भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.7

5.7.1

एकदा तु विना रामं कृष्णो वृन्दावनं ययौ
विचचार वृतो गोपैर् वन्यपुष्पस्रगुज्ज्वलः ॥

5.7.2

स जगामाथ कालिन्दीं लोलकल्लोलशालिनीम्
तीरसंलग्नफेनौघैर् हसन्तीम् इव सर्वतः ॥

5.7.3

तस्यां चातिमहाभीमं विषाग्निसृतवारिणम्
ह्रदं कालियनागस्य ददृशे ऽतीव भीषणम् ॥

5.7.4

विषाग्निना विसरता दग्धतीरमहातरुम्
वाताहताम्बुविक्षेप स्पर्शदग्धविहंगमम् ॥

5.7.5

तम् अतीव महारौद्रं मृत्युवक्त्रम् इवापरम्
विलोक्य चिन्तयाम् आस भगवान् मधुसूदनः ॥

5.7.6

अस्मिन् वसति दुष्टात्मा कालियो ऽसौ विषायुधः
यो मया निर्जितस् त्यक्त्वा दुष्टो नष्टः पयोनिधिम् ॥

5.7.7

तेनेयं दूषिता सर्वा यमुना सागराङ्गना
न नरैर् गोधनैर् वापि तृषार्तैर् उपभुज्यते ॥

5.7.8

तद् अस्य नागराजस्य कर्तव्यो निग्रहो मया
चिरम् अत्र सुखं येन चरेयुर् व्रजवासिनः ॥

5.7.9

एतदर्थं नृलोके ऽस्मिन्न् अवतारो मया कृतः
यद् एषाम् उत्पथस्थानां कार्या शान्तिर् दुरात्मनाम् ॥

5.7.10

तद् एतन् नातिदूरस्थं कदम्बम् उरुशाखिनम्
अधिरुह्योत्पतिष्यामि ह्रदे ऽस्मिन्न् अनिलाशिनः ॥

5.7.11

इत्थं विचिन्त्य बद्ध्वा च गाढं परिकरं ततः
निपपात ह्रदे तत्र सर्पराजस्य वेगितः ॥

5.7.12

तेनापि पतता तत्र क्षोभितः स महाह्रदः
अत्यर्थं दूरजातांस् तु तान् असिञ्चन् महीरुहान् ॥

5.7.13

ते हि दुष्टविषज्वाला तप्ताम्बुपवनोक्षिताः
जज्वलुः पादपाः सद्यो ज्वालाव्याप्तदिगन्तराः ॥

5.7.14

आस्फोटयाम् आस तदा कृष्णो नागह्रदे भुजम्
तच्छब्दश्रवणाच् चाशु नागराजो ऽभ्युपागमत् ॥

5.7.15

आताम्रनयनः कोपाद् विषज्वालाकुलैः फणैः
वृतो महाविषैश् चान्यैर् उरगैर् अनिलाशिभिः ॥

5.7.16

नागपत्न्यश् च शतशो हारिहारोपशोभिताः
प्रकम्पिततनुक्षेप चलत्कुण्डलकान्तयः ॥

5.7.17

ततः प्रवेशितः सर्पैः स कृष्णो भोगबन्धनम्
ददंशुश् चापि ते कृष्णं विषज्वालाविलैर् मुखैः ॥

5.7.18

तं तत्र पतितं दृष्ट्वा सर्पभोगनिपीडितम्
गोपा व्रजम् उपागम्य चुक्रुशुः शोकलालसाः ॥

5.7.19

एष मोहं गतः कृष्णो मग्नौ वै कालिये ह्रदे
भक्ष्यते सर्पराजेन तद् आगच्छत पश्यत ॥

5.7.20

तच् छ्रुत्वा ते तदा गोपा वज्रपातोपमं वचः
गोप्यश् च त्वरिता जग्मुर् यशोदाप्रमुखा ह्रदम् ॥

5.7.21

हा हा क्वासाव् इति जनो गोपीनाम् अतिविह्वलः
यशोदया समं भ्रान्तो द्रुतं प्रस्खलितं ययौ ॥

5.7.22

नन्दगोपश् च गोपाश् च रामश् चाद्भुतविक्रमः
त्वरितं यमुनां जग्मुः कृष्णदर्शनलालसाः ॥

5.7.23

ददृशुश् चापि ते तत्र सर्पराजवशं गतम्
निष्प्रयत्नकृतं कृष्णं सर्पभोगेन वेष्टितम् ॥

5.7.24

नन्दगोपश् च निश्चेष्टो न्यस्य पुत्रमुखे दृशम्
यशोदा च महाभागा बभूव मुनिसत्तम ॥

5.7.25

गोप्यस् त्व् अन्या रुदन्त्यश् च ददृशुः शोककातराः
प्रोचुश् च केशवं प्रीत्या भयकातर्यगद्गदम् ॥

5.7.26

सर्वा यशोदया सार्धं विशामो ऽत्र महाह्रदे
नागराजस्य नो गन्तुम् अस्माकं युज्यते व्रजे ॥

5.7.27

दिवसः को विना सूर्यं विना चन्द्रेण का निशा
विना वृषेण का गावो विना कृष्णेन को व्रजः ॥

5.7.28

विनाकृता न यास्यामः कृष्णेनानेन गोकुलम्
अरण्यं नातिसेव्यं च वारिहीनं यथा सरः ॥

5.7.29ab

यत्र नेन्दीवरदल प्रख्यकान्तिर् अयं हरिः ॥

5.7.29ab*7

केनायं मानुषो जातो न च मानुषचेष्टितः ॥

5.7.29cd

तेनापि मर्त्यवासेन रतिर् अस्तीति विस्मयः ॥

5.7.30

उत्फुल्लपङ्कजदल स्पष्टकान्तिविलोचनम्
अपश्यन्तो हरिं दीनाः कथं गोष्ठे भविष्यथ ॥

5.7.31

अत्यर्थमधुरालाप हृताशेषमनोधनम्
न विना पुण्डरीकाक्षं यास्यामो नन्दगोकुलम् ॥

5.7.32

भोगेनावेष्टितस्यापि सर्पराजेन पश्यत
स्मितशोभिमुखं गोप्यः कृष्णस्यास्मद्विलोकने ॥

5.7.33

इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः
गोपांश् च त्रासविधुरान् विलोक्य स्तिमितेक्षणः ॥

5.7.34

नन्दं च दीनम् अत्यर्थं न्यस्तदृष्टिं सुतानने
मूर्च्छाकुलां यशोदां च कृष्णमाहात्म्यसंज्ञया ॥

5.7.35

किमर्थं देवदेवेश भावो ऽयं मानुषस् त्वया
व्यज्यते ऽत्यन्तम् आत्मानं किम् अनन्तं न वेत्सि यत् ॥

5.7.36

त्वम् अस्य जगतो नाभिर् अराणाम् इव संश्रयः
कर्तापहर्ता पाता च त्रैलोक्ये त्वं त्रयीमयः ॥

5.7.37

सेन्द्ररुद्राश्विवसुभिर् आदित्यैर् मरुदग्निभिः
चिन्त्यसे त्वम् अचिन्त्यात्मन् समस्तैश् चैव योगिभिः ॥

5.7.38

जगत्यर्थे जगन्नाथ भारावतरणेच्छया
अवतीर्णो ऽत्र मर्त्येषु तवांशश् चाहम् अग्रजः ॥

5.7.39

मनुष्यलीलां भगवन् भजता भवता सुराः
विडम्बयन्तस् त्वल्लीलां सर्व एव सदासते ॥

5.7.40

अवतार्य भवान् पूर्वं गोकुले ऽत्र सुराङ्गनाः
क्रीडार्थम् आत्मनः पश्चाद् अवतीर्णो ऽसि शाश्वत ॥

5.7.41

अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः
गोप्यश् च सीदतः कस्मात् त्वं बन्धून् समुपेक्षसे ॥

5.7.42

दर्शितो मानुषो भावो दर्शितं बालचापलम्
तद् अयं दम्यतां कृष्ण दुष्टात्मा दशनायुधः ॥

5.7.43

इति संस्मारितः कृष्णः स्मितभिन्नौष्ठसंपुटः
आस्फोट्य मोचयाम् आस स्वदेहं भोगबन्धनात् ॥

5.7.44

आनम्य चापि हस्ताभ्याम् उभाभ्यां मध्यमं फणम्
आरुह्याभुग्नशिरसि प्रननर्तोरुविक्रमः ॥

5.7.45

व्रणाः फणे ऽभवंश् चास्य कृष्णस्याङ्घ्रिनिकुट्टनैः
यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः ॥

5.7.46

मूर्च्छाम् उपाययौ भ्रान्त्या नागः कृष्णस्य रेचकैः
दण्डपातनिपातेन ववाम रुधिरं बहु ॥

5.7.47

तं निर्भुग्नशिरोग्रीवम् आस्येभ्यः स्रुतशोणितम्
विलोक्य शरणं जग्मुस् तत्पत्न्यो मधुसूदनम् ॥

5.7.48

ज्ञातो ऽसि देवदेवेश सर्वेशस् त्वम् अनुत्तमः
परं ज्योतिर् अचिन्त्यं यत् तदंशः परमेश्वरः ॥

5.7.49

न समर्थाः सुराः स्तोतुं यम् अनन्यभवं प्रभुम्
स्वरूपवर्णनं तस्य कथं योषित् करिष्यति ॥

5.7.50

यस्याखिलं महीव्योम जलाग्निपवनात्मकम्
ब्रह्माण्डम् अल्पकांशांशः स्तोष्यामस् तं कथं वयम् ॥

5.7.51

यतन्तो न विदुर् नित्यं यत्स्वरूपम् अयोगिनः
परमार्थम् अणोर् अल्पं स्थूलात् स्थूलं नताः स्म तम् ॥

5.7.52

न यस्य जन्मने धाता यस्य नान्ताय चान्तकः
स्थितिकर्ता न चान्यो ऽस्ति यस्य तस्मै नमः सदा ॥

5.7.53

कोपः स्वल्पो ऽपि ते नास्ति स्थितिपालनम् एव ते
कारणं कालियस्यास्य दमने श्रूयताम् अतः ॥

5.7.54

स्त्रियो ऽनुकम्प्याः साधूनां मूढा दीनाश् च जन्तवः
यतस् ततो ऽस्य दीनस्य क्षम्यतां क्षमतां वर ॥

5.7.55

समस्तजगदाधारो भवान् अल्पबलः फणी
त्वत्पादपीडितो जह्यान् मुहूर्तार्धेन जीवितम् ॥

5.7.56

क्व पन्नगो ऽल्पवीर्यो ऽयं क्व भवान् भुवनाश्रयः
प्रीतिद्वेषौ समोत्कृष्ट गोचरौ च यतो ऽव्यय ॥

5.7.57

ततः कुरु जगत्स्वामिन् प्रसादम् अवसीदतः
प्राणांस् त्यजति नागो ऽयं भर्तृभिक्षा प्रदीयताम् ॥

5.7.57*8

वेदान्तवेद्य देवेश दुष्टदैत्यनिबर्हण ॥

5.7.58

इत्य् उक्ते ताभिर् आश्वस्य क्लान्तदेहो ऽपि पन्नगः
प्रसीद देव देवेति प्राह वाक्यं शनैः शनैः ॥

5.7.59

तवाष्टगुणम् ऐश्वर्यं नाथ स्वाभाविकं परम्
निरस्तातिशयं यस्य तस्य स्तोष्यामि किं न्व् अहम् ॥

5.7.60

त्वं परस् त्वं परस्याद्यः परं त्वत्तः परात्मकम्
परस्मात् परमो यस् त्वं तस्य स्तोष्यामि किं न्व् अहम् ॥

5.7.61

यस्माद् ब्रह्मा च रुद्रश् च चन्द्रेन्द्रमरुदश्विनः
वसवश् च सहादित्यैस् तस्य स्तोष्यामि किं न्व् अहम् ॥

5.7.62

एकावयवसूक्ष्मांशो यस्यैतद् अखिलं जगत्
कल्पनावयवांशस्य तं स्तोष्यामि कथं त्व् अहम् ॥

5.7.62*9:1

नागपत्नीभिर् एवं वै स्तूयमानस्य कालियः ॥

5.7.62*9:2

स्तोत्रेण प्रणिपत्योचेत् कृत्वा करतलाञ्जलिम् ॥

5.7.62*9:3

नमस् ते नाथ भगवन् पीतवस्त्राच्युतेश्वर ॥

5.7.62*9:4

प्रसीद मे जगन्नाथ न ज्ञातं किं मया प्रभो ॥

5.7.63

सदसद्रूपिणो यस्य ब्रह्माद्यास् त्रिदशोत्तमाः
परमार्थं न जानन्ति तस्य स्तोष्यामि किं न्व् अहम् ॥

5.7.64

ब्रह्माद्यैर् अर्च्यते दिव्यैर् यश् च पुष्पानुलेपनैः
नन्दनादिसमुद्भूतैः सो ऽर्च्यते वा कथं मया ॥

5.7.65

यस्यावताररूपाणि देवराजः सदार्चति
न वेत्ति परमं रूपं सो ऽर्च्यते वा कथं मया ॥

5.7.66

विषयेभ्यः समाहृत्य सर्वाक्षाणि च योगिनः
यम् अर्चयन्ति ध्यानेन सो ऽर्च्यते वा कथं मया ॥

5.7.67

हृदि संकल्प्य यद् रूपं ध्यानेनार्चन्ति योगिनः
भावपुष्पादिभिर् नाथः सो ऽर्च्यते वा कथं मया ॥

5.7.68

सो ऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च
सामर्थ्यवान् कृपामात्र मनोवृत्तिः प्रसीद मे ॥

5.7.69

सर्पजातिर् इयं क्रूरा यस्यां जातो ऽस्मि केशव
तत्स्वभावो ऽयम् अत्रास्ति नापराधो ममाच्युत ॥

5.7.70

सृज्यते भवता सर्वं तथा संह्रीयते जगत्
जातिरूपस्वभावाश् च सृज्यन्ते सृजता त्वया ॥

5.7.71

यथाहं भवता सृष्टो जात्या रूपेण चेश्वर
स्वभावेन च संयुक्तस् तथेदं चेष्टितं मया ॥

5.7.72

यद्य् अन्यथा प्रवर्तेयं देवदेव ततो मयि
न्याय्यो दण्डनिपातो वै तवैव वचनं यथा ॥

5.7.73

तथापि यज् जगत्स्वामी दण्डं पातितवान् मयि
स सोढो ऽयं वरं दण्डस् त्वत्तो नान्यत्र मे वरः ॥

5.7.74

हतवीर्यो हतविषो दमितो ऽहं त्वयाच्युत
जीवितं दीयताम् एकम् आज्ञापय करोमि किम् ॥

5.7.75

नात्र स्थेयं त्वया सर्प कदाचिद् यमुनाजले
सभृत्यपरिवारस् त्वं समुद्रसलिलं व्रज ॥

5.7.76

मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागरे
गरुडः पन्नगरिपुस् त्वयि न प्रहरिष्यति ॥

5.7.77

इत्य् उक्त्वा सर्पराजानं मुमोच भगवान् हरिः
प्रणम्य सो ऽपि कृष्णाय जगाम पयसां निधिम् ॥

5.7.78

पश्यतां सर्वभूतानां सभृत्यापत्यबान्धवः
समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम् ॥

5.7.79

गते सर्पे परिष्वज्य मृतं पुनर् इवागतम्
गोपा मूर्धनि गोविन्दं सिषिचुर् नेत्रजैर् जलैः ॥

5.7.80

कृष्णम् अक्लिष्टकर्माणम् अन्ये विस्मितचेतसः
तुष्टुवुर् मुदिता गोपा दृष्ट्वा शिवजलां नदीम् ॥

5.7.81ab

गीयमानः स गोपीभिश् चरितैश् चारुचेष्टितः ॥

5.7.81ab*10

सहितो बलदेवेन नन्देन च यशोदया ॥

5.7.81cd

संस्तूयमानो गोपैश् च कृष्णो व्रजम् उपागमत् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc