भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 6.1

6.1.1

व्याख्याता भवता सर्ग वंशमन्वन्तरस्थितिः
वंशानुचरितं चैव विस्तरेण महामुने ॥

6.1.1@2:1

व्याख्यातो भवता वंशो यादवानां महात्मनाम् ॥

6.1.1@2:2

अस्ति किंचिन् मया प्रार्थ्यम् अध्यात्मश्रवणेच्छया ॥

6.1.1@2:3

सर्वसंशयभेत्तारस् त्वाम् ऋते ऽन्ये न सन्ति भोः ॥

6.1.1@2:4

द्वैतम् एके प्रशंसन्ति अद्वैतम् अपरे जनाः ॥

6.1.1@2:5

द्वयं ते के प्रशंसन्ति महात्मानो महामुने ॥

6.1.1@2:6

अध्यात्मम् अखिलं ब्रह्मन् व्याख्यामि भवतो मुने ॥

6.1.1@2:7

दुर्बोधत्वाद् एकमनाः शृणुष्व गदतो मम ॥

6.1.1@2:8

श्रुत्वावधारय मुने पारं त्व् अस्मान् न विद्यते ॥

6.1.1@2:9

न भूतानि हृषीकानि तथान्तःकरणान्य् अपि ॥

6.1.1@2:10

प्राणो वा प्रकृतिर् वापि परं ब्रह्मेति शब्द्यते ॥

6.1.1@2:11

न सत्ता लक्षणं ब्रह्म यस्मात् सदसतः परम् ॥

6.1.1@2:12

उत्पत्तेस् त्व् आत्मनः स्वस्य नाप्य् आकाशः परं विदुः ॥

6.1.1@2:13

न जातिरूपलब्धेस् तु नेति नेत्य् उच्यते यतः ॥

6.1.1@2:14

स्वयं वेद्यं हि तद् ब्रह्म कुमारी स्त्रीसुखं यथा ॥

6.1.1@2:15

अच्छेद्यं तद् अभेद्यं तु सत्यं ज्ञानम् अनन्तकम् ॥

6.1.1@2:16

शुद्धं मुक्तं प्रबुद्धं यत् सुखदुःखविवर्जितम् ॥

6.1.1@2:17

यत् पूर्णम् अचलं नित्यं तथा षड्भाववर्जितम् ॥

6.1.1@2:18

अतीन्द्रियम् अवर्णं तु नित्यानन्दं तथा मुने ॥

6.1.1@2:19

अस्थूलम् अणु नादीर्घम् अह्रस्वम् अतमस् तथा ॥

6.1.1@2:20

अस्नेहं च तथाच्छायं रवमात्रककायकम् ॥

6.1.1@2:21

प्रकाशं वांशिके यस्य तत् परं ब्रह्म महर्षे ॥

6.1.1@2:22

खम् इवैकरसावाप्तिर् अपि भक्ता जरामरा ॥

6.1.1@2:23

चक्षुराद्यवधाना सा विपरीता विभाव्यते ॥

6.1.1@2:24

सव्यापारे शरीरे ऽस्मिन् निर्व्यापारम् अकल्मषम् ॥

6.1.1@2:25

चिन्तयन् सर्वम् आत्मानं मुक्त एवेति वेगपी ॥

6.1.1@2:26

प्रमाणोत्पन्नया बुद्ध्या यो विद्यां ज्ञातुम् इच्छति ॥

6.1.1@2:27

दीपेनासौ ध्रुवं पश्येद् गुहाकुक्षिगतं तमः ॥

6.1.1@2:28

यदा चित्तम् असंसक्तं तदीयं सर्ववस्तुषु ॥

6.1.1@2:29

भवतीह तदा योगी मैत्रेय परमात्मवित् ॥

6.1.1@2:30

स्वरेण संधयेद् योगम् अस्वरं भावयेत् परम् ॥

6.1.1@2:31

अस्वरेण तु भावेन त्व् अभावो भावम् आदिशेत् ॥

6.1.1@2:32

तद् एव निष्फलं ब्रह्म निर्विकल्पं निरञ्जनम् ॥

6.1.1@2:33

तद् ब्रह्माहम् इति ज्ञात्वा ब्रह्मभावो भवेद् ध्रुवम् ॥

6.1.1@2:34

