विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.38
अर्जुनो ऽपि तदान्विष्य कृष्णरामकलेवरे
संस्कारं लम्भयाम् आस तथान्येषाम् अनुक्रमात् ॥
अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास् तु याः
उपगुह्य हरेर् देहं विविशुस् ता हुताशनम् ॥
रेवती चैव रामस्य देहम् आश्लिष्य सत्तम
विवेश ज्वलितं वह्निं तत्सङ्गाह्लादशीतलम् ॥
उग्रसेनस् तु तच् छ्रुत्वा तथैवानकदुन्दुभिः
देवकी रोहिणी चैव विविशुर् जातवेदसम् ॥
ततो ऽर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि
निश्चक्राम जनं सर्वं गृहीत्वा वज्रम् एव च ॥
द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः
वज्रं जनं च कौन्तेयः पालयञ् छनकैर् ययौ ॥
सभा सुधर्मा कृष्णेन मर्त्यलोके समुज्झिते
स्वर्गं जगाम मैत्रेय पारिजातश् च पादपः ॥
यस्मिन् दिने हरिर् यातो दिवं संत्यज्य मेदिनीम्
तस्मिन्न् एवावतीर्णो ऽयं कालकायो बली कलिः ॥
प्लावयाम् आस तां शून्यां द्वारकां च महोदधिः
यदुदेवगृहं त्व् एकं नाप्लावयत सागरः ॥
नातिक्रान्तुम् अलं ब्रह्मंस् तद् अद्यापि महोदधिः
नित्यं संनिहितस् तत्र भगवान् केशवो यतः ॥
तद् अतीव महापुण्यं सर्वपातकनाशनम्
विष्णुक्रीडान्वितं स्थानं दृष्ट्वा पापात् प्रमुच्यते ॥
पार्थः पञ्चनदे देशे बहुधान्यसमन्विते
चकार वासं सर्वस्य जनस्य मुनिसत्तम ॥
ततो लोभः समभवत् पार्थेनैकेन धन्विना
दृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः ॥
ततस् ते पापकर्माणो लोभोपहतचेतसः
आभीरा मन्त्रयाम् आसुः समेत्यात्यन्तदुर्मदाः ॥
अयम् एको ऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम्
नयत्य् अस्मान् अतिक्रम्य धिग् एतद् भवतां बलम् ॥
हत्वा गर्वं समारूढो भीष्मद्रोणजयद्रथान्
कर्णादींश् च न जानाति बलं ग्रामनिवासिनाम् ॥
हे हे यष्टीर् महायामा गृह्णीतायं सुदुर्मतिः
सर्वान् एवावजानाति किं वो बाहुभिर् उन्नतैः ॥
ततो यष्टिप्रहरणा दस्यवो लोप्त्रहारिणः
सहस्रशो ऽभ्यधावन्त तं जनं निहतेश्वरम् ॥
ततो निवृत्य कौन्तेयः प्राहाभीरान् हसन्न् इव
निवर्तध्वम् अधर्मज्ञा यदि न स्थ मुमूर्षवः ॥
अवज्ञाय वचस् तस्य जगृहुस् ते तदा धनम्
स्त्रीजनं चैव मैत्रेय विष्वक्सेनपरिग्रहम् ॥
ततो ऽर्जुनो धनुर् दिव्यं गाण्डीवम् अजरं युधि
आरोपयितुम् आरेभे न शशाक च वीर्यवान् ॥
चकार सज्जं कृच्छ्राच् च तच् चाभूच् छिथिलं पुनः
न सस्मार तथास्त्राणि चिन्तयन्न् अपि पाण्डवः ॥
शरान् मुमोच चैतेषु पार्थो वैरिष्व् अमर्षितः
त्वग्भेदं ते परं चक्रुर् अस्ता गाण्डीवधन्वना ॥
वह्निना ये ऽक्षया दत्ताः शरास् ते ऽपि क्षयं ययुः
युध्यतः सह गोपालैर् अर्जुनस्य भवक्षये ॥
अचिन्तयच् च कौन्तेयः कृष्णस्यैव हि तद् बलम्
यन् मया शरसंघातैः सकला भूभृतो जिताः ॥
मिषतः पाण्डुपुत्रस्य ततस् ताः प्रमदोत्तमाः
आभीरैर् अपकृष्यन्त कामाच् चान्याः प्रवव्रजुः ॥
ततः शरेषु क्षीणेषु धनुष्कोट्या धनंजयः
जघान दस्यूंस् ते चास्य प्रहाराञ् जहसुर् मुने ॥
प्रेक्षतश् चैव पार्थस्य वृष्ण्यन्धकवरस्त्रियः
जग्मुर् आदाय ते म्लेच्छाः समस्ता मुनिसत्तम ॥
ततः सुदुःखितो जिष्णुः कष्टं कष्टम् इति ब्रुवन्
अहो भगवता तेन मुक्तो ऽस्मीति रुरोद वै ॥
तद् धनुस् तानि शस्त्राणि स रथस् ते च वाजिनः
सर्वम् एकपदे नष्टं दानम् अश्रोत्रिये यथा ॥
अहो ऽतिबलवद् दैवं विना तेन महात्मना
यद् असामर्थ्ययुक्ते ऽपि नीचवर्गे जयप्रदम् ॥
तौ बाहू स च मे मुष्टिः स्थानं तत् सो ऽस्मि चार्जुनः
पुण्येनैव विना तेन गतं सर्वम् असारताम् ॥
ममार्जुनत्वं भीमस्य भीमत्वं तत् कृतं ध्रुवम्
विना तेन यद् आभीरैर् जितो ऽहं कथम् अन्यथा ॥
इत्थं वदन् ययौ जिष्णुर् मथुराख्यं पुरोत्तमम्
चकार तत्र राजानं वज्रं यादवनन्दनम् ॥
स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम्
तम् उपेत्य महाभागं विनयेनाभ्यवादयत् ॥
तं वन्दमानं चरणाव् अवलोक्य मुनिश् चिरम्
उवाच पार्थं विच्छायः कथम् अत्यन्तम् ईदृशः ॥
अवीरजोऽनुगमनं ब्रह्महत्याथवा कृता
दृढाशाभङ्गदुःखीव भ्रष्टच्छायो ऽसि साम्प्रतम् ॥
उर्ज्जे दत्तं नैव कृष्णे च पक्षे दुर्वर्णं वा अन्नगोधूममिश्रम्
विष्णुं नत्वा सर्वकामप्रदं भो तेनेदं ते रूपम् ईदृग् विभाति ॥
सान्तानिकादयो वा ते याचमाना निराकृताः
अगम्यस्त्रीरतिर् वा त्वं तेनासि विगतप्रभः ॥
भुङ्क्ते ऽप्रदाय विप्रेभ्यो एको मिष्टम् अथो भवान्
किं वा कृपणवित्तानि हृतानि भवतार्जुन ॥
कच्चित् त्वं शूर्पवातस्य गोचरत्वं गतो ऽर्जुन
दुष्टचक्षुर्हतो वापि निःश्रीकः कथम् अन्यथा ॥
स्पृष्टो नखाम्भसा वाथ घटवार्युक्षितो ऽपि वा
तेनातीवासि विच्छायो न्यूनैर् वा युधि निर्जितः ॥
ततः पार्थो विनिश्वस्य श्रूयतां भगवन्न् इति
प्रोक्तो यथावद् आचष्टे व्यासायात्मपराभवम् ॥
यद् बलं यच् च नस् तेजो यद् वीर्यं यः पराक्रमः
या श्रीश् छाया च नः सो ऽस्मान् परित्यज्य हरिर् गतः ॥
इतरेणेव महता स्मितपूर्वाभिभाषिणा
हीना वयं मुने तेन जातास् तृणमया इव ॥
अस्त्राणां सायकानां च गाण्डीवस्य तथा मम
सारता याभवन् मूर्ता स गतः पुरुषोत्तमः ॥
यस्यावलोकनाद् अस्माञ् श्रीर् जयः संपद् उन्नतिः
न तत्याज स गोविन्दस् त्यक्त्वास्मान् भगवान् गतः ॥
भीष्मद्रोणाङ्गराजाद्यास् तथा दुर्योधनादयः
यत्प्रभावेन निर्दग्धाः स कृष्णस् त्यक्तवान् भुवम् ॥
निर्यौवना हतश्रीका भ्रष्टच्छायेव मे मही
विभाति तात नैको ऽहं विरहे तस्य चक्रिणः ॥
यस्यानुभावाद् भीष्माद्यैर् मय्य् अग्नौ शलभायितम्
विना तेनाद्य कृष्णेन गोपालैर् अस्मि निर्जितः ॥
गाण्डीवं त्रिषु लोकेषु ख्यातिं यदनुभावतः
गतं तेन विनाभीरैर् लगुडैस् तन्निराकृतम् ॥
स्त्रीसहस्राण्य् अनेकानि मन्नाथानि महामुने
यततो मम नीतानि दस्युभिर् लगुडायुधैः ॥
आनीयमानम् आभीरैः कृष्ण कृष्णावरोधनम्
हृतं यष्टिप्रहरणैः परिभूय बलं मम ॥
निःश्रीकता न मे चित्रं यज् जीवामि तद् अद्भुतम्
नीचावमानपङ्काङ्की निर्लज्जो ऽस्मि पितामह ॥
कृष्णशब्दस्य भाजो वै त्रय एव महामुने ॥
अहं च त्वं च देवश् च यथार्हं कृतवान् विभुः ॥
कृष्णे तस्मिन् महाबाहौ महात्मनि महीपतौ ॥
मम चित्तं यथाशक्तं नान्यो वेदेह वेद्म्य् अहम् ॥
भक्तान्नपानक्रीडाभिर् भूमौ ऽसौ देवकीसुतः ॥
कृतवान् यो मम प्रीतिं सएवाकर्षति मे मनः ॥
कलेवरम् इदं त्यक्ष्ये पास्ये वा विषम् उल्बणम् ॥
पते वा पर्वताग्रात् तु जलं वा प्रविशे मुने ॥
प्रवेक्ष्याम्य् अग्निम् उज्वाल्य वत्स्ये प्रायोपवेशनम् ॥
तं विना देवदेवेशम् इदं मे पाञ्चभौतिकम् ॥
शरीरम् इदम् अत्युग्रं कठिनं क्लिष्टकल्पनम् ॥
अमेध्यमूत्रसंपूर्ण भाजनं परिचापलम् ॥
अतिकष्टं कष्टतरं जीवितुं नोत्सहे क्षणम् ॥
सर्वं शून्यम् इदं विश्वं प्रतिभाति महामुने ॥
शङ्खचक्रगदाशार्ङ्ग नन्दकायुधधारिणम् ॥
विना तं पुण्डरीकाक्षं देवदेवं खगध्वजम् ॥
हरिविरञ्चिहरयोर् ईशं चित्रध्वजं मुने ॥
अपश्यमानो जीवामि कथम् अत्र महामुने ॥
त्वम् एवेत्थं x महर्षेर् आवयो प्राणसंस्थितिम् ॥
कथं तेन विना जिष्णुं विष्णुम् अत्यद्भुतं मुने ॥
यत् सर्वं तदीयम् इति लोके विश्रुतम् अद्भुतम् ॥
मदीयम् एव जानाति सत्ये नैव च मे शपे ॥
विना तेनैव कृष्णेन कृष्णे जिष्णो महद्भुतम् ॥
क्रूरे ऽस्मिञ् जगति क्रूरः सोढुं जीवं महामुने ॥
न शक्नोमि हरेः पद्भ्यां शपे तस्य महात्मनः ॥
अलं ते व्रीडया पार्थ न त्वं शोचितुम् अर्हसि
अवेहि सर्वभूतेषु कालस्य गतिर् ईदृशी ॥
कालो भवाय भूतानाम् अभावाय च पाण्डव
कालमूलम् इदं ज्ञात्वा भव स्थैर्यधनो ऽर्जुन ॥
नद्यः समुद्रा गिरयः सकला च वसुंधरा
देवा मनुष्याः पशवस् तरवः ससरीसृपाः ॥
सृष्टाः कालेन कालेन पुनर् यास्यन्ति संक्षयम्
कालात्मकम् इदं सर्वं ज्ञात्वा शमम् अवाप्नुहि ॥
कालस्वरूपी भगवान् कृष्णः कमललोचनः ॥
यच् चात्थ कृष्णमाहात्म्यं तत् तथैव धनंजय
भारावतारकार्यार्थम् अवतीर्णः स मेदिनीम् ॥
भाराक्रान्ता धरा याता देवानां समितिं पुरा
तदर्थम् अवतीर्णो ऽसौ कालरूपी जनार्दनः ॥
तच् च निष्पादितं कार्यम् अशेषा भूभृतो हताः
वृष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम् ॥
न किंचिद् अन्यत् कर्तव्यम् अस्य भूमितले प्रभोः
अतो गतः स भगवान् कृतकृत्यो यथेच्छया ॥
सृष्टिं सर्गे करोत्य् एष देवदेवः स्थितौ स्थितिम्
अन्ते ऽन्ताय समर्थो ऽयं साम्प्रतं वै यथा कृतम् ॥
तस्मात् पार्थ न संतापस् त्वया कार्यः पराभवात्
भवन्ति भवकालेषु पुरुषाणां पराक्रमाः ॥
त्वयैकेन हता भीष्म द्रोणकर्णादयो नृपाः
तेषाम् अर्जुन कालोत्थः किं न्यूनाभिभवो न सः ॥
वैकुण्ठाद् आगतो विष्णुस् तम् एव गतवान् प्रभुः ॥
तस्मात् पार्थ न शोचस् त्वम् अशोच्यो भगवान् हरिः ॥
विष्णोस् तस्यानुभावेन यथा तेषां पराभवः
त्वत्तस् तथैव भवतो दस्युभ्यो ऽन्ते तदुद्भवः ॥
स देवो ऽन्यशरीराणि समाविश्य जगत्स्थितिम्
करोति सर्वभूतानां नाशं चान्ते जगत्पतिः ॥
तवोद्भवे स कौन्तेय सहायो ऽभूज् जनार्दनः ॥
भावाभावे च स तदा सहयोगं जनार्दनः ॥
भवान्ते त्वद्विपक्षास् ते केशवेनावलोकिताः ॥
कः श्रद्दध्यात् सगाङ्गेयान् हन्यास् त्वं सर्वकौरवान्
आभीरेभ्यश् च भवतः कः श्रद्दध्यात् पराभवम् ॥
पार्थैतत् सर्वभूतस्य हरेर् लीलाविचेष्टितम्
त्वया यत् कौरवा ध्वस्ता यद् आभीरैर् भवाञ् जितः ॥
गृहीता दस्युभिर् यच् च भवता शोचिताः स्त्रियः
तद् अप्य् अहं यथावृत्तं कथयामि तवार्जुन ॥
अष्टावक्रः पुरा विप्रो जलवासरतो ऽभवत्
बहून् वर्षगणान् पार्थ गृणन् ब्रह्म सनातनम् ॥
जितेष्व् असुरसंघेषु मेरुपृष्ठे महोत्सवः
बभूव तत्र गच्छन्त्यो ददृशुस् तं सुरस्त्रियः ॥
रम्भातिलोत्तमाद्याश् च शतशो ऽथ सहस्रशः
तुष्टुवुस् तं महात्मानं प्रशशंसुश् च पाण्डव ॥
आकण्ठमग्नं सलिले जटाभारधरं मुनिम्
विनयावनताश् चैनं प्रणेमुः स्तोत्रतत्पराः ॥
यथा यथा प्रसन्नो ऽसौ तुष्टुवुस् तं तथा तथा
सर्वास् ताः कौरवश्रेष्ठ वरिष्ठं तं द्विजन्मनाम् ॥
प्रसन्नो ऽहं महाभागा भवतीनां यद् इष्यते
मत्तस् तद् व्रियतां सर्वं प्रदास्याम्य् अतिदुर्लभम् ॥
रम्भातिलोत्तमाद्यास् तं वैदिक्यो ऽप्सरसो ऽब्रुवन्
प्रसन्ने त्वय्य् अपर्याप्तं किम् अस्माकम् इति द्विज ॥
इतरास् त्व् अब्रुवन् विप्र प्रसन्नो भगवान् यदि
तद् इच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तमम् ॥
एवं भविष्यतीत्य् उक्त्वा उत्ततार जलान् मुनिः
तम् उत्तीर्णं च ददृशुर् विरूपं वक्रम् अष्टधा ॥
तं दृष्ट्वा गूहमानानां यासां हासः स्फुटो ऽभवत्
ताः शशाप मुनिः कोपम् अवाप्य कुरुनन्दन ॥
यस्माद् विरूपरूपं मां मत्वा हासावमानना
भवतीभिः कृता तस्माद् एषं शापं ददामि वः ॥
मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम्
मच्छापोपहताः सर्वा दस्युहस्तं गमिष्यथ ॥
इत्य् उदीरितम् आकर्ण्य मुनिस् ताभिः प्रसादितः
पुनः सुरेन्द्रलोकं वै प्राह भूयो गमिष्यथ ॥
एवं तस्य मुनेः शापाद् अष्टावक्रस्य केशवम्
भर्तारं प्राप्य ता याता दस्युहस्तं वराङ्गनाः ॥
तत् त्वया नात्र कर्तव्यः शोको ऽल्पो ऽपि हि पाण्डव
तेनैवाखिलनाथेन सर्वं तद् उपसंहृतम् ॥
भवतां चोपसंहारम् आसन्नं तेन कुर्वता
बलं तेजस् तथा वीर्यं माहात्म्यं चोपसंहृतम् ॥
जातस्य नियतो मृत्युः पतनं च तथोन्नतेः
विप्रयोगावसानश् च संयोगः संचयात् क्षयः ॥
विज्ञाय न बुधाः शोकं न हर्षम् उपयान्ति ये
तेषाम् एवेतरे चेष्टां शिक्षन्तः सन्ति तादृशाः ॥
तस्मात् त्वया नरश्रेष्ठ ज्ञात्वैतद् भ्रातृभिः सह
परित्यज्याखिलं तन्त्रं गन्तव्यं तपसे वनम् ॥
तद् गच्छ धर्मराजाय निवेद्यैतद् वचो मम
परश्वो भ्रातृभिः सार्धं यथा यासि तथा कुरु ॥
इत्य् उक्तो ऽभ्येत्य पार्थाभ्यां यमाभ्यां च सहार्जुनः
दृष्टं चैवानुभूतं च कथितं तद् विशेषतः ॥
व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनसमीरितम्
राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम् ॥
इत्य् एतत् तव मैत्रेय विस्तरेण मयोदितम्
जातस्य यद् यदोर् वंशे वासुदेवस्य चेष्टितम् ॥
यश् चैतच् चरितं तस्य कृष्णस्य शृणुयात् सदा ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0