विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.9
तस्मिन् रासभदैतेये सानुगे विनिपातिते
सेव्यं गोगोपगोपीनां रम्यं तालवनं बभौ ॥
ततस् तौ जातहर्षौ तु वसुदेवसुताव् उभौ
हत्वा धेनुकदैतेयं भाण्डीरवटम् आगतौ ॥
क्ष्वेलमानौ प्रगायन्तौ विचिन्वन्तौ च पादपान्
चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः ॥
निर्योगपाशस्कन्धौ तौ वनमालाविभूषितौ
शुशुभाते महात्मानौ बालशृङ्गाव् इवर्षभौ ॥
सुवर्णाञ्जनचूर्णाभ्यां तौ तदा रुषिताम्बरौ
महेन्द्रायुधसंयुक्तौ श्वेतकृष्णाव् इवाम्बुदौ ॥
चेरतुर् लोकसिद्धाभिः क्रीडाभिर् इतरेतरम्
समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥
मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम्
तज्जातिगुणयुक्ताभिः क्रीडाभिश् चेरतुर् वनम् ॥
ततश् चान्दोलिकाभिश् च नियुद्धैश् च महाबलौ
व्यायामं चक्रतुस् तत्र क्षेपणीयैस् तथाश्मभिः ॥
तल्लिप्सुर् असुरस् तत्र ह्य् उभयो रममाणयोः
आजगाम प्रलम्बाख्यो गोपवेषतिरोहितः ॥
सो ऽवगाहत निःशङ्कस् तेषां मध्यम् अमानुषः
मानुषं वपुर् आस्थाय प्रलम्बो दानवोत्तमः ॥
तयोश् छिद्रान्तरप्रेप्सुर् अविषह्यम् अमन्यत
कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥
हरिणाक्रीडनं नाम बालक्रीडनकं ततः
प्रकुर्वन्तो हि ते सर्वे द्वौ द्वौ युगपद् उत्पतन् ॥
श्रीदाम्ना सह गोविन्दः प्रलम्बेन तथा बलः
गोपालैर् अपरैश् चान्ये गोपालाः सह पुप्लुवुः ॥
निदाघकाले संप्राप्ते ऽथ भाण्डीरकसंज्ञके ॥
पशूंश् चारयतो गोपैस् तद्वने रामकृष्णयोः ॥
गोपरूपी प्रलम्बो ऽगाद् असुरः तज्जिहीर्षया ॥
तं विद्वान् अपि दाशार्हो भगवान् सर्वदर्शनः ॥
अन्वमोदत तत्सख्यं वधं तस्य विचिन्तयन् ॥
तत्रोपहूय गोपालान् कृष्णः प्राह विहारवित् ॥
हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् ॥
तत्र चक्रुः परिवृढो गोपा रामजनार्दनौ ॥
कृष्णसंघट्टिनः केचिद् आसन् रामस्य चापरे ॥
आचेरुर् विविधाः क्रीडा वाह्यवाहकलक्षणाः ॥
तत्रारुह्यन्ति जेतारो वहन्ति च पराजिताः ॥
वहन्तो वाहयन्तश् च चारयन्तश् च गोधनम् ॥
भाण्डिरकं नाम वटं जग्मुः कृष्णपुरोगमाः ॥
रामसंघट्टिनो ये हि श्रीदामवृषभादयः ॥
क्रीडायां जयिनस् तांस् तान् ऊहुः कृष्णादयस् तथा ॥
उवाह कृष्णं भगवान् श्रीदामानं पराजिताः ॥
ऋषभं भद्रसेनस् तु प्रलम्बो रोहिणीसुतम् ॥
श्रीदामानं ततः कृष्णः प्रलम्बं रोहिणीसुतः
जितवान् कृष्णपक्षीयैर् गोपैर् अन्ये पराजिताः ॥
ते वाहयन्तस् त्व् अन्योन्यं भाण्डीरस्कन्धम् एत्य वै
पुनर् निववृतुः सर्वे ये ये तत्र पराजिताः ॥
संकर्षणं तु स्कन्धेन शीघ्रम् उत्क्षिप्य दानवः
न तस्थौ प्रजगामैव सचन्द्र इव वारिदः ॥
असहन् रौहिणेयस्य स भारं दानवोत्तमः
ववृधे सुमहाकायः प्रावृषीव बलाहकः ॥
संकर्षणस् तु तं दृष्ट्वा दग्धशैलोपमाकृतिम्
स्रग्दामलम्बाभरणं मुकुटाटोपिमस्तकम् ॥
रौद्रं शकटचक्राक्षं पादन्यासचलत्क्षितिम् ॥
अभीतमनसा तेन रक्षसा रोहिणीसुतः ॥
ह्रियमाणस् ततः कृष्णम् इदं वचनम् अब्रवीत् ॥
कृष्ण कृष्ण ह्रियाम्य् एष पर्वतोदग्रमूर्तिना
केनापि पश्य दैत्येन गोपालछद्मरूपिणा ॥
यद् अत्र साम्प्रतं कार्यं मया मधुनिषूदन
तत् कथ्यतां प्रयात्य् एष दुरात्मातित्वरान्वितः ॥
तम् आह रामं गोविन्दः स्मितभिन्नौष्ठसंपुटः
महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित् ॥
किम् अयं मानुषो भावो व्यक्तम् एवावलम्ब्यते
सर्वात्मन् सर्वगुह्यानां गुह्यगुह्यात्मना त्वया ॥
स्मराशेषजगन्नाथ कारणं कारणाग्रजम्
आत्मानम् एकं तद्वच् च जगत्य् एकार्णवे च यत् ॥
किं न वेत्सि यथाहं च त्वं चैकं कारणं भुवः
भारावतारणार्थाय मर्त्यलोकम् उपागतौ ॥
नभः शिरस् ते ऽम्बुमयी च मूर्तिः पादौ क्षितिर् वक्त्रम् अनन्त वह्निः
सोमो मनस् ते श्वसितं समीरो दिशश् चतस्रो ऽव्यय बाहवस् ते ॥
सहस्रवक्त्रो हि भवान् महात्मा सहस्रहस्ताङ्घ्रिशरीरभेदः
सहस्रपद्मोद्भवयोनिर् आद्यः सहस्रशस् त्वां मुनयो गृणन्ति ॥
दिव्यं हि रूपं तव वेत्ति नान्यो देवैर् अशेषैर् अवताररूपम्
तवार्च्यते वेत्सि न किं यद् अन्ते त्वय्य् एव विश्वं लयम् अभ्युपैति ॥
त्वया धृतेयं धरणी बिभर्ति चराचरं विश्वम् अनन्तमूर्ते
कृतादिभेदैर् अज कालरूपो निमेषपूर्वो जगद् एतद् अत्सि ॥
अत्तं यथा वाडववह्निनाम्बु हिमस्वरूपं परिगृह्य कास्तम्
हिमाचले भानुमतो ऽंशुसङ्गाज् जलत्वम् अभ्येति पुनस् तद् एव ॥
एवं त्वया संहरणे ऽत्तम् एतज् जगत् समस्तं पुनर् अप्य् अवश्यम्
तथैव सर्गाय समुद्यतस्य जगत्त्वम् अभ्येत्य् अनुकल्पम् ईश ॥
भवान् अहं च विश्वात्मन्न् एकम् एव हि कारणम्
जगतो ऽस्य जगत्य् अर्थे भेदेनावां व्यवस्थितौ ॥
तत् स्मर्यताम् अमेयात्मंस् त्वयात्मा जहि दानवम्
मानुष्यम् एवावलम्ब्य बन्धूनां क्रियतां हितम् ॥
इति संस्मारितो विप्र कृष्णेन सुमहात्मना
विहस्य पीडयाम् आस प्रलम्बं बलवान् बलः ॥
मुष्टिना चाहनन् मूर्ध्नि कोपसंरक्तलोचनः
तेन चास्य प्रहारेण बहिर् याते विलोचने ॥
स निष्कासितमस्तिष्को मुखाच् छोणितम् उद्वमन्
निपपात महीपृष्ठे दैत्यवर्यो ममार च ॥
प्रलम्बं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा
प्रहृष्टास् तुष्टुवुर् गोपाः साधु साध्व् इति चाब्रुवन् ॥
संस्तूयमानो गोपैस् तु रामो दैत्ये निपातिते
प्रलम्बे सह कृष्णेन पुनर् गोकुलम् आययौ ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0