आतिष्ठेत् साधनं यत्र याति तत्रैव बन्धयेत् ॥

6.1.1@2:35

एवं संबाधयेद् अर्थम् उपायेन तु बुद्धिमान् ॥

6.1.1@2:36

यत्र यत्र भवेद् वेदस् तत् तद् अस्त्व् इति चिन्तयेत् ॥

6.1.1@2:37

मैत्रेय तेन रूपेण सो ऽमृतत्वाय कल्प्यते ॥

6.1.1@2:38

प्रकृतिज्ञेयसदृशी दृश्यरूपं स्वम् आत्मकम् ॥

6.1.1@2:39

यो वेद परमं वेदं मुक्त इत्य् उच्यते मुने ॥

6.1.1@2:40

वेदद्वारेण यो वेदं पश्यत्य् आत्मानम् आत्मनि ॥

6.1.1@2:41

तस्मिन् वेदे कलाभावान् निष्फलं परिपश्यति ॥

6.1.1@2:42

रवमात्रकदेहस्य ग्राह्यत्वाद् अपि रोधत ॥

6.1.1@2:43

तत्रैव स्थापयेच् चित्तं दृष्ट्वाभ्यासम् अदैवतम् ॥

6.1.1@2:44

रवमात्रकदेहो ऽहम् अविद्यादेहम् आश्रितः ॥

6.1.1@2:45

अविद्याभिप्रपन्नो ऽयम् इति xx न मुह्यति ॥

6.1.1@2:46

यच् छ्रोतव्यं च यद् दृश्यं यच् च भोक्तव्यम् इत्य् उत ॥

6.1.1@2:47

घ्रातव्यं चैव स्पृष्टव्यं बुद्धिग्राह्यं तथैव च ॥

6.1.1@2:48

सर्वं तद् ब्रह्मबुद्ध्या तु कुर्वाणो न निबध्यते ॥

6.1.1@2:49

रवमात्रशरीरं तु ब्रह्म सर्वत्र दृश्यते ॥

6.1.1@2:50

अमेध्यादिभिर् असंस्पृष्टं यथा निर्मलतां गतम् ॥

6.1.1@2:51

अहं तदैव नान्यो ऽस्मि तस्मात् तद्वच् च निर्मलः ॥

6.1.1@2:52

मैत्रेय नावसीदन्ति परापरविदो जनाः ॥

6.1.1@2:53

अधश् चोर्ध्वं च तिर्यक् च नान्यं पश्यन्ति योगिनः ॥

6.1.1@2:54

अन्यरूपे प्रनष्टे तु कृत्स्ने स्थावरजङ्गमे ॥

6.1.1@2:55

अव्ययं च प्रपश्यन्ति तद् एवान्यन् न किंचन ॥

6.1.1@2:56

अविद्यारूपे प्रनष्टे च सुषुप्तिप्रलये ऽपि च ॥

6.1.1@2:57

प्रबुद्धास् तु स्मरिष्यन्ति तद् एवान्यन् न महर्षे ॥

6.1.1@2:58

सर्ववस्तुषु पूर्णेषु पुनश् चूर्णीकृतेषु च ॥

6.1.1@2:59

तदन्तम् एव पश्यन्ति तस्य तत्त्वं न दृश्यते ॥

6.1.1@2:60

सर्वेषु वेदतन्त्रेषु सर्वेषु समयेषु भोः ॥

6.1.1@2:61

इदम् एव प्रपश्यन्ति ततस् तत्त्वविदो जनाः ॥

6.1.1@2:62

ब्रह्मरूपम् इदं सर्वम् एवं पश्येत् सदा नरः ॥

6.1.1@2:63

हत्वापि स इमांल् लोकान् सर्वाशी सर्वविक्रयी ॥

6.1.1@2:64

सर्वान् निषिद्धान् कृत्वापि कर्मभिर् न स बध्यते ॥

6.1.1@2:65

धर्माधर्मविमुक्तात्मा ब्रह्मभूयाय कल्पते ॥

6.1.1@2:66

निरात्मकम् इदं प्रोक्तं सांख्यं सानकम् उच्यते ॥

6.1.1@2:67

रेचकं पूरकं कृत्वा वायुम् आरोहयेत् ततः ॥

6.1.1@2:68

ब्रह्मनाडी स्मृता तत्र कायमध्ये व्यवस्थिता ॥

6.1.1@2:69

ज्योतिराग्रा चक्रमूला सूक्ष्मा चक्रान्तरानुगा ॥

6.1.1@2:70

अदृश्यरूपा सा सर्वैः पश्यन्ति परमर्षयः ॥

6.1.1@2:71

प्रद्युम्नो भगवाञ् ज्योतिर् बहिर्धाम व्यवस्थितः ॥

6.1.1@2:72

मांसाद् अधः पौण्डरीकाद् धृदयग्रन्थिर् उच्यते ॥

6.1.1@2:73

तेन संक्रमयेद् वायुं पुराणकरणेन तु ॥

6.1.1@2:74

ज्योतिषः प्रापणाभ्यासात् सर्ववायुजयो भवेत् ॥

6.1.1@2:75

तत्रैकदेशम् आकृष्य केचिन् न्यस्यन्ति मौलिके ॥

6.1.1@2:76

तेन लब्धोपलब्धास् तु गच्छन्ति ज्योतिषः पदम् ॥

6.1.1@2:77

ये तु तत्त्वं प्रपश्यन्ति मौलिके स्थापयन्त्य् उत ॥

6.1.1@2:78

पुनर् ब्रह्मणि निष्णातास् ते ऽमृतत्वाय कल्पते ॥

6.1.1@2:79

एतत् तु सानकं प्रोक्तं सांख्यं दिव्यम् अनुत्तमम् ॥

6.1.1@2:80

श्रेयांसः पूर्वम् इच्छन्ति संन्यासात् सर्वकर्मणाम् ॥

6.1.1@2:81

त्यक्तसर्वक्रियारम्भाः परं सांख्यं प्रचक्षते ॥

6.1.1@2:82

सांख्यमार्गस् त्वयैवोक्तो योगमार्गस् त्व्ययोच्यताम् ॥

6.1.1@2:83

अथ योगं प्रवक्ष्यामि गुह्याद् गुह्यतरं परम् ॥

6.1.1@2:84

यज् ज्ञात्वा मुनयः सर्वे पदं गच्छन्त्य् अनामयम् ॥

6.1.1@2:85

सांख्यात् तत्त्वात् परं योगं प्रवदन्ति मनीषिणः ॥

6.1.1@2:86

ये योगम् अनुतिष्ठन्ति सांख्यम् अप्य् अनुतिष्टते ॥

6.1.1@2:87

तस्माद् योगं प्रशंसन्ति मुनयो मुनिसत्तम ॥

6.1.1@2:88

देहिनस् त्व् आत्मसंयोगाद् योगम् आहुर् मनीषिणः ॥

6.1.1@2:89

देहीपापनिबन्धत्वात् पूर्वं पापक्षयं चरेत् ॥

6.1.1@2:90

गुणैस् तु बन्धितत्वाच् च गुणानां हरणं ततः ॥

6.1.1@2:91

देही देहनिबन्धत्वात् तस्यापि हरणं चरेत् ॥

6.1.1@2:92

मुख्यानां चैव शून्यानां बलवत्त्वान् नियामनम् ॥

6.1.1@2:93

एवं कृत्वा स्म दृश्यन्तु संयोज्यात्मानम् आत्मनि ॥

6.1.1@2:94

धर्माधर्मविनिर्मुक्तो मुक्त एव भवेद् ध्रुवम् ॥

6.1.1@2:95

गुणानां तेजसो रूपं देहरूपं च देहिनः ॥

6.1.1@2:96

आलम्ब्य विनशेत् पश्चाद् योगसिद्धिम् अभीप्सता ॥

6.1.1@2:97

आलम्बनान् निरालम्बं पश्यन्ति परमर्षयः ॥

6.1.1@2:98

आलम्बनं न चेत् पूर्वं न च बन्धविमोक्षणम् ॥

6.1.1@2:99

रेचपूरककुम्भैश् च पूर्वं पापक्षयं चरेत् ॥

6.1.1@2:100

पूर्वरात्रलयैः शान्त्या देहिनो दृश्यतां नयेत् ॥

6.1.1@2:101

वेदसारात् तु संयोगं प्रवदन्ति मनीषिणः ॥

6.1.1@2:102

एवं योगविधिः प्रोक्तो योगे सर्वं समाप्यते ॥

6.1.1@2:103

एवं सांख्यं च योगं च प्रवदन्ति मनीषिणः ॥

6.1.1@2:104

अनयोस् त्व् अपृथग्ज्ञानान् मुक्तो भवति नान्यथा ॥

6.1.1@2:105

सांख्ययोगाव् उपायौ द्वाव् उपेयस् त्व् एक एव तु ॥

6.1.1@2:106

देवो नारायणस् त्व् एकः परमात्मेत्य् उदाहृतः ॥

6.1.1@2:107

रवमात्रकदेहस् तु सर्वव्याप्याजरामरः ॥

6.1.1@2:108

तरङ्गजङ्गमस्थास् नु स्वमायातमसावृतः ॥

6.1.1@2:109

बह्वाकार इवाभाति मायया पुरुषोत्तमः ॥

6.1.1@2:110

एवं यो वेद योगीन्द्रः स वै मुक्तो भवेन् नरः ॥

6.1.1@2:111

यत् पृष्टवान् असि मुने तद् उक्तं परमार्थतः ॥

6.1.1@2:112

किम् अन्यच् छ्रोतुम् इच्छा ते ह्य् अस्ति मैत्रेय पृच्छ तत् ॥

6.1.1@2:114

ज्ञानामृतम् इदं श्रुत्वा नास्ति धन्यतरो मम ॥

6.1.1@2:115

मन्ये ऽहं भगवान् अद्य प्रसादं कृतवान् इति ॥

6.1.1@2:116

अद्याहं वीतसंदेहो भवं विप्रर्षभ प्रभो ॥

6.1.1@2:117

तथापि किंचित् पृच्छामि दुर्बोधत्वान् महामुने ॥

6.1.2

श्रोतुम् इच्छाम्य् अहं त्वत्तो यथावद् उपसंहृतिम्
महाप्रलयसंज्ञां च कल्पान्ते च महामुने ॥

6.1.3

मैत्रेय श्रूयतां मत्तो यथावद् उपसंहृतिः
कल्पान्ते प्राकृते चैव प्रलये जायते यथा ॥

6.1.4

अहोरात्रं पितॄणां तु मासो ऽब्दस् त्रिदिवौकसाम्
चतुर्युगसहस्रे तु ब्रह्मणो द्वे द्विजोत्तम ॥

6.1.5

कृतं त्रेता द्वापरं च कलिश् चैव चतुर्युगम्
दिव्यैर् वर्षसहस्रैस् तु तद् द्वादशभिर् उच्यते ॥

6.1.6

चतुर्युगाण्य् अशेषाणि सदृशानि स्वरूपतः
आद्यं कृतयुगं मुक्त्वा मैत्रेयान्त्यं तथा कलिम् ॥

6.1.7

आद्ये कृतयुगे सर्गो ब्रह्मणा क्रियते यतः
क्रियते चोपसंहारस् तथान्ते च कलौ युगे ॥

6.1.8

कलेः स्वरूपं भगवन् विस्तराद् वक्तुम् अर्हसि
धर्मश् चतुष्पाद् भगवन् यस्मिन् विप्लवम् ऋच्छति ॥

6.1.9

कलेः स्वरूपं मैत्रेय यद् भवान् प्रष्टुम् इच्छति
तन् निबोध समासेन वर्तते यन् महामुने ॥

6.1.10

वर्णाश्रमाचारवती प्रवृत्तिर् न कलौ नृणाम्
न साम-ऋग्यजुर्वेद विनिष्पादनहैतुकी ॥

6.1.11

विवाहा न कलौ धर्म्या न शिष्यगुरुसंस्थितिः
न दाम्पत्यक्रमो नैव वह्निदेवात्मकः क्रमः ॥

6.1.12

यत्र तत्र कुले जातो बली सर्वेश्वरः कलौ
सर्वेभ्य एव वर्णेभ्यो योग्यः कन्यावरोधने ॥

6.1.13

येन तेनैव योगेन द्विजातिर् दीक्षितः कलौ
यैव सैव च मैत्रेय प्रायश्चित्तक्रिया कलौ ॥

6.1.14

सर्वम् एव कलौ शास्त्रं यस्य यद् वचनं द्विज
देवताश् च कलौ सर्वाः सर्वः सर्वस्य चाश्रमः ॥

6.1.15

उपवासस् तथायासो वित्तोत्सर्गस् तथा कलौ
धर्मो यथाभिरुचितैर् अनुष्ठानैर् अनुष्ठितः ॥

6.1.16

वित्तेन भविता पुंसां स्वल्पेनाढ्यमदः कलौ
स्त्रीणां रूपमदश् चैव केशैर् एव भविष्यति ॥

6.1.17

सुवर्णमणिरत्नादौ वस्त्रे चोपक्षयं गते
कलौ स्त्रियो भविष्यन्ति तदा केशैर् अलंकृताः ॥

6.1.18

परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः
भर्ता भविष्यति कलौ वित्तवान् एव योषिताम् ॥

6.1.19

यो यो ददाति बहुलं स स स्वामी तदा नृणाम्
स्वामित्वहेतुः संबन्धो भावी नाभिजनस् तदा ॥

6.1.20

गृहान्ता द्रव्यसंघाता द्रव्यान्ता च तथा मतिः
अर्थाश् चात्मोपभोगान्ता भविष्यन्ति कलौ युगे ॥

6.1.21

स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः
अन्यायावाप्तवित्तेषु पुरुषाश् च स्पृहालवः ॥

6.1.22

अभ्यर्थितो ऽपि सुहृदा स्वार्थहानिं न मानवः
पणार्धार्धार्धमात्रे ऽपि करिष्यति तदा द्विज ॥

6.1.23

समानपौरुषं चेतो भावि विप्रेषु वै कलौ
क्षीरप्रदानसंबन्धि भावि गोषु च गौरवम् ॥

6.1.24

अनावृष्टिभयप्रायाः प्रजाः क्षुद्भयकातराः
भविष्यन्ति तदा सर्वा गगनासक्तदृष्टयः ॥

6.1.25

कन्दपर्णफलाहारास् तापसा इव मानवाः
आत्मानं घातयिष्यन्ति तदावृष्ट्यादिदुःखिताः ॥

6.1.26

दुर्भिक्षम् एव सततं तदा क्लेशम् अनीश्वराः
प्राप्स्यन्ति व्याहतसुख प्रमोदा मानवाः कलौ ॥

6.1.27

अस्नानभोजिनो नाग्नि देवतातिथिपूजनम्
करिष्यन्ति कलौ प्राप्ते न च पित्र्योदकक्रियाम् ॥

6.1.28

लोलुपा ह्रस्वदेहाश् च बह्वन्नादनतत्पराः
बहुप्रजाल्पभाग्याश् च भविष्यन्ति कलौ स्त्रियः ॥

6.1.29

उभाभ्याम् अथ पाणिभ्यां शिरःकण्डूयनं स्त्रियः
कुर्वन्त्यो गुरुभर्तॄणाम् आज्ञां भेत्स्यन्त्य् अनादृताः ॥

6.1.30

स्वपोषणपराः क्षुद्रा देहसंस्कारवर्जिताः
परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ॥

6.1.31

दुःशीला दुष्टशीलेषु कुर्वन्त्यः सततं स्पृहाम्
असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥

6.1.32

वेदादानं करिष्यन्ति बटवश् च तथाव्रताः
गृहस्थाश् च न होष्यन्ति न दास्यन्त्य् उचितान्य् अपि ॥

6.1.33

वनवासिनो भविष्यन्ति ग्राम्याहारपरिग्रहाः
भिक्षवश् चापि मित्रादि स्नेहसंबन्धयन्त्रणाः ॥

6.1.34

अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः
हारिणो जनवित्तानां संप्राप्ते तु कलौ युगे ॥

6.1.35

यो यो ऽश्वरथनागाढ्यः स स राजा भविष्यति
यश् च यश् चाबलः सर्वः स स भृत्यः कलौ युगे ॥

6.1.36

वैश्याः कृषिवणिज्यादि संत्यज्य निजकर्म यत्
शूद्रवृत्त्या प्रवर्त्स्यन्ति कारुकर्मोपजीविनः ॥

6.1.37

भैक्ष्यव्रतास् तथा शूद्राः प्रव्रज्यालिङ्गिनो ऽधमाः
पाषण्डसंश्रयां वृत्तिम् आश्रयिष्यन्त्य् असंस्कृताः ॥

6.1.38

दुर्भिक्षकरपीडाभिर् अतीवोपद्रुता जनाः
गोधूमान्नयवान्नाढ्यान् देशान् यास्यन्ति दुःखिताः ॥

6.1.39

वेदमार्गे प्रलीने च पाषण्डाढ्ये ततो जने
अधर्मवृद्ध्या लोकानाम् अल्पम् आयुर् भविष्यति ॥

6.1.40

अशास्त्रविहितं घोरं तप्यमानेषु वै तपः
नरेषु नृपदोषेण बालमृत्युर् भविष्यति ॥

6.1.41

भवित्री योषितां सूतिः पञ्चषट्सप्तवार्षिकी
नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ ॥

6.1.42

पलितोद्भवश् च भविता तदा द्वादशवार्षिकः
नातिजीवति वै कश्चित् कलौ वर्षाणि विंशतिः ॥

6.1.43

अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तःकरणाः कलौ
यतस् ततो विनङ्क्ष्यन्ति कालेनाल्पेन मानवाः ॥

6.1.43*1:1

यदा यदा हि मैत्रेय हानिर् धर्मस्य लक्ष्यते ॥

6.1.43*1:2

तदा तदा कलेर् वृद्धिर् अनुमेया महात्मभिः ॥

6.1.44

यदा यदा हि पाषण्ड वृद्धिर् मैत्रेय लक्ष्यते
तदा तदा कलेर् वृद्धिर् अनुमेया विचक्षणैः ॥

6.1.45

यदा यदा सतां हानिर् वेदमार्गानुसारिणाम्
तदा तदा कलेर् वृद्धिर् अनुमेया विचक्षणैः ॥

6.1.46

प्रारम्भाश् चावसीदन्ति यदा धर्मकृतां नृणाम्
तदानुमेयं प्राधान्यं कलेर् मैत्रेय पण्डितैः ॥

6.1.47

यदा यदा न यज्ञानाम् ईश्वरः पुरुषोत्तमः
इज्यते पुरुषैर् यज्ञैस् तदा ज्ञेयं कलेर् बलम् ॥

6.1.47*2:1

अट्टशूला जनपदा शिवशूलाश् चतुष्पथा ॥

6.1.47*2:2

केशशूला स्त्रियः सर्वा भविष्यन्ति कलौ युगे ॥

6.1.48

न प्रीतिर् वेदवादेषु पाषण्डेषु यदा रतिः
कलेर् वृद्धिस् तदा प्राज्ञैर् अनुमेया द्विजोत्तम ॥

6.1.49

कलौ जगत्पतिं विष्णुं सर्वस्रष्टारम् ईश्वरम्
नार्चयिष्यन्ति मैत्रेय पाषण्डोपहता नराः ॥

6.1.50

किं देवैः किं द्विजैर् वेदैः किं शौचेनाम्बुजन्मना
इत्य् एवं विप्र वक्ष्यन्ति पाषण्डोपहता नराः ॥

6.1.51

स्वल्पाम्बुवृष्टिः पर्जन्यः सस्यं स्वल्पफलं तथा
फलं तथाल्पसारं च विप्र प्राप्ते कलौ युगे ॥

6.1.52

शाणीप्रायाणि वस्त्राणि शमीप्राया महीरुहाः
शूद्रप्रायास् तथा वर्णा भविष्यन्ति कलौ युगे ॥

6.1.53

अणुप्रायाणि धान्यानि आजप्रायं तथा पयः
भविष्यति कलौ प्राप्ते उशीरं चानुलेपनम् ॥

6.1.54

श्वश्रूश्वशुरभूयिष्ठा गुरवश् च नृणां कलौ
श्यालाद्या हारिभार्याश् च सुहृदो मुनिसत्तम ॥

6.1.55

कस्य माता पिता कस्य यदा कर्मात्मकः पुमान्
इति चोदाहरिष्यन्ति श्वशुरानुगता नराः ॥

6.1.56

वाङ्मनःकायिकैर् दोषैर् अभिभूताः पुनः पुनः
नराः पापान्य् अनुदिनं करिष्यन्त्य् अल्पमेधसः ॥

6.1.57

निःसत्त्वानाम् अशौचानां निर्ह्रीकाणां तथा नृणाम्
यद् यद् दुःखाय तत् सर्वं कलिकाले भविष्यति ॥

6.1.58

निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्जिते
तदा प्रविरलो विप्र क्वचिल् लोको भविष्यति ॥

6.1.59

तत्राल्पेनैव यत्नेन पुण्यस्कन्धम् अनुत्तमम्
करोति यं कृतयुगे क्रियते तपसा हि सः ॥

6.1.39*3

कीर्तनाद् एव कृष्णस्य मुक्तबन्धो परं व्रजेत् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc