विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.8
गाः पालयन्तौ च पुनः सहितौ बलकेशवौ
भ्रममाणौ वने तस्मिन् रम्यं तालवनं गतौ ॥
तत् तु तालवनं नित्यं धेनुको नाम दानवः
नृगोमांसकृताहारः सदाध्यास्ते खराकृतिः ॥
तत् तु तालवनं पक्व फलसंपत्समन्वितम्
दृष्ट्वा स्पृहान्विता गोपाः फलादाने ऽब्रुवन् वचः ॥
हे राम हे कृष्ण सदा धेनुकेनैष रक्ष्यते
भूप्रदेशो यतस् तस्मात् पक्वानीमानि सन्ति वै ॥
फलानि पश्य तालानां गन्धामोदितदिंशि च
वयम् एतान्य् अभीप्सामः पात्यन्तां यदि रोचते ॥
इति गोपकुमाराणां श्रुत्वा संकर्षणो वचः
कृष्णश् च पातयाम् आस भुवि तालफलानि वै ॥
एतत् कथव्यम् इत्युक्त्वा पातयाम् आस तानि वै ॥
फलानां पततां शब्दम् आकर्ण्य सुदुरासदः
आजगाम स दुष्टात्मा कोपाद् दैतेयगर्दभः ॥
पद्भ्याम् उभाभ्यां स तदा पश्चिमाभ्यां बली बलम्
जघानोरसि ताभ्यां च स च तेनाप्य् अगृह्यत ॥
गृहीत्वा भ्रामणेनैव सो ऽम्बरे गतजीवितम्
तस्मिन्न् एव स चिक्षेप वेगेन तृणराजनि ॥
ततः फलान्य् अनेकानि तालाग्रान् निपतन् खरः
पृथिव्यां पातयाम् आस महावातो ऽम्बुदान् इव ॥
अन्यान् अप्य् अस्य वै ज्ञातीन् आगतान् दैत्यगर्दभान्
कृष्णश् चिक्षेप तालाग्रे बलभद्रश् च लीलया ॥
क्षणेनालंकृता पृथ्वी पक्वैस् तालफलैस् तथा
दैत्यगर्दभदेहैश् च मैत्रेय शुशुभे ऽधिकम् ॥
ततो गावो निराबाधास् तस्मिंस् तालवने द्विज
नवशष्पं सुखं चेरुर् यन् न भुक्तम् अभूत् पुरा ॥
बलः प्रविश्य बाहुभ्याम् तालान् संपरिकम्पयन् ॥
फलानि पातयाम् आस मतङ्गज इवौजसा ॥
फलानां पततां शब्दं निशम्यासुररासभः ॥
अभ्यधावत् क्षितितलं स नगं परिकम्पयन् ॥
समेत्य तरसा प्रत्यग् द्वाभ्यां पद्भ्यां बलं बली ॥
निहत्योरसि का शब्दं मुञ्चन् पर्यचरत् खरः ॥
पुनर् आसाद्य संरब्ध उपक्रोष्टापरास्थितः ॥
चरणाव् अपरौ राजन् बलाय प्राक्षिपद् रुषा ॥
स तं गृहीत्वा प्रददौ भ्रामयित्वैकपाणिना ॥
चिक्षेप तृणराजाग्रे भ्रामणत्यक्तजीवितम् ॥
तेनाहतो महातालो वेपमानो बृहच्छिराः ॥
पार्श्वस्थं xxx भग्नः स चान्यं सो ऽपि चापरम् ॥
बालस्य लीलयोत्सृष्टस् खरदेहहताहताः ॥
तालाश् चकम्पिरे सर्वे महावातेरिता इव ॥
नैतच् चित्रं भगवति ह्य् अनन्ते जगदीश्वरे ॥
ओतप्रोतम् इदं तस्मिंस् तन्तुष्व् अङ्गौ यथा पटः ॥
ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये ॥
क्रोष्टारो व्यद्रवन् सर्वे संरब्धा हतबान्धवाः ॥
तांस् तान् आपततः कृष्णो रामश् च नृपलीलया ॥
गृहीतपश्चाच्चरणान् प्राहिणोत् तृणराजसु ॥
तयोस् तु सुमहत् कर्म निशम्य विबुधादयः ॥
मुमुचुः पुष्पवर्षाणि चक्रुर् वाद्यानि तुष्टुवुः ॥
अथ तालफलान्य् आदन् मनुष्या गतसाध्वसाः ॥
तृणं च पशवश् चेरुर् हतधेनुककानने ॥
कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः ॥
स्तूयमानानुगैर् गोपैः साग्रजो व्रजम् आविशत् ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0