तैः पञ्चदशभिः काष्ठा त्रिंशत् काष्ठास् तथा कला ॥

6.3.7

नाडिका तु प्रमाणेन कला दश च पञ्च च ॥

6.3.8

उन्मानेनाम्भसः सा तु पलान्य् अर्धत्रयोदश
हेममाषैः कृतच्छिद्रं चतुर्भिश् चतुरङ्गुलैः
मागधेन प्रमाणेन जलप्रस्थस् तु स स्मृतः ॥

6.3.9

नाडिकाभ्याम् अथ द्वाभ्यां मुहूर्तो द्विजसत्तम
अहोरात्रं मुहूर्तास् तु त्रिंशन् मासो दिनैस् तथा ॥

6.3.10

मासैर् द्वादशभिर् वर्षम् अहोरात्रं तु तद् दिवि
त्रिभिर् वर्षशतैर् वर्षं षष्ट्या चैवासुरद्विषाम् ॥

6.3.11

तैस् तु द्वादशसाहस्रैश् चतुर्युगम् उदाहृतम्
चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम् ॥

6.3.12

स कल्पस् तत्र मनवश् चतुर्दश महामुने
तदन्ते चैव मैत्रेय ब्राह्मो नैमित्तिको लयः ॥

6.3.13

तस्य स्वरूपम् अत्युग्रं मैत्रेय गदतो मम
शृणुष्व प्राकृतं भूयस् तव वक्ष्याम्य् अहं लयम् ॥

6.3.14

चतुर्युगसहस्रान्ते क्षीणप्राये महीतले
अनावृष्टिर् अतीवोग्रा जायते शतवार्षिकी ॥

6.3.15

ततो यान्य् अल्पसाराणि तानि सत्त्वान्य् अशेषतः
क्षयं यान्ति मुनिश्रेष्ठ पार्थिवान्य् अनुपीडनात् ॥

6.3.16

ततः स भगवान् कृष्णो रुद्ररूपधरो ऽव्ययः
क्षयाय यतते कर्तुम् आत्मस्थाः सकलाः प्रजाः ॥

6.3.17ab

ततः स भगवान् विष्णुर् भानोः सप्तसु रश्मिषु ॥

6.3.17ab*4:1

सुषुप्तो हरति क्लेशश् च x विश्व तथैव च ॥

6.3.17ab*4:2

विश्वद्यxस् तथाथर्वा वसुः संयद् वसुस् तथा ॥

6.3.17cd

स्थितः पिबत्य् अशेषाणि जलानि मुनिसत्तम ॥

6.3.18

पीत्वाम्भांसि समस्तानि प्राणिभूमिगतानि वै
शोषं नयति मैत्रेय समस्तं पृथिवीतलम् ॥

6.3.19

समुद्रान् सरितः शैलान् शैलप्रस्रवणानि च
पातालेषु च यत् तोयं तत् सर्वं नयति क्षयम् ॥

6.3.20

ततस् तस्यानुभावेन तोयाहारोपबृंहिताः
त एव रश्मयः सप्त जायन्ते सप्त भास्कराः ॥

6.3.21

अधश् चोर्ध्वं च ते दीप्तास् ततः सप्त दिवाकराः
दहन्त्य् अशेषं त्रैलोक्यं सपातालतलं द्विज ॥

6.3.22

दह्यमानं तु तैर् दीप्तैस् त्रैलोक्यं द्विज भास्करैः
साद्रिनद्यर्णवाभोगं निःस्नेहम् अभिजायते ॥

6.3.23

ततो निर्दग्धवृक्षाम्बु त्रैलोक्यम् अखिलं द्विज
भवत्य् एषा च वसुधा कूर्मपृष्ठोपमाकृतिः ॥

6.3.24

ततः कालाग्निरुद्रो ऽसौ भूत्वा सर्वहरो हरिः
शेषाहिश्वाससंभूतः पातालानि दहत्य् अधः ॥

6.3.25

पातालानि समस्तानि स दग्ध्वा ज्वलनो महान्
भूमिम् अभ्येत्य सकलं बभस्ति वसुधातलम् ॥

6.3.26

भुवर्लोकं ततः सर्वं स्वर्लोकं च सुदारुणः
ज्वालामालामहावर्तस् तत्रैव परिवर्तते ॥

6.3.27

अम्बरीषम् इवाभाति त्रैलोक्यम् अखिलं तदा
ज्वालावर्तपरीवारम् उपक्षीणचराचरम् ॥

6.3.28

ततस् तापपरीतास् तु लोकद्वयनिवासिनः
कृताधिकारा गच्छन्ति महर्लोकं महामुने ॥

6.3.29

तस्माद् अपि महाताप तप्ता लोकास् ततः परम्
गच्छन्ति जनलोकं ते दशावृत्त्या परैषिणः ॥

6.3.30

ततो दग्ध्वा जगत् सर्वं रुद्ररूपी जनार्दनः
मुखनिश्वासजान् मेघान् करोति मुनिसत्तम ॥

6.3.31

ततो गजकुलप्रख्यास् तडिद्वन्तो निनादिनः
उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः ॥

6.3.32

केचिन् नीलोत्पलश्यामाः केचित् कुमुदसंनिभाः
धूम्रवर्णा घनाः केचित् केचित् पीताः पयोधराः ॥

6.3.33

केचिद् रासभवर्णाभा लाक्षारसनिभास् तथा
केचिद् वैडूर्यसंकाशा इन्द्रनीलनिभाः क्वचित् ॥

6.3.34

शङ्खकुन्दनिभाश् चान्ये जात्यञ्जननिभास् तथा
इन्द्रगोपनिभाः केचिन् मनःशिलनिभास् तथा ॥

6.3.34*5:1

इन्द्रगोपनिभाः केचित् ततः शिखिनिभास् तथा ॥

6.3.34*5:2

मनःशिलाभाः केचिद् वै हरितालनिभाः परे ॥

6.3.35

चाषपत्रनिभाः केचिद् उत्तिष्ठन्ति घना घनाः
केचित् पुरवराकाराः केचित् पर्वतसंनिभाः ॥

6.3.36

कूटागारनिभाश् चान्ये केचित् स्थलनिभा घनाः
महारावा महाकायाः पूरयन्ति नभस्तलम् ॥

6.3.37ab

वर्षन्तस् ते महासारास् तम् अग्निम् अतिभैरवम् ॥

6.3.37ab*6:1

शमयन्ति जगत् सर्वं वर्षन्ति मुनिसत्तम ॥

6.3.37ab*6:2

हस्तिहस्तनिभाभिस् ते धाराभिर् अनिशं तदा ॥

6.3.37cd

शमयन्त्य् अखिलं विप्र त्रैलोक्यान्तरविस्तृतम् ॥

6.3.38

नष्टे चाग्नौ शतं ते ऽपि वर्षाणाम् अधिकं घनाः
प्लावयन्तो जगत् सर्वं वर्षन्ति मुनिसत्तम ॥

6.3.39

धाराभिर् अक्षमात्राभिः प्लावयित्वाखिलां भुवम्
भुवर्लोकं तथैवोर्ध्वं प्लावयन्ति दिवं द्विज ॥

6.3.40

अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे
वर्षन्ति ते महामेघा वर्षाणाम् अधिकं शतम् ॥

6.3.40*7:1

एवं भवति कल्पान्ते समस्तं मुनिसत्तम ॥

6.3.40*7:2

वासुदेवस्य माहात्म्यान् नित्यस्य परमात्मनः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc