विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.10
तयोर् विहरतोर् एवं रामकेशवयोर् व्रजे
प्रावृड् _व्यतीता विकसत् सरोजा चाभवच् छरत् ॥
अवापुस् तापम् अत्यर्थं शफर्यः पल्वलोदके
पुत्रक्षेत्रादिसक्तेन ममत्वेन यथा गृही ॥
मयूरा मौनिनस् तस्थुः परित्यक्तमदा वने
असारतां परिज्ञाय संसारस्येव योगिनः ॥
उत्सृज्य जलसर्वस्वं विमलाः सितमूर्तयः
तत्यजुश् चाम्बरं मेघा गृहं विज्ञानिनो यथा ॥
शरत्सूर्यांशुतप्तानि ययुः शोषं सरांसि च
बह्वालम्बिममत्वेन हृदयानीव देहिनाम् ॥
कुमुदैः शरदम्भांसि योग्यतालक्षणं ययुः
अवबोधैर् मनांसीव संबन्धम् अमलात्मनाम् ॥
तारकाविमले व्योम्नि रराजाखण्डमण्डलः
चन्द्रश् चरमदेहात्मा योगी साधुकुले यथा ॥
शनकैः शनकैस् तीरं तत्यजुश् च जलाशयाः
ममत्वं क्षेत्रपुत्रादि रूढम् उच्चैर् यथा बुधाः ॥
पूर्वत्यक्तैः सरोऽम्भोभिर् हंसा योगं पुनर् ययुः
क्लेशैः कुयोगिनो ऽशेषैर् अन्तरायहता इव ॥
निभृतो ऽभवद् अत्यर्थं समुद्रः स्तिमितोदकः
क्रमावाप्तमहायोगो निश्चलात्मा यथा यतिः ॥
सर्वत्रातिप्रसन्नानि सलिलानि तदाभवन्
ज्ञाते सर्वगते विष्णौ मनांसीव सुमेधसाम् ॥
बभूव विमलं व्योम शरदाध्वस्ततोयदम्
योगाग्निदग्धक्लेशौघं योगिनाम् इव मानसम् ॥
सूर्यांशुजनितं तापं निन्ये तारापतिः शमम्
अहंकारोद्भवं दुःखं विवेकः सुमहान् इव ॥
नभसो ऽब्दान् भुवः पङ्कं कालुष्यं चाम्भसः शरत्
इन्द्रियाणीन्द्रियार्थेभ्यः प्रत्याहार इवाहरत् ॥
प्राणायाम इवाम्भोभिः सरसां कृतपूरकैः
अभ्यस्यते ऽनुदिवसं रेचकाकुम्भकादिभिः ॥
विमलाम्बरनक्षत्रे काले चाभ्यागते व्रजम्
ददर्शेन्द्रमहारम्भाय्(अ) (उ)द्यतांस् तान् व्रजौकसः ॥
कृष्णस् तान् उत्सुकान् दृष्ट्वा गोपान् उत्सवलालसान्
कौतूहलाद् इदं वाक्यं प्राह वृद्धान् महामतिः ॥
को ऽयं शक्रमहो नाम येन वो हर्ष आगतः
प्राह तं नन्दगोपश् च पृच्छन्तम् अतिसादरम् ॥
मेघानां पयसां चेशो देवराजः शतक्रतुः
तेन संचोदिता मेघा वर्षन्त्य् अम्बुमयं रसम् ॥
तद् वृष्टिजनितं सस्यं वयम् अन्ये च देहिनः
वर्तयामोपभुञ्जानास् तर्पयामश् च देवताः ॥
क्षीरवत्य इमा गावो वत्सवत्यश् च निर्वृताः
तेन संवर्धितैः सस्यैस् तुष्टाः पुष्टा भवन्ति वै ॥
नासस्या नातृणा भूमिर् न बुभुक्षार्दितो जनः
दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः ॥
भौमम् एतत् पयो दुग्धं गोभिः सूर्यस्य वारिदः
पर्जन्यः सर्वलोकस्य भवाय भुवि वर्षति ॥
तस्मात् प्रावृषि राजानः सर्वे शक्रं मुदा युताः
महैः सुरेशम् अर्चन्ति वयम् अन्ये च मानवाः ॥
नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने
कोपाय त्रिदशेन्द्रस्य प्राह दामोदरस् तदा ॥
न वयं कृषिकर्तारो वाणिज्याजीविनो न च
गावो ऽस्मद्दैवतं तात वयं वनचरा यतः ॥
आन्वीक्षिक्यात्मविज्ञानं धर्माधर्मं त्रयीस्थितम् ॥
अर्थानर्थौनुवार्तायां दण्डनीत्यां जयाजयौ ॥
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस् तथापरा
विद्याचतुष्टयं चैतद् वार्ताम् अत्र शृणुष्व मे ॥
कृषिर् वणिज्या तद्वच् च तृतीयं पशुपालनम्
विद्या ह्य् एका महाभाग वार्ता वृत्तित्रयाश्रया ॥
कर्षकाणां कृषिर् वृत्तिः पण्यं विपणिजीविनाम्
अस्माकं गौः परा वृत्तिर् वार्ताभेदैर् इयं त्रिभिः ॥
विद्यया यो यया युक्तस् तस्य सा दैवतं महत्
सैव पूज्यार्चनीया च सैव तस्योपकारिका ॥
यो ऽन्यस्याः फलम् अश्नन् वै पूजयत्य् अपरां नरः
इह च प्रेत्य चैवासौ तात नाप्नोति शोभनम् ॥
कृष्यन्ताः प्रथिताः सीमाः सीमान्तं च पुनर् वनम्
वनान्ता गिरयः सर्वे ते चास्माकं परा गतिः ॥
न द्वारबन्धावरणा न गृहक्षेत्रिणस् तथा
सुखिनस् त्व् अखिले लोके यथा वै चक्रचारिणः ॥
श्रूयन्ते गिरयश् चामी वने ऽस्मिन् कामरूपिणः
तत् तद् रूपं समास्थाय रमन्ते स्वेषु सानुषु ॥
यदा चैते ऽपराध्यन्ते तेषां ये काननौकसः
तदा सिंहादिरूपैस् तान् घातयन्ति महीधराः ॥
गिरियज्ञस् त्व् अयं तस्माद् गोयज्ञश् च प्रवर्त्यताम्
किम् अस्माकं महेन्द्रेण गावः शैलाश् च देवताः ॥
मन्त्रयज्ञपरा विप्राः सीरयज्ञाश् च कर्षकाः
गिरिगोयज्ञशीलाश् च वयम् अद्रिवनाश्रयाः ॥
तस्माद् गोवर्धनः शैलो भवद्भिर् विविधार्हणैः
अर्च्यतां पूज्यतां मेध्यं पशुं हत्वा विधानतः ॥
सर्वघोषस्य संदोहो गृह्यतां मा विचार्यताम्
भोज्यन्तां तेन वै विप्रास् तथा ये चाभिवाञ्छकाः ॥
समर्चिते कृते होमे भोजितेषु द्विजातिषु
शरत्पुष्पकृतापीडाः परिगच्छन्तु गोगणाः ॥
एतन् मम मतं गोपाः संप्रीत्या क्रियते यदि
ततः कृता भवेत् प्रीतिर् गवाम् अद्रेस् तथा मम ॥
इति तस्य वचः श्रुत्वा नन्दाद्यास् ते व्रजौकसः
प्रीत्युत्फुल्लमुखा विप्र साधु साध्व् इत्य् अथाब्रुवन् ॥
शोभनं ते मतं वत्स यद् एतद् भवतोदितम्
तत् करिष्यामहे सर्वं गिरियज्ञः प्रवर्त्यताम् ॥
तथा च कृतवन्तस् ते गिरियज्ञं व्रजौकसः
दधिपायसमांसाद्यैर् ददुः शैलबलिं ततः ॥
द्विजांश् च भोजयाम् आसुः शतशो ऽथ सहस्रशः ॥
अन्यान् अप्य् आगतान् इत्थं कृष्णेनोक्तं यथा पुरा ॥
गावः शैलं ततश् चक्रुर् अर्चितास् ताः प्रदक्षिणम्
ऋषभाश् चापि नर्दन्तः सतोया जलदा इव ॥
गिरिमूर्धनि कृष्णो ऽपि शैलो ऽहम् इति मूर्तिमान्
बुभुजे ऽन्नं बहु तदा गोपवर्याहृतं द्विज ॥
तेनैव कृष्णो रूपेण गोपैः सह गिरेः शिरः
अधिरुह्यार्चयाम् आस द्वितीयाम् आत्मनस् तनुम् ॥
अन्तर्धानं गते तस्मिन् गोपा लब्ध्वा ततो वरान्
कृत्वा गिरिमहं गोष्ठं निजम् अभ्याययुः पुनः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0