विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.6
कदाचिच् छकटस्याधः शयानो मधुसूदनः
चिक्षेप चरणाव् ऊर्ध्वं स्तन्यार्थी प्ररुरोद च ॥
तस्य पादप्रहारेण शकटं परिवर्तितम्
विध्वस्तकुम्भभाण्डं तद् विपरीतं पपात च ॥
ततो हाहाकृतः सर्वो गोपगोपीजनो द्विज
आजगामाथ ददृशे बालम् उत्तानशायिनम् ॥
गोपाः केनेति केनेदं शकटं परिवर्तितम्
तत्रैव बालकाः प्रोचुर् बालेनानेन पातितम् ॥
रुदता दृष्टम् अस्माभिः पादविक्षेपताडितम्
शकटं परिवृत्तं वै नैतद् अन्यस्य चेष्टितम् ॥
ततः पुनर् अतीवासन् गोपा विस्मितचेतसः
नन्दगोपो ऽपि जग्राह बालम् अत्यन्तविस्मितः ॥
यशोदा शकटारूढ भग्नभाण्डकपालिकाः
शकटं चार्चयाम् आस दधिपुष्पफलाक्षतैः ॥
गर्गश् च गोकुले तत्र वसुदेवप्रचोदितः
प्रच्छन्न एव गोपानां संस्कारान् अकरोत् तयोः ॥
ज्येष्ठं च रामम् इत्य् आह कृष्णं चैव तथापरम्
गर्गो मतिमतां श्रेष्ठो नाम कुर्वन् महामतिः ॥
स्वल्पेनैव हि कालेन रिङ्गिणौ तौ तदा व्रजे
घृष्टजानुकरौ विप्र बभूवतुर् उभाव् अपि ॥
करीषभस्मदिग्धाङ्गौ भ्रममाणाव् इतस् ततः
न निवारयितुं सेहे यशोदा न च रोहिणी ॥
गोवाटमध्ये क्रीडन्तौ वत्सवाटगतौ पुनः
तदहर्जातगोवत्स पुच्छाकर्षणतत्परौ ॥
यदा यशोदा तौ बालाव् एकस्थानचराव् उभौ
शशाक नो वारयितुं क्रीडन्ताव् अतिचञ्चलौ ॥
यशोदा यष्टिम् आदाय कोपेनानुगता च तम् ॥
कृष्णं कमलपत्राक्षं तर्जयन्ती रुषा तदा ॥
बहिर् आवरणं नास्ति यस्य येनेदम् आवृतम् ॥
तं कृष्णं पुण्डरीकाक्षं दाम्ना बद्धुं प्रचक्रमे ॥
दाम्ना बद्ध्वा तदा मध्ये निबबन्ध उलूखले
कृष्णम् अक्लिष्टकर्माणम् आह चेदम् अमर्षिता ॥
यदि शक्नोषि गच्छ त्वम् अतिचञ्चलचेष्टित
इत्य् उक्त्वा च निजं कर्म सा चकार कुटुम्बिनी ॥
व्यग्रायाम् अथ तस्यां स कर्षमाण उलूखलम्
यमलार्जुनमध्येन जगाम कमलेक्षणः ॥
कर्षता वृक्षयोर् मध्ये तिर्यग्गतम् उलूखलम्
भग्नाव् उत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ ॥
ततः कटकटाशब्द समाकर्णनकातरः
आजगाम व्रजजनो ददृशे च महाद्रुमौ ॥
भग्नस्कन्धौ निपतितौ भग्नशाखौ महीतले
नवोद्गताल्पदन्तांशु सितहासं च बालकम्
तयोर् मध्यगतं बद्धं दाम्ना गाढं तथोदरे ॥
ततश् च दामोदरतां स ययौ दामबन्धनात् ॥
गोपवृद्धास् ततः सर्वे नन्दगोपपुरोगमाः
मन्त्रयाम् आसुर् उद्विग्ना महोत्पातातिभीरवः ॥
स्थानेनेह न नः कार्यं व्रजामो ऽन्यन् महावनम्
उत्पाता बहवो ह्य् अत्र दृश्यन्ते नाशहेतवः ॥
पूतनाया विनाशश् च शकटस्य विपर्ययः
विना वातादिदोषेण द्रुमयोः पतनं तथा ॥
वृन्दावनम् इतः स्थानात् तस्माद् गच्छाम मा चिरम्
यावद् भौममहोत्पात दोषो नाभिभवेद् व्रजम् ॥
इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः
ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्ब्यताम् ॥
ततः क्षणेन प्रययुः शकटैर् गोधनैस् तथा
यूथशो वत्सपालांश् च कालयन्तो व्रजौकसः ॥
द्रव्यावयवनिर्धूतं क्षणमात्रेण तत् तदा
काकभाससमाकीर्णं व्रजस्थानम् अभूद् द्विज ॥
वृन्दावनं भगवता कृष्णेनाक्लिष्टकर्मणा
शुभेन मनसा ध्यातं गवां वृद्धिम् अभीप्सता ॥
ततस् तत्रातिरूक्षे ऽपि घर्मकाले द्विजोत्तम
प्रावृट्काल इवोद्भूतं नवशष्पं समन्ततः ॥
स समावासितः सर्वो व्रजो वृन्दावने ततः
शकटीवाटपर्यन्तश् चन्द्रार्धाकारसंस्थितिः ॥
वत्सपालौ च संवृत्तौ रामदामोदरौ ततः
एकस्थानस्थितौ गोष्ठे चेरतुर् बाललीलया ॥
बर्हिपत्रकृतापीडौ वन्यपुष्पावतंसकौ
गोपवेणुकृतातोद्यौ पत्रवाद्यकृतस्वनौ ॥
काकपक्षधरौ बालौ कुमाराव् इव पावकी
हसन्तौ च रमन्तौ च चेरतुस् तन् महावनम् ॥
क्वचिद् धसन्ताव् अन्योन्यं क्रीडमानौ तथापरैः
गोपपुत्रैः समं वत्सांश् चारयन्तौ विचेरतुः ॥
कालेन गच्छता तौ तु सप्तवर्षौ महाव्रजे
सर्वस्य जगतः पालौ वत्सपालौ बभूवतुः ॥
प्रावृट्कालस् ततो ऽतीव मेघौघस्थगिताम्बरः
बभूव वारिधाराभिर् ऐक्यं कुर्वन् दिशाम् इव ॥
प्ररूढनवशष्पाढ्या शक्रगोपास्तृता मही
तदा मारकतेवासीत् पद्मरागविभूषिता ॥
ऊहुर् उन्मार्गवाहीनि निम्नगाम्भांसि सर्वतः
मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवाम् इव ॥
न रेजे ऽन्तरितश् चन्द्रो निर्मलो मलिनैर् घनैः
सद्वाक्यवादो मूर्खाणां प्रगल्भाभिर् इवोक्तिभिः ॥
निर्गुणेनापि चापेन शक्रस्य गगने पदम्
अवाप्यताविवेकस्य नृपस्येव परिग्रहे ॥
मेघपृष्ठे बलाकानां रराज विमला ततिः
दुर्वृत्ते वृत्तचेष्टेव कुलीनस्यातिशोभना ॥
न बबन्धाम्बरे स्थैर्यं विद्युद् अत्यन्तचञ्चला
मैत्रीव प्रवरे पुंसि दुर्जनेन प्रयोजिता ॥
मार्गा बभूवुर् अस्पष्टा नवशष्पचयावृताः
अर्थान्तरम् अनुप्राप्ताः प्रजडानाम् इवोक्तयः ॥
उन्मत्तशिखिसारङ्गे तस्मिन् काले महावने
कृष्णरामौ मुदा युक्तौ गोपालैश् चेरतुः सह ॥
क्वचिद् गोभिः समं रम्यं गेयतानरताव् उभौ
चेरतुः क्वचिद् अत्यर्थं शीतवृक्षतलाश्रयौ ॥
क्वचित् कदम्बस्रक्चित्रौ मयूरस्रग्धरौ क्वचित्
विचित्रौ क्वचिद् आसातां विविधैर् गिरिधातुभिः ॥
पर्णशय्यासु संसुप्तौ क्वचिन् निद्रान्तरैषिणौ
क्वचिद् गर्जति जीमूते हाहाकाररवादृतौ ॥
गायताम् अन्यगोपानां प्रशंसापरमौ क्वचित्
मयूरकेकानुगतौ गोपवेणुप्रवादकौ ॥
इति नानाविधैर् भावैर् उत्तमप्रीतिसंयुतौ
क्रीडन्तौ तौ वने तस्मिञ् चेरतुस् तुष्टमानसौ ॥
विकाले च समं गोभिर् गोपवृन्दसमन्वितौ ॥
आजग्मतुः कृष्णबलौ गोपवेषधराव् उभौ ॥
विकाले च यथाजोषं व्रजम् एत्य महाबलौ ॥
गोपैः समानैः सहितौ क्रीडन्ताव् अमराव् इव ॥
एवं ताव् ऊषतुस् तत्र रामकृष्णौ महाद्युती ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0