भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 6.2

6.2.1

व्यासश् चाह महाबुद्धिर् यद् अत्रैव हि वस्तुनि
तच् छ्रूयतां महाभाग गदतो मम तत्त्वतः ॥

6.2.2

कस्मिन् काले ऽल्पको धर्मो ददाति सुमहत् फलम्
मुनीनाम् अप्य् अभूद् वादः कैश् चासौ क्रियते सुखम् ॥

6.2.3

संदेहनिर्णयार्थाय वेदव्यासं महामुनिम्
ययुस् ते संशयं प्रष्टुं मैत्रेय मुनिपुंगवाः ॥

6.2.4

ददृशुस् ते मुनिं तत्र जाह्नवीसलिले द्विज
वेदव्यासं महाभागम् अर्धस्नातं सुतं मम ॥

6.2.5

स्नानावसानं ते तस्य प्रतीक्षन्तो महर्षयः
तस्थुस् तटे महानद्यास् तरुषण्डम् उपाश्रिताः ॥

6.2.6

मग्नो ऽथ जाह्नवीतोयाद् उत्थायाह सुतो मम
व्यासः साधुः कलिः साधुर् इत्य् एवं शृण्वतां वचः
तेषां मुनीनां भूयश् च ममज्ज स नदीजले ॥

6.2.7

उत्थाय साधु साध्व् इति शूद्र धन्यो ऽसि चाब्रवीत् ॥

6.2.8

निमग्नश् च समुत्थाय पुनः प्राह महामुनिः
योषितः साधु धन्यास् तास् ताभ्यो धन्यतरो ऽस्ति कः ॥

6.2.9

ततः स्नात्वा यथान्यायम् आचान्तं तं कृतक्रियम्
उपतस्थुर् महाभागा मुनयस् ते सुतं मम ॥

6.2.10

कृतसंवन्दनांश् चाह कृतासनपरिग्रहान्
किमर्थम् आगता यूयम् इति सत्यवतीसुतः ॥

6.2.11

तम् ऊचुः संशयं प्रष्टुं भवन्तं वयम् आगताः
अलं तेनास्तु तावन् नः कथ्यताम् अपरं त्वया ॥

6.2.12

कलिः साध्व् इति यत् प्रोक्तं शूद्रः साध्व् इति योषितः
यच् चाह भगवान् साधु धन्याश् चेति पुनः पुनः ॥

6.2.13

तत् सर्वं श्रोतुम् इच्छामो न चेद् गुह्यं महामुने
तत् कथ्यतां ततो हृत्स्थं पृच्छामस् त्वां प्रयोजनम् ॥

6.2.14

इत्य् उक्तो मुनिभिर् व्यासः प्रहस्येदम् अथाब्रवीत्
श्रूयतां भो मुनिश्रेष्ठा यद् उक्तं साधु साध्व् इति ॥

6.2.15

यत् कृते दशभिर् वर्षैस् त्रेतायां हायनेन तत्
द्वापरे तच् च मासेन अहोरात्रेण तत् कलौ ॥

6.2.16

तपसो ब्रह्मचर्यस्य जपादेश् च फलं द्विजाः
प्राप्नोति पुरुषस् तेन कलिः साध्व् इति भाषितम् ॥

6.2.17

ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरे ऽर्चयन्
यद् आप्नोति तद् आप्नोति कलौ संकीर्त्य केशवम् ॥

6.2.18

धर्मोत्कर्षम् अतीवात्र प्राप्नोति पुरुषः कलौ
स्वल्पायासेन धर्मज्ञास् तेन तुष्टो ऽस्म्य् अहं कलेः ॥

6.2.19

व्रतचर्योपहारैश् च ग्राह्यो वेदो द्विजातिभिः
ततः स्वधर्मसंप्राप्तैर् यष्टव्यं विधिवद् धनैः ॥

6.2.20

वृथा कथा वृथा भोज्यं वृथेज्या च द्विजन्मनाम्
पतनाय तथा भाव्यं तैस् तु संयमिभिः सदा ॥

6.2.21

असम्यक्करणे दोषस् तेषां सर्वेषु वस्तुषु
भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः ॥

6.2.22

पारतन्त्र्यं समस्तेषु तेषां कार्येषु वै ततः
जयन्ति ते निजांल् लोकान् क्लेशेन महता द्विजाः ॥

6.2.23

द्विजशुश्रूषयैवैष पाकयज्ञाधिकारवान्
निजाञ् जयति वै लोकाञ् शूद्रो धन्यतरस् ततः ॥

6.2.24

भक्ष्याभक्ष्येषु नास्यास्ति पेयापेयेषु वै यतः
नियमो मुनिशार्दूलास् तेनासौ साध्व् इतीरितम् ॥

6.2.25

स्वधर्मस्याविरोधेन नरैर् लब्धं धनं सदा
प्रतिपाद्यं च पात्रेषु यष्टव्यं च यथाविधि ॥

6.2.26

तस्यार्जने महान् क्लेशः पालने च द्विजोत्तमाः
तथासद्विनियोगाय विज्ञेयं गहनं नृणाम् ॥

6.2.27

एभिर् अन्यैस् तथा क्लेशैः पुरुषो द्विजसत्तमाः
निजाञ् जयति वै लोकान् प्राजापत्यादिकान् क्रमात् ॥

6.2.28

योषिच् छुश्रूषणं भर्तुः कर्मणा मनसा गिरा
कुर्वती समवाप्नोति तत्सालोक्यं यतो द्विजाः ॥

6.2.29

नातिक्लेशेन महता तान् एव पुरुषो यथा
तृतीयं व्याहृतं तेन मया साध्व् इति योषिताम् ॥

6.2.30

एतद् वः कथितं विप्रा यन्निमित्तम् इहागताः
तत् पृच्छत यथाकामं अहं वक्ष्यामि वः स्फुटम् ॥

6.2.31

ततस् ते मुनयः प्रोचुर् यत् प्रष्टव्यं महामुने
अन्यस्मिन्न् एव तत् प्रश्ने यथावत् कथितं त्वया ॥

6.2.32

ततः प्रहस्य तान् प्राह कृष्णद्वैपायनो मुनिः
विस्मयोत्फुल्लनयनांस् तापसांस् तान् उपागतान् ॥

6.2.33

मयैष भवतां प्रश्नो ज्ञातो दिव्येन चक्षुषा
ततो हि वः प्रसङ्गेन साधु साध्व् इति भाषितम् ॥

6.2.34

स्वल्पेन हि प्रयत्नेन धर्मः सिध्यति वै कलौ
नरैर् आत्मगुणाम्भोभिः क्षालिताखिलकिल्बिषैः ॥

6.2.35

शूद्रैश् च द्विजशुश्रूषा तत्परैर् मुनिसत्तमाः
तथा स्त्रीभिर् अनायासात् पतिशुश्रूषयैव हि ॥

6.2.36

ततस् त्रितयम् अप्य् एतन् मम धन्यतमं मतम्
धर्मसंसाधने क्लेशो द्विजातीनां कृतादिषु ॥

6.2.37

भवद्भिर् यद् अभिप्रेतं तद् एतत् कथितं मया
अपृष्टेनापि धर्मज्ञाः किम् अन्यत् क्रियतां द्विजाः ॥

6.2.38

ततः संपूज्य ते व्यासं प्रशशंसुः पुनः पुनः
यथागतं द्विजा जग्मुर् व्यासोक्तिक्षतसंशयाः ॥

6.2.39

भवतो ऽपि महाभाग रहस्यं कथितं मया
अत्यन्तदुष्टस्य कलेर् अयम् एको महान् गुणः ॥

6.2.40

यच् चाहं भवता पृष्टो जगताम् उपसंहृतिम्
प्राकृताम् अन्तरालां च ताम् अप्य् एष वदामि ते ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc