भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.5

5.5.1

विमुक्तो वसुदेवो ऽपि नन्दस्य शकटं गतः
प्रहृष्टं दृष्टवान् नन्दं पुत्रो जातो ममेति वै ॥

5.5.2

वसुदेवो ऽपि तं प्राह दिष्ट्या दिष्ट्येति सादरम्
वार्द्धके ऽपि समुत्पन्नस् तनयो यत् तवाधुना ॥

5.5.3

दत्तो हि वार्षिकः सर्वो भवद्भिर् नृपतेः करः
यदर्थम् आगतास् तस्मान् नात्र स्थेयं महाधनाः ॥

5.5.4

यदर्थम् आगताः कार्यं तन् निष्पन्नं किम् आस्यते
भवद्भिर् गम्यतां नन्द तच् छीघ्रं निजगोकुलम् ॥

5.5.5

ममापि बालकस् तत्र रोहिणीप्रसवो हि यः
स रक्षणीयो भवता यथायं तनयो निजः ॥

5.5.6

इत्य् उक्ताः प्रययुर् गोपा नन्दगोपपुरोगमाः
शकटारोपितैर् भाण्डैः करं दत्त्वा महाबलाः ॥

5.5.7

वसतां गोकुले तेषां पूतना बालघातिनी
सुप्तं कृष्णम् उपादाय रात्रौ तस्मै ददौ स्तनम् ॥

5.5.8

यस्मै यस्मै स्तनं रात्रौ पूतना संप्रयच्छति
तस्य तस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥

5.5.9

कृष्णस् तस्याः स्तनं गाढं कराभ्याम् अतिपीडितम्
गृहीत्वा प्राणसहितं पपौ कोपसमन्वितः ॥

5.5.10

सा विमुक्तमहारावा विच्छिन्नस्नायुबन्धना
पपात पूतना भूमौ म्रियमाणातिभीषणा ॥

5.5.11

तन्नादश्रुतिसंत्रासात् प्रबुद्धास् ते व्रजौकसः
ददृशुः पूतनोत्सङ्गे कृष्णं तां च निपातिताम् ॥

5.5.12

आदाय कृष्णं संत्रस्ता यशोदापि द्विजोत्तम
गोपुच्छं भ्राम्य हस्तेन बालदोषम् अपाकरोत् ॥

5.5.13

गोपुरीषम् उपादाय नन्दगोपो ऽपि मस्तके
कृष्णस्य प्रददौ रक्षां कुर्वंश् चैतद् उदीरयन् ॥

5.5.14

रक्षतु त्वाम् अशेषाणां भूतानां प्रभवो हरिः
यस्य नाभिसमुद्भूत पङ्कजाद् अभवज् जगत् ॥

5.5.15

येन दंष्ट्राग्रविधृता धारयत्य् अवनी जगत्
वराहरूपधृग् देवः स त्वां रक्षतु केशवः ॥

5.5.16

नखाङ्कुरविनिर्भिन्न वैरिवक्षःस्थलो विभुः
नृसिंहरूपी सर्वत्र स त्वां रक्षतु केशवः ॥

5.5.17

वामनो रक्षतु सदा भवन्तं यः क्षणाद् अभूत्
त्रिविक्रमक्रमाक्रान्त त्रैलोक्यः स्फुरदायुधः ॥

5.5.18

शिरस् ते पातु गोविन्दः कण्ठं रक्षतु केशवः
गुह्यं सजठरं विष्णुर् जङ्घे पादौ जनार्दनः ॥

5.5.19

मुखं बाहू प्रबाहू च मनः सर्वेन्द्रियाणि च
रक्षत्व् अव्याहतैश्वर्यस् तव नारायणो ऽव्ययः ॥

5.5.20

शार्ङ्गचक्रगदापाणेः शङ्खनादहताः क्षयम्
गच्छन्तु प्रेतकूष्माण्ड राक्षसा ये तवाहिताः ॥

5.5.21

त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः
हृषीकेशो ऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥

5.5.22

एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः
शायितः शकटस्याधो बालपर्यङ्किकातले ॥

5.5.23

ते च गोपा महद् दृष्ट्वा पूतनायाः कलेवरम्
मृतायाः परमं त्रासं विस्मयं च तदा ययुः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc